यम सूक्तम् – Yama Suktam
तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।
तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥32.1
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥32.2
न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।
हिरण्यगर्भ ऽ इत्य् एषः ।
मा मा हिम्सीद् इत्य् एषा ।
यस्मान् न जात ऽ इत्य् एष ॥32.3
एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भै ऽ अन्तः ।
स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥32.4
यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया सम्रराणस् त्रीणि ज्योतीम्षि सचते स षोडशी ॥32.5
येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥32.6
यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।
आपो ह यद् बृहतीः ।
यश् चिद् आपः ॥32.7
वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।
तस्मिन्न् इदम् सं च वि चैति सर्वम्स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥32.8
प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥32.9
स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥32.10
परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥32.11
परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।
ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥32.12
सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।
सनिं मेधाम् अयासिषम्म् स्वाहा ॥32.13
यां मेधां देवगणाः पितरश् चोपासते ।
तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥32.14
मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।
मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥32.15
इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।
मयि देवा दधतु श्रियम् उत्तमां तस्यै ते स्वाहा ॥32.16
Sukla Yayur Veda Samhita [शुक्लयजुर्वेदः]
अध्याय 32
क: +अ+ स्मै =कस्मै