सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। १.१२
ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च ।
शैवं भागवतं चैव भविष्यं नारदीयकम् ।। १.१३
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ।
लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ।। १.१४
कौर्म्मं मात्स्यं गारुडं च वायवीयमनन्तरम् ।
अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ।। १.१५
अन्यान्युपपुराणानि मुनिभिः कथितानि तु ।
अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ।। १.१६
आद्यं सनत्कुमारोक्तं नारसिहमतः परम् ।
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ।। १.१७
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्वाससोक्तमाश्चर्यं नारदीयमतः परम् ।। १.१८
कापिलं वामनं चैव तथैवोशनसेरितम् ।
ब्रह्माण्डं वारुणं चैव कालिकाह्वयमेव च ।। १.१९
माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् ।
पराशरोक्तं मारीचं भार्गवाह्वयम् ।। १.२०
इदं तु पञ्चदशकं पुराणं कौर्ममुत्तमम् ।
चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः ।। १.२१
ब्राह्मी भागवती सौरी वैष्णवी च प्रकीर्तिताः ।
चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ।। १.२२
इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता ।
भवन्ति षट्सहस्राणि श्लोकानामत्र संख्यया ।। १.२३
यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः ।
माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ।। १.२४
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं पुण्या दिव्या प्रासङ्गिकी कथाः ।। १.२५
श्रीकूर्मपुराणे पूर्वविभागे प्रथमोऽध्यायः ।।