The man without bondageSanskrit Documents

Siva Sankalpa Prakarana in Sukla Yayur Veda शिवसंकल्पादि मन्त्राः

यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥34.1

येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु ॥34.2

यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु ।
यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु ॥34.3

येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु ॥34.4

यस्मिन्न् ऋचः साम यजूम्षि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः ।
यस्मिम्श् चित्तम् सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु ॥34.5

सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव ।
हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु ॥34.6

पितुं नु स्तोषं महो धर्माणं तविषीम् ।
यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥34.7

अन्व् इद् अनुमते त्वं मन्यासै शं च नस् कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण ऽ आयूम्षि तारिषः ॥34.8

अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् ।
अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥34.9

सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥34.10

पञ्च नद्यः सरस्वतीम् अपि यन्ति सस्रोतसः ।
सरस्वती तु पञ्चधा सो देशे ऽभवत् सरित् ॥34.11

त्वम् अग्ने प्रथमो ऽ अङ्गिरा ऽ ऋषिर् देवो देवानाम् अभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥34.12

त्वं नो ऽ अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य ।
त्राता तोकस्य तनये गवाम् अस्य् अनिमेषम् रक्षणस् तव व्रते ॥34.13

उत्तानायाम् अव भरा चिकित्वान्त् सद्यः प्रवीता वृषणं जजान ।
अरुषस्तूपो रुशद् अस्य पाज ऽ इडायास् पुत्रो वयुने ऽजनिष्ट ॥34.14

इडायास् त्वा पदे वयं नाभा पृथिव्या ऽ अधि ।
जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥34.15

प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे ऽ अङ्गिरस्वत् ।
सुवृक्तिभिः स्तुवत ऽ ऋग्मियायार्चामार्कं नरे विश्रुताय ॥34.16

प्र वो महे महि नमो भरध्वम् आङ्गूष्यम् शवसानाय साम ।
येना नः पूर्वे पितरः पदज्ञा ऽ अर्चन्तो ऽ अङ्गिरसो गा ऽ अविन्दन् ॥34.17

इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाम्सि ।
तितिक्षन्ते ऽ अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥34.18

न ते दूरे परमा चिद् रजाम्स्य् अस्या तु प्र याहि हरिवो हरिभ्याम् ।
स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने ऽ अग्नौ ॥34.19

अषाढं युत्सु पृतनासु पप्रिम् स्वर्षाम् अप्सां वृजनस्य गोपाम् ।
भरेषुजाम् सुक्षितिम् सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥34.20

सोमो धेनुम् सोमो ऽ अर्वन्तम् आशुम् सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्यम् सभेयं पितृश्रवणं यो ददाशद् अस्मै ॥34.21

त्वम् इमा ऽ ओषधीः सोम विश्वास् त्वम् अपो ऽ अजनयस् त्वं गाः ।
त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥34.22

देवेन नो मनसा देव सोम रायो भागम्सहसावन्न् अभि युध्य ।
मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥34.23

अष्टौ व्यख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् ।
हिरण्याक्षः सविता देव ऽ आगाद् दधद् रत्ना दाशुषे वार्याणि ॥34.24

हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी ऽ अन्तर् ईयते ।
अपामीवां बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥34.25

हिरण्यहस्तो ऽ असुरः सुनीथः सुमृडीकः स्ववाँ यात्व् अर्वाङ् ।
अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥34.26

ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता ऽ अन्तरिक्षे ।
तेभिर् नो ऽ अद्य पथिभिः सुगेभी रक्षा च नो ऽ अधि च ब्रूहि देव ॥34.27

उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् ।
अविद्रियाभिर् ऊतिभिः ॥34.28

अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥34.29

द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥34.30

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥34.31

आ रात्रि पर्थिवम् रजः पितुर् अप्रायि धामभिः ।
दिवः सदाम्सि बृहती वि तिष्ठस ऽ आ त्वेषं वर्तते तमः ॥34.32

उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥34.33

प्रातर् अग्निं प्रातर् इन्द्रम् हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।
प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रम् हुवेम ॥34.34

प्रातर्जितं भगम् उग्रम् हुवेम वयं पुत्रम् अदितेर् यो विधर्ता ।
आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥34.35

भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः ।
भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥34.36

उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् ।
उतोदिता मघवन् सूर्यस्य वयं देवानाम् सुमतौ स्याम ॥34.37

भग ऽ एव भगवाम्२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह ॥34.38

सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु ॥34.39

अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥34.40

पूषन् तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस् त ऽ इह स्मसि ॥34.41

पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् ।
स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियम् सीषधाति प्र पूषा ॥34.42

त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः ।
अतो धर्माणि धारयन् ॥34.43

तद् विप्रासो विपन्यवो जागृवाम्सः सम् इन्धते ।
विष्णोर् यत् परमं पदम् ॥34.44

घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा ॥34.45

ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् ।
वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥34.46

आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना ।
प्रायुस् तारिष्टं नी रपाम्सि मृक्षतम् सेधतं द्वेषो भवतम् सचाभुवा ॥34.47

एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥34.48

सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः ।
पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन् ॥34.49

आयुष्यं वर्चस्यम् रायस्पोषम् औद्भिदम् ।
इदम् हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम् ॥34.50

न तद् रक्षाम्सि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजम् ह्य् एतत् ।
यो बिभर्ति दाक्षायणम् हिरण्यम् स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः ॥34.51

यद् आबध्नन् दाक्षायणा हिरण्यम् शतानीकाय सुमनस्यमानाः ।
तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम् ॥34.52

उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः ।
विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु ॥34.53

इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअम्शः ॥34.54

सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् ।
सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ ॥34.55

उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे ।
उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा ॥34.56

प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाम्सि चक्रिरे ॥34.57

ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ।
य इमा विश्वा । विश्वकर्मा । यो नः पिता । अन्नपते न्नस्य नो देहि ॥ 34.58

 


अनारभ्याधीतो अध्याये ब्रह्मयज्ञार्थकः शिवसंकल्पादि मन्त्राः
शुक्‍लयजुर्वेदः-अध्यायः ३४

Sukla Yayur Veda Samhita [शुक्‍लयजुर्वेदः]

Categories: Sanskrit Documents, Yayur Veda

Tagged as: