सुसमिद्धो न आ वह देवां अग्ने हविष्मते ।
होतः पावक यक्षि च ॥
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
अद्या कृणुहि वीतये ॥
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
मधुजिह्वं हविष्कृतम् ॥
अग्ने सुखतमे रथे देवां ईळित आ वह ।
असि होता मनुर्हितः ॥
स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
यत्रामृतस्य चक्षणम् ॥
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः ।
अद्या नूनं च यष्टवे ॥
नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये ।
इदं नो बर्हिरासदे ॥
ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमम् ॥
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
बर्हिः सीदन्त्वस्रिधः ॥
इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये ।
अस्माकमस्तु केवलः ॥
अव सृजा वनस्पते देव देवेभ्यो हविः ।
प्र दातुरस्तु चेतनम् ॥
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
तत्र देवां उप ह्वये ॥
Rig Veda First Mandala-ऋग्वेद- in Devanagari Script
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