पञ्चभूतात्मकं देहं पञ्चेन्द्रियसमायुतम् – सप्तधातुगुणोपेतं दशवातात्मिकं विदुः १
जीवो मनस्तथाकाशस्तथैव त्रिगुणात्मिकः -शुक्रशोणितसम्भूतं शरीरं दोषभाजनम्
पञ्चभूतमयं चैतद्विज्ञेयं भिषजां वर २
चतुर्विधं शरीरं स्याद्बाल्यं प्रौढं प्रगल्भकम् -स्थविरञ्च तथा प्रोक्तं बाल्यमल्पशरीरकम्
षोडशवार्षिकं यावद्बाल्यं तावत् प्रवर्त्तते ३
धातूनाञ्च बलं तत्र धातुमूलं शरीरकम्
धातूनां पुष्टियोगेन शरीरञ्चातिवर्द्धते ४
जीवितं धातुमूलं तु मृत्युर्धातुक्षयादपि
हीनधातोश्च योगेन लभते स्वल्पजीवनम् ५
आदौ धातुबलं तस्मात्सत्त्वं तस्माद्रजो विदुः -रजसा जायते कामः कामात्सुरत सङ्गमः ७