Sanskrit Dictionary

हरि – Hari

3.15 अनुवाक १५

हरि हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेद्मागात् । अयनं मा विवधीर्विक्रमस्व, इति ।

मा छिदो मृत्यो मा वधीः । मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र । नृचक्षसं त्वा हविषा विधेम, इति । सद्यश्चकमानाय । प्रवेपानाय मृत्यवे (१) । प्रास्मा आशा अशृण्वन् । कामेनाजनयन्पुनः, इति ।

कामेन मे काम आगात् । हृदयाद्धृदयं मृत्योः । यदमीषामदः प्रियम् । तदैतूप मामभि, इति । परं मृत्यो अनुपेरहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते व्रवीमि । मा न प्रजा रीरिषो मोत वीरान्, इति । प्र पूर्व्यं मनसा वन्दमानः । नाधमानो वृषभं चर्षणीनाम् । यः प्रजानामेकराण्मानुषीणाम् । मृत्युं यजे प्रथमजामृतस्य (२) इति ।। मृत्यवे वीराँश्चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।

3.16 अनुवाक १६

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके षोडशोऽनुवाकः ।। १६ ।।

3.17 अनुवाक १७

आप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तमः, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।।

3.18 अनुवाक १८

ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याऽभूदो ते यन्ति ये अपरीषु पश्यान्, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।

3.19 अनुवाक १९

ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मला भवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयाम्यजस्रां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।।

3.20 अनुवाक २०

प्रयासाय स्वाहाऽऽयासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा, इति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके विंशोऽनुवाकः ।। २० ।।

3.21 अनुवाक २१

चित्त संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपति स्थूलहृदयेनाग्नि हृदयेन रुद्रं लोहितेन शर्वं मतस्नाभ्यां महादेवमन्तःपार्श्वेनौषिष्ठहनशिङ्गीनिकोश्याभ्याम् (१), इति ।। चित्तमेकम् ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकविंशोऽनुवाकः ।। २१ ।।

चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता वाग्घोता ब्राह्मण एकहोताऽग्निर्यजुर्भिः सेनेन्द्रस्य देवस्य सुवर्णं घर्म सहस्रशीर्षाऽद्भ्यो भर्ता हरिं तरणिराप्यायस्वेयुष्टे ये ज्योतिष्मतीं प्रयासाय चित्तमेकविशतिः ।। २१ ।।

चित्तिरग्निर्यजुर्भिरन्तःप्रविष्टः प्रजापतिः प्रजया संविदा नस्तस्य धीरा ज्योतिष्मतीं त्रिपञ्चाशत् ।। ५३ ।।


 

यस्मात् सर्व्वमिदं प्रपञ्चरचितं मायाजगज्जायते, यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं, तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम्।। १.१ ।।

यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभं, नित्यानन्दमयं प्रसन्नममलं सर्व्वेश्वरं निर्गुणम्।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकागम्यं विभुं, तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम्।। १.२ ।। ब्रह्मपुराणम्/अध्यायः १