अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः ।
अस्य लोकः सुतावतः ।
द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥
अध्याय 35
प्रेत सूक्तम् -पितृमेधसम्बन्धिनो मन्त्राः
35.1
अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः ।
अस्य लोकः सुतावतः ।
द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥
35.2
सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु ।
तस्मै युज्यन्ताम् उस्रियाः ॥
35.3
वायुः पुनातु ।
सविता पुनातु ।
अग्नेर् भ्राजसा ।
सूर्यस्य वर्चसा ।
वि मुच्यन्ताम् उस्रियाः ॥
35.4
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
गोभाजऽइत् किलासथ यत् सनवथ पूरुषम् ॥
35.5
सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु ।
तस्मै पृथिवि शं भव ॥
35.6
प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ ।
अप नः शोशुचद् अघम् ॥
35.7
परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजा रीरिषो मोत वीरान् ॥
35.8
शं वातः श हि ते घृणिः शं ते भवन्त्व् इष्टकाः ।
शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥
35.9
कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः ।
अन्तरिक्ष शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥
35.10
अश्मन्वती रीयते स रभध्वम् उत् तिष्ठत प्र तरता सखायः ।
अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान् ॥
35.11
अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः ।
अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्य सुव ॥
35.12
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
35.13
अनड्वाहम् आ रभामहे सौरभेय स्वस्तये ।
स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव ॥
35.14
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
35.15
इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् ।
शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन ॥
35.16
अग्न ऽ आयूषि पवस ऽ आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥
35.17
आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि ।
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा ॥
35.18
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।
देवेष्व् अक्रत श्रवः क ऽ इमा२ऽ आ दधर्षति ॥
35.19
क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥
35.20
वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके ।
मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ता स्वाहा ॥
स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथाः ।
अप नः शोशुचद् अघम् ॥ 35.21
35.22
अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहा ॥
Tagged: Vedas
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library