रसैः पञ्चभिः संयुक्ता रसेनैकेन वर्जिता
कषायाम्ला च कटुका तिक्ता स्वादुरसा स्मृता ।
लवणेन वर्जिता च शृणु तस्याः पृथक्पृथक्।। ६
त्वचाश्रितञ्च कटुकं मेदस्तस्याः कषायकम्
मेदोऽन्तरे तथा चाम्लं मधुरं चास्थिसंश्रितम्।। ७
तिक्तञ्चान्तरे तावत् तु रसैः पञ्चभिः संयुता
आम्लत्वान्मारुतं हन्ति पित्तं मधुरतिक्ततः
कफं कटुकषायत्वात्त्रिदोषघ्नी हरीतकी।। ८
हरीतकी देहभृतां हिता स्यान्मातेव चैषा हितकारिणी च ।
वरं कदाचित्कुपितापि माता न कुप्यते चाचरितापि पथ्या ।।९
हारीतसंहिता पञ्चमस्थानम्