Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Selective Reading of Rig Veda » ना सदासी न्नोसदासीत्त – Na sadasit na asadasit Suktam- 10/129

ना सदासी न्नोसदासीत्त – Na sadasit na asadasit Suktam- 10/129

  1. नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
    किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥१०,१२९.०१
  2. न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
    आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥१०,१२९.०२
  3. तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
    तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥१०,१२९.०३
  4. कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
    सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥१०,१२९.०४
  5.  तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३ उपरि स्विदासी३ ।
    रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥१०,१२९.०५
  6.  को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
    अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥१०,१२९.०६
  7. इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
    यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥१०,१२९.०७