Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » कालः – Kala

कालः – Kala

कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च
वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ८
कालः कालयते लोकं कालः कालयते जगत्
कालः कालयते विश्वं तेन कालो विधीयते ९
कालस्य वशगाः सर्वं देवर्षिसिद्धकिन्नराः
कालो हि भगवान् देवः स साक्षात्परमेश्वरः १०
सर्पपालनसंहर्त्ता स कालः सर्वतः समः
कालेन काल्यते विश्वं तेन कालो विधीयते ११
येनोत्पत्तिश्च जायेत येन वै कल्पते कला
सत्त्ववांस्तु भवेत्कालो जगदुत्पत्तिकारकः १२
यः कर्माणि प्रपश्येत प्रकर्षं वर्त्तमानके
सोऽपि प्रवर्त्तको ज्ञेयः कालःस्यात्प्रतिकालकः १३
येन मृत्युवशं याति कृतं येन लयं व्रजेत्
संहर्त्ता सोऽपि विज्ञेयः कालः स्यात्कलनापरः १४

कालः सृजति भूतानि कालः संहरते प्रजाः
कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः १५
काले देवा विनश्यन्ति काले चासुरपन्नगाः
नरेन्द्राः सर्वजीवाश्च काले सर्वं विनश्यति १६
त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः
सूक्ष्मोऽपि सर्वगः सर्वैर्व्यक्ताव्यक्ततरः शुभः १७

तथा वर्षाहिमोष्णाख्यास्त्रयः काला इमे मताः
तथा त्रयोऽन्येऽपि ज्ञेया उदयमध्यास्तमेव च १८
वर्षा शरच्च हेमन्तः शिशिरश्च वसन्तकः
ग्रीष्मोऽतिक्रमतो ज्ञेय एवं षड् ऋतवः स्मृताः १९
पृथक्पृथक् प्रवक्ष्यामि रवेर्गतिविशेषणैः
प्रकोपं शमनं ज्ञात्वा अयने द्वे स्मृते बुधैः २०
दक्षिणायनमेकं स्यात् द्वितीयं चोत्तरायणम्
वर्षा शरच्च हेमन्तो दक्षिणायनमध्यगाः २१
शिशिरश्च वसन्तश्च ग्रीष्मः स्यादुत्तरायणे
याम्ये गतिर्यदा भानोस्तदा चान्द्रगुणा मही २२