Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » पति-पत्नी Pati Patni

पति-पत्नी Pati Patni

आत्मैवेदमग्र आसीत्।

पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहं नामाऽभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति – १४.४.२.[१]

स यत्पूर्वोऽस्मात् सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद – १४.४.२.[२]

सोऽबिभेत्।

तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभेष्यद्द्वितीयाद्वै भयम्भवति – १४.४.२.[३]

स वै नैव रेमे।

तस्मादेकाकी न रमते स द्वितीयमैच्छत्स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ – १४.४.२.[४]

स इममेवात्मानं द्वेधापातयत्। ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धवृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त – १४.४.२.[५]

सो हेयमीक्षां चक्रे। कथं नु माऽऽत्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति – १४.४.२.[६]

सा गौरभवत्। वृषभ इतरस्तां समेवाभवत्ततो गावोऽजायन्त – १४.४.२.[७]

वडवेतराऽभवत्। अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत्तत एकशफमजायत – १४.४.२.[८]

अजेतराभवत्। वस्त इतरोऽविरितरो मेष इतरस्तां समेवाभवत्ततोऽजावयोऽजायन्तैवमेव यदिदं किं च मिथुनमापिपीलिकाभ्यस्तत्सर्वमसृजत – १४.४.२.[९]

सोऽवेत्। अहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्यां हास्यैतस्यां भवति य एवं वेद – १४.४.२.[१०]

अथेत्यभ्यमन्थत्। स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः – १४.४.२.[११]

तद्यदिदमाहुः। अमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः – १४.४.२.[१२]

अथ यत्किं चेदमार्द्रम्। तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः – १४.४.२.[१३]


Source: शतपथब्राह्मणम्‎ – काण्डम् १४‎ – अध्यायः ४