All

ब्रह्म वाराह शरणं स्तुति – Brahma Baraha Saranam Stuti

नमस्ते देव देवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च-नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थ वेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने-नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे

  1. नमस्ते देव देवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ।। ६.११
  2. नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थ वेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ।। ६.१२
  3. नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ।। ६.१३
  4. नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्ग चक्रासिधारिणे । सर्वभूतात्म भूताय कूटस्थाय नमो नमः ।। ६.१४
  5. नमो वेद रहस्याय नमस्ते वेद योनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५
  6. नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ।। ६.१६
  7. नमस्ते पञ्चभूताय पञ्चभूतात्मने नमः । नमो मूल प्रकृतये माया रूपाय ते नमः ।। ६.१७
  8. नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सकर्षणाय ते ।। ६.१८
  9. नम स्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्य तेजसे । नमः सिद्धाय पूज्याय गुणत्रय विभागिने ।। ६.१९
  10. नमोऽस्त्वादित्य वर्णाय नमस्ते पद्मयोनये । नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ।। ६.२०
  11. त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत् सर्वं त्राता त्वं शरणं गतिः ।। ६.२१

श्रीकूर्मपुराणे पूर्वविभागे षष्ठोऽध्यायः

वराह means The Big- the Loving Big and not Pig as depicted by Jayadeva in Dasavatara Stotram or else where.

Next Post

सप्त द्वीपा पृथिबी -Sapta Dvipa Prithibi

Fri Aug 23 , 2019
जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ।। एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ।। क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ।। पञ्चाशत्‌कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ।।  

You May Like

Recent Updates

%d bloggers like this: