Rig Veda Commentary

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् [Agnim ire purohitam]-1.1.1

ऋग्वेदः – मण्डल १ – सूक्तं १.१-मधुच्छन्दा वैश्वामित्रः -दे. अग्निः- गायत्री

ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥१॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥३॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥४॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङ्गिरः ॥६॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥


तत्र ‘अग्निमीळे’ इति सूक्तं प्रातरनुवाके आग्नेये क्रतौ विनियुक्तम् । स विनियोग आश्वलायनेन चतुर्थाध्यायस्य त्रयोदशे खण्डे सूत्रितः-’अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम्’ इति । तत्र हीनपादग्रहणात् सूक्तनिश्चयः । सूक्तं सूक्तादौ हीने पादे’ (आश्व. श्रौ.१. १ ) इति परिभाषितत्वात्। तस्मिन्सूक्ते प्रथमाया ऋचो द्वितीयस्यां पवमानेष्टौ स्विष्टकृतो याज्यात्वेन विनियोगः । स च द्वितीयाध्यायस्य प्रथमखण्डे सूत्रितः- साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये ‘ इति । तत्र कृत्स्नपदग्रहणात् ऋगित्यवगम्यते । ऋचं पादग्रहणे’ ( आश्व. श्रौ १. १ ) इति परिभाषितत्वात् । तथा ‘संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्’ (आश्व. श्रौ. २.१) इति परिभाषितत्वात् स्विष्टकृत्संबन्धनिश्चयः। तत्रापि द्वितीयमन्त्रत्वेनोदाहृतत्वात् याज्यात्वम् । यद्यपि साह्वानित्यनया पुरोनुवाक्यचैव देवताया अनुस्मरणरूपसंस्कारः सिद्धस्तथापि याज्यानुवाक्ययोः समुच्चयो द्वादशेऽध्याये चतुर्थपादे मीमांसितः

पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता।

विकल्प्यान्यतरेणैव देवतायाः प्रकाशनात् ॥

पुरोनुवाक्यासमाख्यानाद्वचनाच्च समुच्चयः । देवताप्रकाशनकार्यस्यैकत्वात् । युग्मयोर्यथा विकल्पस्तथैवैकयुग्मगतयोरिति चेत्, मैवम् । पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः । किंच ‘ पुरोनुवाक्यामनूच्य याज्यया जुहोति’ इति प्रत्यक्षवचनेन देवतोपलक्षणहविष्र्पदानकार्ये भेदोक्तिपुरःसरं साहित्यं विधीयते । तस्मात् समुच्चय इति ॥

एतच्चाग्निमित्यादिसूक्तं नवर्चम् ‘अग्निं नव मधुच्छन्दा वैश्वामित्रः’ इत्यनुक्रमणिकायामुक्तत्वात् । विश्वामित्रपुत्रो मधुच्छन्दोनामकस्तस्य सूक्तस्य द्रष्टृत्वात् तदीय ऋषिः। ‘ऋष गतौ ‘ इति धातुः। सर्वधातुभ्य इन्’ ( उ. सू. ४. ५५७ ) ‘इगुपधात्कित् ‘ ( उ. स. ४. ५५९ )। वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते– अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्’ (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –

युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।

लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥

इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—

अविदित्वा ऋषिं छन्दो दैवतं योगमेव च।

योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥

ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।।

अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥

इति ॥ वेदनविधिश्च स्मर्यते–

स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च ।

मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ इति ॥

अग्निमित्यादिसूक्तस्य छन्दोऽनुक्रमणिकायां यद्यप्यत्र नोक्तं तथापि परिभाषायामेवमुक्तम् । ‘आदौ गायत्रं प्राग्घिरण्यस्तूपात् ‘ ( अनु. १२. १४ ) इति । हिरण्यस्तूपं ऋषिर्येषां मन्त्राणां वक्ष्यते ततः प्राचीनेषु मन्त्रेषु सामान्येन गायत्रं छन्द इत्यर्थः । पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यते । तच्चारण्यकाण्डे समाम्नायते-’छादयन्ति ह वा एनं छन्दांसि पापकर्मणः’ ( ऐ. आ. २.५) इति । अथवा चीयमानाग्निसंतापस्याच्छादकत्वाच्छन्दः। तच्च तैत्तिरीया आमनन्ति-:प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वाऽतिष्ठत्तं देवा बिभ्यतो नोपायन्ते छन्दोभिरात्मानं छादयित्वोपायन्तच्छन्दसां छन्दस्त्वम् (तै. सं. ५. ६. ६. १) इति । यद्वा अपमृत्युं वारयितुमाच्छादयतीति छन्दः । तदपि छान्दोग्योपनिषद्याम्नातं- देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्या प्राविशंस्ते छन्दोभिरात्मानमच्छादयन्यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्’ ( छां. उ. १. ४. २ ) इति । तथा द्योतनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्नायते– ‘दिवा वै नोऽभूदिति तद्देवानां देवत्वम्’ इति । अतो दीव्यतीति देवः । मन्त्रेण द्योतते इत्यर्थः । अस्मिन् सूक्ते स्तूयमानत्वादग्निर्देवः । तथा चानुक्रमणिकायामुक्तं- मण्डलादिष्वाग्नेयमैन्द्रात्’ (अनु. १२. १२) इति ।


