Sanskrit Dictionary

विष्णु – Vishnu

ते होचुः यो नः श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिर्यज्ञस्योदृचम्पूर्वोऽवगच्छात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति – १४.१.१.[४]

तद्विष्णुः प्रथमः प्राप स देवानां श्रेष्ठोऽभवत्तस्मादाहुर्विष्णुर्देवानां श्रेष्ठ इति – १४.१.१.[५]

स यः स विष्णुर्यज्ञः सः। स यः स यज्ञोऽसौ स आदित्यस्तद्धेदं यशो विष्णुर्न शशाक संयन्तुं तदिदमप्येतर्हि नैव सर्व इव यशः शक्नोति संयन्तुम् – १४.१.१.[६]


शतपथब्राह्मणम्काण्डम् १४ अध्यायः१ ब्राह्मण १

Categories: Sanskrit Dictionary

Tagged as: