Advocatetanmoy Law Library explores spirituality in a number of ways. It provides insight into the spiritual aspects of law, philosophy, and morality. It also encourages readers to think deeply about their spiritual beliefs and how they can be used to make the world a better place. Additionally, Advocatetanmoy Law Library encourages readers to use spirituality as a source of inspiration and strength in their lives.
इमा नु कं भुवना सीषधेम ।
इन्द्रश्च विश्वे च देवाः इति ।
यज्ञं च नः स्तन्व च प्रजां च । आदित्यैरिन्द्रः सह सीषधातु, इति ।
आदिरत्यैरिन्द्रः सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम्, इति ।
आप्लवस्व प्रप्लवस्व । आण्डी भव ज मा मुहुः । सुखादीं दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ( १) इति ।
मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् । ते ते देहं कल्पयन्तु । मा च ते ख्या स्म तीरिषत्, इति ।
उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य तृप्तासः । सूर्येण सुयुजोषसः इति । युवा सुवासाः, इति( २) ।
अष्टाचक्रा नवद्वारा । देवानां पूरयोध्या । तस्याँ हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृतः, इति । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः, इति । विभ्राजमानाँ हरिणीम् । यशसा संपरीवृताम् । पुरँ हिरण्मयीं ब्रह्मा ( ३) । विवेशापराजिता, इति ।
पराङेत्यज्यामयी । पराङेत्यनाशकी । इह चामुत्र चान्वेति । विद्वान्देवासुरानुभयान्, इति । यत्कुमारी मन्द्रयते । यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति, इति । अशृतासः शृतासश्च ( ४) । यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निं च ये विदुः, इति ।
सिकता इव संयन्ति । रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात्पृश्निभिः, इति । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तम् । ( ५) ।
यमो ददात्ववसानमस्मै, इति । नृ मुणन्तु नृ पात्वर्यः । अक्रृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जारिणीषु च ये हिताः, इति । रेतःपीता आण्डपीताः । अङ्गारेषु च ये हुताः । उभयान्पुत्रपौत्रकान् । युवेऽहं यमराजगान्, इति । शतमिन्नु शरदः, इति।
अदो यद्ब्रह्म विलबम् । पितृणां च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुतां च विहायसाम्, इति ।
कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः । इति नाको ब्रह्मिश्रवो रायो धनम । पुत्रानापो देवीरिहाऽऽहिता ( ६), इति ।।
पुरं नवद्वारा ब्रह्मा च व्यक्तँ शरदोऽष्टौ च ।।
Source: कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके सप्तविंशोऽनुवाकः
Connected :
सनातनः – Sanatana - मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् ।अष्टाचक्रा नवद्वारा ।अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च ।स ह्येवास्मि सनातनः ।
Home › Forums › सनातनः – Sanatana
Tagged: HinduReligion, Spirituality
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library