Sanskrit

चारुदत्तम् – Charudattam by Bhas

प्रथमोऽङ्कः
भासः

।। श्रीः ।।
प्रथमोऽङ्कः

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः–किण्णु खु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजलबिन्दू विअ चञ्चलाअति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णु खु संविधा विहिदा ण वेत्ति। (परिक्रम्य) एदं अम्हाणं गेहं। जाव पविसामि। (प्रविश्यावलोक्य) जह लोहीपरिवट्टणकालसारा भूमी, णेउब्भामणसुगन्धो विअ गन्धो, सुणिमित्तं विअ परिब्भमन्तो वडिवस्सअजणो, किण्णु खु संविधा विहिदा । आदु बुभुक्खाए ओदणमअं विअ जीवलोअं पेक्खामि। जाद अय्यां सद्दावेमि। अय्ये! इदो दाव ।[Prakrit tongue] (किन्नु खल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव मेऽक्षिणी । यावद्‌ गेहं गत्वा जानामि किन्नु खलु संविधा विहिता न वेति। एतदस्माकं गेहम्। यावत् प्रविशामि। यथा लौहीपरिवर्तनकालसारा भूमिः, स्नेहोद्भावनसुगन्ध इव गन्धः, सुनिमित्तमिव परिभ्रमन् वरिवस्यकजनः, किन्नु खलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव जीवलोकं पश्यामि । यावदार्यां शब्दापयामि । आर्ये! इतस्तावत् ।) [Sanskrit tongue]

(प्रविश्य)

नटी—अय्य! इअं म्हि। अय्य! दिट्ठिआ खु सि आअदो (आर्य! इयमस्मि! आर्य! द्विष्ट्व्या खल्वस्यागतः ।)
सूत्रधारः—अय्ये! किं अत्थि अम्हाणं गेहे को वि पादरासो। (आर्ये! किमस्त्यस्माकं गेहे कोऽपि प्रातराशः ।)
नटी—अत्थि । (अस्ति।)
सूत्रधारः—चिरं जीव । एव्वं सोभणाणि भोअणाणि दन्तिआ होहि । (चिरं जीव। एवं शोभनानि भोजनानि दात्री भव।)
नटी—अय्य! तुवं एव्व पडिवालन्ती चिट्ठामि । (आर्य? त्वामेव प्रतिपालयन्ती तिष्ठामि ।)
सूत्रधारः—अय्ये? किं अत्थि अब्भत्थिदं। (आर्ये! किमस्त्यभ्यर्थितम्।)
नटी—अत्थि।(अस्ति।)
सूत्रधारः—एव्वं देवा तुमं अस्सासअन्तु। अय्ये! किं किं। (एवं देवास्त्वा माश्वासयन्तु । आर्ये! किं किम् ।)
नटी—घिदं गुलं दहिं तण्डुला ज सव्वं अत्थि । (घृतं गुडो दधि तण्डुलाश्च सर्वमस्ति ।)
सूत्रधारः—एवं सव्वं अम्हाणं गेहे अत्थि । (एतत् सर्वमस्माकं गेहेऽस्ति ।)
नटी—णहि णहि । अन्तलावणे । (नहि नहि। अन्तरापणे।)
सूत्राधारः—(सरोषम्) आः अणय्ये! एव्वं दे आसा छिन्दीअदु। अभावं च गमिस्ससि। अहं चण्डप्पवादलण्डिओ विअ वरण्डी पव्वदादो दूरं आरोविअ पाडिदो म्हि । (आः अनार्ये! एवं ते आशा छिद्यताम्। अभावं च गमिष्यसि। अहं चण्डप्रवातलण्डित इव वरण्डः पर्वताद् दूरमारोप्य पातितोऽस्मि।)
नटी—मा भाआहि मा भाआहि। मुहुत्तअं पडिवालेदु अय्यो। सव्वं सज्जं भविस्सदि । लद्धं णाम एदं। अज्ज मम उववासस्स अय्यो सहायो होदु। (मा बिभीहि मा बिभीहि । मुहूर्तकं प्रतिपालयत्वार्यः सर्वं सज्जं भविष्यति। लब्धं नामैतत्। अद्य ममोपवासस्यार्यः सहायो भवतु।)
सूत्राधारः—किण्णामहेओ अय्याए उववासो। (किन्नामधेय आर्याया उपवासः।)
नटी—अभिरूपवदी णाम। (अभिरूपपतिर्नाम।)
सूत्राधारः—किं अण्णजादीए। (किमन्यजात्याम्।)
नटी—आम। (आम्।)
सूत्राधारः—सव्वं दाव चिट्ठदु। को णु दाणिं अय्याए उववासस्स उवदेसियो। (सर्वं तावत् तिष्ठतु। को न्विदानीमार्याया उपवासस्योपदेशिकः।)
नटी—इमिणा वडिवस्सएण चुण्णगोट्ठेण । (अनेन वरिवस्यकेन चूर्णगोष्ठेन ।)
सूत्राधारः—साहु चुण्णगोट्ठ! साहु। (साधु चूर्णगोष्ठ! साधु।)
नटी—जइ अय्यस्स अणुग्गहो, तदो इच्छेअं अम्हारिसजणजोग्गं कंचि बम्हणं निमन्तेदुं। (यद्यार्यस्यानुग्रहः, तत इच्छेयमस्माद्दशजनयोग्यं कञ्चिद् ब्राह्मणं निमन्त्रयितुम्।)
सूत्राधारः—धम्मिट्ठो खु णिओओ । तेण पादरासो वि मे भविस्सदि । जइ एव्वं, पविसदु अय्या । अहं वि अम्हारिसजणजोग्गं कंचि बम्हणं अण्णेसामि । (धर्मिष्ठः खलु नियोगः। तेन प्रातराशोऽपि मे भविष्यति । यद्येवं प्रविशत्वार्या । अहमप्यस्मादृशजनयोग्यं कञ्चिद् ब्राह्मणमन्वेषे।)
नटी—जं अय्यो आणवेदी। (निष्क्रान्ता) (यदार्य आज्ञापयति।)
सूत्राधारः—कहि ण्णु खु दरिद्दबम्हणं लभेअं । (विलोक्य) एसो अय्य चारुदत्तस्स वअस्सो अय्यमेत्तेओ णाम बम्हणो इदो एव्व आअच्छदि । जाब उवणिमन्तेमि। (परिक्रम्य) अय्य! णिमन्तिदो सि। आमन्तणस्स मा दरिद्द त्ति मं अवमण्णेहि। सम्पणं अह्णिदव्वं भविस्सदि। घिदं गुलं दहिं तण्डुला अ सव्वं अत्थि । अवि अ दक्खिणामासआणि भविस्सन्ति। (कुत्र नु खलु दरिद्रब्राह्मणं लभेय। एष आर्यचारुदत्तस्य वयस्य आर्यमैत्रेयो नाम ब्राह्मण इत एवागच्छति । यावदुपनिमन्त्रयामि। आर्य! निमन्त्रितोऽसि। आमन्त्रणस्य मा दरिद्र इति मामवमन्यस्व। सम्पन्नमशितव्यं भविष्यति। घृतं गुडो दधि तण्डुलाश्च सर्वमस्ति अपि च दक्षिणामाषका भविष्यन्ति।)
(नेपथ्ये)

अण्णं अण्णं णिमन्तेदु दाव भवं। अरित्तओ दाव अहं। (अन्यमन्यं निमन्त्रयतु तावद् भवान्। अरिक्तकस्तावदहम्।)
सूत्रधारः–

घिदगुलदहिसुसमिद्धं धूविअसूवोवदंससम्भिण्णं।
सक्कारदत्तमिट्ठं भुञ्जीअदु भत्तमय्येण।।१।।

(घृतगुहदधिसमृद्धं धूपितसूपोपदंशसम्भिन्नम्। सत्कारदत्तमिष्टं भुज्यतां भक्तमार्येण।।१।।)
(निष्क्रान्तः)

स्थापना ।

(ततः प्रविशति विदूषकः।)
विदूषकः—अण्णं अण्णं णिमन्तेदु दाव भवं अरित्तओ दाव अहं। णं भणामि अहं अरित्तओ त्ति। किं भणासि—सम्पण्णं असणं अह्णिदव्वं भविस्सदि। त्ति। अहं पुण जाणामि। अहिअमहुरस्स अम्बस्स अजोग्गदाए अट्ठि ण भक्खीअदि त्ति। किं दाणि मं उल्लालिअ उल्लालिअ भणासि। भणामि वावुदो त्ति। किं भणासि-दक्खिणामासआणि भविस्सदि त्ति । एसो बाआ पच्चाचक्खिदो हिअएण अणुबन्धीअमाणो गच्छीअदि । अहो अच्चाहिदं । अहं वि णाम परस्स क्षामन्तराणि त्ति तक्केमि । जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्तसिद्धेहि णाणाविधेहि हिङ्गुविद्धेहि ओग्गारणसुगन्धेहि भूक्खेवमत्तपडिच्छिदेहि अन्तरपाणीएहि असणप्पआरेहि चित्तअरो विअ बहुमल्लएहि परिवुदो आअण्ठमत्तं अह्णिअ चच्चरवुसहो विअ मोदअखज्जएहि रोमन्थाअमाणो दिवसं खेवेमि, सो एव्व दाणिं अहं तत्तहोदो चारुदत्तस्य दरिद्ददाए सम पारावदेहि साहारणवुत्ति उवजीवन्तो अण्णहि चरिअ चरिअ तस्स आवासं एव्व गच्छामि । अण्णं च अच्छरिअं । मम उदरं अवत्थाविसेसं जाणादि । अप्पेणावितुस्सादि । बहुअं वि ओदणभरं भरिस्सदि दीअमाणं । ण आएदि अदीअमाणं पच्चाचिक्खदि। ण खु अह एरिसेण ण सन्तुट्ठो। ता सट्ठीकिददेवकय्यस्स तत्तहोदो चारुदत्तस्य कारणादो गहीदो सुमणो अन्तलिच्खवासो अ । जाव से पस्सपरिवत्ती होमि। (परिक्रम्यावलोक्य) एसो तत्तभवं चारुदत्तो पभादचन्दो विअ सकरुणप्पिअदंसणो जहाविभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छष्टि जाप णं उव सप्पामि । (निष्क्रान्तः।) (अन्यमन्यं निमन्त्रयतु तावत् भवान् । अरिक्तकरतावदहम्। ननु भणाम्यहमरिक्तक इति। किं भणसि-सम्पन्नमशनमशितव्यं भविष्यतीति। अहं पुनर्जानामि। अधिकरमधुरस्य आम्रस्य अयोग्यतया अस्थि न भक्ष्यत इति । किमिदानीं मामुल्लाल्योल्लाल्य भणसि। भणामि व्यापृत इति। किं भणसि-दक्षिणा माषका भविष्यन्तीति। एष वाचा प्रत्याख्यातो हृदयेनानुबव्यमानो गम्यते। अहो अत्याहितम्। अहमपि नाम परस्यामन्त्रणानीति तर्कयामि । योऽहं तत्रभवतश्चारुदत्तस्य गेहेऽहोरात्रपर्याप्तसिद्धैर्नानाविधैर्हिङ्गुविद्धैरुद्‌गारसुगन्धिभिः भ्रूक्षेपमात्रप्रतीष्टैरान्तरापानीयैरशनप्रकारैश्चित्रकर इव बहुमल्लकैः परिवृत आकण्ठमात्रमशित्वा चत्वरवृषभ इव मोदकखाद्यै रोमन्थायमानो दिवसं क्षिपामि, स एवेदानीमहं तत्र भवतश्चारुदत्तस्य दरिद्रतया समं पारावतैः साधारणवृत्तिमुपजीवन् अन्यत्र चरित्वा चरित्वा तस्यावासमेव गच्छामि। अन्यच्चाश्चर्यम्। ममोदरमवस्थाविशेषं जानाति। अल्पेनापि तुष्यति। बहुकमप्योदनभरं भरिष्यति दीयमानम्। न याचते अदीयमानं, न प्रत्याचष्टे। न खल्वहमीदृशेन न सन्तुष्टः। षष्ठीकृतदेवकार्यस्य तत्रभवतश्चारुदत्तस्य कारणाद् गृहीतानि सुमनसोऽन्तरीयवासश्च । यावदस्य पार्श्वपरिवर्ती भवामि । एष तत्रभवांश्चारुदत्तः प्रभातचन्द्र इव सकरुणप्रियदर्शनो यथाविभवेन गृहदैवतान्यर्चयन् इत एवागच्छति । यावदेनमुपसर्पामि।)
(ततः प्रविशति बलिमुपहरन्नायको विदूषकश्चङ्गेरिकाहस्ता चेटी च।)

नायकः—(दीर्घं निःश्वस्य) भोः! दारिद्र्यं खलु नाम मनस्विनः पुरुषस्य सोच्छ्वासं मरणम् । कुतः,

यासां बलिर्भवति मद्‌गृहदेहलीनां हंसैश्च सारसगणैश्च विभक्तपुष्पः।
तास्वेव पूर्वबलिरूढयवाङ्कुरासु, बीजाञ्जलिः पतति कीटमुखावलीढः ।। २ ।।

विदूषकः—अलं दाणि भवं अदिमत्तं सन्तप्पिदुं पुरुसजोव्वणाणि विअ गिह जोव्वणाणि खु दसाविसेसं अणुहोन्ति । आसमुद्दआणविपण्णविभवस्स बहुलपक्खचन्दस्स जोह्णापरिक्खओ विअ भवदो एव्व रमणीओ अअं दरिद्दभावो। (अलमिदानीं भवानतिमात्रं सन्तप्तुम्। पुरुषयौवनानीव गृहयौवनानि खलु दशाविशेषमनुभवन्ति । आसमुद्रदानविपन्नविभवस्य बहुलपक्षचन्द्रस्य ज्योत्स्नापरिक्षय इव भवत एव रमणीयोऽयं दरिद्रभावः ।)
नायकः—न खल्वहं नष्टां श्रियमनुशोचामि। गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां प्रतिभाति । कुतः,
<centerसुखं हि दुःखान्यनुभूय शोभते, यथान्धकारादिव दीपदर्शनम् ।

सुखात्तु यो याति दशां दरिद्रतां स्थितः शरीरेण मृतः स जीवति ।। ३ ।।
विदूषकः—भो वअस्य! समुद्दपट्टणसारभूदो तादिसो अत्थसंचओ कहिं गओ (भो वयस्य! समुद्रपत्तनसारभूतस्तादृशोऽर्थसञ्चयः क्व गतः।)
नायकः—(निःश्वस्य) वयस्य! यत्र गतानि मे भागधेयानि ।
पश्य,

क्षीणा ममार्थाः प्रणयिक्रियासु विमानितं नैव परं स्मरामि।
एतत्तु मे प्रत्ययदत्तमूल्यं सत्त्वं सखे! न क्षयमभ्युपैति ।। ४ ।।

(चिन्तां नाटयति)

विदूषकः—किं भवं अत्थविभवं चिन्तेदि। (किं भवानर्थविभवं चिन्तयति।)
नायकः—
सत्यं न मे धनविनाशगता विचिन्ता
भाग्यक्रमेण हि धनानि पुनर्भवन्ति ।
एतत्तु मां दहति नष्टधनश्रियो मे
यत् सौहृदानि सुजने शिथिलीभवन्ति ।। ५ ।।
अपि च —
दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते
सत्त्वं हास्यमुपैति शीलशशिनः कान्तिः परिम्लायते ।
निर्वैरा विमुखीभवन्ति सुहृदः स्फीता भवन्त्यापदः
पापं कर्म च यत् परैरपि कृतं तत्तस्य सम्भाव्यते ।। ६ ।।
विदूषकः—एदे दाणि दासीएपुत्ता अत्थवावारा गोवदारआ विअ मसअभीदा गिहादो णिग्गच्छन्ति । धणविणासदुक्खस्स उण चिन्तिअमाणस्स वसन्ते वुढ्ढस्स सरत्थम्बस्स विअ अङ्कुरङ्कुरा उब्भमन्ति। ता अलं भवदो सन्दावेण। (एत इदानीं दास्याः पुत्रा अर्थव्यापारा गोपदारका इव मशकभीता गृहाद् निर्गच्छन्ति । धनविनाशदुःखस्य पुनश्चिन्त्यमानस्य वसन्ते वृद्धस्य शरस्तम्बस्येवाऽङ्कुराङ्कुरा उद्‌भ्रमन्ति। तदलं भवतः सन्तापेन।)
नायकः—वयस्य! किमर्थं सन्तापं करिष्ये। किञ्चाहं दरिद्रः, यस्य मम,
विभवानुवशा भार्या समदुःखसुखो भवान् ।
सत्त्वं च न परिभ्रष्टं यद्‌ दरिद्रेषु दुर्लभम् ।। ७ ।।

(ततः प्रविशति गणिका सम्भ्रान्ता विटेन शकारेण चानुगम्यमाना ।)
शकारः—चिट्ठ चिट्ठ वशञ्चशेणिए! चिट्ठ
किं याशि धावशि पधावशि पक्खलन्ती
शाहु प्पशीद ण मलीअसि चिट्ठ दाव।
कामेण शम्पदि हि उज्झइ मे शलीलं
अङ्गालमज्झपडिदे विअ चम्मखण्डे ।। ८ ।।
(तिष्ठ तिष्ठ वसन्तसेने! तिष्ठ,
किं यासि धावसि प्रधावसि प्रस्खलन्ती साधु प्रसीद न मार्यसे तिष्ठ तावत् ।
कामेन सम्प्रति हि दह्यते मे शरीर-मङ्गारमध्यपतितमिव चर्मखण्डम् ।। ८ ।।)

विटः—बसन्तसेने!
किं त्वं भयेन परिवर्तितसौकुमार्या
नृतोपदेशविशदौ चरणौ क्षिपन्ती ।
उद्विग्नचञ्चलकटाक्षनिविष्टदृष्टि-
र्व्याघ्रानुसारचकिता हरिणीव यासि ।। ९ ।।
शकारः—भावे! एशा गच्छइ वशञ्चशेणिआ, (भाव! एषा गच्छति वसन्तसेना)
दुवेहि अम्हेह्यणुबन्धअन्ती जहा शिगाली विअ कुक्कुलेहि ।
शणूपुला मेहलणादहाशा शवेट्टणं मे हलअं हलन्ती ।। १० ।।

(द्वाभ्यामावाभ्यामनुबध्यमाना यथा श्रृगालीव कुक्कुराभ्याम् ।
सनूपुरा मेखलानादहासा सवेष्टनं मे हृदयं हरन्ती ।। १० ।।)

विटः—वसन्तसेने!
किं त्वं पदात् पदशतानि निवेशयन्ती
नागीव यासि पतगेन्द्रभयाभिभूता ।
वेगादहं प्रचलितः पवनोपमेयः
किं त्वां ग्रहीतुमथवा न हि मेऽस्ति शक्तिः ।। २१ ।।
गणिका—(समन्तादवलोक्य) पल्लवअ! पल्लवअ! परहुदिए! परहुदिए! महुअरअ! महुअरअ! सारिए! सारिए! हद्धि, णट्ठो मे परिजणो। एत्थ सअं एव अप्पा रक्खिदव्वो। (पल्लवक! पल्लवक! परभृतिके! मधुकरक! मधुकरक! शारिके! शारिके!। हा धिक्, नष्टो मे परिजनः । अत्र स्वयमेवात्मा रक्षितव्यः।)
शकारः—विलव विलव णाए! विलव पल्लवं वा। परहुदिअं वा, महुअरं वा, शालिअं वा, शव्वं वशञ्चमाशं वा। के के तुमं परित्तअशि। (विलप विलप ज्ञाते! विलप पल्लवं वा, परभृतिकां वा, मधुकरं वा, शारिकां वा, सर्व वसन्तमासं वा। कः कस्त्वां परित्रास्यते।)
किं वाशुदेवे शवपट्टणेशे कुन्तीशुदे वा जणमजए वा ।
अहं तुमं गह्णिअ केशहत्थे दुःशाशले शीदमिवाहलामि ।। १२ ।।

(किं वासुदेवः शवपत्तनेशः कुन्तीसुतो वा जनमेजयो वा।
अहं त्वां गृहीत्वा केशहस्ते दुःशासनः सीतामिवाहरामि ।। १२ ।।)

विटः—वसन्तसेने! सर्वत्र भयानभिज्ञहृदयं मां कुरु। पश्य,
परिचिततिमिरा मे शीलदोषेण रात्रि-
र्बहुलतिमिरकालस्तीर्णपूर्वा विघट्टाः ।
युवतिजनसमक्षं काममेतन्न वाच्यं
विपणिषु हतशेषा रक्षिणः साक्षिणो मे ।। १३ ।।
गणिका—(आत्मगतम्) हं इदाणि संसइवा संवृत्ता, जो अप्पगुणाणि सअं एव्व मन्तेदि । कहं एवे अकय्य ण करिस्सन्ति । (अहम् इदानीं संशयिता संवृत्ता, य आत्मगुणान् स्वयमेव मन्त्रयते। कथमेतेऽकार्य न करिष्यन्ति।)
विटः—भवति, क्रियतामस्माकमनुनयप्रग्रहः पश्य,
जनयति खलु रोषं प्रश्रयो भिद्यमानः
किमिव च रुषितानां दुष्करं मद्विधानाम्।
अनुनयति समर्थः खड्गदीर्घः करोऽयं
युवतिवधघृणाया मां शरीरं च रक्ष ।। १४ ।।
गणिका—(आत्मगतम्) अणुणओ वि खु से भाएदि। (अनुनयोऽपि खल्वस्य भाययति।)
शकारः—वशञ्चशेणिए। शुट्ठु भावे भणादि। बहुण्णिअदि खु दाव बलिअजणदुल्लहे अणुणए! पेक्ख वाशु! (वसन्तसेने! सुष्ठे भावो भणति। बहु मान्यते खलु तावद् बलवज्जनदुर्लभोऽनुनयः । पश्य वासु!)
अशि क्खु तिक्खे शिहिगीवमेअए खिवेमि शीशं तव मालए हवा।
अलं तु अम्पालिशकाणि लोशिअ मडे खु जो होई ण णाम जीवइ ।। १५ ।।

(असिः खलु तीक्ष्णः शिखिग्रीवामेचकः क्षिपामि शीर्षं तव मारयेऽथवा ।
अलं त्वस्मादृशकान् रोषयित्वा मृतः खलु यो भवति न नाम जीवति ।। १५ ।।)

गणिका—अय्य! कुलउत्तजणस्स सीलपरितोसोवजीविणी गणिआ खु अहं । (आर्य। कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका खल्वहम्।)
विटः–अतः खलु प्रार्थ्यसे।
गणिका—अय्य! इमाचो जणादो किं इच्छीअदि सरीरं वा आदु अलङ्कारो वा। (आर्य! अस्माज्जनात् किमिष्यते शरीरं वाथवालङ्कारो वा।)
विटः—न पुष्पमोक्षणमर्हति लता। कृतमलङ्कारेण।
गणिका—अहं खु दाणिं अत्ताणं ण सन्दावेअं। (अहं खल्विदानीमात्मानं न सन्तापयेयम्।)
शकारः—वश़ञ्चशेणिए! अहं भट्टिपुत्ते कामइदव्वे। (वसन्तसेने अहं भर्तृपुत्रः कामयितव्यः।)
गणिका—सन्तो सि। (शन्तोऽसि।)
शकारः—शुणाहि भावे! शुणाहि। एशा वशञ्चशेणिआ मं शन्तो शि त्ति भणादि। (श्रुणु भाव! श्रुणु। एषा वसन्तसेना मां श्रान्तोऽसीति भणति।)
विटः—(आत्मगतम्) आक्रुष्टमात्मानं न जानाति मूर्खः। ध्वंस इत्युक्ते श्रान्त इत्यवगच्छति। अपि च,
अभिनयति वचांसि सर्वगात्रैः किमपि किमप्यनवेक्षितार्थमाह ।
अनुचितगतिरप्रगल्भवाक्यः पुरुषमयस्य पशोर्नवावतारः ।। १६ ।।

(प्रकाशम्)
वसन्तसेने! किमिदं मत्सन्निधौ वेशवासविरुद्धमभिहितम्। पश्य,
तरुणजनसहायश्चिन्त्यतां वेशवासो
विगणय गणिका त्वं मार्गजाता लतेव ।
वहसि हि धनहार्यं पण्यभूतं शरीरं
सममुपचर भद्रे! सुप्रियं चाप्रियं च ।। १७ ।।
गणिका—एसो मे अभिणिवेसो अभिजणेण तुलोअदि। (एष मेऽभिनिवेशोऽभिजनेन तोल्यते।)
शकारः—भावे! एशा अन्धआलपूलिदगम्भीला लच्छा दीशइ । मा खु णाए एत्थ भंशइदव्वा । आ कामदेवाणुआणप्पहुदि णअणमत्तशत्थुलं दरिद्दशत्थवाहपुत्तं चालुदत्तवडुअं कमेदि एशा । इदं तश्श गेहश्श पक्खदुवालं। (भाव! एषान्धकारपूरितगम्भीरा रथ्या दृश्यते। मा खलु ज्ञाता अत्र भ्रंशयितव्या। आ कामदेवानुयानात् प्रभृति नयनमात्रसंस्थुलं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकं कामयत एषा। इदं तस्य गृहस्य पक्षद्वारम्।)
गणिका—(सहर्षमात्मगतम्) एवं तस्स गेहं। दिट्ठिआ दाणि अमित्तजणणिरोहेण पिअजणसमीवं उवणीदम्हि। भोदु, एवं दाव करिस्सं। (अपसरति।)
(एतत् तस्य गेहम्। दिष्ट्येदानीममित्रजननिरोधेन प्रियजनसमीपमुपनीतास्मि। भवतु, एवं तावत् करिष्यामि।)
शकारः—(विलोक्य) भावे! णट्ठा णाए णट्ठा। (भाव! नष्टा ज्ञाता नष्टा।)
विटः—कथं नष्टा। अन्विष्यतामन्विष्यताम्।
शकारः—भावे! ण दिश्शदि। (भाव! न दृश्यते।)
विटः—हन्त वञ्चिताः स्मः। वसन्तसेने! उपलब्धेदानीमसि।
कामं प्रदोषतिमिरेण न दृश्यसे त्वं
सौदामनीव जलदोदरसन्निरुद्धा।
त्वां सूचयिष्यति हि वायुवशोपनीतो
गन्धश्च शब्दमुखराणि च भूषणानि ।। १८ ।।
(गणिका मालामपनीय भूषणानि चोत्सारयति)
विटः—अहो बलवांश्चायमन्धकारः। सम्प्रति हि,
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।। १९ ।।

अपि च,
सुलभशरणमाश्रयो भयानां वनगहनं तिमिरं च तुल्यमेव ।
उभयमपि हि रक्षतेऽन्धकारो जनयति यश्च भयानि यश्च भीतः ।। २० ।।

तथाहि—
आलोकविशाला मे सहसा तिमिरप्रवेशसञ्छन्ना ।
उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ।। २१ ।।

गणिका—अम्महे भित्तिपरिणामसूइदं पक्खदुवालं। असम्भोअमलिणदाए इह अहिअं अन्धआरो । ता इह एव्व चिट्ठस्सं। (स्थिता।) (अहो भित्तिपरिणामसूचितं पक्षद्वारम् । असम्भोगमलिनतयोहाधिकमन्धकारः । तद् इहैव स्थास्यामि।)
नायकः—मैत्रेय! गच्छ, चतुष्पथे बलिमुपहर मातृभ्यः।
विदूषकः—ण मे सद्धा, अण्णो गच्छदु। (न मे श्रद्धा, अन्यो गच्छतु।)
नायकः—किमर्थम्।
विदूषकः—मम बुद्धी आदंसमण्डलगआ विअ छाआ वामेसु दक्खिणा दक्खिणेसु वामा होइ। (मम बुद्धिरादर्शमण्डलगतेव च्छाया वामेषु दक्षिणा दक्षिमेषु वामा भवति।)
नायकः—मूर्ख! यथाविभवेनार्च्यताम्। भक्त्या तुष्यन्ति दैवतानि। तद्‌ गम्यताम्।
विदूषकः—एआई अहं कहं गमिस्सं। (एकाक्यहं कथं गमिष्यामि।)
नायकः—रदनिके! अनुगच्छात्रभवन्तम्।
रदनिका—जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
विदूषकः—भोदि! दीवं अहं णिइस्सं। (भवति! दीपमहं नेष्यामि।)
नायकः—यथा भवान् मन्यते तथास्तु।
विदूषकः—(दीपं गृहीत्वा) भो रदणिए! अवावृद पक्खदुवालं। (भो रदनिके! अपावृणु पक्षद्वारम्।)
रदनिका—तह।(नाट्येन द्वारमपावृणोति) (तथा।)
(गणिका वस्त्रान्तेन दीपं निर्वापयति।)
विदूषकः—अविहा! अविहा!। (अविहा! अविहा!।)
विदूषकः—अविहा! अविहा!। (अविहा! अविहा!।)
नायकः—वयस्य! किमेतत् ।
विदूषकः—अवावुदपक्खदुवारपिण्डीकिदप्पविट्ठेण राअमग्गसांकण्णेण वादेण सहसा णिग्गच्छन्तस्स मम हत्थे णिव्वावुदो दीवो। (अपावृतपक्षद्वारपिण्डीकृतप्रविष्टेन राजमार्गसङ्कीर्णेन वातेन सहसा निर्गच्छतो मम हस्ते निर्वापितो दीपः।)
नायकः—मूर्ख! धिक् त्वाम्।
विदूषकः—अप्पं खु मे अवरद्धं । रदणिए! गच्छ, चउप्पहे म पडिवालेहि । जावं अहं वि अब्भन्तरचउस्सालादो दीवं गह्णिअ आअच्छामि । (निष्क्रान्तः।) (अल्पं खलु मेऽवराद्धम्। रदनिके! गच्छ, चतुष्पथे मां प्रतिपालय। यावदहमप्यभ्यन्तरचतुश्शालाद् दीपं गृहीत्वाऽऽगच्छामि ।)
चेटी—अय्य! तह। (परिक्रामति।) (आर्य! तथा।)
गणिका—दिट्ठिआ मम पवेसणिमित्तं अवावुदं पक्खदुवालं। अलं चारित्तभएण। जाव पविसामि। (अभ्यन्तरं प्रविश्य तिष्ठति।) (दिष्ट्या मम प्रवेशनिमित्तमपावृतं पक्षद्वारम् । अलं चारित्रभयेन । यावत् प्रविशामि।)
विट—(विलोक्यात्मगतम्) भवनान्निर्गत्य काचिदिथमागच्छति। भवतु, अनया वराकं वञ्चयामि। (प्रकाशम्) सुरभिस्नानधुपानुबिद्ध इव गन्धः।
शकारः—आम भावे! शुणामि गंधं शवणेहि। अन्धआलपूलिदेहिं णाशापुडेहिं शुट्ठु ण पेक्खामि। (आम भाव! श्रृणोमि गन्धं श्रवणाभ्याम्। अन्धकारपूरिताभ्यां नासापुटाभ्यां सुष्ठु न पश्यामि।)
विटः—तिष्ठ तिष्ठ। क्व यास्यसि। (चेटीं गृह्णाति।)
(चेटी सभयं भूमौ पतिता।)
शकारः—गण्ह भावे! गण्ह। (गृहाण भाव! गृहाण।)
विटः—
एषा हि वयसो दर्पात् कुलपुत्रावमानिनी ।
केशेषु कुसुमन्यासः सेवितव्येषु धर्षिता ।। २२ ।।

