पतङ्गम् अक्तम् असुरस्य मायया सूक्तं-Patangam Aktam Asurashya Mayaya Suktam- 10/177

  1. पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
    समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥१०,१७७.०१
  2. पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
    तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥१०,१७७.०२
  3. अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
    स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥१०,१७७.०३

पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः ।

समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् । पदम् । इच्छन्ति । वेधसः ॥१

पतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति ।

ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥२

अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।

सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥३


ऋग्वेदः – मण्डल १० सूक्तं १०.१७७
पतङ्गः प्राजापत्यः। दे. मायाभेदः। त्रिष्टुप्, १ जगती।


मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम् ।

असुरस्य असनकुशलस्य सर्वोपाधिविहीनस्य परब्रह्मणः संबन्धिया “मायया त्रिगुणात्मिकया “अक्तं व्यक्तमभिव्यक्तम् । यद्वा। मायेति प्रज्ञानाम । प्रज्ञया संबद्धं सर्वज्ञं “पतङ्गम्। पतति गच्छतीति पतङ्गः सूर्यः । तं “विपश्चितः विद्वांसः “हृदा हृत्स्थेन । तात्स्थ्यात्ताच्छब्द्यम् । हृदि निरुद्धेन “मनसा “पश्यन्ति जानन्ति । “कवयः क्रान्तदर्शिनस्ते “समुद्रे । समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम् । तस्मिन् “अन्तः मध्ये “वि “चक्षते विपश्यन्ति । मण्डलान्तर्वर्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः । य एवं “वेधसः विधातार उक्तप्रकारेण सूर्योपासनस्य कर्तारस्ते “मरीचीनां रश्मीनां “पदं स्थानं सूर्यमण्डलम् “इच्छन्ति अभिलषन्ति । तदुपासनया प्राप्नुवन्तीत्यर्थः । यद्वा । माययाक्तं जीवरूपेणाभिव्यक्तमात्मानं विपश्चितो वेदान्ताभिज्ञा हृत्स्थेनान्तर्मुखेन मनसा पतङ्गम् । पतति व्याप्नोतीति पतङ्गः परमात्मा । तं पश्यन्तिउपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षात्कुर्वन्तीत्यर्थः । अपि च ते कवयः क्रान्तदर्शिनो वेदान्ताभिज्ञाः समुद्रे । समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा । तस्मिन्नधिष्ठानभूतेऽन्तर्मध्ये सर्वं दृश्यजातमध्यस्तत्वेन वि चक्षते विपश्यन्तीति । अतो दृग्व्यतिरिक्तस्य सर्वस्य मिथ्यात्वाद्वेधसो विधातारस्ते मरीचीनां वृत्तिज्ञानानां पदमधिष्ठानभूतं सच्चित्सुखात्मकं यत्परं ब्रह्म तदेवेच्छन्ति । तद्भावप्राप्तिमेव कामयन्ते ॥

वाग्देवत्ये पशौ ‘ पतङ्गो वाचम्’ इति पुरोडाशस्यानुवाक्या । सूत्रितं च — यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्ति ‘ ( आश्व. श्रौ. ३. ८) इति ॥

“पतङ्गः सूर्यः “वाचं त्रयीरूपां “मनसा प्रज्ञया “बिभर्ति धारयति । श्रूयते हि— ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः’ (तै. ब्रा.३.१२.९.१ ) इति । “ताम् एव वाचं “गर्भे शरीरस्य मध्ये वर्तमानः “गन्धर्वः । गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः । “अन्तः मध्ये “अवदत् वदति प्रेरयति । ‘ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ‘ ( पा. शि. ७) इति स्मरणात् । “द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा “मनीषां मनस ईशित्रीं “तां त्रयीरूपां वाचम् “ऋतस्य यज्ञस्य सत्यभूतस्य सूर्यस्य वा “पदे स्थाने “कवयः मेधाविन ऋषयः “नि “पान्ति । अध्यापनेन नितरां रक्षन्ति । यद्वा । पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचं मनसा बिभर्ति । कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्टवानित्यर्थः । स्मर्यते हि — वेदशब्देश्य एवादौ निर्ममे स महेश्वरः’ इति । गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत् प्रथममुच्चारितवान् । द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति निभृतं रक्षन्ति ।

व्याख्यातेयमस्यवामीयसूक्ते ( ऋ. सं. १. १६४. ३१ ) । “गोप गोपयितारमादित्यम् “अपश्यम् अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति । कीदृशम् । “अनिपद्यमानम् उच्चैर्गच्छन्तम् । न ह्यसौ कदाचिन्नीचैः पद्यते । पथिभिः आकाशमार्गैः पूर्वाह्न “आ “चरन्तम् अस्मानभिलक्ष्य गच्छन्तं सार्थसमये “परा चरन्तं पराङ्मुख गच्छन्तम् । प्रकारद्वयमुच्चयार्थी शब्दौ । सः सूर्यः सध्रीचीः सहञ्चन्तीः “विषूचीः विविधं पृथक्पृथगञ्जन्तीः स्वस्वव्यापाराय गच्छन्तीः । प्राच्याद्या महादिशः सधीच्या विधूच्यः कोणदिशः। “वसानः स्वभासाच्छादयन् प्रकाशयन् “भुवनेषु लोकेषु अन्तः मध्ये “ “वरीवति । पुनःपुनरुद्यन् अस्तं गच्छंश्चावर्तते । यद्वा । गोपां शरीरस्य गोपायितारमनिपद्यमानमविनाशिनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मागैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् अहमदर्शम् ॥ ॥३५॥
प्रवर्ग्येऽभिष्टवे ‘अपश्यं गोपाम्’ इत्येषा । सूत्रितं च – ‘ अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य ‘ (आश्व. श्रौ. ४. ६) इति ।। [सायणभाष्यम्]