तस्य सूक्तस्य प्रथमामृचं भगवान् वेदपुरुष आह–

अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् ।

होतारम् । रत्नऽधातमम् ॥१

अग्निनामकं देवम् ईळे स्तौमि। ‘ईड स्तुतौ’ इति धातुः। डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः। तथा च पठ्यते– अज्मध्यस्थडकारस्य ळकारं बह्वृचा जगुः । अज्मध्यस्थढकारस्य ळ्हकारं वै यथाक्रमम्’ इति ॥ मन्त्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमीति लभ्यते । कीदृशमग्निम्। “यज्ञस्य “पुरोहितम्। यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति, तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा। यज्ञस्य संबन्धिनि पूर्वभागे आहवनीयरूपेणावस्थितम्। पुनः कीदृशम् । “देवं दानादिगुणयुक्तम् । पुनः कीदृशम्। “होतारम् “ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते- अग्निर्वै देवानां होता’ ऐ. ब्रा. ३. १४ ) इति । पुनरपि कीदृशम् । “रत्नधातमं यागफलरूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा । अत्राग्निशब्दस्य यास्को बहुधा निर्वचनं दर्शयति–‘अथातोऽनुक्रमिष्यामोऽग्निः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवत्यग्निमीळे’ ( निरु. ७, १४ ) इति । अस्यायमर्थः । सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनन्तरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकाङ्क्षितम् अतोऽनुक्रमेण वक्ष्यामः । तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यते । कस्मात् प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत इति प्रश्नस्य ‘ अग्रणीः’ इत्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्यग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणान्तरम्- अग्निर्देवानां सेनानीः’ इति । एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति- अग्निर्मुखं प्रथमो देवतानाम् ‘ ( ऐ. ब्रा. १. ४ ) इति मन्त्रः । ‘अग्निर्वै देवानामवमः’ ( ऐ. ब्रा. १, १ ) इति ब्राह्मणम् । तथा तैत्तिरीयाश्चामनन्ति- अग्निरग्रे प्रथम देवतानाम् ‘ ( तै. ब्रा. २. ४. ३. ३) इति । ‘अग्निरवमो देवतानाम् ‘ इति च । वाजसनेयिनस्वेा मामनन्ति- स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नाम’ इति । यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । संनममानः सम्यक् स्वयमेव प्रह्वीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्ठीवनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चित् “ अक्नोपनः’ इति अग्निशब्दं निर्वक्ति । तत्र न क्नोपयतीत्युक्ते न स्नेहयति, किंतु काष्ठादिकं रूक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्तकारो धातुत्रयादग्निशब्दनिष्पतिं मन्यते । इतः ‘इण् गतौ ‘ इति धातुः । अक्तः ‘अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु ‘ इति धातुः । दग्धः ‘दह भस्मीकरणे ‘ इति धातुः । नीतः ‘णीम् प्रापणे ‘ इति धातुः । अग्निशब्दो हि अकारगकारनिशब्दानपेक्षमाणः एतिधातोरुत्पन्नात् अयनशब्दात् अकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा । दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते । नीः इति नयति धातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वा अग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः । तस्य अग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषा • अग्निमीळे इति ऋक् भवतीति । तामेतां ऋचं यास्क एवं व्याख्यातवान्—- अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् । (निरु. ७. १५) इति । अस्यायमर्थः–ईडतिधातोः स्तुत्यर्थत्वं प्रसिद्धम् । धातूनामनेकार्थत्वमिति न्यायमाश्रित्य याञ्चाध्येषणापूजाः अप्यत्रोचितत्वात् तदर्थतया व्याख्याताः । पुरोहितशब्दो द्वितीयेऽध्याये ‘यद्देवापिः शंतनवे पुरोहितः इत्येतां ऋचमुदाहृत्य ‘पुर एनं दधति’ (निरु. २. १२) इति व्याख्यातः । तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनुष्ठानं विधाय तत्फलत्वेन ‘पुर एनं दधते’ (ते. सं. २. १. २. ९ ) इत्यामनन्ति । देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हविर्वहनात द्युस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया । होतृशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवानामाह्वातारमिति । और्णवाभनामकस्तु मुनिः जुहोतिधातोरुत्पन्नो होतृशब्द इति मन्यते । अग्नेश्च होतृत्वं होमाधिकरणत्वेन द्रष्टव्यम् । रत्नशब्दो द्वितीयाध्याये ‘मघम्’ इत्यादिष्वष्टाविंशतौ धननामसु (नि.२. १०.७) पठितः । रमणीयत्वात् रत्नत्वम् । दधातिधातुरत्र दानार्थवाचीति । तदिदं निरुक्तकारस्य यास्कस्य मन्त्रव्याख्यानम् ॥ अथ व्याकरणप्रक्रियोच्यते । अगिधातोर्गत्यर्थात् ‘ अङ्गेर्नलोपश्च’ ( उ. सू. ४. ४९० ) इति औणादिकसूत्रेण निप्रत्ययः । इदित्वान्नुमागमेन प्राप्तस्य नकारस्य ( पा. सू. ७. १. ५८ ) लोपश्च भवति । अङ्गति स्वर्गे गच्छति हविर्नेतुमित्यग्निः । तत्र ‘ धातोः ‘ ( पा. सू. ६. १. १६२) इति अकार उदात्तः । ‘ आद्युदात्तश्च ‘ ( पा. सू. ३. १. ३) इति प्रत्ययगत इकारोऽप्युदात्तः । ‘अनुदात्तं पदमेकवर्जम् ‘ (पा. सू. ६. १, १५८) इति द्वयोरन्यतरमुदात्तमवशेष्येतरस्यानुदात्तत्वं प्राप्तम् । तत्र धातुस्वरे प्रथमतोऽवस्थिते सति पश्चादुपदिश्यमानः प्रत्ययस्वरोऽवशिष्यते । ‘सति शिष्टस्वरो बलीयान्’ (पा. सू. ६. १. १५८.९) इति हि न्यायः । ततोऽन्तोदात्तमग्निप्रातिपदिकम् । ‘अनुदात्तौ सुप्पितौ ‘ ( पा. सू. ३. १. ४ ) इति अम् इत्येतत् द्वितीयैकवचनमनुदात्तम् । तस्य ‘अमि पूर्वः ‘ (पा. सू. ६. १. १०७ ) इति यत् पूर्वरूपं तदुदात्तम् “ एकादेश उदात्तेनोदात्तः ‘ (पा. सू. ८. २. ५ ) इति सूत्रितत्वात् । अग्निशब्दो धातुजन्मेति मते सेयं प्रक्रिया सर्वापि द्रष्टव्या । मतद्वयं यास्केन प्रदर्शितं— ‘नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वाणीति गार्ग्यो वैयाकरणानां चैके’ (निरु. १. १२ ) इति । गार्ग्यस्य मतेऽग्निशब्दस्याखण्डप्रातिपदिकत्वात् ‘ फिषोऽन्त उदात्तः ‘ ( फि. सू. १ ) इत्यन्तोदात्तत्वम् । पूर्वोक्तेष्वग्रणीरित्यादिनिर्वचनेषु प्रकृतिप्रत्ययाद्यशेषप्रक्रिया यथोचितं कल्पनीया । एतदेवाभिप्रेत्य यास्क आह–‘ अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्नत्वेव न निर्ब्रूयात् ‘ (निरु. २. १) इति । अस्यायमर्थः-तत्तत्र निर्वचनीयपदसमूहमध्ये येष्वग्न्यादिपदेषु पूर्वोक्तरीत्या स्वरसंस्कारौ समर्थौ व्याकरणसिद्धौ स्याताम् । स्वर उदात्तादिः । संस्कारो निप्रत्ययादिः । किंच तौ स्वरसंस्कारी प्रादेशिकेन गुणेनान्वितौ स्याताम् । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणो गतिरूपोऽर्थः । तेनान्वितौ। तान्यग्न्यादिपदानि तथा व्याकरणानुसारेण निर्ब्रूयात् । तच्च निर्वचनमस्माभिः प्रदर्शितम् । अथ पूर्वोक्त वैलक्ष्ण्येन कश्चित् स्वेन विवक्षितोऽर्थो नान्वितः तस्मिन् शब्देऽनुगतो न भवेत् । तस्यैव व्याख्यानम् ‘अप्रादेशिके विकारे ‘ इति । अग्रनयनादिरूपः क्रियाविशेषो विकारः । स च प्रदेशेनाग्निशब्दैकदेशेनात्र नाभिधीयते इत्यप्रादेशिकः । एवं सति यः पुमानर्थनित्यः स्वविवक्षितेऽर्थे नियतो निर्बन्धवान् । ब्राह्मणनुसारेण वा देवतान्तरविशेषणत्वेन योजयितुं वा स निर्बन्धः । तदानीं स पुमान् केनचित् वृत्तिसामान्येन स्वविवक्षितमर्थं परीक्षेत, तस्मिन् शब्दे योजयेत् । वृत्तिः क्रिया । तद्रूपेण सामान्यं सादृश्यम् । अस्माभिश्च अग्रनयनादिरूपं क्रियात्वसामान्यमुपजीव्य अग्रणीत्वाद्यर्थो योजितः । तदिदं यास्काभिमतं निर्वचनम् । स्थौलाष्ठीवि: अक्षरसाम्यान्निर्वक्ति। अक्नोपनशब्दस्यादौ निषेधार्थम् अकाररूपमक्षरं विद्यते । अग्निशब्दस्याप्यादौ अकारोऽस्ति । तदिदमक्षरसाम्यम् । शाकपूणिस्तु वर्णसाम्यान्निर्ब्रूते-दग्धशब्दाग्निशब्दयोर्गकारवर्णेन साम्यम् । सर्वथापि निर्वचनं न त्याज्यमिति । ईळे इत्येतत्पदं कृत्न्-मप्यनुदात्तम् । ( पा. सू .८, १. २८) इति अतिङन्तादग्निशब्दात् परस्य ईळे इत्यस्य तिङन्तस्य निघातविधानात् । पदद्वयसंहिताकाले तु ईकारस्य धातुगतस्य ‘उदात्तादनुदात्तस्य स्वरितः’ (पा. सू. ८, ४, ६६ ) इति स्वरितत्वम् । तस्मात् ऊर्ध्वभाविन एकरस्य तिङ्प्रत्ययरूपस्य ‘स्वरितात्संहितायामनुदात्तानाम्’ (पा.सू.१. २.३९) इति ऐकश्रुत्यं प्रचयनामकं भवति । पुरःशब्दोऽन्तोदात्तः । अयं पुरो भुवः’ (तै. सं.४.३.२. १) इत्यत्र तथैवाम्नातत्वात् । पूर्वाधरावराणामसि पुरधवश्चैषाम् ‘ (पा. सू. ५, ३. ३९) इति पूर्वशब्दात् अस्प्रत्ययः पुरादेशश्च । ततोऽत्र प्रत्ययस्वरः (पा. सू. ३. १. ३ ) । धाञो निष्ठायां दधातेर्हिः’ (पा. सू. ७. ४. ४२) इत्यादेशे सति प्रत्ययस्वरेणान्तोदात्तो हितशब्दः । तत्र समासान्तोदात्तत्वे (पा. सू. ६. १. २२३ ) प्राप्ते तदपवादत्वेन ‘तत्पुरुषे तुल्यार्थ’ ( पा. सू. ६, २. २ ) इत्यादिना अव्ययपूर्वप्रदप्रकृतिस्वरत्वम् । यद्वा । ‘पुरोऽव्ययम् ‘ ( पा. सू. १. ४. ६७ ) इति गतिसंज्ञायां गतिरनन्तर: ‘ ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । तत ओकार उदात्तः। अवशिष्टानामनुदात्तस्वरितप्रचयाः पूर्ववत् द्रष्टव्याः । आद्याक्षरस्य संहितायां प्रचयप्राप्तौ ( पा. सू. १. २. ३९) उदात्तस्वरितपरस्य सन्नतरः’ (पा. सू. १. २. ४०) इत्यतिनीचोऽनुदात्तः । ‘यजयाच°’ (पा. सू. ३. ३. ९०) इत्यादिना यजतेः नङ्प्रत्यये सति अन्तोदात्तो यज्ञशब्दः । विभक्तेः सुप्स्वरेणानुदात्तत्वे सति (पा. सू. ३. १. ४) पश्चात् स्वरितत्वम् । देवशब्दः पचाद्यजन्तः ( पा. सू. ३. १. १३४ ) । स च फिट्स्वरेण (फि. सू. १ ) प्रत्ययस्वरेण (पा. सू. ३. १. ३) चित्स्वरेण (पा. सू. ६. १. १६३) वा अन्तोदात्तः । ऋत्विक्शब्दः ‘ऋतौ यजति’ इति विग्रहे सति ‘ऋत्विग्दधृक्’ (पा. सू. ३. २, ५९ ) इति निपातितः । ‘गतिकारकोपपदात्कृत् ‘ ( पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । विभक्तिस्वरः पूर्ववत् । होतृशब्दस्तृन्प्रत्ययान्तः (पा. सू. ३. २. १३५)। नित्स्वरेणादाद्युदात्तः ( पा. सू. ६. १. १९७ )। स्वरितप्रचयौ पूर्ववत् । रत्नशब्दो ‘ नब्विषयस्यानिसन्तस्य ‘ ( फि. सू. २६) इत्याद्युदात्तः । तथा चाम्नायते– रत्नं धाता’ इति । रत्नानि दधातीति विग्रहः । समासत्वादन्तोदात्तो रत्नधाशब्दः । यद्वा कृदुत्तरपदप्रकृतिस्वरः । तमप्प्रत्ययस्य ( पा. सू. ५. ३. ५५ ) पित्स्वरेणानुदात्ते सति (पा. सू. ३. १. ४ ) स्वरितप्रचयौ । संहितायामाद्याक्षरस्य प्रचयो द्वितीयाक्षरस्य सन्नतरत्वम्। ‘वेदावतार अद्याया ऋचोऽर्थश्च प्रपञ्चितः । विज्ञातं वेदगाम्भीर्यमथ संक्षिप्य वर्ण्यते ।।

अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ।

सः । देवान् । आ । इह । वक्षति ॥२

अयम् “अग्निः पूर्वेभिः पुरातनैर्भृग्वङ्गिरःप्रभृतिभिः “ऋषिभिः ”ईड्यः स्तुत्यः, “नूतनै: “उत इदानींतनैरस्माभिरपि स्तुत्यः। “सः अग्निः स्तुतः सन् “इह यज्ञे “देवान् हविर्भुजः “आ “वक्षति । वह प्रापणे इति धातुः । आवहतु इत्यर्थः॥ पूर्वेभिरित्यत्र ‘बहुलं छन्दसि ‘ ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । पूर्व पर्व अर्व पूरणे’ इति धातुः । पूर्वतिधातोः अन्प्रत्यय औणादिकः । इन्प्रत्ययान्त ऋषिशब्दः ‘ ऋष्यन्धक°’ ( पा. सू. ४. १. ११४) इति निपातनात् लघूपधगुणाभावः ( पा. सू. ७० ३. ८६ )। कित्प्रत्ययो वात्र ज्ञेयः (उ. सू. ४. ५५९) । तौ शब्दौ नित्स्वरेणाद्युदात्तौ । ईड्यशब्दस्य ण्यत्प्रत्ययान्तत्वात् ( पा. सू. ३. १. १२४ ) तित्स्वरितम्’ (पा. सू. ६. १. १८५) इति स्वरिते शेषानुदात्तत्वे च प्राप्ते तदपवादत्वेन ‘ईडवन्द° ‘ (पा. सू. ६. १. २१४ ) इत्यादिनाद्युदात्तत्वम् । ‘नवस्य नू त्नप्तनखाश्च ‘ ( पा. सू ५. ४. ३०. ६) इति वार्तिकेन नवशब्दस्य नू इत्यादेशः तनन्प्रत्ययश्च महावार्तिके विहितः । ततो नित्स्वरेणाद्युदात्तः । अवशिष्टस्वरा अग्न्यादिषु नूतनान्तेषु पूर्ववदुन्नेयाः । उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्तथापि निपातत्वेनानेकार्थत्वादौचित्येनात्र समुच्चयार्थों द्रष्टव्यः ।’ उच्चावचेष्वर्थेषु निपतन्ति’ इति निपातत्वम् । तर्हि ‘ निपाता आद्युदात्ताः ‘ ( फि. सू. ८०) इत्युकारस्योदात्तः प्राप्त इति चेत्, न । प्रातःशब्दवदन्तोदात्तत्वात् । यथा प्रातःशब्दोऽन्तोदात्तत्वेनैव स्वरादिषु ( पा. सू. १. १. ३७ ) पठितः, एवमुतशब्दस्यापि पाठो द्रष्टव्यः, स्वरादेराकृतिगणत्वात् । यद्वा ‘एवादीनामन्तः ‘ (फि. सू. ८२ ) इत्यन्तोदात्तः । स इत्यत्र फिट्स्वरः । देवशब्दः पूर्ववत् । देवान् इत्यस्य नकारस्य संहितायां दीर्घादटि’ ( पा. सू. ८. ३.९ ) इति रुत्वम् । अत्रानुनासिकः ‘ (पा. सू. ८. ३. २) इत्यनुवृत्तौ ‘आतोऽटि नित्यम्’ ( पा. सू. ८. ३. ३) इत्याकारः सानुनासिकः। ‘भोभगो’ ( पा. सू. ८. ३. १७ ) इति रोर्यकारः । स च ‘लोपः शाकल्यस्य ‘ ( पा. सू. ८. ३. १९ ) इति लुप्यते । तस्यासिद्धत्वात् ( पा. स. ८. २. १ ) न पुनः संधिकार्यम् । आङो निपातत्वादाद्युदात्तत्वम् । इदमो हप्रत्यये सति निष्पन्नत्वात् ( पा, सू. ५. ३. ११ ) इहशब्दे प्रत्ययस्वरः । वहति धातोर्लोडर्थे छान्दसो लृट् । तस्य स्यप्रत्ययगतस्य यकारस्य लोपोऽपि छान्दसः । यद्वा । लेटि ‘सिब्बहुलम् ‘ ( पा. सू. ३. १. ३४ ) इति सिप्प्रत्ययः । ‘लेटोऽडाटौ ‘ ( पा. सू. ३. ४.९४ ) इयडागमश्च । ततो वक्षतीति संपद्यते । तस्यै तिङन्तत्वान्निघातः । संहितास्वराः पूर्ववत् ॥

आधाने तृतीयेष्टौ प्रथमाज्यभागस्यानुवाक्या (आश्व. श्रौ. २. १ ) । सूक्तगत तृतीया ।

अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवेऽदिवे ।

यशसम् । वीरवत्ऽतमम् ॥३

योऽयं होत्रा स्तुत्योऽग्निस्तेन “अग्निना निमित्तभूतेन यजमानः “रयिं धनम् “अश्नवत् प्राप्नोति । कीदृशं रयिम्।“दिवेदिवे “पोषम् “एवं प्रतिदिनं पुष्यमाणतया वर्धमानमेव, न तु कदाचिदपि क्षीयमाणम् । “यशसं दानादिना यशोयुक्तं “वीरवत्तमम् अतिशयेन पुत्रभृत्यादिवीरपुरुषोपेतम् । सति हि धने पुरुषाः संपद्यन्ते । रयिशब्दो ‘मघम्’ इत्यादिधननामसु (नि. २.१०.८) पठितः । तत्र फिट्स्वरः। अश्नोतेर्धातोर्लेटि व्यत्ययेन तिप् । ‘ इतश्च लोपः’ (पा. सू. ३. ४. ९७ ) इति इकारलोपः। ‘लेटोऽडाटौ’ (पा. सू. ३. ४. ९४ ) इत्यडागमः । ततः ‘अश्नवत्’ इति भवति । तस्य निघातः। घञन्तत्वात् ( पा. सू. ६. १. १९७ ) पोषशब्द आद्युदात्तः । एवशब्दस्य निपातत्वेऽपि ‘एवादीनामन्तः ‘ (फि. सू. ८२ ) इत्यन्तोदात्तत्वम् । वकारान्तात् दिव्शब्दात् परस्याः सप्तम्याः ‘सुपां सुलुक्° ‘ ( पा. सू. ७. १. ३९ ) इत्यादिना शेभावे सति सावेकाचः’ ( पा. सू. ६. १. १६८ ) इत्यादिना ‘ऊडिदंपदात् ‘ ( पा, सू. ६. १. १७१ ) इत्यादिना वा तस्योदात्तत्वम्। नित्यवीप्सयोः’ ( पा. सू. ८. १. ४) इति द्विर्भावे सति उत्तरभागस्य ‘ अनुदात्तं च ‘ ( पा. सू. ८, १. ३ ) इत्यनुदात्तत्वम् । यशोऽस्यास्तीति विग्रहे सति ‘ अर्शआदिभ्योऽच् ‘ ( पा. सू. ५. २. १२७) इति अच्प्रत्ययः । चित्स्वरं व्यत्ययेन बाधित्वा मध्योदात्तत्वम् । फिट्स्वरेणान्तोदात्तात् वीरशब्दात् उत्तरयोर्मतुप्तमपोः पित्त्वादनुदात्तत्वम् । ह्रस्वनुड्भ्याम् ‘ ( पा. सू. ६. १. १७६ ) इति तु न साववर्णान्तत्वात् । ‘न गोश्वन्° ‘ ( पा. सू. ६. १. १८२ ) इति प्रतिषेधः ।।

अभिप्लवषडहस्य मध्यवर्तिषूक्थेषु तृतीयसवने मैत्रावरुणस्य ‘अग्ने यं यज्ञम्’ इत्यादिको वैकल्पिकोऽनुरूपस्तृचः । एतच्च सप्तमाध्याये ‘ एह्यूषु’ इत्यादिखण्डे सूत्रितम्– अग्निं वो वृधन्तमग्ने यं यज्ञमध्वरम् ‘ ( आश्व. श्रौ. ७. ८) इति ॥

अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ।

सः । इत् । देवेषु । गच्छति ॥४

हे “अग्ने त्वं “यं “यज्ञं “विश्वतः सर्वासुदिक्षु “परिभूः परितः प्राप्तवान् “असि “सः “इत् स एव यज्ञो “देवेषु तृप्तिं प्रणेतुं स्वर्गे “गच्छति । प्राच्यादिचतुर्दिगन्तेषु आहवनीयमार्जालीयगार्हपत्याग्नीध्रीयस्थानेषु अग्निरस्ति । परिशब्देन होत्रीयादिधिष्ण्यव्याप्तिर्विवक्षिता । कीदृशं यज्ञम् । “अध्वरं हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसादयो हिंसितुं प्रभवन्ति ॥ अग्निशब्दस्य पाष्ठिकम् ( पा. सू. ६, १. १९८) आमन्त्रिताद्युदात्तत्वम् । न विद्यते ध्वरोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ‘ ( पा. सू. ६. २. १७२ ) इत्यन्तोदात्ततम् । विश्वतः इत्यत्र तसिलः प्रत्ययस्वरत्वं बाधित्वा पूर्ववर्णस्य ‘लिति’ ( पा. सू. ६. १. १९३ ) इत्युदात्तत्वम् । परिभूरित्यत्र अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ( पा. सू. ६. २. २) तदपवादत्वेन कृदुत्तरपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १३९) । असि इति तिङन्तस्य ‘ यद्वृतान्नित्यम्’ ( पा. सू. ८. १. ६६ ) इति निघाताभावः ॥

अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ।

देवः । देवेभिः । आ । गमत् ॥५

अयम् “अग्निः “देवः अन्यैर्देवैर्हविर्भोजिभिः सह “आ “गमत् अस्मिन् यज्ञे समागच्छतु । कीदृशोऽग्निः। “होता होमनिष्पादकः “कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा । “सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः । “चित्रश्रवस्तमः । श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः॥ कविक्रतुः चित्रश्रवस्तमः इत्यत्रोभयत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १ )। सत्सु साधुः सत्यः ‘सत्यादशपथे’ (पा, सू. ५, ४. ६६ ) इत्यत्रान्तोदात्तो हरदत्तेन निपातितः । लोडन्तस्य गच्छतु इति शब्दस्य छत्वाभावः। उकारलोपश्छान्दसः। ततो रूपं गमत् इति भवति । स्पष्टमन्यत् ॥ ॥ १ ॥

यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ।

तव । इत् । तत् । सत्यम् । अङ्गिरः ॥६

अङ्ग इत्यभिमुखीकरणार्थो निपातः । “अङ्ग “अग्ने हे अग्ने त्वं “दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थं “यत् भद्रं वित्तगृहप्रजापशुरूपं कल्याणं “करिष्यसि “तत् भद्रं “तव “इत् तवैव । सुखहेतुरिति शेषः। हे “अङ्गिरः अग्ने एतच्च “सत्यं न त्वत्र विसंवादोऽस्ति । यजमानस्य विज्ञादिसंपत्तौ सत्यामुत्तरक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति । भद्रशब्दार्थं शाट्यायनिनः समामन्ति—- यद्वै पुरुषस्य वित्तं तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रम्’ इति।। अङ्गशब्दस्य निपातत्वेऽपि अभ्यादित्वात् (फि. सू. ८१) अन्तोदात्तत्वम्। ‘दाश्वान्साह्वान् ‘ (पा. सू. ६. १. १२) इति सूत्रेण ‘दाश दाने ‘ इति धातोः क्वसुप्रत्ययो निपातितः । तत्र प्रत्ययस्वरः ( पा. सू. ३. १. ३)। आमन्त्रितस्य अग्निशब्दस्य पदात्परत्वेन आष्टमिकानुदात्तत्वं (पा. सू. ८. १. १९ ) न शङ्कनीयम्, अपादादौ’ ( पा. सू. ८. १. १८) इति पर्युदस्तत्वात् । ततः पाष्टिकम् ( पा. सू. ६. १. १९८ ) आद्युदात्तत्वमेव । भद्रशब्दस्य नब्विषयत्वेन फि. सू. २६) आद्युदात्तत्वप्रसक्तावपि भदि कल्याणे’ इति धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । अस्मिन् वाक्ये यच्छब्दप्रयोगात् निपातैर्यद्यदिहन्त ‘ (पा. सू. ८. १. ३० ) इति निघाते प्रतिषिद्धे स्यप्रत्ययस्वरेण सति शिष्टेन करिष्यसिशब्द उपान्त्योदात्तः । तवेत्यत्र ‘युष्मदस्मदोर्ङसि ( पा. सू. ६. १. २ १ १ ) इत्याद्युदात्तत्वम् । “ अङ्गिरा अङ्गाराः ‘ ( निरु० ३. १७ ) इति यास्कः । ऐतरेयिणोऽपि प्रजापतिदुहितृध्यानोपाख्याने समामनन्ति- येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ‘ ( ऐ. ब्रा. ३. ३४ ) इति । तस्मात् अङ्गिरोनामकमुनिकारणत्वात् अङ्गाररूपस्याग्नेरङ्गिरस्त्वम् । अत्र पदात्परत्वेनाष्टमिकानुदात्तत्वम् ।