शकारः—भावे। किं गहीदा (भाव! किं गृहीता।)
विटः—अथ किम् । एषा गन्धानुसारेण गृहीता।
शकारः—दाशीए पुत्तीए शीशं दाव छिन्दिअ पच्चा मालइश्शं। (दास्या पुत्र्याः शीर्यं तावच्छित्वा पश्चान्मारयिष्यामि।)
विटः—गृह्यतां तावत्।
शकारः—(चेटी गृहीत्वा)
एसा हि वाशू शिलशिग्गहीदा केशेषु बालेसु शिलोलुहेशु।
कूजादि कन्दाहि लवाहि वात्तं महेश्शलं शङ्कलमिश्शलं वा ।। २३ ।।

(एषा हि वासूः शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु।
कूज क्रन्द लप वार्तं महेश्वरं शङ्करमीश्वरं वा ।। २३।।)

(चेटीं बलादाकर्षति।)
चेटी—किं अय्यमिस्सेहि ववसिदं। (किमार्यमिश्रैर्व्यवसितम्।)
शकारः—भावे! जाणामि शलयोगेण ण होइ वशञ्चशेणिआ । (भाव! जानामि स्वरयोगेन न भवति वसन्तसेना।)
विटः—न मोक्तव्या। वसन्तसेनैवैषा।
एषा रङ्गप्रवेशेन कलानां चैव शिक्षया।
स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ।। २४ ।।

विदूषकः—(दीपं गृहीत्वा) राअमग्गसङ्किण्णेण सीअसुउमारेण वादेण पदे पदे विक्खोहिअमाणजणिअतरङ्गतेल्लपुण्णभाअणं दीवं कहं वि रक्खिअ गण्हिअ आअदो म्हि। (राजमार्गसङ्कीर्णेन शीतसुकुमारेण वातेन पदे पदे विक्षोभ्यमाणजनिततरङ्गतेलपूर्णभाजनं दीपं कथमपि रक्षित्वा गृहीत्वागतोऽस्मि।)
चेटी—(शकारं पादेन ताडयन्ती रुदित्वा) अय्य! मेत्तेअ! अअं परिभवो आदु अवलेवो। (आर्य! मैत्रेय! अयं परिभवोऽथवावलेपः।)
विदूषकः—मा दाव मा दाव! (सखड्गं विटं शकारं च दृष्ट्वा शङ्कितस्तिष्ठति।) मा तावद्, मा तावत्।)
विटः—अये आर्यचारुदत्तस्य वयस्यो मैत्रेयः खल्वयम्। नेयमपि वसन्तसेना। महाब्राह्मण! अन्यशङ्कया खल्विदमस्माभिरनुष्ठितं न दर्पात्। पश्यतु भवान्,
अकामा ह्रियतेऽस्माभिः काचित् स्वाधीनयौवना ।
सा भ्रष्टा शङ्क्या तस्याः प्राप्तेयं शीलवञ्चना ।। २५ ।।

शकारः—अविहा दलिद्दशत्थवाहपुत्तशश चालुदत्तबडुअश्श चेडी खु इअं, ण होइ वशञ्चशेणिआ । शाहु, वशञ्चशेणिए! शाहु! अन्धआलं कलिअ अन्तला वञ्चिदे भावे, अहके दावे वञ्चिदे कूडकवडशीलए। शौवहा दुक्खडे कडे। (अविहा दरिद्रसार्थवाहपुत्रस्य चारुदत्तबटुकस्य वेटी खल्वियं, न भवति वसन्तसेना। साधु वसन्तसेने! साधु। अन्धकारं कृत्वाऽन्तरा वञ्चितो भावः । अहं तावत् वञ्चितः कूटकपटशीलया। सर्वथा दुष्करं कृतम्।)
विदूषकः—मा दाव। ण जुत्तमिदं। (मा तावत्। न युक्तमिदम्।)
विटः—भो महाब्राह्मण! अयमनुनयसर्वस्वमञ्जलिः।
विदूषकः—भोदु,भोदु! अणवरद्धो भवं। अणुणीदो अहं एव्व एत्थ अवरद्धो । (भवतु, भवतु। अनपराद्धो भवान्। अनुनीतोऽहमेवात्रापराद्धः।)
शकारः—भावे! दिढं खु भाआशि तं दलिद्दशत्थवाहपुत्तं चालुदत्तवडुअं। (भाव! दृढं खलु बिभेषि तं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकम्।)
विटः—सत्यं भीतोऽस्मि।
शकारः—किश्श भावे! किश्श। (कस्मात् भाव! कस्मात्।)
विटः—तस्य गुणेभ्यः! पश्यतु भवान्,
स मद्विधानां प्रणयैः कृशीकृतो न तस्य कश्चिद् विभवैरमण्डितः।
निदाघसंशुष्क इव ह्रदो महान् नृणां तु तृष्णामपनीय शुष्यति ।। २६ ।।

महाब्राह्मण! अयमर्थः सार्थवाहपुत्रस्य न कथयितव्यः ।
(निष्क्रान्तो विटः।)

शकारः—मालिश! बहुअ! मालिश! भणेहि तं दलिद्दशत्थवाहपुत्तं चालुदत्तवडुअं मम वअणेण–लाअशाले शण्ठाणे शवट्टेण शीशेण अनुवन्दिअ भणादिणाडअइत्थिआ वशञ्चशेणिआ णाम गणिआदारिआ शुवण्णवण्णा दुवेहि अम्मेहि बलक्कारेण णीअमाणा महन्तेण शुवण्णलङ्कारेण तव गेहं पविट्ठा। शा शुवे णिय्याअइदव्वा। मा दाव तव अ मम अ दालुणो खोहो होदि त्ति। वडुअ! मालिश! इदं च भणाहि-या दाशीएपुत्त! पारावदगलप्पविट्ठं विअ मूलकन्दं शीशकवालं मडमडाइश्शं। मा खु कवाडशम्पुडप्पुडप्पविट्ठं विअ पक्ककवित्थं शीशं दे चुण्णचुण्णं मडमडाइश्शं ति। (मारिष! बटुक! मारिष! भण तं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकं मम वचनेन-राजश्यालः संस्थानकः सपट्टन शीर्षेणानुवन्द्य भणति-नाटकस्त्री वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्यामावाभ्यां बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण तव गेहं प्रविष्टा। सा श्वो निर्यातयितव्या। मा तावत् तव च मम च दारुणः क्षोभो भवतीति। बटुक! मारिष! इदं च भण–मा दास्याःपुत्र! पारावतगलप्रविष्टामिव मूलकन्दं शीर्षकपालं मडमडायिष्यामि। मा खलु कपाटसम्पुटप्रविष्टमिव पक्‌वकपित्थं शीर्षं ते चूर्णचूर्ण मडमडायिष्यामि इति।)
विदूषकः—भो! तह। (शकारं दीपेनोद्वेजयति।) (भो तथा।)
शकारः—(सर्वतो विलोक्य) कहिं भावे। गदे भावे। अविहा भावे!। (क्व भावः। गतो भावः । अविहा भाव!।)
(निष्क्रन्तः शकारः।)

विदूषकः—किदं देवक्ययं ति तत्तहोदो णिवेदइस्सामो । भोदि! अवणीअदुदे हिअअमण्णू । अअं बुत्तन्तो अब्भन्तरं ण पेसिदव्वो । (कृतं देवकार्यमिति तत्रभवतो निवेदयिष्यावः । भवति ! अपनीयतां ते हृदयमन्युः । अयं वृत्तान्तोऽभ्यन्तरं न प्रेषयितव्यः।)
चेटी–अय्य! रदणिआ खु अहं। (आर्य! रदनिका खल्वहम्।)
विदूषकः–एहि गच्छामो! (एहि गच्छावः।)
(उभौ परिक्रामतः।)

नायकः—भद्रे! कृतं देवकार्यम्।
गणिका—(आत्मगतम्) परिजणत्ति मं सद्दावेदि। भोदु, रक्खिदम्हि। (परिजन इति मां शब्दापयति । भवतु, रक्षितास्मि।)
नायकः—मारुताभिलाषी प्रदोषः । तद् गृह्यतां प्रावारकम्।
गणिका—(प्रावारकम् गृहीत्वा सहर्षमात्मगतम्) अणुदासीणं जोव्वणं मे पडवासगन्धी सूएदि। (अनुदासीनं यौवनमस्य पटवासगन्धः सूचयति।)
नायकः—रदनिके! प्रवेश्यतामभ्यन्तरचतुःशालम् ।
गणिका—(आत्मगतम्) अभाइणी अहं अब्भन्तरप्पवेसस्स। (अभागिन्यहमभ्यन्तरप्रवेशस्य।)
नायकः—किमिदानीं न प्रविशसि।
गणिका—(आत्मगतम्) इदाणिं अहं किं भणिसस्सं। (इदानीमहं किं भणिष्यामि।)
नायकः—रदनिके! किं विलम्बसे।
(रदनिकाविदूषकावुपसृत्य)

चेटी—भट्टिदारअ! इअं म्हि। (भर्तृदारक! इयमस्मि।)
नायकः—इयमिदानीं का।
अविज्ञातप्रयुक्तेन धर्षिता मम वाससा।
संवृता शरदभ्रेण चन्द्रलेखेव शोभते ।। २७ ।।

गणिका—(आत्मगतम्) दीवालोअसूइदरूवो सो एव्व दाणि एसो जस्स किदे अहं णिस्सासमत्तलक्खिदं सरीरं उव्वहामि। (दीपालोकसूचितरूपः स एवेदानीमेषः, यस्य कृतेऽहं निःश्वासमात्ररक्षितं शरीरमुद्वहामि।)
विदूषकः—भो चारुदत्त! राअसालो सण्ठाणो सवट्टेण सीसेण अणुवन्दिअ विण्णवेदि-णाडअइत्थिआ वसन्तसेणिआ णाम गणिआदारिआ अम्हेदि बलक्कारेण णीअमाणा महन्तेण सुवण्णालङ्कारेण तुम्हाणं गेहं पविट्ठा। सा सुवे णिय्याअइदव्वत्ति। (भोः चारुदत्त! राजश्यालः संस्थानः सपट्टेन शीर्षेणानुवन्द्य विज्ञापयतिनाटकस्त्री वसन्तसेना नाम गणिकादारिकास्माभिर्बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण युष्माकं गेहं प्रविष्टा। सा श्वो निर्यातयितव्येति।)
गणिका—(आत्मगतम्) हं बलक्कारेण णीअमाणत्ति णं भणादि। भोदु, अअं पत्तकालो। (प्रकाशम्) अय्य! सरणागदम्हि। (अहं बलात्कारेण नीयमानेति ननु भणति। भवतु, अयं प्राप्तकालः। आर्य! शरणागतास्मि।)
नायकः—न भेतव्यं, न भेतव्यम् । किं वसन्तसेनैवा ।
विदूषकः—अविहा वसन्तसेणा। (अपवार्य) भो चारुदत्त! वसन्तसेणा खु इअं, जा भवदा कामदेवाणुआणप्पहुदि णअणमत्तसंत्थुदा सण्णिहिदमणोभवेण हिअएण उव्वहीअदि! ता पेक्खदु इअं । (अविहा वसन्तसेना । भोः चारुदत्त! वसन्तसेना खल्वियं, या भवता कामदेवानुयानप्रभृति नयनमात्रसंस्तुता सन्निहितमनोभवेन हृदयेनोदुह्यते । तत् पश्यत्विमाम्।)
नायकः—वयस्य! पश्याम्येनां,
यत्र मे पतितः कामः क्षीणे विभवसञ्चये।
रोषः कुपुरुषस्येव स्वाङ्गेष्वेवावसीदति ।। २८ ।।

गणिका–अदिण्णभूमिप्पवेसपघरिसणेण अवरद्धा अहं अय्यं सीसेण पसादेमि।
(अदत्तभूमिप्रवेशप्रघर्षणेनापराद्धाहमार्यं शीर्षेण प्रसादयामि। )
नायकः—यद्येवमहमपि तावदविज्ञातप्रयुक्तेन प्रेष्यसमुदाचारेण सापराधो भवतीं प्रसादयामि।
विदूषकः–भो! विवदन्ता इव सअडिअं दुव्विणीदबलीवद्दा अण्णोण्णं सङ्किलेसन्ति । अहं दाणि कं पसादेमि। भोदु, दाणि रदणिअं पसादेमि। रदणिए; पसीददु, पसीददु होदीं। (भोः! विवदन्ताविव शकटिकां दुर्विनीतबलीवर्दावन्योन्यं संक्लेशयतः। अहमिदानीं कं प्रसादयामि। भवतु इदानीं रदनिकां प्रसादयामि। रदनिके! प्रसीदतु भवती।)
नायकः–भवति! परवानस्मि। किमनुतिष्ठति स्नेहः।
गणिका—(आत्मगतम्) महुरं खु इच्छिदव्वं। अदक्खिणं खु पढमदंसणे जइच्छागदाए इह वसिदुं। ता एवं करिस्सं। प्रकाशम्) जइ मे अय्यो पसण्णो, अअं मे अलंकारो इह एव्व चिट्ठदु। अलङ्कारणिमित्तं पावा मं अणुसरन्ति। अहं पि अय्येण रक्खिदा गेहं गन्तुमिच्छामि। (मधुरं खल्वेष्टव्यम्। अदक्षिणं खलु प्रथमदर्शने यदृच्छागतयेह वस्तुम्। तदेवं करिष्यामि। यदि मे आर्यः प्रसन्नः अयं मेऽलङ्कार इहैव तिष्ठतु। अलङ्कारनिमित्तं पापा मामनुसरन्ति। अहमप्यार्येण रक्षिता गेहं गन्तुमिच्छामि।)
नायकः—अन्वर्थमुपदिशति। मैत्रेय! गृह्यताम्।
विदूषकः—ण मे सद्धा। (न मे श्रद्धा।)
नायकः—मूर्ख! गृह्यताम्।
विदूषकः—जं भवं आणवेदि। आणेदु भोदी। (यद् भवानाज्ञापयति। आनयतु भवती।)
(गणिका विमुच्यालङ्कारं प्रयच्छति।)

विदूषकः—(गृहीत्वा) रदणिए! गह्ण एवं सुवण्णालङ्कारं तुवं । सट्टीए सत्तमीए अ धारेहि । अहं अठ्ठमीए अणद्धाए धारइस्सं। (रदनिके! गृहाणैतं सुवर्णालङ्कारं त्वम्। षष्ठ्यां सप्तम्यां च धारय। अहमष्टम्यामनध्याये धारयिष्यामि।)
चेटी—(विहस्य) सत्थं वक्खाणंअन्तस्स भट्टिपुत्तस्स तदाणिं अवसरो होदि। आणेदु अय्यो। (गृहीत्वा निष्क्रान्ता।) (शास्त्रं व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति। आनयत्वार्यः।)
नायकः—कोऽत्र भोः! दौपिका तावत्।
विदूषकः—भोः! दीविआ गणिका बिअ णिस्सिणेहा संवुत्ता। (भोः! दीपिका गणिकेव निःस्नेहा संवृत्ता।)
नायकः—कृतं दीपिकया। (विलोक्य) उदितो भगवान् सर्वजनसामान्यप्रदीपश्चन्द्रः। अतः खलु,
उदयति हि शशाङ्कः क्लिन्नखर्जूरपाण्डु-
र्युवतिजनसहायो राजमार्गप्रदीपः ।
तिमिरनिचयमध्ये रश्मयो यस्य गौरा
हृतजल इव पङ्के क्षीरधाराः पतन्ति ।। २९ ।।
भवति ! राजमार्गे निष्कमणः क्रियताम् । सखे! अनुगच्छात्रभवतीम्।
विदूषकः—जं भव आणवेदि। एदु एदु भोदी। (यद् भवानाज्ञापयति। एत्वेतु भवती।)

(निष्क्रान्ताः सर्वे।)
इति प्रथमोऽङ्कः ।


द्वितीयोऽङ्कः

(ततः प्रविशति गणिका चेटी च।)

गणिका—तदो तदो।[ततस्ततः।]
चेटी—अम्महे ण किञ्चि मए भणिदं । किं तदो तदो त्ति। [अम्महे न किञ्चिन्मया भणितम् । किं ततस्तत इति।]
गणिका—हञ्जे! किं मए मन्तिदं।[हञ्जे! किं मया मन्त्रितम्।]
चेटी—अज्जुए! सिणेहो पुच्छदि, ण पुरोभाइदा किं चिन्तीअदि। [अज्जुके! स्नेहः पृच्छति, न पुरोभागिता। किं चिन्त्यते।]
गणिका—हञ्जे!तुमं दाव किं ति तक्केसि।[हञ्जे! त्वं तावत् किमिति तर्कयसि।]
चेटी—अप्पओअणदाए गणिआभावस्स अज्जुआ कं पि कामेदि त्ति तक्केमि । [अप्रयोजनतया गणिकाभावस्याज्जुका किमपि कामयत इति तर्कयामि।]
गणिका—सुट्ठु तुए किदं। अविञ्चिदा दे दिट्ठी। ईदिसवण्णय्येव। [सुष्ठु त्वया कृतम्, अवञ्चिता ते दृष्टिः। ईदृशवर्णैव!]
चेटी—अणलंकिदं पि अज्जुअं मण्डिदं विअ पेक्खामि। कामो हि भअवं अणवगीदो ऊसुवो तरुणजणस्स। [अनलङ्कृतामप्यज्जुकां मण्डितामिव पश्यामि। कामो हि भगवाननवगीत उत्सवस्तरुणजनस्य।]
गणिका—हदासे! उक्कण्ठिदव्वे का दे रदी। [हताशे! उत्कण्ठितव्ये का ते रतिः।]
चेटी—अज्जुए! इच्छामि पुच्छिदुं बहुमाणो विअ रमणीओ कोच्चि राअकुमारो। [अज्जुके! इच्छामि प्रष्टुं बहुमान इव रमणीयः कश्चिद् राजकुमारः।]
गणिका—रमिदुं इच्छामि, ण सेविदुं। [रन्तुमिच्छामि, न सेवितुम्।]
चेटी—किण्णु खु विज्जाविसेसरमणीओ कोच्चि ब्रम्हणदारओ। [किन्नु खलु विद्याविशेषरमणीयः कश्चिद् ब्राह्मणदारकः।]
गणिका—अत्थि अदिबहुमदो विस्सम्भो। पूअणीओ खु सो जणो। [अस्त्यतिबहुमतो विश्रम्भः । पूजनीयः खलु स जनः।]
चेटी—किण्णु हु वणिजदारओ कोच्चि आगन्तुओ। [किन्नु खलु वणिग्दारकः कश्चिदागन्तुकः।]
गणिका—उन्मत्तिए! आसाच्छेदं उक्कण्ठन्ता का सहेदि। [उन्मत्तिके! आशाच्छेदमुत्कण्ठमाना का सहते।]
चेटी—किं ण सक्कं सोदुं। को अम्हाणं मणोरहाउत्तो। [किं न शक्यं श्रोतुम्। कोऽस्माकं मनोरथावुत्तः!]
गणिका—किं तुवं कामदेवाणुयाणे ण आअदा सि। [किं त्वं कामदेवानुयाने नागतासि।]
चेटी—णं आअदम्हि। [नन्वागतास्मि।]
गणिका—केण उदासीणं मन्तेसि। [केनोदासीनं मन्त्रयसे।]
चेटी—भणादु,भणादु,अज्जुआ,भणादु। [भणतु, भणत्वज्जुका, भणतु।]
गणिका—हञ्जे! सुणाहि दाव। अत्थि सत्थवाहपुत्तो चालुदत्तो णाम। [हञ्जे! श्रुणु तावत् अस्ति सार्थवाहपुत्रश्चारुदत्तो नाम।]
चेटी—जेण सरणागदा तुवं रक्खिदा। [येन शरणागता त्वं रक्षिता।]
गणिका—सो एव्व। [स एव।]
चेटी—हद्धि, दरिद्दो क्खु सो। [हा धिक्, दरिद्रः खलु सः]
गणिका—अदो क्खु कामीअदि। अदिदरिद्दपुरुससत्ता गणिआ अवअणीआ होइ। [अतः खलु काम्यते। अतिदरिद्रपुरुषसक्ता गणिका अवचनीया भवति।]
चेटी—अज्जुए! उद्धूदपुफ्फं सहआरं महुअरा उवासन्ति। [अज्जुके! उद्धृतपुष्पं सहकारं मधुकारा उपासते।]
गणिका—हञ्जे! एवं, उवासन्ति। दे महुअरा त्ति पुच्छीअन्ति। [हञ्जे! एवम्, उपासते। ते मधुकरा इति पृच्छ्यन्ते।]
चेटी—किं, विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं त्ति जइ ण आअच्छे! [किं, विभवमन्दतया वेशवासप्रसङ्गकातरो दुःखमिति यदि नागच्छेत्।]
गणिका—णं अहं तं कामेमि। [नन्वहं तं कामये।]
चेटी—जइ एत्तओ बहुमाणो, किं णाभिसरीआदि। [यद्येतावान् बहुमानः, किं नाभिस्रियते।]
गणिका—ण हु ण गच्छामि। किन्तु सहसा अभिसरिदो पच्चुअआरदुल्लभदाए पुणो मे दुल्लभो भवे त्ति विलम्बेमि। [न खलु न गच्छामि। किन्तु सहसाभिसृतः प्रत्युपकारदुर्लभतया पुनर्मे दुर्लभो भवेदिति विलम्बे।]
चेटी—हं किं एतण्णिमित्तं तहि एव्व सो अलङ्कारो ठाविदो। [हं, किमेतन्निमित्तं तत्रैव सोऽलङ्कारः स्थापितः।]
गणिका—ईदिसं एव्व। [ईदृशमेव।]
(ततः प्रविशत्यपटीक्षेपेण संवाहकः।)

संवाहकः—अय्ये! सरणागदो म्हि। [आर्ये! शरणागतोऽस्मि।]
गणिका—अलं अय्यस्स सम्भमेण। [अलमार्यस्य सम्भ्रमेण।]
चेटी—हं क दाणिं एसो। [हं क इदानीमेषः।]
गणिका—उम्मत्तिए! किं सरणाअदो पुच्छीअदि। [उन्मत्तिके! किं शरणागतः पृच्छ्यते।]
चेटी—अवि णाम साहसिओ भवे। [अपि नाम साहसिको भवेत्।]
गणिका—उम्मत्तिए ! गुणवन्तो रक्खिदव्वो होदि। [उन्मत्तिके! गुणवान् रक्षितव्यो भवति।]
संवाहकः—अय्ये! णं भएण उवआरो विस्सरिदो, ण परिभवेण। पेक्खदु अय्या, भीदाहवा पधरिसिदाहवा आवण्णाहवा सुलभचारित्तवञ्चणाहवा अवराहेदुं समत्था होन्ति। [आर्ये! ननु भयेनोपचारो विस्मृतः, न परिभवेन, पश्यत्वार्या, भीता अथवा प्रधर्षितां अथवा आपन्ना अथवा सुलभाचारित्रवञ्चना अपराधयितुं समर्था भवन्ति।]
गणिका—भोदु, भोदु। विस्सत्थो भोदु अय्यो। गणिआ क्खु अहं।[भवतु, भवतु । विश्वस्तो भवत्वार्यः । गणिका खल्वहम्।]
संवाहकः—अभिजणेण, ण सीलेण। [अभिजनेन, न शीलेन।]
गणिका—ह़ञ्जे! एवं विअ। [हञ्जे! एवमिव।]
चेटी—अज्जुआ अय्यं पुच्छदि, कुदो अय्यस्स भअं ति। [अज्जुका आर्य पृच्छति, कुत आर्यस्य भयमिति।]
संवाहकः—अय्ये! धणिआदो। [आर्ये! धनिकात्।]
गणिका—जइ एवं, आसणं देदु अय्यस्स। [यद्येवम्, आसनं दीयतामार्यस्य।]
चेटी—तह। (आसनं ददाति।) [तथा।]
गणिका—उवविसदु अय्य। [उपविशत्वार्यः।]
संवाहकः—(स्वागतम्) पूआविसेसेण जाणामि कय्यं त्ति। (उपविशति।) [पूजाविशेषेण जानामि कार्यमिति।]
गणिका—हञ्जे! एवं विअ। [हञ्जे। एवमिव।]
चेटी—अज्जुए! तह। अय्य! राअमग्गे विस्सत्थसम्पादं अय्यं कादुं इच्छदि अज्जुआ । कस्स किं कत्तव्वं। [अज्जुके! तथा। आर्य! राजमार्गविश्वस्तसम्पातमार्यं कर्तुमिच्छत्यज्जुका । कस्य किं कर्तव्यम्।]
संवाहकः—सुणादु अय्या। [श्रुणोत्वार्या।]
गणिका—अवहिदम्हि। [अवहितास्मि।]
संवाहकः—पाडलिपुत्तं मे जम्मभूमी। पकिदीए वणिजओ अहं। तदो भाअधेअ परिवुत्तवाए दसाए संवाहअवुत्तिं उवजीवामो। [पाटलिपुत्रं मे जन्मभूमिः। प्रकृत्या वणिगहम्। ततो भागधेयपरिवृत्ततया दशया संवाहकवृत्तिमुपजीवामि।]
गणिका—संवाहओ अय्यो। सुउमारा कला सिक्खिदा अय्येण। [संवाहक आर्यः सुकुमारा कला शिक्षितार्येण।]
संवाहकः–कलेति सिक्खिदा। आजीविअं दाणिं संवृत्तं। [कलेति शिक्षिता। अजीविकेदानीं संवृत्ता।]
गणिका—णिव्वेदसूअअं विअ वअणं अय्यस्स। तदो तदो। [निर्वेदसूचकमिव वचनमार्यस्य। ततस्ततः।]
संवाहकः—अज्जुए! सो दाणि अहं आअन्तुआणं सुणिअ पुरुसविसेसको दूहलेण आअदो म्हि इमं उज्जअणि। [अज्जुके! स इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोऽस्मी मामुज्जयनीम्।]
गणिका—तदो तदो। [ततस्ततः।]
संवाहकः—तदो इह आअदमत्त एव्व कोच्चि सत्थवाहपुत्तो समासादिदो। [तत इहागतमात्र एव कश्चित् सार्थवाहपुत्रः समासादितः।]
गणिका—केरिसो। [कीदृशः।]
संवाहकः—आइदिमन्तो अविब्भसमन्तो अणुच्छित्तो ललिदो ललिददाए अविम्हओं चउरो महुरो दक्खो सदक्खिञ्ञो अभिमदो आइदो तुट्ठो होदि। दय्य ण विकत्थेदि। अप्पं वि सुमरदि, बहुअं पि अवइदं विसुमरदि। अज्जुए! किं बहुणा,तस्स कुलपुत्तस्स गुणाणं चउब्भाअं पि सुदिग्घेण वि गिम्हदिअहेण वण्णिदुं ण सक्कं। किं बहुणा, दक्खिञ्ञदाए परकेरअं विअ अत्तणो सरीरं धारेदि। [आकृतिमान् अविभ्रन् अनुत्सिक्तो ललितो ललिततयाविस्मयश्चतुरो मधुरो दक्षः सदाक्षिण्योऽभिमत आचितस्तुष्टो भवति। दत्त्वा न विकत्थते। अल्पमपि स्मरति,बहुकमप्यपकृतं विस्मरति। अज्जुके। किं बहुना, तस्य कुलपुत्रस्य गुणानां चतुर्भागमपि सुदीर्घेणापि ग्रष्मदिवसेन वर्णयितुं न शक्यम्! किं बहुना, दक्षिणतया परकीयमिवात्मनः शरीरं धारयति।]
गणिका—(अपवार्य) हज्जे! को णु क्खु सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि। [हञ्जे! को नु खलु स आर्यचारुदत्तस्य गुणानामनुकरोति।]
चेटी—मम वि कोदूहलं सोदुं। को णु खु उज्जअणि अत्तणो गुणेहिं मण्डेदि। [ममापि कौतुहलं श्रोतुम्! को नु खलूज्जयनीमात्मनो गुणैर्मण्डयति।]
गणिका—तदो तदो। [ततस्ततः।]
संवाहकः—तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकलत्तो उवजीविओ संवुत्तो। [ततस्ततस्य गुणविक्रीतशरीरो विस्मृतकलत्र उपजीवी संवृत्तः।]
गणिका—किं सो दरिद्दो। [किं स दरिद्रः।]
संवाहकः—कहं अणाचक्खिदे अय्या जाणादि। [कथमनाख्यात आर्या जानाति।]
गणिका—एअस्सिं दुल्लहो गुणविभवो त्ति । तदो तदो । [एकस्मिन् दुर्लभो गुणविभव इति। ततस्ततः।]
चेटी—को णाम सो अय्यो। [को ना स आर्यः।]
संवाहकः—अय्यचारुदत्तो णाम। [आर्यचारुदत्तो नाम।]
गणिका—जुज्जइ। तदो तदो। [युज्यते। ततस्ततः।]
संवाहकः—तदो सो विभवमन्ददाए अस्साहीणपरिजणो विसज्जिअकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुले पडिवसिदि । अहं पि तेण अय्येण अब्भणुञ्ञादो—अण्णं उवचिट्ठदु त्ति । कहं अण्णं एरिस मणुस्सरअणं लभैअं त्ति, कहं च तस्स कोमलललिदमहुरसरीरप्परिसकिदत्थं मे हत्थं साहारणसरीरसम्मद्देण सोअणीअं करिस्सं त्ति जादणिव्वेदो बद्धसरीरक्खणत्थं जूदोवजीवी संवृत्तो। [ततः स विभवमन्दतया स्वाधीनपरिजनो विसर्जितकुटुम्बमरणश्चारित्रमात्रावशेषः सार्थवाहकुले प्रतिवसति। अहमपि तेनार्येणाभ्यनुज्ञातोऽन्यमुपतिष्ठितामिति । कथमन्यमीदृशं मनुष्यरत्नं लभेयेति, कथं च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थं मे हस्तं साधारणशरीरसम्मर्देन शोचनीयं करिष्यामीति जातनिर्वेदो दग्धशरीररक्षणार्थं द्यूतोपजीवी संवृत्तः ।]
(गणिका संहर्षबाष्पं चेटीमवलोकयति।)

चेटी—तदो तदो। [ततस्ततः ।]
संवाहकः—तदो बहूणि दिणाणि मए पराइदेण पुरुसेण कदाइ अहं पि दहसु सुवण्णेसु पराइदो म्हि। [ततो बहूनि दिनानि मया पराजितेन पुरुषेण कदाचिदहमपि दशसु सुवर्णेषु पराजितोऽस्मि।]
गणिका—तदो तदो। [ततस्ततः।]
संवाहकः—तदो अज्ज वेसमग्गे जइच्छोवणदो समासादिदो म्हि। तस्स भएण इह पविट्ठो। एवं अय्या जाणादु। [ततोऽद्य वेशमार्गे यदृच्छोपनतः समासादितोऽस्मि । तस्य भयेनेह प्रविष्टः। एवमार्या जानातु।]
गणिका—(आत्मगतम्) अहो अच्चाहिदं एवं खु मण्णे वासपादपविणासेण पक्खिणो आहिण्डन्ति त्ति। (प्रकाशम्) एवं गदे अत्तकेरओ अय्यो हला! एहि तं जणं विसज्जेहि। [अहो अत्याहितम्। एवं खलु मन्ये वासपादपविनाशेन पक्षिण आहिण्डन्त इति। एवं गत आत्मीय आर्यः । हला! एहं तं जनं विसर्जय।]
चेटी—तह। (निष्क्रान्ता) [तथा।]
गणिका—ण खु अय्येण अत्थणिमित्ता चिन्ता कादव्वा। अय्यचारुदत्तो एव देदि त्ति अय्यो जाणादु। [न खल्वार्येणार्थनिमित्ता चिन्ता कर्तव्या। आर्यचारुदत्त एव ददातीत्यार्यो जानातु।]
चेटी—अज्जुए! विसज्जिदो सो जणो, परितुट्ठो गदो अ। [अज्जुके! विसर्जितः स जनः, परितुष्टो गतश्च।]
संवाहकः—अणुग्गहिदो म्हि। [अनुगृहीतोऽस्मि।]
गणिका—गच्छदु अय्यो सुहिज्जणदंसणेण पीदिं णिव्वत्तेदुं। [गच्छत्वार्य सुहृज्जनदर्शनेन प्रीतिं निर्वर्तयितुम्।]
संवाहकः—अज्ज एव कदाइ णिव्वेदेण पव्वजेअं । जइ इअं परिअणे सङ्कन्ता कला भवे, तदो अय्याए अणुग्गहिदो भवेअं। [अद्यैव कदाचिन्निर्वेदेन प्रव्रजेयम्। यदीयं परिजने सङ्क्रान्ता कला भवेत्, तत आर्ययानुगृहीतो भवेयम्।]
गणिका—जस्स किदे इश्रं कला सिक्खिदा, सो एव्व अय्येण उवचिट्ठिदव्वो भविस्सदि। [यस्य कृते इयं कला शिक्षिता, स एवार्येणोपस्थातव्यो भविष्यति।]
संवाहकः—(स्वगतम्) णिउणं खु पच्चाचक्खिदो म्हि। को हि णाम अप्पणा किदं पच्चुअआरेण विणासेदि। (प्रकाशम्) अय्ये ! गच्छामि दाव अहं। [निपुणं खलु प्रत्याख्यातोऽस्मि । को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति। आर्ये! गच्छामि तावदहम्।]
गणिका—गच्छदु अय्यो पुणोदंसणाअ। [गच्छत्वार्यः पुनर्दर्शनाय।]
संवाहकः—अय्ये! तह। (निष्क्रान्तः।) [आर्ये! तथा ।]
गणिका—हं सद्दो विअ। [हं शब्द इव।]
(प्रविश्य)

चेटी—विच्छित्तिए! विच्छित्तिए! कहिं कहिं अज्जुआ। [विच्छित्तिके! विच्छित्तिके! कुत्र कुत्राज्जुका।]
गणिका—हञ्जे! किं एदं। [हञ्जे किमेतत्।]
चेटः—हं विप्पलद्धो म्हि, वादाअणणिक्खामिद पुव्वकाआए ओणमिअपओहराए कण्णऊरस्स परिष्फन्दो अज्जुआए जेण ण दिट्ठो। [हं, विप्रलब्धोऽस्मि, वातायननिष्क्रामितपूर्वकाययाऽवनमितपयोधरया कर्णपूरस्य परिस्पन्दोऽज्जुकया येन न दृष्टः।]
गणिका—लहुजणस्स सुलहो विम्हओ। किं दे उस्सेअस्स कारणम्।[लघुजनस्य सुलभो विस्मयः। किं ते उत्सेकस्य कारणम्।]
चेटः—सुणादु अज्जुआ एसो उग्गवेगेण ओगाहणणिव्वत्तिदेण पस्सुदमदगन्धं राअमग्गं करन्तेण मङ्गलहत्थिणा भद्दकवोदएण अणोअपुरुससङ्कुलेसु राअमग्गेसु उत्तरिअपडविराअदाए अहिअलक्खणीओ लोच्चि प्पव्वइदो समासादिदो। [श्रृणोत्वज्जुका एष उग्रवेगेनावगाहनत्रिवर्तितेन प्रस्रुतमदगन्धं राजमार्गं कुर्वता मङ्गलहस्तिना भद्रकपोतकेनानेकपुरुषसङ्कुलेषु राजमार्गेषुत्तरीयपटविरागतयाऽधिकलक्षणीयः कश्चित् प्रव्रजितः समासादितः।]
गणिका—हं, तदो तदो। [हं, ततस्ततः।]
चेटः—तदो मए हत्थिहत्थामद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थिहत्थपडिदचरणो तदो हा हा विपाडिदो हा हा हदो त्ति जणवादे संवृत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थिं करिअ मोइदो सो परिव्वाजो। [ततो मया हस्तिहस्ता मर्दताड्यमानो दन्तान्तरपरिवर्तमानो हस्तिहस्तपतितचरणः ततो हा हा विपाटितो, हा हा हत इति जनवादे संवृत्ते ततो दत्तकरप्रहारेण परिवर्तितं हस्तिनं कृत्वा मोचितः स परिव्राट्।]
गणिका—पिअं मे। तदो तदो। [प्रियं मे! ततस्ततः।]
चेटः—तदो सव्वो जणो भणादि–अहो चेडस्स कम्म त्ति। ण उण कोच्चि किं पि इच्छ दाउं। तदो अज्जुए ! केण वि कुलवुत्तेण उइदाणि आभरणट्ठाणाणि विलोइअ अङ्गुट्ठेणाणि अ वि उण अलद्धं पेक्खिअ दव्वं उवालभिअ दिग्धं णिस्ससिअ एत्तओ मे विभवो त्ति करिअ परिजणहत्थे अअं पावरओ पेसिदो। [ततः सर्वो जनो भणति–अहो चेटस्य कर्मेति। न पुनः कश्चित् किमपीच्छति दातुम्। ततोऽज्जुके! केनापि कुलपुत्रेणोचितान्याभरणस्थानानि विलोक्याङ्गुष्ठेनानीयापि पुनरलब्धं प्रेश्य देवमुपालभ्य दीर्घ निःश्वस्यैतावान् मे विभव इति कृत्वा परिजन हस्तेऽयं प्रावारकः प्रेषितः।]
गणिका—(चेटीमवलोक्य) को णु खु अय्यचारुदत्तस्स गुणाणं अणुकरेदि। [को नु खल्वार्यचारुदत्तस्य गुणाननुकरोति।]
चेटी—अज्जुए! मम वि कोदूहलं अत्थि। को णु खु एसो। [अज्जुके! ममापि कौतूहलमस्ति। को नु खल्वेषः।]
गणिका—केण वि साहुणा पुरुषेण होदब्वं। [केनापि साधुना पुरुषेण भवितव्यम्।]
चेटी—साहु पुच्छीअदु दाव। [साधु पृच्छ्यतां तावत्।]
गणिका—हञ्जे! एकपुरसपक्खवादिदा सब्वगुणाणं हन्ति। [हञ्जे! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति।]
चेटी—(चेटं प्रति) भद्द! से णाम तुवं जाणासि। [भद्र! अस्य नाम त्वं जानासि।]
चेटः—ण हु जाणामि। [न खलु जानामि।]
गणिका—अदिलहु तुए किदं। [अतिलघु त्वया कृतम्।]
चेटी—जइ एवं इह तुए को त्ति मन्तिदं। [यद्येवम्, इह त्वया क इति मन्त्रितम्।]
चेटः—अहं एत्तअं तु जाणामि—भद्दओ अविम्हओ त्ति। [अहमेतावत् तु जानामि—भद्रकोऽविस्मय इति।]
गणिका—एहि दाव तं पेक्खामो। [एहि तावत् तं पश्यामः।]
चेटः—पेक्खदु पेक्खदु अज्जुआ। एसो गच्छइ। [पश्यतु पश्यत्वज्जुका। एष गच्छति।]
गणिका—(प्रासादाद् विलोक्य) हञ्जे! एसो हि सो अय्यचारुदत्तो एव्व जण्णोववीदमत्तपावरओ गच्छइ। ता जाब दूरं गओ ण भविस्सदि एसो, पेक्खम्ह दाव णं। [हञ्जे! एष हि स आर्यचारुदत्त एव यज्ञोपवीतमात्रप्रावारको गच्छति। तद् यावद् दूरं गतो न भविष्यत्येष, पश्यामस्तावदेनम्।]
(निष्क्रान्ताः सर्वे।)

इति द्वितीयोऽङ्कः !


तृतीयोऽङ्कः

(ततः प्रविशति नायको विधूषकश्च।)

नायकः—वयस्य! वीणा नामासमुद्रोत्थितं रत्नम्। कुतः,
उत्कण्ठितस्य हृदयानुगता सखीव
सङ्कीर्णदोषरहिता विषयेषु गोष्ठी।
क्रीडारसेषु मदनव्यसनेषु कान्ता
स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ।। १ ।।
विदूषकः—भो वयस्य! को कालो किदपरिघोसणदा णिसम्पादाए राअमग्गा। कुक्कुरा वि ओसुत्ता । वअं णिद्दं ण लभामो । अण्णं च दाणि अच्छरीअं । इमं हदवीणं ण रमामि । अहिअविढत्थाणे विच्छिण्णतन्तिआ होदु। [भो वयस्य! कः कालः कृतपरिघोषणतया निःसम्पाता राजमार्गाः । कुक्कुरा अप्यवसुप्ताः वयं निद्रां न लभामहे । अन्यच्छेदानीमाश्चर्यम्। इमां हतवीणां न रमे। अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु।]
नायकः—वयस्य! भावशाबलेना बहुशः खल्वद्य मधुरं गीतम्। न च भवान् रमते।
विदूषकः—अदो एव्व एदं अहं ण रमामि। महुरं पि बहु खादिश्रं अजिण्णं होदि। [अत एवेतामहं त रमे । मधुरमपि बहु खादितमजीर्णं भवति।]
नायकः—सर्वथा सुव्यक्तं गीतम्। कुतः,
रक्तं च तारमधुरं च समं स्फुटं च
भावार्पितं च न च साभिनयप्रयोगम्।
किं वा प्रशस्य विविधैर्बहु तत्तदुक्त्वा
भित्त्यन्तरं यदि भवेद् युवतीति विद्याम्।। २ ।।
विदूषकः—कामं पसंसेदु भवं। मम खु दाव गाअन्तो मणुस्सो इत्थिआ विपठन्ती उभअं आदर ण देदि । गाअन्तो दाव मणुस्सो रत्तसुमणावेठ्ठिदो विअ पुरोहिदो दिढ ण सोहइ। इत्थिआ वि पठन्ती छिण्णणासिआ विअ धेणुआ अदिविरूवा होइ । [कामं प्रशंसतु भवान् । मम खलु तावद्‌ गायन् मनुष्यः स्त्र्यपि पठन्त्युभयमादरं न ददाति । गायंस्तावन्मनुष्यो रक्तसुमनोवेष्टित इव पुरोहितो दृढं न शोभते । स्त्र्यपि पठन्ती छिन्ननासिकेव धेनुरतिविरूपा भवति।]
नायकः—सखे! उपारूढोऽर्धरात्रः । स्थिरतिमिरा राजमार्गाः । निस्सम्पातपुरुषत्वात् प्रसुप्तेवोज्जयिनी प्रतिभाति। कुतः,

असौ हि दत्त्वा तिमिरावकाशमस्तं गतो ह्यष्टमपक्षचन्द्रः ।
त्तोयावगाढस्य वनद्विपस्य विषाणकोटीव निमज्जमाना ।। ३ ।।

विदूषकः—सुट्ठु भवं भणादि। अन्तद्धिअमाणचन्द्रलद्धावआसो ओदरदी विअ पासादादो अन्धआरो। [सुष्ठु भवान् भणति । अन्तर्दधानचन्द्रलब्धावकाशोऽवतरतीव प्रासादादन्धकारः ।]
नायकः—(परिक्रम्य) इदमस्मदीयं गृहम् । वर्धमानक! वर्धमानक!
विदूषकः—वद्धमाणअ ! वद्धमाणअ! दुआरं अवावुद। [वर्धमानक! वर्धमानक! द्वरमपावृणु।]
(प्रविश्य)

चेटः—अम्मो अय्यमेत्तेओ । [अम्मो आर्यमैत्रेयः।]
नायकः—वर्धमानक!
चेटः—अम्मो भट्टिदारओ । भट्टिदारअ! वन्दामि। [अम्मो भर्तृदारकः। भर्तृदारक! वन्दे।]
नायकः—पादोदकमानय।
‘चेटः—(परिक्रम्य) इदं पादोदअं । (नायकस्य पादौ प्रक्षालयति।) [इदं पादोदकम्।]
विदूषकः—वड्ढमाणवअ ! मम वि पादं पक्खालेहि। [वर्धमानक! ममापि पादं प्रक्षालय।]
चेटः—सुहोदेसु पादेषु भूमीए पलोट्ठिदव्वं । उदअं विणासेहि। अहव आणेहि। पक्खालइस्सं । (नाट्येन विदूषकस्य पादौ प्रक्षालयति।) [सुधौतयोः पादयोर्भूम्यां प्रलोठितव्यम्। उदकं विनाशय। अथवा नय। प्रक्षालयिष्यामि।]
विदूषकः—ण केवलं दासीएपुत्तेण पादा धोदा, मुहं वि धौदं। [न केवलं दास्याः पुत्रेण पादौ धौतौ, मुखमपि धौतम् ।]
नायकः—वयस्य।

इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् ।
अदृश्यमाना चपला जरेव या मनुष्यवीर्य परिभूय वर्धते ।। ४ ।।

मैत्रेय! सुप्यताम्।

(निष्क्रान्तश्चेटः।)
(प्रविश्याभरणसमुद्‌गहस्ता)

चेटीः—अय्यमेत्तेअ! उट्ठेहि उट्ठेहि। [आर्यमैत्रेय! उत्तिष्ठोत्तिष्ठ।]
विदूषकः—भोदि! किं एदं। [भवति! किमेतत्।]
चेटी—इअं सुवण्णभण्डं सट्ठीए सत्तमीए परिवेट्टामि। अट्टमी खु अज्ज। [इदं सुवर्णभाण्डं षष्ठ्यां सप्तम्यां परिवर्तयामि । अष्टमी खल्वद्य।]
नायकः—इदं तद् वसन्तसेनायाः स्वकम्।
चेटी—आम। भणादु भणादु भट्टिदारओ, गण्हदु त्ति। [आम। भणतु भणतु भर्तृदारकः गृह्णात्विति।]
नायकः—मैत्रेय। गृह्यताम्।
विदूषकः—किं णिमित्तं अअं अलङ्कारो अब्भन्तरचउस्सालं ण प्पवेसीअदि। [किन्निमित्तमयमलङ्कारोऽभ्यन्तरचतुःशालं न प्रवेश्यते।]
नायकः—मूर्ख! बाह्यजनधारितमलङ्कारं गृहजनो न द्रक्ष्यति।
विदूषकः—का गई । आणेहि गण्हामि चोरेहिं गण्हिअमाणं । [का गतिः । आनय गृह्णामि चौरैर्गृह्यमाणम्।]
(चेटी दत्त्वा निष्क्रान्ता।)

विदूषकः–भो! किंणिमित्तं सो पावरओ तस्स गणिआपरिआरअस्स दिण्णो। [भोः! किन्निमित्तं स प्रावारकस्तस्मै गणिकापरिचारकाय दत्तः ।]
नायकः—सानुक्रोशतया।
विदूषकः—इह वि साणुक्कोसदा। [इहापि सानुक्रोशता।]
नायकः—वयस्य! मा मैवम।[]
विदूषकः—अहं भरिदगद्दभो विअ भूमीए पलोठ्ठामि । [अहं भरितगर्दभ इव भूम्यां प्रलुठामि।]
नायकः—निद्रा मां बाधते। तूष्णीं भव। []
विदूषकः—असदु भवं सुहप्पबोहाअ । जाव अहं पि सुविस्सं। [शेतां भवान् सुखप्रबोधाय । यावदहमपि स्वप्स्यामि।]
(द्वावपि स्वपतः।)
(ततः प्रविशति सज्जलकः।)

सज्जलकः—एष भोः!
कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्गम्।
गच्छामि भूमिपरिसर्पणघृष्टपार्श्वो
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ।। ५ ।।
भोः! वृक्षवाटिकापक्षद्वारे सन्धिं छित्त्वा प्रविट्ठोऽस्मि। यावदिदानीं चतुःशालमुपसर्पामि । (सनिर्वेदं विचिन्त्य) भोः!
कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते
विश्वस्तेषु हि वञ्चनापरिभवः शौर्यं न कार्कश्यता।
स्वाधीना वचनीयताऽपि तु वरं बद्धो न सेवाञ्जलिः
मार्गश्चष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना।।६।।

(विचिन्त्य)

लुब्धोऽर्थवान् साधुजनावमानी वणिक् स्ववृत्तावतिकर्कशश्च।
यस्तस्य गेहं यदि नाम लप्स्ये भवामि दुःखोपहतो न चित्ते।।७।।

यद्वा तद्वा भवतु। किं वा न कारयति मन्मथः । यावदारभे कर्म । भोः!
देशः को नु जलावसेकशिथिलश्छेदादशब्दो भवेत्
भित्तीनां क्व नु दर्शितान्तरसुखः सन्धिः करालो भवेत्।
क्षारक्षीणतया चलेष्टककृशं हर्म्यं क्व जीर्णं भवेत्
कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत् ।।८।।
(परिक्रम्य) इयं वास्तुविभागक्रिया। सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः । इह तावत् प्रवेशावकाशं करिष्ये । भोः ! कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात्।

सिंहाक्रान्तं पूर्णचन्द्रं झषास्यं चन्द्रार्धं वा व्याघ्रवक्त्रं त्रिकोणम्।
सन्धिच्छेदः पीठिका वा गजास्यमस्मत्पक्ष्या विस्मितास्ते कथं स्युः ।। ९ ।।

भवतु, एकान्तमेव च्छेदयिष्ये ।
विदूषकः—भो! जागत्ति खु भवं, णहि। [भोः! जागर्ति खलु भवान्, न हि। ]
नायकः—किमर्थम्।
विदूषकः—अहं खु दाव कत्तव्वकरत्थीकिदसङ्केदो विअ सक्किअसमणओ णिद्दं ण लभामि। वामं खु मे अक्खि फन्देदि। चोरो सन्धिं छिन्ददी विअ पेक्खामि। जइ ईदिसी अवत्था अत्थाणं, जादीए दरिद्दो एव्व होमि। [अहं खलु तावत् कर्तव्यकरस्त्रीकृतसङ्केत इव शाक्यश्रमणको निद्रां न लभे। वामं खलुमेऽक्षिस्पन्दते। चोरः सन्धिं छिनत्तीव पश्यामि। यदीदृश्यवस्थाऽर्थानां, जात्या दरिद्र एव भवामि।]
नायकः—मूर्ख! धिक् त्वाम्! दारिद्र्यमभिलषसि ।
सज्जलकः—अथ केनेदानीं सन्धिच्छेदमार्गः सूचयितव्यः स्यात्। नन्विदं दिवा ब्रह्मसूत्रं रात्रौ कर्मसूत्रं भविष्यति।
अद्यास्य भित्तिषु मया निशि पाटितासु
छेदात् समासु सकृदर्पितकाकलीषु ।
काल्यं विषादविमुखः प्रतिवेशवर्गो
दोषांश्च मे वदतु कर्मसु कौशलं च ।।१०।।
नमः खरपटाय । नमो रात्रिगोचरेभ्यो देवेभ्यः । (तथा करोति ।) हन्त अवसितं कर्म । प्रविशामस्तावत् । (प्रविश्य) अये ! ज्वलति दीपः । अपसरामि तावत्। धिक् सज्जलकः खल्वहम् ।
मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने
निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः ।
माया वर्णशरीरभेदकरणे वाग् देशभाषान्तरे
दीपो रात्रिषु सङ्कटे च तिमिरं वायुः स्थले नौर्जले।।११।।
(सर्वतो विलोक्य) आगन्तुकत्वादविदितसमृद्धिविस्तरः केवलं भवनप्रत्ययादिह प्रविष्टोऽस्मि। न चेदानीं कञ्चित् परिच्छदविशेषं पश्यामि । किन्नु खलु दरिद्र एवायम्। उताहो अयं संयमननिरर्थकं द्रष्टव्यं धारयति। अथवा, अभिजातोऽयं भवनविन्यासः । उपभुक्तप्रनष्टविभवेनानेन भवितव्यम् ।
तथा विभवमन्दोऽपि जन्मभूमिव्यपेक्षया।
गृहं विक्रयकालेऽपि नीलस्नेहेन रक्षति।।१२।।

भवतु पश्यामस्तावत् । अथवा, न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः गच्छामि तावत् ।
विदूषकः—भो! गण्ह एदं सुवण्णभण्डअं । [भोः! गृहाणैतत् सुवर्णभाण्डम् ।]
सज्जलकः—कथं सुवर्णभाण्डमित्याह । किं मां दृष्ट्वाऽभिभाषते । आहोस्वित् सत्त्वलाघवाद् स्वप्नायते । भवतु पश्यामस्तावत् । (दृष्ट्वा) भूतार्थ सुप्त एवायम्। तथाहि,
निःश्वासोऽस्य न शङ्कितो न विषमस्तुल्यान्तरं जायते
गात्रं सन्धिषु दीर्घतामुपगतं शय्याप्रमाणाधिकम्।
दृष्टिर्गाढनिमीलिता न चपलं पक्ष्मान्तरं जायते
दीपं चैव न मर्षयेदभिमुखः स्याल्लक्षसुप्तो यदि ।। १३ ।।
क्व नु खलु तत् । अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपं दृश्यते । सुपरिगृहीतमनेन । अयमत्र प्राप्तकालः। इमे मया गृहीताः शलभाः दीपनिर्वापणार्थमेकं मुञ्चामि। (भ्रमरकरण्डकादेकं मुञ्चति।) अये! एष दीपं निर्वाप्य पतति।
विदूषकः—अविहा णिव्वाविदा दीवो दाणिं । मुसिदो म्हि । भो चारुदत्त! गण्ह एवं सुवण्णालङ्कारं। अहं खु भीदीए उप्पहप्पवुत्तो विअ वणिजो णिद्दं ण लभामि । मम बम्हत्तणेण साविदो सि, जइ ण गण्हसि। [अविहा निर्वापितो दीप इदानीम् । मुषितोऽस्मि । भोश्चारुदत्त! गृहाणेमं सुवर्णालङ्कारम् । अहं खलु भीत्योत्पथप्रवृत्त इव वणिग् निद्रां न लभे। मय ब्रह्मत्वेन शापितोऽसि, यदि न गृह्णासि।]
सज्जलकः—किमत्र शपथपरिग्रहेण । एष प्रतिगृह्णामि। (गृह्णाति) ।
विदूषकः—(दत्त्वा) अहं विक्किणिदभण्डओ विअ वणिजओ सुहं सइस्सं । [अहं विक्रीतभाण्डक इव वणिक् सुखं शयिष्ये।]
सज्जलकः—सुखं स्वपिहि महाब्राह्मण! (विचिन्त्यः) भोः! ब्राह्मणेन विश्वासाद् दीयमानं मया हर्तव्यमासीत् ।
धिगस्तु खलु दारिद्र्यमनिर्वेदं च यौवनम्।
यदिदं दारुणं कर्म निन्दामि च करोमि च ।। १४ ।।

(नेपथ्ये पटहशब्दः क्रियते।)

सज्जलकः—(कर्णं दत्त्वा) अये प्रभातसमयः संवृत्तः । अपसरामि तावत्।
(निष्क्रान्तः सज्जलकः।)

(प्रविश्य)

चेटी—(साक्रन्दम्) अय्यमेत्तेअ! अम्हाणं रुक्खवाडिआपक्खदुवाले सन्धिं छिन्दिअ चोरो पविट्ठो । [आर्यमैत्रेय! अस्माकं वृक्षवाटिकापक्षद्वारो सन्धिं छित्त्वा चोरः प्रविष्टः।]
विदूषकः—(सहसोत्थाय) किं भणादि होदी । [किं भणति भवति।]
(चेटी `रुक्खवाडिआ’ इति पठति।)

विदूषकः—चोरं छिन्दिअ सन्धी पविट्ठो। [चोरं छित्त्वा सन्धिः प्रविष्टः ।]
चेटी—हदास! सन्धिं छिन्दिअ चोरो पविट्ठो। [हताश! सन्धिं छित्त्वा चोरः प्रविष्टः ।]
विदूषकः—आअच्छ णं दंसेहि। [आगच्छ ननु दर्शय।]
चेटी—(परिक्रम्य) एदं । [एतत्।]
विदूषकः—अविहा दासीएवुत्तेण कुक्कुरेण पवेसो किदो । भोदि! आअच्छ, चारुदत्तस्स पिअं णिवेदेमि। [अविहा दास्याः पुत्रेण कुक्कुरेण प्रवेशः कृतः । भवति! आगच्छ चारुदत्तस्य प्रियं निवेदयामि।]
(उभावुपगम्य)

भो चारुदत्त! पिअं दु णिवेदेमि। [भोश्चारुदत्त! प्रियं ते निवेदयामि।]
नायकः—(बुद्ध्वा) किं मे प्रियम्। ननु वसन्तसेना प्राप्ता।
विदूषकः—ण खु वसन्तसेणा वसन्तसेणा पत्तो। [न खलु वसन्तसेना, वसन्तसेनः प्राप्तः ।]
नायकः—रदनिके! किमेतत्।
चेटी—भट्टिदारअ ! अम्हाणं रुक्खवाडिआपक्खदुवारे सन्धिं छिन्दिअ चोरो पविट्ठो। [भर्तृदारक! अस्माकं वृक्षवाटिकापक्षद्वारे सन्धिं छित्त्वा चोरः प्रविष्टः।]
नायकः—किं चोरः प्रविष्टः ।
विदूषकः—भो वअस्स। सव्वहा तुवं भणासि, मुक्खो मेत्तोओ अपण्डिदो मेत्तेओत्ति। णं मए सोभण किदं तं सुवण्णभण्डअं तव हत्थे समप्पअन्तेण। [भो वयस्य! सर्वथा त्वं भणसि, मूर्खो मैत्रेयोऽपण्डितो मैत्रेय इति। ननु मया शोभनं कृतं तत् सुवर्णभाण्डकं तव हस्ते समर्पयता।]
नायकः—किं भवता दत्तम्।
विदूषकः—अहइं। [अथ किम्।]
नायकः—कस्यां वेलायाम्।
विदूषकः—अद्धरत्ते। [अर्द्धरात्रे।]
नायकः—किमर्धरात्रे । बाढं दत्तम्।
विदूषकः—भो चारुदत्त। जं वेलं परिबुद्धो आसि, तस्सिं वेलाअं खु दिण्णं । [भोश्चारुदत्त! यस्यां वेलायां प्रतिबुद्ध आसिः, तस्यां वेलायां खलु दत्तम्।]
नायकः—हस्त हृतं सुवर्णभाण्डकम्।
विदूषकः—दाणिं मे हत्थे पडिच्छिदु अत्तभावं । [इदानीं मम हस्ते प्रयच्छत्वत्रभवान्।]
नायकः—(आत्मगतम्)
कः श्रद्धास्यति भूतार्थं सर्वो मां तूलयिष्यति।
शङ्कनीया हि दोषेषु निष्प्रभावा दरिद्रता।।१५।।

(प्रविश्य)

ब्राह्मणी-रदणिए! रदणिए! आअच्छ! णहि सुआदि। कवाडसद्दं दाव करिस्सं। (तथा करोति।)[रदनिके! रदनिके! आगच्छ। न हि श्रृणोति। कवाटशब्दं तावत् करिष्यामि।]
चेटी—`हं कवाडसद्दो विअ। भट्टिदारिआ मं सद्दावेदि। (परिक्रम्य) भट्टिदारिए ! इअ म्हि। [हं,कवाटशब्द इव। भर्तृदारिका मा शब्दापयति। भर्तृदारिके! इयमस्मि।]
ब्राह्मणी—ण परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा। [न परिक्षतो न व्यापादित आर्यपुत्र आर्यमैत्रेयो वा।]
चेटी—कुसली भट्टिदारओ अय्यमेत्तेओ अ। जो तस्स जणस्स अलङ्कारो चोरेण गहीदो। [कुशली भर्तृदारक आर्यमैत्रेयश्च। यस्तस्य जनस्यालङ्कारश्चोरेण गृहीतः।]
ब्राह्मणी—किं भणसि चोरेण गहीद त्ति। [किं भणसि चोरेण गृहीत इति।]
चेटी—अह इं। [अथ किम्।]
ब्राह्मणी—किंणु खु तस्स जणस्स दादव्वं भविस्सदि। अहव एदं दइस्सं। (कर्णौ स्पृष्ट्वा)। हद्धि तालीपत्तं खु एवं। सो दाणिं परिअओ मं बिलम्बेदि। किं वाणिं करिस्सं। (विचिन्त्य) भोदु, दिट्ठं। मम ञ्जादिकुलादो लद्धा सदसहस्समुल्ला मुत्तावली । तं पि अय्यउत्तो सोढीरदाए वडिच्छदि। भोदु, एवं दाव करिस्सं। (निष्क्रान्ता) [किन्नु खलु तस्मै जनाय दातव्यं भविष्यति। अथवैतद् दास्यामि। हा धिक् तालीपत्रं खल्वेतत्। स इदानीं परिचयो मां विडम्बयति। किमिदानीं करिष्यामि । भवतु, दृष्टम्। मम ज्ञातिकुलाद् लब्धा शतसहस्रमूल्या मुक्तावली। तामप्यार्यपुत्रः शौटीरतया प्रतीच्छति। भवतु, एवं तावत् करिष्यामि।]
विदूषकः—इमस्स अन्धआरुप्पादिदस्स अवराहस्स किडे भवन्तं सीसेण पसादेमि । दाणिं मे हत्थे पडिच्छदु अत्तभवं। [अस्यान्धकारोत्पादितस्यापराधस्य कृते भवन्तं शीर्षेण प्रसादयामि। इदानीं मे हस्ते प्रयच्छत्वत्रभवान्।]
नायकः—किं भवानिदानीं मां बाधते?

भवांस्तावदविश्वासी शीलज्ञो मम नित्यशः।
किं पुनः स कलाजीवी वञ्चनापण्डितो जनः।।१६।।

विदूषकः—मण्णे मय मन्दभग्गेण कुम्भीलस्स हस्ते दिण्णं। (विषण्णस्तिष्ठति।)[मन्ये मया मन्दभाग्येन कुम्भीलस्स हस्ते दत्तम्।]
(प्रविश्य)

ब्राह्मणी—रदणिए! अय्यमेत्तेअं सद्दावेहि। [रदनिके! आर्य मैत्रेयं शब्दापय।]
चेटी—अय्यमेत्तेअ! भट्टिदारिआ। तुमं सद्दावेदि। [आर्यमैत्रेय! भर्तृदारिका त्वां शब्दापयति।]
विदूषकः—भोदि! किं मं। [भवति! किं माम्।]
चेटी—आम्। [आम्]
विदूषकः—एस आअच्छामि। (उपसर्पति।)[एष आगच्छामि।]
ब्राह्मणी—अय्यमेत्तेय! इमं पडिग्गाहं पडिगण्ह। [आर्यमैत्रेय! इमं प्रतिग्रहं प्रतिगृहाण।]
विदूषकः—अवत्थाविरुद्धो खु अअं पदाणविभवो। कुदो एदस्स आगमो। [अवस्थाविरुद्धः खल्वयं प्रदानविभवः । कुत एतस्यागमः।]
ब्राह्मणी—णं सट्ठिं उववसामि। सव्वसारविभवेण बम्हणेण सोत्थि वाअ इदव्वं त्ति एसो इमस्स आगमो ! [ननु षष्ठीमुपवसामि। सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यमित्येषोऽस्यागमः ।]
विदूषकः—अट्ठमी खु अज्ज। [अष्टमी खल्वद्य।]
ब्राह्मणी—पमदादो अदिक्कमो किदो। अज्ज पूआ णिव्वत्तीअदि। [प्रमादाद् अतिक्रमः कृतः । अद्य पूजा निर्वर्त्यते।]
विदूषकः—अणणुरूवदाए पदाणस्स अणुक्कोसो विअ पडिभादि। (जनान्तिकम्) रदणिए! किं करिस्सं। [अननुरूपतया प्रदानस्यानुक्रोश इव प्रतिभाति। रदनिके! किं करिष्यामि।]
चेटी—(अपवार्य) किणु खु तस्स जणस्स दादव्वं भविस्सदि त्ति एदण्णिमित्तं भट्टिदारओ सन्तप्पदि त्ति भट्टिदारिआ तव हत्थे दइअ अय्यउत्तं अणिरिणं करिस्सामि त्ति एवं करेदि । ता गण्ह एदं । [किन्नु खलु तस्मै जनाय दातव्यं भविष्यतीत्येतन्निमित्तं भर्तृदारकः सन्तप्यत। इति भर्तृदारिका तव हस्ते दत्त्वाऽऽर्यपुत्रमनृणं करिष्यामीत्येवं करोति। तद् गृहाणैतत्।]
ब्राह्मणी—उदअसम्भवदाए मुत्तावलीए तव अदुल्लहदाए उवआरो विस्सरिदो। गण्ह एदं। (ददाति।) [उदकसम्भवतया मुक्तावल्यास्तव च दुर्लभतयोपचारो विस्मृतः । गृहाणैतत्।]
विदूषकः—(गृहीत्वा) सव्वं दाव चिठ्ठदु। रोदिदी विअ होदीए दिठ्ठी। [सर्वं तावत् तिष्ठतु । रोदितीव भवत्या दृष्टिः।]
ब्राह्मणी—देवउलधूमेण रोविदा। [देवकुलधूमेन रोदिता।]
विदूषकः—साविदासी तत्तहोदा चारुदत्तेण, जइ अलिअं भणासि। [शापितासि तत्रभवता चारुदत्तेन, यद्यलीकं भणसि।]
ब्राह्मणी—हद्धि। (निष्क्रान्ता)। [हा धिक्।]
विदूषकः—एसा बाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ। (उपगम्य) भो! इदं। [एषा वाचा दुःखं रक्षित्वाऽश्रुभिः सूचयित्वा गता। भोः! इदम्।]
नायकः—किमेतत्।
विदूषकः—सरिसकुलदारसङ्गहस्स फलं। [सदृशकुलदारसंग्रहस्य फलम्।]
नायकः—किं ब्राह्मणी मामनुकम्पते।
विदूषकः—एवं विअ। [एवमिव।]
नायकः—धिगात्मानम्। अद्य हतोऽस्मि।

मयि द्रव्यक्षयक्षीणे स्त्रीद्रव्येणानुकम्पितः।
अर्थतः पुरुषो नारी या नारी साऽऽर्थतः पुमान्।।१७।।

विदूषकः—तत्तहोदो हिअएण तुमं याचेदि। अहं सीसेण याचेमि । गण्ह एदं। [तत्रभवती हृदयेन त्वा याचते। अहं शीर्षेण याचे। गृहाणैतत्।]
नायकः—तथा। (गृहीत्वा) वयस्य! इमां मुक्तावलीं गृहीत्वा वसन्तसेनायाः सकाशं गच्छ।
अर्थेषु काममुपलभ्य मनोरथो मे
स्त्रीणां धनेष्वनुचितं प्रणयं करोति।
माने च कार्यकरणे च विलम्बमानो
धिग् भोः! कुलं च पुरुषस्य दरिद्रतां च ।।१८।।
विदूषकः—अहो अप्पमुल्लस्स सुवण्णभण्डअस्स किदे सदसहस्समुल्ला मुत्तावली णीआदइदव्वा। [अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या।]
नायकः—वयस्य! मा मैवम्।

यं समालक्ष्य विश्वासं न्यासोऽस्मासु कृतस्तया।
तस्यैतन्महतो मूल्यं प्रत्ययस्य प्रदीयताम्।। १९ ।।

(निष्क्रान्ताः सर्वे।)

इति तृतीयोऽङ्कः।


चतुर्थोऽङ्कः

(ततः प्रविशति सोत्कण्ठा वसन्तसेना, चित्रफलकमादाय वर्तिकाकरण्डहस्ता चेटी च।)

गणिका—हञ्जे। पेक्खसि सरिसो तस्स जणस्स। [हञ्जे! पश्यसि सदृशस्तस्य जनस्य।]
चेटी—अज्जुए! तस्सिं हत्थिविमद्दकोलाहले बहुमाणपय्यत्थाए दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व। [अज्जुके! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्ट्या दूरतो दृष्टः स भर्तृदारक ईदृश एव।]
गणिका—तुमं दाव दक्खो वेसवासजणो त्ति जणवादं पूरअन्ती अलिअं भणसि। [त्वं तावद् दक्षो वेशवासजन इति जनवादं पूरयन्त्यलीकं भणसि।]
चेटी—किं एदं वेशवासजणो सव्वो दक्खिणो होइ त्ति। पेक्खदु अज्जुआ, चम्पआरामे विचुमन्दा जाअन्ति। अदिसरिसं त्ति मम हिअअं अहिरमदि। परमत्थदो एव्व पसंतीअदि, णं कामदेवो। [किमेतद् वेशवासजनः सर्वो दक्षिणो भवतीति। पश्यत्वज्जुका, चम्पकारामे पिचुमन्दा जायन्ते। अतिसदृश इति मम हृदयमभिरमते। परमार्थत एव प्रशस्यते, ननु कामदेवः ।]
गणिका—हञ्जे! सहोजणेण अवहसणीअत्तणं अत्तणो परिहरामि। [हञ्जे! सखीजनेनापहसनीयत्वमात्मनः परिहरामि।]
चेटी—एदं जुज्जइ। सहीजणसपत्तिओ गणिआजणो णाम । [एतद् युज्यते। सखीजनसपत्नीको गणिकाजनो नाम।]
(ततः प्रविशत्याभरणहस्ताऽपरा चेटी।)

चेटी—सुहं अज्जुआए। [सुखमज्जुकायाः।]
गणिका—हञ्जे! साअदं डे। [हञ्जे! स्वागतं ते।]
चेटी—अज्जुए! अत्ता आणवेदि—इदं दुवारं पविट्टं पोक्खरं उवावत्तिदं पहवणं । ता तुवरमाणमण्डणा गहीदावउण्ठणा आअच्छदु त्ति। इह अलङ्कारं अलङ्करेदु अज्जुआ। [अज्जुके! अम्बाऽऽज्ञापयति–इदं द्वारं प्रविष्टं पौष्करमुपावर्तितं प्रवहणम्। तत् त्वरमाणमण्डना गृहीतावगुण्ठनाऽऽगच्छत्विति। इहालङ्कारमलङ्कारोत्वज्जुका।]
गणिका—किं अय्यचारुदत्तो मण्डइस्सिदि। [किमार्यचारुदत्तो मण्डयिष्यति।]
चेटी—णहि, जेण अलङ्कारो पेसिदो सो राअसालो सण्ठाणो । [नहि, येनालङ्कारः प्रेषितः स राजश्यालः संस्थानः।]
गणिका—अवेहि अविणीदे!। [अपेह्यविनीते।]
चेटी—पसीददु पसीददु अज्जुआ। सन्देसं खु अहं मन्तेमि। (पादयोः पतति)। [प्रसीदतु प्रसीदत्वज्जुका। सन्देशं खल्वहं मन्त्रये।]
गणिका—उट्ठेहि उट्ठेहि। कुसन्देसं असूआमि, ण तुवं। [उत्तिष्ठोत्तिष्ठ। कुसन्देशमसूयामि, न त्वाम्।]
चेटी—किं अहं अत्तं भणामि। [किमहमम्बां भणामि।]
गणिका—भणेहि अत्तं–जदा अय्यचारुदत्तो अभिसारइदव्वो तदा मण्डेमि त्ति। [भणाम्बां–यदाऽऽर्यचारुदत्तोऽभिसारयितव्यस्तदा मण्डयामीति।]
चेटी—तह। (निष्क्रान्ता।)[तथा।]
(ततः प्रविशति सज्जलकः।)

सज्जलकः–

कृत्वा निशायां वचनीयदोषं निद्रां च हित्वा तिमिरं भयं च।
स एव सूर्योदयमन्दवीर्यः शनैर्दिवाचन्द्र इवास्मि भीतः ।।१।।

दिष्ट्या कर्मान्ते प्रभातम्। यावदिदानीं वसन्तसेनायाः परिचारिकाया मदनिकाया निष्क्रयार्थ मयेदं कृतम्। (परिक्रम्य) इदं वसन्तसेनाया गृहम्। यावत् । प्रविशामि। (प्रविश्य) किन्नु खल्वभ्यन्तरस्था मदनिका। अथवा पूर्वाह्णे गणिकानामभ्यन्तरे सान्निध्यम्। अतस्तत्रैव तया भवितव्यम्। यावच्छब्दापयामि। मदनिके! मदनिके!।
चेटी—(आकर्ण्यं) सज्जलअस्स विअ सरो । वावुदा अज्जुआ। ता उवसप्पिस्सं । (उपगम्य) इअम्हि। [सज्जलकस्येव स्वरः व्यापृताऽज्जुका। तदुपसर्पिष्यामि। इयमस्मि।]
सज्जलकः—इतस्तावत्।
चेटी—किं तुवं सङ्किदवण्णो विअ। [किं त्वं शङ्कितवर्ण इव।]
सज्जलकः–न खलु, किञ्चित् कथयितुकामः।
गणिका—हञ्जे! इमं चित्तफलअं सअणिए ठावे हि(विलोक्य) कहिं गआ हदासा । अहव अदूरगआए होदव्वं । जाव णं पेक्खिस्सं(परिक्रम्यावलोक्य) अम्मो इअं सा अदिसिणिद्धाए दिट्ठीए केण विमणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठइ। तक्केमि एत्तो जो कोवि कएण मं याचेदि। [हञ्जे! इदं चित्रफलकं शयनीये स्थापय। कुत्र गता हताशा। अथवा अदूरगतया भवितव्यम्। यावदेनां प्रेक्षिष्ये । अम्मो इयं साऽतिस्निग्धया दृष्ट्या केनापि मनुष्येण पिबन्तीव सह मन्त्रयमाणा तिष्ठति। तर्कयाम्येष यः कोऽपि क्रयेण मां याचते।]
सज्जलकः—श्रूयतां रहस्यम्।
गणिका—अजुत्तं पररहस्सं सोदुं, अहं गमिस्सं। [अयुक्तं पररहस्यं श्रोतुम्,अहं गमिष्यामि।]
सज्जलकः—अपि वसन्तसेना(इत्यर्धोक्ते)।
गणिका—अहं अहिइदा एदाअं कहाअं । होदु, सुणिस्सं दाव भविस्सदि। (पुनः प्रतिनिवृत्य स्थिता।) [अहमधिकृतैतस्यां कथायाम्। भवतु, श्रोष्यामि तावद् भविष्यति।]
सज्जलकः—किं दास्यति त्वां निष्क्रयेण।
गणिका—सो एव्व एसो। होदु, सुणिस्सं । [स एवैषः। भवतु, श्रोष्यामि।]
चेटी—सज्जलअ! मम पदाणं पुढभं एवं अज्जुआए उत्तं। [सज्जलक! मम प्रदानं प्रथममेवाज्जुकयोक्तम्।]
सज्जलकः—तेन हीममस्यै प्रयच्छ, एवं वक्तव्या च—

अयं तव शरीरस्य प्रमाणादिव निर्मितः।
अप्रकाश्यो ह्यलङ्कारो मत्स्नेहाद् धार्यतामिति।।२।।

चेटी—पेक्खामि दाव। [पश्यामि तावत्।]
सज्जलकः—गृह्यताम्। (दर्शयति।)
चेटी—दिट्ठपुरुवो विअ अअं अलङ्कारो। [दृष्टपूर्व इवायमलङ्कारः।]
गणिका—ममकेरओ विअ अअं अलङ्कारो। [मदीय इवावयमलङ्कारः।]
चेटी—भणाहि भणाहि। को इमस्स आअमो। [भण भण । कोऽस्यागमः]
सज्जलकः—त्वत्स्नेहात् साहसं कृतम्।
उभे—हं, साहसिओ। [हं, साहसिकः।]
चेटी—(आत्मगतम्) आ अज्जुआए खु इमस्स आइदी कम्मदारुणदाए उव्वे अणीआ संवुत्ता। (प्रकाशम्) हद्धि मम किदे उभअं संसइदं संवुत्तं तव सरीरं चारित्तं च। [आ, अज्जुकायाः खल्वस्याकृतिः कर्मदारुणतयोद्वेजनीया संवृत्ता। हा धिग् मम कृते उभयं संशयितं सवृत्तं तव शरीरं चारित्रं च।]
सज्जलकः—उन्मत्तिके! साहसे खलु श्रीर्वसति।
चेटी—अपण्डिदो खु सि। को हि णाम जीविदेण सरीरं विक्कीणिस्सदि। अह कस्स गेहे इअं विस्सासवञ्चणा किदा। [अपण्डितः खल्वसि। को हि नाम जीवितेन शरीरं विक्रेष्यति। अथ कस्य गेहे इयं विश्वासवञ्चना कृता।]
सज्जलकः—यथा प्रभाते मया श्रुतं–श्रेष्ठिचत्वरे प्रतिवसति सार्थवाहपुत्रश्चारुदत्तो नाम।
उभे–हुम्।
सज्जलकः—अयि,

विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना।
मृगीव शरविद्धाङ्गी कम्पसे चानुकम्पसे।। ३।।

चेटी—सच्चं भणाहि। सत्थवाहकुले साहसं करन्तेण तु ए कोच्चि कुलवुत्तो सत्थेण अत्थि परिक्खदो वावादिदो वा । [सत्यं भण । सार्थवाहकुले साहसं कुर्वता त्वया कश्चित् कुलपुत्रः शस्त्रेणास्ति परिक्षतो व्यापादितो वा।]
गणिका—सुट्ठु, मए वि पुच्छिदव्वं एदाए पुच्छिदं। [सुष्ठु, मयामि प्रष्टव्यमेतया पृष्टम्।]
सज्जुलकः—मदनिके! एतावत् किं न पर्याप्तं, द्वितीयमप्यकार्यं करिष्यामि। न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा।
चेटी—सज्जलअ! सच्चं । [सज्जलक! सत्यम्।]
सज्जलकः—सत्यम्।
चेटी—साहु सज्जलअ! पिअं मे। [साधु सज्जलक! प्रियं मे।]
सज्जलकः—किं किं प्रियमित्याह। ईदृशं मदनिके!
त्वत्स्नेहबद्धहृदयो हि करोम्यकार्यं
सन्तुष्टपूर्वपुरुषेऽपि कुले प्रसूतः।
रक्षामि मन्मथगृहीतमिदं शरीरं
मित्रं च मां व्यपदिशस्यपरं च यासि।।४।।
चेटी—सज्जलअ! सुणाहि। अज्जुआए अअं अलङ्कारो। (कर्णे।) एवं विअ। [सज्जलक! श्रुणु । अज्जुकाया अयमलङ्कारः। एवमिव।]
सज्जलकः—एवम्।

अज्ञानाद् या मया पूर्वे शाखा पत्रैर्वियोजिता।
छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराश्रितः ।।५।।

गणिका—सन्ताप्पदि त्ति तक्केमि एदेण अकय्यं किदं ति। [सन्तप्यत इति तर्कयामि एतेनाकार्यं कृतमिति।]
सज्जलकः—मदनिके! एवं गते किं कर्तव्यम्।
चेटी—तहिं एव्व णिय्यादेहि णहि मण्डइस्सदि अज्जुआ। [तत्रैव निर्यातय, नहि मण्डयिष्यत्यज्जुका।]
सज्जलकः—अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुषैर्ग्राहयिष्यति चेदत्र किं करिष्यामि।
चेटी—मा भाआहि मा भाआहि। कुलवुत्तो खु सो गुणामं परितुस्सदि। [मा बिभीहि मा बिभीहि। कुलपुत्रः खलु स गुणानां परितुष्यति।]
गणिका—साहु भद्दे! अवत्तव्वासि अलङ्किदा विअ एदेण वअणेण। [साधु भद्रे! अवक्तव्यासि, अलङ्कृतेवैतेन वचनेन।]
सज्जलकः—सर्वथा न शक्ष्याम्यहं तत्र गन्तुम्।
चेटी—अअं अण्णो उवाओ।[अयमन्य उपायः।]
गणिका—एदे गुणा वेसवासस्स। [एते गुणा वेशवासस्य।]
सज्जलकः—कोऽन्य उपायः।
चेटी—णं तव रूपञ्जा अज्जुआ अवि सत्थवाहपुत्तो अ।[ननु तव रूपज्ञाज्जुकाऽपि सार्थवाहपुत्रश्च।]
सज्जलकः—न खलु।
चेटी—तेण हि इमं दाव अलङ्कारं तस्स सत्थवाहपुत्तस्स वअणादो अज्जुआए णिय्यादेहि। एवं च किदे तुवं रक्खिदो, सो अय्यो अ अणिव्विण्णो भविस्सदि। अहं च पीडिदा ण भविस्सं । आदु अज्जुअं च पुणो वञ्चिअ पुणो एव्व दासभावो भवे। [तेन हीमं तावदलङ्कारं तस्य सार्थवाहपुत्रस्य वचनादज्जुकायै निर्यातय। एवं च कृते त्वं रक्षितः, स आर्यश्चानिर्विण्णो भविष्यति। अहं च पीडिता न भविष्यामि। अथवा अज्जुकां च पुनर्वञ्चयित्वा पुनरेव दासभावो भवेत्।]
सज्जलकः—मदनिके! प्रीतोऽस्मि।
गणिका—भोदु अब्भन्तरं पविसिअ उवविसामि। (तथा करोति।) [भवत्वभ्यन्तरं प्रविश्योपविशामि।]
चेटी—सज्जलअ! आअच्छ, कामदेवउले म पडिवालेहि । अहं ओसरं जाणिअ अज्जुआए णिवेदेमि। [सज्जलक! आगच्छ, कामदेवकुले मा प्रतिपालय। अहमवसरं ज्ञातत्वाऽज्जुकायै निवेदयामि।]
सज्जलकः—बाढम्।(निष्क्रान्तः।)
(ततः प्रविशत्यपरा चेटी।)

चेटी—सुहं अज्जुआए। एसो सत्थवाहपुत्तस्स, सआसादो कोच्चि बम्हणो आअदो अज्जुअं पेक्खिदुं। [सुखमज्जुकायाः । सार्थवाहपुत्रस्य सकाशात् कश्चिद् ब्राह्मण आगतोऽज्जुकां द्रष्टुम्।]
गणिका—(सादरम्) गच्छ सिग्धं पवेसेहि णं। [गच्छ, शीघ्रं प्रवेशयैनम्।]
चेटी—तह। (उपसृत्य) एदु एदु अय्यो। [तथा एत्वेत्वार्यः।]
विदूषकः—(प्रविश्य सर्वतो विलोक्य) अहो गणिआवाडस्स सस्सिरीअदा। णाणापट्टणसमागदेहि आअमिएहि पुत्थआ वाईअन्ति। संओजअन्ति अ आहारप्पआराणि वीणा वादीअन्ति। सुवण्णआरा अलङ्कारप्पआराणि आदरेण जोजअन्ति। [अहो गणिकावाटस्य सश्रीकता। नानापट्टणसमागतैरागमिकैः पुस्तकानि वाच्यन्ते। संयोज्यन्ते चाहारप्रकाराः । वीणा वाद्यन्ते। सुवर्णकारा अलङ्कारप्रकारानादरेण योजयन्ति।]
चेटी—एषा अज्जुआ उवसप्पदु अय्यो। [एषाज्जुका। उपसर्पत्वार्यः।]
विदूषकः—(उपगम्य) सोत्थि होदीए। [स्वस्ति भवत्यै।]
गणिका—साअदं अय्यस्स। हञ्जे! आसणं अय्यस्स, पादोदअं च । [स्वागतमार्यस्य। हञ्जे! आसनमार्यस्य, पादोदकं च।]
विदूषकः—(आत्मगतम्) सव्वं आणेदु वज्जिअ भोअणं। [सर्वमानयतु वर्जयित्वा भोजनम्।]
चेटी—जं अज्जुआ आणवेदि। (आसनं ददाति, पादोदकं च।) उवविसदु अय्यो। [यदज्जुकाज्ञापयति। उपविशत्वार्यः।]
विदूषकः—(उपविश्य) पडिच्छदु आसणं भोदी। अहं किञ्चि भणिदुं आअदो। [प्रतीच्छत्वासनं भवती। अहं किञ्चिद् भणितुमागतः।]
गणिका—(उपविश्य) अवहिदम्हि। [अवहितास्मि।]
विदूषकः—केत्तिअमत्तं खु तस्स अलङ्कारस्स मुल्लप्पमाणं । [क्रियन्मात्रं खलु तस्यालङ्कारस्य मूल्यप्रमाणम्।]
गणिका—किंणिमित्तं खु अय्यो पुच्छदि। [किन्निमित्तं खल्वार्यः पृच्छति।]
विदूषकः—सुणादु भोदी। तत्तहोदो चारुदत्तस्स गुणप्पच्चाअणणिमित्तं खु तुए अलङ्कारो तर्हि णिक्खित्तो। सो तेण जूदे हारिदो। [श्रुणोतु भवती। तत्रभवतश्चारुदत्तस्य गुणप्रत्यायननिमित्तं खलु त्वयालङ्कारस्तस्मिन् निक्षिप्तः। स तेन द्यूते हारितः।]
गणिका—जूदे। जुज्जइ। तदो तदो। [द्यूते। युज्यते। ततस्ततः।]
विदूषकः—तदो तस्स अलङ्कारस्स मुल्लभूदं इमं मुत्तावलिं पडिच्छदु भोदी। [ततस्तस्यालङ्कारस्य मूल्यभूतामिमां मुक्तावलीं प्रतीच्छतु भवती।]
गणिका—(आत्मगतम्) धिक् खु गणिआभावं । लुद्धति मं तुलअदि। जइ ण पडिच्छे, सो एव्व दोसो भविस्सदि। (प्रकाशम्) आणेदु अय्यो । [धिक् खलु गणिकाभावम्। लुब्धेति मां तुलयति। यदि न प्रतीच्छामि, स एव दोषो भविष्यति। आनयत्वार्यः ।]
विदूषकः—इदं गण्हदु भोदी। [इदं गृह्णातु भवती।]
गणिका—(गृहीत्वा) पडिच्छिदं तए त्ति अय्यो णिवेदेदु। [प्रतीष्टं तयेत्यार्यो निवेदयतु।]
विदूषकः—(आत्मगतम्) कोवि उवआरो वि ण एदाए भणिदो। (प्रकाशम्) एवं होदु । (दत्त्वा निष्क्रान्तः) [कोऽप्युपचारोऽपि नैतया भणितः। एवं भवतु।]
गणिका—साहु चारुदत्त! साहु। भाअधेअपरिवुत्तदाए दसाए माणावमाणं रक्खिदं । [साधु चारुदत्त! साधु। भागधेयपरिवृत्ततायां दशायां मानावमानं रक्षितम्।]
(प्रविश्य)

मदनिका—अज्जुए! सत्थवाहपुत्तस्स सआसादो कोच्चि मणुस्सो आअदो इच्छइ अज्जुअं पेक्खिउं। [अज्जुके! सार्थवाहपुत्रस्य सकाशात् कश्चिद् मनुष्य आगत इच्छत्यज्जुकां द्रष्टुम्।]
गणिका—किं दिट्ठपुरुवो णवदंसणो वा। [किं दृष्टपूर्वो नवदर्शनो वा।]
मदनिका—अज्जुए! णहि, तस्सकेरओ त्ति मे पडिभादि। [अज्जुके! नहि, तदीय इति मे प्रतिभाति।]
गणिका—गच्छ, पवेसेहि णं। [गच्छ, प्रवेशयैनम्।]
मदनिका—तह। (निष्क्रान्ता।) [तथा।]
गणिका—अहो रमणिज्जदा अज्ज दिवसस्स। [अहो रमणीयताऽद्य दिवसस्य]।
(ततः प्रविशति मदनिका सज्जलकेन सह।)

सज्जलकः—कष्टा खल्वात्मशङ्का नाम,

यः कश्चिच्चकितगतिर्निरीक्षते मां सम्भ्रान्तो द्रुतमुपसर्पति स्थितो वा।
सर्वास्तांस्तुलयति दोषतो मनो मे स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः।।६।।

मदनिका—एसा अज्जुआ। उवसप्पदु अय्यो। [एषाज्जुका । उपसर्पत्वार्यः।]
सज्जलकः—(उपसृत्य) सुखं भवत्यै।
गणिका—साउदं अय्यस्स। हञ्जे! आसणं देदु अय्यस्स। [स्वागतमार्यस्य। हञ्जे! आसनं दीयतामार्याय।]
सज्जलकः—भवतु भवतु। गृहीतमासनम् । त्वरिततरमनुष्ठेयं किञ्चित् कार्यमस्ति।
गणिका—एवं, भणादु अय्यो। [एवं,भणत्वार्यः।]
सज्जलकः—आर्यचारुदत्तेनास्मि प्रेषितः–यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वसंभोगमलिनतया गृहस्यासान्निध्यात् कौटुम्बिकानां दुरारक्षः। तद्‌ गृह्यताम् इति।
गणिका—इमं तस्स चारुदत्तस्स देदु अय्यो। [इमं तस्मै चारुदत्ताय ददात्वार्यः।]
सज्जलकः—भवति! न खल्वहं गच्छामि।
गणिका—अहं जाणामि तस्स गेहे साहसं करिअ आणीदो अअ अलङ्कारो। तस्स गुणाणि अणुकम्पेदु अय्यो। [अहं जानामि तस्य गेहे साहसं कृत्वानीतोऽयमलङ्कारः । तस्य गुणाननुकम्पतामार्यः।]
सज्जलकः—(आत्मगतम्) कथं विदितोऽस्म्यनया।
गणिका—को एत्थ, पवहणं दाव अय्यस्स। [कोऽत्र, प्रवहणं तावदार्यस्य।]
मदनिका—णेमिसद्दो विअ सुणीअदि! आअदेण पवहणेण होदव्वं। [नेमिशब्द इव श्रूयते। आगतेन प्रवहणेन भवितव्यम्। ]
गणिका—(स्वैराभरणैर्मदनिकामलङ्कृत्य) आरुहदु अय्यो अय्याए सह पवहणं ![आरोहत्वार्य आर्यया सह प्रवहणम्।]
मदनिका—अज्जुए ! किं एदं। [अज्जुके! किमेतत्।]
गणिका—मा खु मा खु एवं मन्तिअ। अय्या खु सि दाणिं संवुत्ता । गण्हदु अय्यो! (मदनिकां गृहीत्वा सज्जलकाय प्रयच्छति।) [मा खलु मा खल्वेवं मन्त्रयित्वा। आर्या खल्वसीदानीं संवृत्ता। गृह्णात्वार्यः।]
सज्जलकः—(आत्मगतम्) भोः! कदा खल्वस्याः प्रतिकर्तव्यं भविष्यति। अथवा, शान्तं शान्तं पापम्।
नरः प्रत्युपकारार्थी विपत्तौ लभते फलम्।
द्विषतामेव कालोऽस्तु योऽस्या भवतु तस्य वा ।।७।।

(तया सह निष्क्रान्तः सज्जलकः ।)

गणिका—चउरिए!। [चतुरिके!।]
चेटी—(प्रकाशं) अज्जुए! इअम्हि। [अज्जुके इयमस्मि।]
गणिका—हञ्जे! पेक्ख जागरन्तीए मएसिविणो दिट्टो एव्वं। [हञ्जे! पश्य जाग्रत्या मया स्वप्नो दृष्टः एवम्।]
चेटी—पिअं मे, अमुदंकणाडअं संवुत्तं। [प्रियं मे, अमृताङ्कनाटकं संवृत्तम्।]
गणिका—एहि इमं अलङ्कारं गण्हिअ अय्यचारुदत्तं अभिसरिस्सामो। [एहीममलङ्कारं गृहीत्वार्यचारुदत्तमभिसरिष्यावः।]
चेटी—अज्जुए! तह । एदं पुण अभिसारिआसहाअभूदं दुद्दिणं उण्णमिदं। [अज्जुके! तथा एतत् पुनरभिसारिकासहायभूत दुर्दिनमुन्नमितम्।]
गणिका—हदासे! मा हु वड्ढावेहि। [हताशे। मा खलु वर्धय।]
चेटी—एदु एदु अज्जुआ। [एत्वेत्वज्जुका।](निष्क्रान्ते।)
इति चतुर्थोऽङ्कः।


 

Categories: Sanskrit

Tagged as: