Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » प्राणः- Prana

प्राणः- Prana

विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषससाद स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।

तमिन्द्र उवाच &# 8211; ऋषे प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती-सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।

तमिन्द्र उवाच- ऋषे प्रियं वै ते धामोपागाः स वा ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती-सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।

तमिन्द्र उवाच –  ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति

स होवाच – त्वामेव जानीयामिति

तमिन्द्र उवाच – प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि तस्य मेऽन्नं मित्रं दक्षिणं

तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच, इति ।।

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ११)