अग्नीषोमप्रणयने : उप त्वाग्ने ‘ इत्यादिकोऽनुवचनीयस्तृचः । एतच्च ब्राह्मणे समाम्नातम्- उप त्वाग्ने दिवेदिव उप प्रियं पनिप्नतमिति तिस्रश्चैकां चान्वाह ‘ ( ऐ. ब्रा. १. ३० ) इति ।

उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ।

नमः । भरन्तः । आ । इमसि ॥७

हे “अग्ने वयम् अनुष्ठातारः “दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च “धिया बुद्ध्या “नमः “भरन्तः नमस्कारं संपादयन्तः “उप समीपे “त्वा “एमसि त्वामागच्छामः । उपशब्दस्य निपातस्वरः (फि. सू. ८०)। त्वामौ द्वितीयायाः’ ( पा. सू. ८. १. २३) इति युष्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाची । वस्तर् इति अहर्वाची । द्वन्द्वसमासे कार्तकौजपादित्वात् ( पा. सू. ६. २. ३७ ) आद्युदात्तः । ‘सावेकाचः० ‘ ( पा. सू. ६. १. १६८ ) इति धियो विभक्तिरुदात्ता । नम इति निपातः । भरन्त इत्यत्र शपः (पा. सू. ३. १. ६८ ) पित्वा वत् शतुर्लसार्वधातुकत्वाच्च अनुदात्तत्वे सति ( पा. सु. ६. १. १८६ ) धातुस्वरः शिष्यते । इमसि इत्यत्र ‘इदन्तो मसिः’ (पा. सू. ७. १. ४६ ) इत्यादेशो निघातश्च ।

राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् ।

वर्धमानम् । स्वे । दमे ॥८

पूर्वमन्त्रे त्वामुपैम इत्यग्निमुद्दिश्योक्तम् । कीदृशं त्वाम् । राजन्तं दीप्यमानम् “अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां “गोपां रक्षकम् “ऋतस्य सत्यस्यावश्यंभाविनः कर्मफलस्य “दीदिविं पौनःपुन्येन भृशं वा द्योतकम् । आहुत्याधारमग्निं दृष्ट्वा शास्त्रप्रसिद्धं कर्मफलं स्मर्यते । “स्वे “दमे स्वकीयगृहे यज्ञशालायां हविर्भिः “वर्धमानम् ॥ राजन्तं वर्धमानमित्यत्रोभयत्र पूर्ववत् धातुस्वरः शिष्यते। दीदिविशब्दस्य ‘अभ्यस्तानामादिः’ (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । दमशब्दो वृषादित्वात् ( पा. सू. ६. १. २०३ ) आद्युदात्तः ॥

सः । नः । पिताऽइव । सूनवे । अग्ने । सुऽउपायनः । भव ।

सचस्व । नः । स्वस्तये ॥९

हे “अग्ने “सः त्वं “नः अस्मदर्थं सूपायनः शोभनप्राप्तियुक्तः “भव । तथा नः अस्माकं “स्वस्तये विनाशराहित्यार्थं “सचस्व समवेतो भव । तन्नोभयत्र दृष्टान्तः । यथा “सूनवे पुत्रार्थं पिता सुप्रापः प्रायेण समवेत्तो भवति तद्वत् ॥ अस्मच्छब्दादेशस्य न इत्येतस्य अनुदात्तं सर्वम् ‘ ( पा. सू. ८. १. १८ ) इत्यनुदात्तत्वम् । ‘चादयोऽनुदात्ताः’ (फि. सू. ८४ ) इति इवशब्देऽनुदात्तः । ‘इवेन नित्यसमासः पूर्वपदकृतिस्वरत्वं च वक्तव्यम्’ (पा. सू. २. १. ४. २ ) इति समस्तः पितेवेति शब्दो मध्योदात्तः। शोभनमुपायनं यस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ‘ ( पा. सू. ६. २. १७२) इत्यन्तोदात्तत्वम् । सचस्वेत्यत्र पदात्परत्वं नास्तीति न निघातः। लसार्वधातुकानुदात्तत्वे सति धातुस्वरावशेषः ॥ ॥ २ ॥ [सायणभाष्यम्]


 

Categories: Rig Veda Commentary

Tagged as: