All

त्रिफला – Trifala

हरीतक्याश्चामलक्या विभीतकस्य च फलम्
त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् १
एकभागो हरीतक्या द्वौभागौ च विभीतकम्
आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् २
त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी
आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ३
वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी
दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ४
सर्वरोगप्रशमनी मेधा स्मृतिकरी परा


हारीतसंहिता

Next Post

गर्भो प्रकृति/गर्भोपक्रमविज्ञानं - Garva prakriti

Sun Aug 25 , 2019
प्रथमेऽहनि रेतश्च संयोगात्कललं च यत् जायते बुद्बुदाकारं शोणितञ्च दशाहनि १७ घनं पञ्चदशाहे स्याद्विंशाहे मांसपिण्डकम् पञ्चविंशत्तमे प्राप्ते पञ्चभूतात्मसम्भवः १८ मासैकेन च पिण्डस्य पञ्चतत्त्वं प्रजायते पञ्चाशद्दिनसम्प्राप्ते अङ्कुराणाञ्च सम्भवः १९ मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्धते सार्द्धमासत्रये प्राप्ते शिरश्च सारवद्भवेत् २० चतुर्थके च लोमानां सम्भवश्चात्र दृश्यते पञ्चमे च सुजीवः स्यात्षष्ठे प्रस्फुरणं भवेत् २१ अष्टमे मासि जाते च अग्नियोगः प्रवर्त्तते मासे तु नवमे प्राप्ते जायते […]

You May Like

Recent Updates

%d bloggers like this: