Vedas first appears before BrahmaSanskrit

Patanjali Mahabhasyam-महाभाष्यम्

पस्पशाह्निकम्

1-0- ।। शास्त्रारम्भप्रतिज्ञाधिकरणम् ।।

।। अथ शब्दानुशासनम् ।।

अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् ।।

0-1-010- (2-0) ।। अनुशासनीयशब्दनिर्णयाधिकरणम् ।।

केषां शब्दानाम्?
लौकिकानां वैदिकानां च। तत्र लौकिकास्तावत्- गोरश्वः पुरुषो हस्ती शकुनिः मृगो ब्राह्मण इति। वैदिकाः खल्वपि- शन्नो देवीरभिष्टये (अ.सं.1,1,1), इषे त्वोर्जे त्वा (तै.सं.1,1,1,1), अग्निमीले पुरोहितम् (ऋ.1,1,1), अग्न आयाहि वीतये (सा. सं. 1,1,1) इति ।।
अथ गौरित्यत्र कः शब्दः ?
किं यत्तत्सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपं स शब्दः ?
नेत्याह। द्रव्यं नाम तत् ।।
यत्तर्हि तदिङ्गितं चेष्टितं निमिषितमिति, स शब्दः?
नेत्याह। क्रिया नाम सा ।।
यत्तर्हि तच्छुक्लो नीलः कपिलः कपोत इति स शब्दः?
नेत्याह। गुणो नाम सः ।।
यत्तर्हि तद्भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतं स शब्दः?
नेत्याह। आकृतिर्नाम सा ।।

कस्तर्हि शब्दः?

येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः ।।
अथ वा प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते। तद्यथा- शब्दं कुरु, मा शब्दं कार्षीः, शब्दकारी अयं माणवक इति ध्वनिं कुर्वन्नेवमुच्यते। तस्माद् ध्वनिः शब्दः ।।
(3-0) ।। शब्दानुशासनशास्त्रप्रयोजनाधिकरणम् ।।
(3-1) ।। मुख्यप्रयोजनानि ।।
कानि पुनः शब्दानुशासनस्य प्रयोजनानि?
रक्षोहागमलघ्वसन्देहाः प्रयोजनम् ।।
(3-1-1) ।। रक्षापदार्थनिरूपणभाष्यम् ।।
रक्षार्थं वेदानामध्येयं व्याकरणम्- लोपागमवर्णविकारज्ञो हि सम्यग्वेदान् परिपालयिष्यतीति ।।
(3-1-2) ।। ऊहपदार्थनिरूपणभाष्यम् ।।
ऊहः खल्वपि- न सर्वैर्लिङगैर्न च सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिताः। ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः। तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्। तस्मादध्येयं व्याकरणम् ।।
(3-1-3) ।। आगमपदार्थनिरूपणभाष्यम् ।।
आगमैः खल्वपि- ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च इति। प्रधानं च षट्स्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्नः फलवान्भवति ।।
(3-1-4) ।। लघुपदार्थनिरूपणभाष्यम् ।।
लघ्वर्थं चाध्येयं व्याकरणम्- ब्रह्मणेनावश्यं शब्दा ज्ञेया इति। न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या ज्ञातुम् ।।
-0-1-027- (3-1-5) ।। असन्देहपदार्थनिरूपणभाष्यम् ।।
असन्देहार्थं चाध्येयं व्याकरणम्। याज्ञिकाः पठन्ति- स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत इति। तस्यां सन्देहः- स्थूला चासौ पृषती च स्थूलपृषति, स्थूलानि पृषन्ति यस्याः सेयं स्थूलपृषतीति। तां नावैयाकरणः
स्वरतोऽध्यवस्यति- यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः, अथ समासान्तोदात्तत्वं ततस्तत्पुरुष इति ।।
(3-2) ।। आनुषङ्गिकप्रयोजनानि ।।
इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि- तेऽसुराः। दुष्टः शब्दः। यदधीतम्। यस्तु प्रयुङ्क्ते। अविद्वांसः। विभक्तिं कुर्वन्ति। यो वा इमाम्। चत्वारि। उत त्वः। सक्तुमिव। सारस्वतीम्। दशम्यां पुत्रस्य। सुदेवो असि वरुण इति ।।
-0-1-028- (3-2-1) ।। तेऽसुराः ।।
तेऽसुरा हेलयो हेलय इति कुर्वन्ति परावभूवुः। तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै। म्लेच्छो ह वा एष यदपशब्दः। म्लेच्छा मा भूमेत्यध्येयं व्याकरणम्। तेऽसुराः ।।
(3-2-2) ।। दुष्टः शब्दः ।।
-0-1-030- दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।। इति ।।
दुष्टाञ्ञ्छब्दान्मा प्रयुक्ष्महीत्यध्येयं व्याकरणम्। दुष्टः शब्दः ।।
(3-2-3) ।। यदधीतम् ।।
यदधीतमविज्ञातं निगदेनैव शब्द्यते। अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।। तस्मादनर्थकं माधिगीष्महीत्यध्येयं व्याकरणम्। यदधीतम् ।।
-0-1-033- (3-2-4) ।। यस्तु प्रयुङ्क्ते ।।
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले। सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ।।
कः ?
वाग्योगविदेव ।।
कुत एतत् ?
यो हि शब्दाञ्ञ्जानात्यपशब्दानप्यसौ जानाति। यथैव हि शब्दज्ञाने धर्मः,
एवमपशब्दज्ञानेऽप्यधर्मः। अथ वा भूयानधर्मः प्राप्नोति। भूयांसोऽपशब्दाः, अल्पीयांसः शब्दाः इति। एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः। तद्यथा- गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः। अथ योऽवाग्योगवित्, अज्ञानं तस्य शरणम् ।।
विषम उपन्यासः। नात्यन्तायाऽज्ञानं शरणं भवितुमर्हति। यो ह्यजानन्वै ब्राह्मणं हन्यात् सुरां वा पिबेत्सोऽपि मन्ये पतितः स्यात् ।।
एवं तर्हि- सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ।।
कः ?
अवाग्योगविदेव। अथ यो वाग्योगविद्, विज्ञानं तस्य शरणम् ।।
क्व पुनरिदं पठितम् ?
भ्राजा नाम श्लोकाः ।।
किं च भोः श्लोका अपि प्रमाणम् ?
किं चातः ?
यदि श्लोका अपि प्रमाणम्, अयमपि श्लोकः प्रमाणं भवितुमर्हति-
यदुदुम्बरवर्णानां घटीनां मण्डुलं महत्।
पीतं न गमयेत्स्वर्गं किं तत् क्रतुगतं नयेत् ।। इति।
प्रमत्तगीत एष तत्रभवतः। यस्त्वप्रमत्तगीतस्तत्प्रमाणम् ।। यस्तु प्रयुङ्क्ते ।।
(3-2-5) ।। अविद्वांसः ।।
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः। कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ।। अभिवादे
स्त्रीवन्मा भूमेत्यध्येयं व्याकरणम्। अविद्वांसः ।।
(3-2-6) ।। विभक्तिं कुर्वन्ति ।।
याशिकाः पठन्ति- प्रयाजाः सविभक्तिकाः कार्या इति। न चान्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्। विभक्तिं कुर्वन्ति ।।
(3-2-7) ।। यो वा इमाम् ।।
यो वा इमां पदशः स्वरशोऽक्षरशश्च वाचं विदधाति स आर्त्विजीनो भवति। आर्त्त्विजीनाः स्यामेत्यध्येयं व्याकरणम्। यो वा इमाम् ।।
-0-1-040- (3-2-8-1) चत्वारि ।।
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो र्मत्यान् आविवेश ।। इति।
चत्वारि शृङ्गाणि। चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च। त्रयो अस्य पादाः- त्रयः काला- भूतभविष्यद्वर्तमानाः। द्वै शीर्षे- द्वौ शब्दात्मानौ नित्यः कार्यश्च। सप्तहस्तासो अस्य- सप्त विभक्तियः। त्रिधा बद्धः- त्रिषु स्थानेषु बद्ध- उरसि कण्ठे शिरसीति। वृषभो वर्षणात्। रोरवीति- शब्दं करोति ।।
कुत एतत् ?
रौतिः शब्दकर्मा ।।
महो देवो र्मत्यान् आविवेशेति। महान् देवः शब्दः। र्मत्या मरणर्धम्माणो मनुष्यास्तानाविवेश। महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम् ।।
अपर आह- चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ।।
चत्वारि वाक्परिमितानि पदानि- चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च। तानि विदुर्ब्राह्मणा ये मनीषिणः। मनस इर्षिणो मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति। गुहायां त्रीणि निहितानि नेङ्गयन्ति- न चष्टन्ते। न निमिषन्तीत्यर्थः। तुरीयं वाचो मनुष्या वदन्ति। तुरीयं वा एतद्वाचो यन्मनुष्येषु वर्तते चतुर्थमित्यर्थः। चत्वारि ।।
-0-1-045- (3-2-9) ।। उत त्वः ।।
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम्। उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उसती सुवासाः ।।
उत त्वः अपि खल्वेकः पश्यन्नपि न पश्यति वाचम्। अपि खल्वेकः शृण्वन्नपि न शृणोत्येनाम् इति अविद्वांसमाहार्धम्। उतो त्वस्मै तन्वं विसस्रे- तनुं विवृणुते। जायेव पत्य उशती सुवासाः। तद्यथा– जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते एवं वाग् वाग्विदे स्वात्मानं विवृणुते। वाङ्नो विवृणुयादात्मानमित्यध्येयं व्याकरणम्। उत त्वः ।।
-0-1-046- (3-2-10) ।। सक्तुमिव ।।
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत। अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीः निहिताऽधि वाचि ।।
सक्तुः सचतेर्दुर्धावो भवति। कसतेर्वा विपरीताद् विकसितो भवति। तितउ परिपवनं भवति। ततवद्वा- तुन्नवद्वा। धीरा- ध्यानवन्तः। मनसा- प्रज्ञानेन। वाचमक्रत- वाचमकृषत।
अत्रा सखायः सख्यानि जानते। अत्र सखायः सन्तः सख्यानि जानते।
क्व ?
य एष दुर्गो मार्ग एकगम्यो वाग्विषयः ।।
के पुनस्ते ?
वैयाकरणाः ।।
कुत एतत् ?
भद्रैषां लक्ष्मीर्निहिता अधि वाचि।
एषां वाचि भद्रा लक्ष्मीर्निहिता भवति। लक्ष्मीर्लक्षणात् भासनात्परिवृढा भवति। सक्तुमिव ।।
(3-2-11) ।। सारस्वतीम् ।।
याज्ञिकाः पठन्ति- आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्। प्रायश्चित्तीया मा भूमेत्यध्येयं व्याकरणम्। सारस्वतीम् ।।
(3-2-12) ।। दशम्यां पुत्रस्य ।।
याज्ञिकाः पठन्ति- दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्याद् घोषवदाद्यन्तरन्तःस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितम्। तद्धि प्रतिष्ठिततमं भवति। द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितम् इति।
न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुम्। दशम्यां पुत्रस्य ।।
-0-1-049- (3-2-13) सुदेवो असि वरुण ।।
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः। अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ।। सुदेवो असि वरुण- सत्यदेवोऽसि। यस्य ते सप्त सिन्धवः- सप्त विभक्तयः। अनुक्षरन्ति काकुदम्। काकुदम्- तालु। काकुर्जिह्वा, सास्मिन्नुद्यत इति काकुदम्। सूर्म्यं सुषिरामिव। तद्यथा- शोभनामूर्मिं सुषिरामग्निरन्तः प्रविश्य दहति, एवं ते सप्त सिन्धवः- सप्त विभक्तयस्ताल्वनुक्षरन्ति। तेनासि सत्यदेवः। सत्यदेवाः स्यामेत्यध्येयं व्याकरणम्। सुदेवो असि ।।
(6-0) ।। उक्तप्रयोजनग्रन्थोपपत्तिप्रकरणम् ।।
किं पुनरिदं व्याकरणमेवाधिजिगांसमानेभ्यः प्रयोजनमन्वाख्यायते न पुनरन्यदपि किञ्ञ्चित्। ओमित्युक्त्वा वृत्तान्तशः शमित्येवमादीन् शब्दान्पठन्ति ।
पुराकल्प एतदासीत्- संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्माधीयते। तेभ्यस्तत्तत्स्थानकरणानुप्रदानज्ञेभ्यो वैदिकाः शब्दा उपदिश्यन्ते। तदद्यत्वे न तथा। वेदमधीत्य त्वरिता वक्तारो भवन्ति- वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः। अनर्थकं व्याकरणम् इति। तेभ्य एवं विप्रतिपन्नबुद्धिभ्योऽध्येतृभ्यः सुहृद्भूत्वा आचार्य इदं शास्त्रमन्वाचष्टे- इमानि प्रयोजनान्यध्येयं व्याकरणम्- इति।
उक्तः शब्दः। स्वरूपमप्युक्तम्। प्रयोजनान्यप्युक्तानि।
-0-1-052- (7-0) ।। शास्त्रनिर्माणरीतिनिरूपणाधिकरणम् ।।
शब्दानुशासनमिदानीं कर्तव्यम्। तत्कथं कर्तव्यम्? किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति।।
अन्यतरोपदेशेन कृतं स्यात्। तद्यथा भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते। पञ्ञ्च पञ्ञ्चनखा भक्ष्याः इत्युक्ते गम्यत एतद्- अतोन्येऽभक्ष्या इति। अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः। तद्यथा अभक्ष्यो ग्राम्यकुक्कुटः, अभक्ष्यो ग्राम्यसूकरः इत्युक्ते गम्यत एतद्- आरण्यो भक्ष्य इति। एवमिहापि। यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपदिष्टे गम्यत एतद्- गाव्यादयोऽपशब्दा इति। अथाप्यपशब्दोपदेशः क्रियते, गाव्यादिषूपदिष्टेषु गम्यत एतद्- गौरित्येष शब्दः- इति ।।
किं पुनरत्र ज्यायः?
लघुत्वाच्छब्दोपदेशः।
लघीयाञ्ञ्छब्दोपदेशः। गरीयानपशब्दोपदेशः। एकैकस्य शब्दस्य बहवोऽपभ्रंशाः। तद्यथा– गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः। इष्टान्वाख्यानं खल्वपि भवति ।।
अथैतस्मिञ्ञ्शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपद पाठः कर्तव्यः, गौरश्वः पुरुषो हस्ती शकुनिः मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्याः?
नेत्याह। अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः। एवं हि श्रूयते- बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम। बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं
वर्षसहस्रमध्ययनकालो, न चान्तं जगाम, किं पुनरद्यत्वे? यः सर्वथा चिरं जीवति वर्षशतं जीवति। चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति- आगमकालेन स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति। तत्र चास्यागमकालेनैवायुः कृत्स्नं पर्युपयुक्तं स्यात्। तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः ।।
कथं तर्हीमे शब्दाः प्रतिपत्तव्याः ?
किञ्ञ्चित्सामान्यविशेषवल्लक्षणं प्रर्वत्यम्। येनाल्पेन यत्नेन महतो महतः शब्दौघान्प्रतिपद्येरन् ।।
किं पुनस्तत्?
उत्सर्गापवादौ। कश्चिदुत्सर्गः कर्तव्यः, कश्चिदपवादः।
कथंजातीयकः पुनरुत्सर्गः कर्तव्यः, कथंजातीयकोऽपवादः?
सामान्येनोत्सर्गः कर्तव्यः। तद्यथा- कर्मण्यण्। तस्य विशेषेणापवादः। तद्यथा- आतोऽनुपसर्गे कः ।।
(8-0) ।। जातिव्यक्तिपदार्थनिर्णयाधिकरणम् ।।
किं पुनराकृतिः पदार्थः, आहोस्विद् द्रव्यम्?
उभयमित्याह ।।
कथं ज्ञायते?
उभयथा ह्याचार्य्येण सूत्राणि पठितानि। आकृतिं पदार्थं मत्वा- जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् इत्युच्यते। द्रव्यं पदार्थं मत्वा- सरूपाणाम् इत्येकशेष आरभ्यते ।।
(9-0) ।। शब्दनित्यत्वानित्यत्वविचारप्रकरणम् ।।
किं पुनर्नित्यः शब्दः, आहोस्वित्कार्यः?
सङ्ग्रह एतत्प्राधान्येन परीक्षितम्- नित्यो वा स्यत्कार्यो वेति। तत्रोक्ता दोषाः, प्रयोजनान्यप्युक्तानि। तत्र त्वेष निर्णयः- यद्येव नित्यः, अथापि कार्यः, उभयथापि लक्षणं प्रर्वत्यमिति ।।
(9-1) ।। नित्यशब्दवादेऽपि शास्त्रस्य धर्मजनकताधिकरणम् ।।
कथं पुनरिदं भगवतः पाणिनेराचार्यस्य लक्षणं प्रवृत्तम्?
-0-1-061- (9-1-1) सिद्धे शब्दार्थसम्बन्धे –
सिद्धे शब्देऽर्थे सम्बन्धे चेति ।।
अथ सिद्धशब्दस्य कः पदार्थः?
नित्यपर्यायवाची सिद्धशब्दः।
कथं ज्ञायते?
यत्कूटस्थेष्वविचालिषु भावेषु वर्तते। तद्यथा- सिद्धा द्यौः, सिद्धा पृथिवी, सिद्धमाकाशमिति।
ननु च भोः कार्येष्वपि वर्तते तद्यथा- सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति। यावता कार्येष्वपि वर्तते, तत्र कुत एतन्नित्यपर्यायवाचिनो ग्रहणम्, न पुनः कार्ये यः सिद्धशब्द इति।।
सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावान्मन्यामहे नित्यपर्यायवाचिनो ग्रहणमिति। इहापि तदेव ।।
अथ वा सन्त्येकपदान्यप्यवधारणानि। तद्यथा- अब्भक्षो वायुभक्ष इति- अप एव भक्षयति, वायुमेव भक्षयतीति गम्यते। एवमिहापि। सिद्ध एव न साध्य इति ।।
अथ वा पूर्वपदलोपोऽत्र द्रष्टव्यः। अत्यन्तसिद्धः सिद्ध इति। तद्यथा- देवदत्तो दत्तः, सत्यभामा भामेति ।।
अथ वा व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्यामः ।।
किं पुनरनेन र्वण्येन। किं न महता कण्ठेन नित्यशब्द एवोपात्तः, यस्मिन्नुपादीयमानेऽसेन्देहः स्यात्?
मङ्गलार्थम् ।।
माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दमादितः प्रयुङ्क्ते। मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति ।।
अयं खलु नित्यशब्दो नावश्यं कूटस्थेष्वविचालिषु भावेषु वर्तते ।।
किं तर्हि?
आभीक्ष्ण्येऽपि वर्तते। तद्यथा- नित्यप्रहसितो नित्यप्रजल्पित इति। यावताभीक्ष्ण्येऽपि वर्तते तत्राप्यनेनैवार्थः स्यात् व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इति। पश्यति त्वाचार्यो मङ्गलार्थश्चैव सिद्धशब्द आदितः प्रयुक्तो भविष्यति, शक्ष्यामि चैनं नित्यपर्यायवचिनं वर्णयितुमिति। अतः सिद्धशब्द एवोपात्तो न नित्यशब्दः ।।
(9-2) ।। नित्यतासाधकपक्षनिर्णयाधिकरणम् ।।
अथ कं पुनः पदार्थं मत्वा एष विग्रहः क्रियते- सिद्धे शब्दोऽर्थे सम्बन्धे चेति? आकृतिमित्याह ।।
कुत एतत्?
आकृतिर्हि नित्या द्रव्यमनित्यम् ।।
अथ द्रव्ये पदार्थे कथं विग्रहः कर्तव्यः?
सिद्धे शब्दे अर्थसम्बन्धे चेति। नित्यो ह्यर्थवतामर्थैरभिसम्बन्धः ।।
अथ वा द्रव्य एव पदार्थे एष विग्रहो न्याय्यः- सिद्धे शब्दे अर्थे सम्बन्धे चेति। द्रव्यं हि नित्यमाकृतिरनित्या ।।
कथं ज्ञायते?
एवं हि दृश्यते लोके मृत्कयाचिदाकृत्या युक्ता पिण्डो भवति, पिण्डाकृतिमुपमृद्य घटिकाः क्रियन्ते, घटिकाकृतिमुपमृद्य कुण्डिकाः क्रियन्ते। तथा सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते। पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः। आकृतिरन्या चान्या च भवति, द्रव्यं पुनस्तदेव। आकृत्युपमर्देन द्रव्यमेवावशिष्यते ।।
आकृतावपि पदार्थ एष विग्रहो न्याय्यः- सिद्धे शब्दे अर्थे सम्बन्धे चेति ।।
ननु चोक्तम्- आकृतिरनित्या- इति ।।
नैतदस्ति। नित्याऽऽकृतिः ।।
कथम्?
न क्वचिदुपरतेति कृत्वा सर्वत्रोपरता भवति। द्रव्यान्तरस्था तूपलभ्यते ।।
अथ वा नेदमेव नित्यलक्षणम्- ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि यत्तन्नित्यम् इति। तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते ।।
किं पुनस्तत्त्वम् ?
तद्भावस्तत्त्वम्। आकृतावपि तत्त्वं न विहन्यते ।।
अथ वा किं न एतेन- इदं नित्यमिदमनित्यमिति। यन्नित्यं तं पदार्थं मन्वैष विग्रहः क्रियते- सिद्धे शब्देऽर्थे सम्बन्धे चेति ।।
कथं पुनर्ज्ञायते- सिद्धः शब्दोऽर्थः सम्बन्धश्चेति?
(9-2-1) लोकतः –
यल्लोकेऽर्थमर्थमुपादाय शब्दान्प्रयुञ्ञ्जते, नैषां निर्वृत्तौ यत्नं कुर्वन्ति। ये पुनः कार्या भावा निर्वृत्तौ तावत्तेषां यत्नः क्रियते। तद्यथा- घटेन कार्यं करिष्यन्कुम्भकारकुलं गत्वाह- कुरु घटं कार्यमनेन करिष्यामीति। न तावच्छब्दान्प्रयुयुक्षमाणो वैयाकरणकुलं गत्वाह- कुरु शब्दान्प्रयोक्ष्य
इति। तावत्येवार्थमुपादाय शब्दान्प्रयुञ्ञ्जते ।।
यदि तर्हि लोक एषु प्रमाणम्, किं शास्त्रेण क्रियते?
-0-1-065- (9-2-2) लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः –
लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ।।
किमिदं धर्मनियम इति?
धर्माय नियमो धर्मनियमः, धर्मार्थो वा नियमो धर्मनियमः, धर्मप्रयोजनो वा नियमो धर्मनियमः ।।
-0-1-067- (9-2-3) यथा लौकिकवैदिकेषु –
प्रियतद्धिता दाक्षिणात्याः- यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्ञ्जते। अथ वा युक्त एवात्र तद्धितार्थः। यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।।
लोके तावद् अभक्ष्यो ग्राम्यकुक्कुटः, अभक्ष्यो ग्राम्यसूकर इत्युच्यते। भक्ष्यं च नाम क्षुत्प्रतिघातार्थमुपादीयते। शक्यं चानेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्। तत्र नियमः क्रियते- इदं भक्ष्यमिदमभक्ष्यमिति। तथा- खेदात्स्त्रीषु प्रवृत्तिर्भवति। समानश्च खेदविगमो गम्यायां चागम्यायां च। तत्र नियमः क्रियते- इयं गम्येयमगम्येति ।।
वेदे खल्वपि- पयोव्रतो ब्राह्मणो यवागूव्रतो राजन्य आमिक्षाव्रतो वैस्यः इत्युच्यते। व्रतं च नामाभ्यवहारार्थमुपादीयते। शक्यं चानेन शालिमांसादीन्यपि व्रतयितुम्। तत्र नियमः क्रियते ।।
तथा बैल्वः खादिरो वा यूपः स्यात् इत्युच्यते। यूपश्च नाम पश्वनुबन्धार्थमुपादीयते। शक्यं चानेन यत्किञ्ञ्चिदेव काष्ठमुच्छ्रित्यानुच्छ्रित्य वा पशुरनुबन्धुम्। तत्र नियमः क्रियते ।।
तथा अग्नौ कपालान्यधिश्रित्याभिमन्त्रयते- भृगूणामङि्गरसां धर्मस्य तपसा तप्यध्वम् इति। अन्तरेणापि मन्त्रमग्निर्दहनकर्मा कपालानि सन्तापयति। तत्र च नियमः क्रियते- एवं क्रियमाणमभ्युदयकारि भवतीति ।।
एवमिहापि समानायामर्थावगतौ शब्देन चापशब्देन च धर्मनियमः क्रियते- शब्देनैवार्थोऽभिधेयो नापशब्देनेति। एवं क्रियमाणमभ्युदयकारि भवतीति ।।
(10-0) ।। अनुपलब्धप्रयोगसाधुशब्दसाधकशास्त्रसार्थक्याधिकरणण् ।।
-0-1-068- (10-1) अस्त्यप्रयुक्तः –
सन्ति वै शब्दा अप्रयुक्ताः। तद्यथा- ऊष, तेर, चक्र, पेच इति ।।
किमतो यत्सन्त्यप्रयुक्ताः?
प्रयोगाद्धि भवाञ्ञ्छब्दानां साधुत्वमध्यवस्यति। य इदानीमप्रयुक्ता नामी साधवः स्युः ।।
इदं तावद् विप्रतिषिद्धं यदुच्यते सन्ति वै शब्दा अप्रयुक्ताः इति। यदि सन्ति नाप्रयुक्ताः, अथाप्रयुक्ता न सन्ति, सन्ति चाप्रयुक्ताश्चेति विप्रतिषिद्धम्। प्रयुञ्ञ्जान एव खलु भवानाह- सन्ति शब्दा अप्रयुक्ता इति। कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात्?
नैतद् विप्रतिषिद्धम्। सन्तीति तावद् ब्रूमः, यदेताञ्ञ्शास्त्रविदः शास्त्रेणानुविदधते। अप्रयुक्ता
इति ब्रूमः, यल्लोकेऽप्रयुक्ता इति। यदप्युच्यते- कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यादिति। न ब्रूमोऽस्माभिरप्रयुक्ता इति।
किन्तर्हि ?
लोकेऽप्रयुक्ता इति।
ननु च भवानप्यभ्यन्तरो लोके।
अभ्यन्तरोऽहं लोके, न त्वहं लोकः।
(10-2) अस्त्यप्रयुक्त इति चेन्नार्थे शब्दप्रयोगात् –
अस्त्यप्रयुक्त इति चेत्। तन्न।
किं कारणम्?
अर्थे शब्दप्रयोगात्। अर्थे शब्दाः प्रयुज्यन्ते। सन्ति चैषां शब्दानामर्था येष्वर्थेषु प्रयुज्यन्ते।
-0-1-069- (10-3) अप्रयोगः प्रयोगान्यत्वात् –
अप्रयोगः खल्वप्येषां शब्दानां न्याय्यः।
कुतः?
प्रयोगान्यत्वात्। यदेषां शब्दानामर्थेऽन्याञ्ञ्छब्दान्प्रयुञ्ञ्जते। तद्यथा- ऊषेत्यस्य शब्दस्यार्थे क्व यूयमुषिताः, तेरेत्यस्यार्थे क्व यूयं तीर्णाः, चक्रेत्यस्यार्थे क्व यूयं कृतवन्तः, पेचेत्यस्यार्थे क्व यूयं पक्ववन्त इति।
(10-4) अप्रयुक्ते दीर्घसत्रवत् –
यद्यप्यप्रयुक्ता अवश्यं दीर्घसत्रवल्लक्षणेनानुविधेयाः। तद्यथा- दीर्घसत्राणि वार्षशतिकानि वार्षसहस्रिकाणि च। न चाद्यत्वे कश्चिदप्याहरति। केवलमृषिसम्प्रदायो धर्म इति कृत्वा याज्ञिकाः शास्त्रेणानुविदधते।
-0-1-071- (10-5) सर्वे देशान्तरे –
सर्वे खल्वप्येते शब्दा देशान्तरेषु प्रयुज्यन्ते।
न चैवोपलभ्यन्ते।
उपलब्धौ यत्नः क्रियताम्। महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः, सहस्रर्वत्मा सामवेदः, एकविंशतिधा बाह्वृच्यं, नवधाऽऽथर्वणो वेदः, वाकोवाक्यमितिहासः, पुराणम्, वैद्यकमित्येतावाञ्ञ्छब्दस्य प्रयोगविषयः। एतावन्तं शब्दस्य प्रयोगविषयमननुनिशम्य सन्त्यप्रयुक्ता इति वचनं केवलं साहसमात्रमेव।
एतस्मिंश्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया दृश्यन्ते। तद्यथा- शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति, विकार एवैनमार्या भाषन्ते शव इति। हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमध्यमेषु, गमिमेव त्वार्याः प्रयुञ्ञ्जते। दातिर्लवनार्थे प्राच्येषु, दात्रमुदीच्येषु।
ये चाप्येते भवतोऽप्रयुक्ता अभिमताः शब्दा एतेषामपि प्रयोगो दृश्यते।
क्व?
वेदे। तद्यथा- सप्तास्ये रेवती रेवदूष, यद्वो रेवती रेवत्यं तदूष, यन्मे नरः श्रुत्यं ब्रह्म चक्र, यत्रा नश्चक्रा जरसं तनूनाम् इति।
(11-0) ।। अथ शब्दज्ञानस्य धर्मजनकताधिकरणम् ।।
किं पुनः शब्दस्य ज्ञाने धर्म आहोस्वित्प्रयोगे?
कश्चात्र विशेषः?
-0-1-072- (11-1) ज्ञाने धर्म इति चेत्तथाऽधर्मः –
ज्ञाने धर्म इति चेत्तथाऽधर्मोऽपि प्राप्नोति। यो हि शब्दाञ्ञ्जानात्यपशब्दानप्यसौ जानाति। यथैव शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्यधर्मः।
अथ वा भूयानधर्मः प्राप्नोति। भूयांसो ह्यपशब्दा अल्पीयांसः शब्दाः। एकैकस्य शब्दस्य बहवोऽपभ्रंशाः। तद्यथा- गौरित्यस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः।
(11-2) आचारे नियमः –
आचारे पुनर्ऋषिर्नियमं वेदयते- तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः इति।
अस्तु तर्हि प्रयोगे।
(11-3) प्रयोगे सर्वलोकस्य –
यदि प्रयोगे धर्मः, सर्वो लोकोऽभ्युदयेन युज्येत। कश्चेदानीं भवतो मत्सरो, यदि सर्वो लोकोऽभ्युदयेन युज्येत?
न खलु कश्चिन्मत्सरः। प्रयत्नानर्थक्यं तु भवति। फलवता च नाम प्रयत्नेन भवितव्यम्। न च प्रयत्नः फलाद् व्यतिरेच्यः।
ननु च ये कृतप्रयत्नास्ते साधीयः शब्दान्प्रयोक्ष्यन्ते, त एव साधीयोऽभ्युदयेन योक्ष्यन्ते।
व्यतिरेकोऽपि वै लक्ष्यते। दृश्यन्ते हि- कृतप्रयत्नाश्चाप्रवीणाः, अकृतप्रयत्नाश्च प्रवीणाः। तत्र फलव्यतिरेकोऽपि स्यात्।
एवं तर्हि नापि ज्ञान एव धर्मो नापि प्रयोग एव।
किन्तर्हि?
-0-1-076- (11-4) शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन –
शात्रपूर्वकं यः शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यते। तत्तुल्यं वेदशब्देन। वेदशब्दा अप्येवमभिवदन्ति-
योऽग्निष्टोमेन यजते य उ चैनमेवं वेद, योग्निं नाचिकेतं चिनुते य उ चैनमेवं वेद ।।
अपर आह- तत्तुल्यं वेदशब्देनेति। यथा वेदशब्दा नियमपूर्वकमधीताः फलवन्तो भवन्त्येवं यः शात्रपूर्वकं शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यत इति ।।
अथ वा पुनरस्तु ज्ञान एव धर्म इति।
ननु चोक्तम्- ज्ञाने धर्म इति चेत्तथाऽधर्मः इति।
नैष दोषः, शब्दप्रमाणका वयम्। यच्छब्द आह तदस्माकं प्रमाणम्। शब्दश्च शब्दज्ञाने धर्ममाह, नापशब्दज्ञानेऽधर्मम्। यच्च पुनरशिष्टाप्रतिषिद्धम्, नैव तद्दोषाय भवति, नाभ्युदयाय। तद्यथा- हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति, नाभ्युदयाय।
अथ वाऽभ्युपाय एवापशब्दज्ञानं शब्दज्ञाने। यो ह्यपशब्दाञ्ञ्जानाति शब्दानप्यसौ जानाति। तदेवं ज्ञाने धर्मः इति ब्रुवतोऽर्थादापन्नं भवति- अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्म इति।
अथ वा कूपखानकवदेतद्भविष्यति। तद्यथा- कूपखानकः कूपं खनन्यद्यपि मृदा पांसुभिश्चावकीर्णो भवति। सोऽप्सु सञ्ञ्जातासु तत एव तं गुणमासादयति येन च स दोषो निर्हण्यते, भूयसा चाभ्युदयेन योगो भवति। एवमिहापि। यद्यप्यपशब्दज्ञानेऽधर्मस्तथापि यस्त्वसौ शब्दज्ञाने धर्मस्तेन च स दोषो निर्घानिष्यते भूयसा चाभ्युदयेन योगो भविष्यति।
यदप्युच्यते आचारे नियमः इति। याज्ञे कर्मणि स नियमोऽन्यत्रानियमः। एवं हि श्रूयते- यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परापरज्ञा विदितवेदितव्या अधिगतयाथातथ्याः। ते तत्रभवन्तो यद्वा नस्तद्वा न इति प्रयोक्तव्ये यर्वाणस्तर्वाण इति प्रयुञ्ञ्जते, याज्ञे पुनः कर्मणि नापभाषन्ते। तैः पुनरसुरैर्याज्ञे कर्मण्यपभाषितम्, ततस्ते पराभूताः।
(12-0) ।। अथ व्याकरणपदार्थनिरूपणाधिकरणम् ।।
अथ व्याकरणमित्यस्य शब्दस्य कः पदार्थः?
सूत्रम् ।।
(12-1) सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः –
सूत्रे व्याकरणे षष्ठ्यर्थो नोपपद्यते- व्याकरणस्य सूत्रम् इति। किं हि तदन्यत्सूत्राद् व्याकरणम्, यस्यादः सूत्रं स्यात् ।।
-0-1-077- (12-2) शब्दाप्रतिपत्तिः –
शब्दानां चाप्रतिपत्तिः प्राप्नोति। व्याकरणाच्छब्दान्प्रतिपद्यामहे इति। न हि सूत्रत एव शब्दान्प्रतिपद्यन्ते।
किं तर्हि?
व्याख्यानतश्च।
ननु च तदेव सूत्रं विगृहीतं व्याख्यानं भवति।
न केवलानि चर्चापदानि व्याख्यानम्- वृद्धिः, आत्, ऐज् इति।
किं तर्हि?
उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति।
एवं तर्हि शब्दः।
(12-3) शब्दे ल्युडर्थः –
यदि शब्दो व्याकरणं ल्युडर्थौ नोपपद्यते- व्याक्रियन्ते शब्दा अनेनेति व्याकरणम्। न हि
शब्देन किञ्ञ्चिद् व्याक्रियते।
केन तर्हि?
सूत्रेण।
(12-4) भवे च तद्धितः –
भवे च तद्धितो नोपपद्यते- व्याकरणे भवो योगो वैयाकरणः इति। न हि शब्दे भवो योगः।
क्व तर्हि?
सूत्रे।
-0-1-078- (12-5) प्रोक्तादयश्च तद्धिताः –
प्रोक्तादयश्च तद्धिता नोपपद्यन्ते। पाणिनिना प्रोक्तं पाणिनीयम्। आपिशलं काशकृत्स्नमिति। नहि पाणिनिना शब्दाः प्रोक्ताः।
किं तर्हि?
सूत्रम्।
किमर्थमिदमुभयमुच्यते भवे, प्रोक्तादयश्च तद्धिताः इति। न प्रोक्तादयश्च तद्धिताः इत्येव भवेऽपि तद्धितश्चोदितः स्यात्?
पुरस्तादिदमाचार्येण दृष्टम् भवे च तद्धितः इति, तत्पठितम्। तत उत्तरकालमिदं दृष्टम् प्रोक्तादयश्च तद्धिताः इति, तदपि पठितम्। न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति।
अयं तावददोषः- यदुच्यते शब्दे ल्युडर्थः इति। नावश्यं करणाधिकरणयोरेव ल्युडि्वधीयते।
किं तर्हि?
अन्येष्वपि कारकेषु- कृत्यल्युटो बहुलम् इति। तद्यथा- प्रस्कन्दनं प्रपतनमिति।
अथ वा शब्दैरपि शब्दा व्याक्रियन्ते। तद्यथा- गौरत्युक्ते सर्वे सन्देहा निवर्तन्ते, नाश्वो न गर्दभ इति।
अयं तर्हि दोषः- भवे, प्रोक्तादयश्च तद्धिताः इति।
एवं तर्हि-
-0-1-079- (12-6) लक्ष्यलक्षणे व्याकरणम् –
लक्ष्यं च लक्षणं चैतत्समुदितं व्याकरणं भवति।
किं पुनर्लक्ष्यम्, किं वा लक्षणम्?
शब्दो लक्ष्यः, सूत्रं लक्षणम्।
एवमप्ययं दोषः- समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवे नोपपद्यते। सूत्राणि चाप्यधीयान इष्यते वैयाकरण इति।
नैष दोषः। समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्ते। तद्यथा- पूर्वे पञ्ञ्चालाः, उत्तरे पञ्ञ्चलाः,
तैलं भुक्तम्, घृतं भुक्तम्, शुक्लो नीलः कपिलः, कृष्णः इति। एवमयं समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते।
अथ वा पुनरस्तु सूत्रम्।
ननु चोक्तम्- सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः इति।
नैष दोषः। व्यपदेशिवद्भावेन भविष्यति।
यदप्युच्यते शब्दाप्रतिपत्तिः इति। न हि सूत्रत एव शब्दान् प्रतिपद्यन्ते।
किन्तर्हि?
व्याख्यानतश्चेति। परिहृतमेतत्- तदेव सूत्रं विगृहीतं व्याख्यानं भवतीति।
ननु चोक्तम्- न केवलानि चर्चापदानि व्याख्यानम्- वृद्धिः, आत्, ऐजिति।
किन्तर्हि?
उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति इति।
अविजानत एतदेवं भवति। सूत्रत एव हि शब्दान्प्रतिपद्यन्ते। आतश्च सूत्रत एव। यो ह्युत्सूत्रं कथयेन्नादो गृह्येत।
(13-0) ।। अथ वर्णोपदेशप्रयोजनाधिकरणम् ।।
अथ किमर्थो वर्णानामुपदेशः?
-0-1-080- (13-1) वृत्तिसमवायार्थ उपदेशः –
वृत्तिसमवायार्थो वर्णानामुपदेशः।
किमिदं वृत्तिसमवायार्थ इति?
वृत्तये समवायो वृत्तिसमवायः। वृत्त्यर्थो वा समवायो वृत्तिसमवायः। वृत्तिप्रयोजनो वा समवायो वृत्तिसमवायः।
का पुनर्वृत्तिः?
शास्त्रप्रवृत्तिः।
अथ कः समवायः?
वर्णानामानुपूर्व्येण सन्निवेशः।
अथ क उपदेशः?
उच्चारणम्।
कुत एतत्?
दिशिरुच्चारणक्रियः। उच्चार्य हि वर्णानाह- उपदिष्टा इमे वर्णा इति।
(13-2) अनुबन्धकरणार्थश्च –
अनुबन्धकरणार्थश्च वर्णानामुपदेशः- अनुबन्धानासङ्क्ष्यामीति। न ह्यनुपदिश्य वर्णाननुबन्धाः शक्या आसङ्क्तुम्। स एष वर्णानामुपदेशो वृत्तिसमवायार्थश्चानुबन्धकरणार्थश्च। वृत्तिसमवायश्चानुबन्धकरणं च प्रत्याहारार्थम्। प्रत्याहारो वृत्त्यर्थः।
(13-3) इष्टबुद्ध्यर्थश्च –
इष्टबुद्धर्थश्च वर्णानामुपदेशः- इष्टान्वर्णान्भोत्स्यामहे इति। न ह्यनुपदिश्य वर्णानिष्टा वर्णाः शक्या विज्ञातुम्।
(13-4) इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः –
इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः कर्तव्यः। एवंगुणा अपि हि वर्णा इष्यन्ते।
(13-5) आकृत्युपदेशात्सिद्धम् –
अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति। तथेवर्णाकृतिः। तथोवर्णाकृतिः।
-0-1-082- (13-6) आकृत्युपदेशात्सिद्धमिति चेत्संवृतादीनां प्रतिषेधः –
आकृत्युपदेशात्सिद्धमिति चेत्संवृतादीनां प्रतिषेधो वक्तव्यः।
के पुनः संवृतादयः?
संवृतः, कलो, ध्मात, एणीकृतः, अम्बूकृतः, अर्द्धको, ग्रस्तो, निरस्तः, प्रगीत, उपगीतः, क्ष्विण्णो, रोमश इति। अपर आह-
ग्रस्तं निरस्तमवलम्बितं निर्हतमम्बूकृतं ध्मातमथो विकम्पितम्।
सन्दष्टमेणीकृतमर्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ।। इति।
अतोऽन्ये व्यञ्ञ्जनदोषाः।
नैष दोषः।
(13-7) गर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिः –
गर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिर्भविष्यति ।।
अस्त्यन्यद् गर्गादिबिदादिपाठे प्रयोजनम्।
किम्?
समुदायानां साधुत्वं यथा स्यादिति।
एवं तर्ह्यष्टादशधा भिन्नां निवृत्तकलादिकामवर्णस्य प्रत्यापत्तिं वक्ष्यामि।
सा तर्हि वक्तव्या।
-0-1-084- (13-8) लिङ्गार्था तु प्रत्यापत्तिः –
लिङ्गार्था सा तर्हि भवति।
तत्तर्हि वक्तव्यम्।
यद्यप्येतदुच्यते। अथ वेतर्हि अनेकमनुबन्धशतं नोच्चार्यमित्सञ्ञ्ज्ञा च न वक्तव्या, लोपश्च न वक्तव्यः। यदनुबन्धैः क्रियते तत्कालादिभिः करिष्यते।
सिध्यत्येवम्, अपाणिनीयं तु भवति।
यथान्यासमेवास्तु।
ननु चोक्तम्- आकृत्युपदेशात्सिद्धमिति चेत्संवृतादीनां प्रतिषेधः इति।
परिहृतमेतत्- गर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिर्भविष्यति इति।
ननु चान्यद् गर्गादिबिदादिपाठे प्रयोजनमुक्तम्।
किम्?
समुदायानां साधुत्वं यथा स्यादिति।
एवं तर्ह्युभयमनेन क्रियते- पाठश्चैव विशेष्यते, कलादयश्च निर्वत्यन्ते।
कथं पुनरेकेन यत्नेनोभयं लभ्यम्?
लभ्यमित्याह।
कथम्?
द्विगता अपि हेतवो भवन्ति। तद्यथा- आम्राश्च सिक्ताः पितरश्च प्रीणिता इति। तथा वाक्यानि द्विष्ठानि भवन्ति- श्वेतो धावति, अलम्बुसानां यातेति।
अथ वा इदं तावदयं प्रष्टव्यः- क्वेमे संवृतादयः श्रूयेरन्निति?
आगमेषु।
आगमाः शुद्धाः पठ्यन्ते।
विकारेषु तर्हि?
विकारा अपि शुद्धाः पठ्यन्ते।
प्रत्ययेषु तर्हि?
प्रत्यया अपि शुद्धाः पठ्यन्ते।
धातुषु तर्हि?
धातवोऽपि शुद्धः पठ्यन्ते।
प्रातिपदिकेषु तर्हि?
प्रातिपदिकान्यपि शुद्धानि पठ्यन्ते।
यानि तर्ह्यग्रहणानि प्रातिपदिकानि?
एतेषामपि स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः कर्तव्यः। शशः षष इति मा भूत्। पलाशः पलाष इति मा भूत्। मञ्ञ्चको मञ्ञ्जक इति मा भूत्।
आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः।
उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ।।

।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये प्रथमाध्यायस्य प्रथमपादे प्रथममाह्निकम् ।।
।। इति प्रथमं पस्पशाह्निकम् ।।

Categories: Sanskrit

Tagged as: ,