Sanskrit Dictionary

भाव – Bhaba

भावानिदानीं व्याख्यास्यामः ।

अत्राह- भावा इति कस्मात् ।

किं भवन्तीति भावाः किं वा भावयन्तीति भावाः ।

उच्यते –
वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति ।
भू इति करणे धातुस्तथा च भावितं वासितं  कृतमित्यनर्थान्तरम् ।
लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव  भावितमिति ।

तच्च व्याप्त्यर्थम् ।

श्लोकाश्चात्र-

विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते ।
वागङ्गसत्त्वाभिनयैः स भाव इति सन्ज्ञितः ॥ १॥

वागङ्गमुखरागेण सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ २॥

नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् ।
यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३॥

अथ विभाव इति कस्मात् ।

उच्यते-विभवो विज्ञानार्थः ।
विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन
वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञा-
तमित्यनर्थान्तरम् ।

अत्र श्लोकः –

बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः ।
अनेन यस्मात्तेनायं विभाव इति सन्ज्ञितः ॥ ४॥

अथानुभाव इति कस्मात् ।

उच्यते-
अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति ।

अत्र श्लोकः –

वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते ।
शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ ५ ॥

एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो
ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां
विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः ।
तत्र विभावानुभावौ लोकप्रसिद्धौ ।
लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं
नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् ।
भवति चात्र श्लोकः –

लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः ।
अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥ ६॥

तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः ।

अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव
एकोनपञ्चाशद्भावाः
प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते ।

अत्र श्लोकः-

योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः ।
शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥ ७॥

अत्राह- यदि
काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः
सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा
रसत्वमाप्नुअवन्ति । उच्यते- यथा हि
समानलक्षणास्तुल्यपाणिपादोदरशरीराः
समानाङ्गप्रत्यङ्गा अपि पुरुषाः
कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राज-
त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति
तथा
विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति ।
बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः ।
तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते ।
स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो  भावाः ।
अत्राह- को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारोऽपि स
एव नाम
लभते नान्यः सुमहानपि पुरुषः तथा
विभावानुभावव्यभिचारिपरिवृतः
स्थायी भावो रसनाम लभते ।
भवति चात्र श्लोकः –
यथा नराणां नृपतिः शिष्याणां च यथा गुरुः ।
एवं हि सर्वभावानां भावः स्थायि महानिह ॥ ८॥

लक्षणं खलु पूर्वमभिहितमेषां रससन्ज्ञकानाम् ।

इदानीं भावसामान्यलक्षणमभिधास्यामः ।

तत्र स्थायिभावान्वक्ष्यामः –

रतिर्नाम प्रमोदात्मिका
ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना-
प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेत्स्मितवदनमधुरकथन-
भ्रूक्षेपकटाक्षादिभिरनुभावैः । अत्र श्लोकः –
इष्टार्थविषयप्राप्त्या रतिरित्युपजायते ।
सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥ ९॥

हासो नाम
परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः
समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः ।
भवति चात्र श्लोकः –
परचेष्टानुकरणाद्धासः समुपजायते ।
स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ १०॥

शोको नाम
इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः
समुत्पद्यते।
तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि-
पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा-
वैरभिनयः प्रयोक्तव्यः ।
रुदितमत्र त्रिविधम् – आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति ।
भवन्ति चात्रार्याः –

आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् ।
तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥
हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् ।
रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥ ११॥

पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् ।
भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ १२॥

प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् ।
भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ १३॥

स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः ।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥ १४॥

क्रोधो नाम
आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः
समुत्पद्यते । अस्य
विकृष्टनासापुटोद्वृत्तनयनसन्दष्ठोष्ठपुट-
गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा ।
भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः॥ १५॥

अत्रार्या भवन्ति –
भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् ।
क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥ १६॥

किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च ।
अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥ १७॥

अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः ।
सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥ १८॥

अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः ।
विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ १९॥

कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः ।
वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ २०॥

उत्साहो नाम उत्तमप्रकृतिः। स
चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै-
रुत्पद्यते। तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

अत्र श्लोकः –

असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः ।
उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥ २१॥

भयं नाम स्त्रीनीचप्रकृतिकम् ।
गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन-कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः
समुत्पद्यते ।
तस्य
प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन-
स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः
प्रयोक्तव्यः ।
अत्र श्लोकाः –
गुरुराजापराधेन रौद्राणां चापि दर्शनात् ।
श्रवणादपि घोराणां भयं मोहेन जायते ॥ २२॥

गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः
विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥ २३॥

सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् ।
स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥ २४॥

अत्रार्या भवति –
करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः ।
सम्भ्रान्तवदनवेपथुसन्त्रासकृतैरभिनयोऽस्य ॥ २५॥

जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा
चाहृद्यदर्शनश्रवणादिभिर्विभावैः
समुत्पद्यते । तस्याः
सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि-
भिरनुभावैरभिनयः प्रयोक्तव्यः ।
भवति चात्र श्लोकः –
नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च ।
उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥ २६॥

विस्मयो नाम
मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः
समुत्पद्यते । तस्य
नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि-
रनुभावैरभिनयः प्रयोक्तव्यः ।
भवति चात्र श्लोकः –
कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः ।
सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥ २७॥

एवमेते स्थायिनो भावा रससन्ज्ञाः प्रत्यवगन्तव्याः ।

व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह – व्यभिचारिण इति
कस्मात् ।
उच्यते – वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः ।
विविधमाभिमुख्येन
रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे
रसान्नयन्तीति
व्यभिचारिणः । अत्राह – कथं नयन्तीति । उच्यते – लोकसिद्धान्त
एषः –
यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन
बाहुभ्यां स्कन्धेन
वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन
वा नयतीति ।
एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्र-
यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः ।

तत्र निर्वेदो नाम
दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन-
वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् ।
रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् ।

अत्र श्लोकः –

दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते ।
सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ २८॥

अत्रानुवंश्ये आर्ये भवतः –
इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् ।
ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ २९॥

बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः ।
योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥ ३०॥

ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन-
सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः
समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना-
नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः ।

अत्रार्ये भवतः –

वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः ।
कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥ ३१॥

गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः ।
श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ॥ ३२॥

शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहण-
नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या
मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य-
स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः
प्रयोक्तव्यः ।
चौर्यादिजनिता शङ्का प्रायः कार्या भयानके ।
प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥ ३३॥

अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च
कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् ।
अत्रार्ये भवतः –

द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च ।
या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ ३४॥

किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि ।
गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥३५॥

असूया नाम
नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः
समुत्पद्यते । तस्याश्च परिषदि
दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा-
नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः
प्रयोक्तव्यः ।
अत्रार्ये भवतः –
परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा ।
उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥ ३६॥

भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च ।
गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥ ३७॥

मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च ।
अत्रार्या भवन्ति –
ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च ।
करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥ ३८॥

कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् ।
परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ ३९॥

उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः ।
परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ ४०॥

स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः ।
सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥४१॥

स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः ।
कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥ ४२॥

नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः ।
गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ ४३॥

रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य ।
कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ ४४॥

सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् ।
उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥ ४५॥

एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति ।
अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥ ४६॥

श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य
गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन-
वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या –
नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम ।
निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४७॥

आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः
समुत्पद्यते स्त्रीनीचानाम् ।
तदभिनयेत्सर्वकर्मानभिलाषशयना-
सननिद्रातन्द्रीसेवनादिभिरनुभावैः ।
अत्रार्या –
आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि ।
आहारवर्जितानामारम्भाणामनारम्भात् ॥ ४८॥

दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते ।
तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना-
दिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या –
चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् ।
सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ॥ ४९॥

चिन्ता नाम
ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते ।
तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन-
तनुकार्श्यादिभिरनुभावैः ।
अत्रार्ये भवतः –
ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु ।
हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ ५०॥

सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया ।
अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ ५१॥

मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा-
नुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमण-
पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।

अत्र श्लोकस्तावदार्या च –

अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि ।
तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ ५२॥

व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः ।
सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ ५३॥

स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् ।
सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण-
चिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते । तामभिनये-
च्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः ।
अत्रार्ये भवतः –
सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् ।
चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥ ५४॥

स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः ।
शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ ५५॥

धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक-
मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते ।
तामभिनयेत्प्रा-
प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु-
शोचनादिभिरनुभावैः ।
अत्रार्ये भवतः –
विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः ।
भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ ५६॥

प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् ।
अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ॥ ५७॥

व्रीडा नाम अकार्यकरणात्मिका । सा च
गुरुव्यतिक्रमणावज्ञान-प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः
समुत्पद्यते ।
तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श-
नखनिकृन्तनादिभिरनुभावैरभिनयेत् ।
अत्रार्ये भवतः –
किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः ।
पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ॥ ५८॥

लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् ।
वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥ ५९॥

चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः
समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार-
ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्रार्या भवति –
अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते ।
अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥ ६०॥

हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव-
गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः
समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन-
कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः ।
अत्रार्ये भवतः –
अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि ।
हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ ६१॥

नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः ।
ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥ ६२॥

आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्‍भ्रमणप्रियाप्रियश्रवण-
व्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम
विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः ।
तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद-
विस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र-
सङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्ग-
सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु
धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः ।
कुञ्जरोद्‍भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन-
भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवण-
कृतं
नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः ।
अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन-
विलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पण-
शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः ।
एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः ।
स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ ६३॥

अत्रार्ये भवतः –
अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य ।
शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ॥ ६४॥

अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य ।
सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥ ६५॥

जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन-
व्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण-
तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः ।
अत्रार्या भवति –
इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् ।
तूष्णीकः परवशगो भवति स जडसन्ज्ञितः पुरुषः ॥ ६६॥

गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः
समुत्पद्यते । तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा-
ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि-
क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः
अत्रार्या भवति –
विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि ।
गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ ६७॥

विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः ।
तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य-
निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु
विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा-
निःश्वसितध्यानादिभिरनुभावैः ।
अत्रार्या श्लोकौ –
कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा ।
दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥ ६८॥

वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः ।
निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥६९॥

औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना-
दिभिर्विभावैः समुत्पद्यते । तस्य दीर्घनिःश्वसिताधोमुख-
विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः
प्रयोक्तव्यः ।
अत्रार्या भवति –
इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या ।
चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ॥ ७०॥

निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार-
स्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन-
गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन-
मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः ।
अत्रार्ये भवतः –
आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च ।
रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ ७१॥

तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः ।
जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः॥ ७२॥

अपस्मारो नाम
देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच-ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि-
कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते ।
तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद-
स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः
प्रयोक्तव्यः ।
अत्रार्ये भवतः –
भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनाअत् ।
कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥ ७३॥

सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च ।
निःसन्ज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ ७४॥

सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन-
प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते
निद्रासमुत्थम् । तदुच्छ्‍वसितंसन्नगात्राक्षिनिमीलन-
सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् ।
अत्रार्ये भवतः –
निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् ।
अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ ७५॥

सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः ।
सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥ ७६॥

विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त-
तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते ।
तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः ।
अत्रार्या भवति –
आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः ।
प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥ ७७॥

अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा
समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन-
ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
अत्र श्लोकौ –
आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः ।
नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥ ७८॥

उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः ।
शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥ ७९॥

अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च
लजाभयापजय-
गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते ।
तस्यान्यथाकथनावलोकित-
कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अत्र श्लोको भवति –
धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् ।
तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥ ८०॥

उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः
समुत्पद्यते ।
तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् ।
अत्रार्या भवति –
चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति ।
वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥ ८१॥

भवति चात्र श्लोकः –
नानाशात्रार्थबोधेन मतिः सञ्जायते नृणाम् ।
शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥८२॥

व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो
विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च ।
तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना-
ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख-
शोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो नाम
विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि-
लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः ।
ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र-
स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना-
दिभिरनुभावैरभिनेयाः ।
अत्र श्लोको भवति –
समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः ।
स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥ ८३॥

उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात-
वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते ।
तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित-
प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल-
चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा-
नुकरणादिभिरनुभावैरभिनयेत् ।
अत्रार्ये भवतः –
इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् ।
विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥ ८४॥

अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः ।
अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥ ८५॥

मरणं नाम व्याधिजमभिघातजञ्च । तत्र
यदान्त्रयकृच्छूलदोषवैषम्य-
गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्‍व्याधिप्रभवम् ।
अभिघातजं तु
शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात-
विनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः –
तत्र व्याधिजं विषण्णगाअत्राव्यायताङ्गविचेष्टितनिमीलितनयन-
हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् ।
अत्र श्लोको भवति –
व्याधीनामेकभावो हि मरणाभिनयः स्मृतः ।
विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥ ८६॥

अभिघातजे तु नानाप्रकाराअभिनयविशेषाः।
शस्त्रक्षताहिदष्टविषपीत- गजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा
भूमिपतनवेपन- स्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो
यथा
कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ
विषवेगाः ।
अत्र श्लोकौ भवतः –
कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।
दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ ८७॥

फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् ।
जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥ ८८॥

अत्रार्या भवति –
श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि ।
शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥ ८९॥

इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् ।
प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥ ९०॥

त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु- रवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु- स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः ।
अत्र श्लोको भवति –
महाभैरवनादद्यैस्त्रासः समुपजायते ।
स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ ९१॥

वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते ।
तमभिन- येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः ।
अत्र श्लोको भवति –

विचारणादिसम्भूतः सन्देहातिशयात्मकः ।
वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ ९२॥

एवमेते त्रयस्त्रिंशद्‍व्यभिचारिणो भावा देशकालावस्था-
नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः
स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति ।
त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः ।
सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ ९३॥

अत्राह – किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते
एते सात्त्विका इति । अत्रोच्यते इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुच्यते  ।
मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च योऽसौ स्वभावो
रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न
शक्योऽन्यमनसा
कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् ।
को दृष्टान्तः – इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता
भावास्तथा
सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम
रोदनात्मकं
तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् ।
एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ
दर्शियितव्यौ
इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे –
स्तम्भः स्वेदोऽथ रोमाअञ्चः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ ९४॥

अत्रार्याः । तत्र –
क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः ।
व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥ ९५॥

हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः ।
शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥ ९६॥

आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् ।
अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥ ९७॥

शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् ।
स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः ॥ ९८॥

स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः ।
श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥ ९९॥

एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः ।
कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥ १००॥

निःसन्ज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः ।
स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्‍बुधः ॥ १०१॥

व्यजनग्रहणाच्चापि स्वेदापनयनेन च ।
स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ १०२॥

मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च ।
पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥ १०३॥

स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः ।
वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ १०४॥

मुखवर्णपरावृत्त्या नाडीपीडनयोगतः ।
वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥ १०५॥

बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च ।
मुहुरश्रुकणापातैरस्रं त्वभिनयेद्‍बुधः ॥१०६॥

निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि ।
महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ १०७॥

एकोनपञ्चाशदिमे यथावद्भावास्‍त्र्यवस्था गदिता मयेह ।
भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ १०८॥

अत्र श्लोकाः –

शङ्का व्याधि स्तथाग्लानिश्चिन्तासूया भयं तथा ।
विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥

रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि ।
स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥

विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः ।
मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥

क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च ।
दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥

त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च ।
जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥]
आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः ।
उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसन्ज्ञया ॥ १०९॥

 यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः ।
उद्दीपयन्ति शृङ्गारं रसमासाद्य सन्ज्ञितम् ॥
ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा ।
सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ ११०॥

निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च
जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥ १११॥

गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च ।
क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ ११२॥

असम्मोहस्तथोत्साह आवेगो हर्ष एव च ।
मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥ ११३॥

रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा ।
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ ११४॥

स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा ।
त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ॥ ११५॥

अपस्मारस्तथोन्मादो विषादो मद एव च ।
मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ ११६॥

स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा ।
आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥ ११७॥

ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः ।
रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ ११८॥

न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः ।
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥ ११९॥

 बहूनां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥

दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् ।
ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥

विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः ।
सञ्चारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥

स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः ।
सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥

ये त्वेते सात्त्विका भावा नानाभिनययोजिताः ।
रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥

न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् ।
विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥

भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा ।
बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥

षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् ।
सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥

विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥
नानाभावार्थसम्पन्नाः स्थायिसत्त्वाभिचारिणः ।
पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ १२०॥

एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः ।
य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥ १२१॥


Source: भरतमुनिप्रणीतं नाट्यशास्त्रम् अध्याय ७

Categories: Sanskrit Dictionary

Tagged as: ,