Sanskrit Documents

बृहदारण्यकोपनिषद्‌ – Brihadaranyaka Upanisad

उषा वा अश्वस्य मेध्यस्य शिरः ।
सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य ।
द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि ।
ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि ।
उद्यन् पूर्वार्धो निम्लोचञ्जघनार्धः ।
यद्विजृम्भते तद्विद्योतते ।
यद्विधूनुते तत्स्तनयति ।
यन्मेहति तद्वर्षति ।
वागेवास्य वाक् ॥ १,१.१ ॥

अहर्वा अश्वं पुरस्तान्महिमान्वजायत ।
तस्य पूर्वे समुद्रे योनिः ।
रात्रिरेनं पश्चान्महिमान्वजायत ।
तस्यापरे समुद्रे योनिर् ।
एतौ वा अश्वं महिमानावभितः सम्बभूवतुः ।
हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान् ।
समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ १,१.२ ॥

नैवेह किं चनाग्र आसीत् ।
मृत्युनैवेदमावृतमासीदशनायया ।
अशनाया हि मृत्युः ।
तन्मनोऽकुरुतात्मन्वी स्यामिति ।
सोऽर्चन्नचरत् ।
तस्यार्चत आपोऽजायन्त ।
अर्चते वै मे कमभूदिति ।
तदेवार्क्यस्यार्कत्वम् ।
कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥ १,२.१ ॥

आपो वा अर्कः ।
तद्यदपां शर आसीत्तत्समहन्यत ।
सा पृथिव्यभवत् ।
तस्यामश्राम्यत् ।
तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ १,२.२ ॥

स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् ।
स एष प्राणस्त्रेधाविहितः ।
तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ ।
अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ ।
दक्षिणा चोदीची च पार्श्वे ।
द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः ।
स एषोऽप्सु प्रतिष्ठितः ।
यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ १,२.३ ॥

सोऽकामयत द्वितीयो म आत्मा जायेतेति ।
स मनसा वाचं मिथुनं समभवदशनाया मृत्युः ।
तद्यद्रेत आसीत्स संवत्सरोऽभवत् ।
न ह पुरा ततः संवत्सर आस ।
तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः ।
तमेतावतः कालस्य परस्तादसृजत ।
तं जातमभिव्याददात् ।
स भाणकरोत् ।
सैव वागभवत् ॥ १,२.४ ॥

स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति ।
स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् ।
स यद्यदेवासृजत तत्तदत्तुमध्रियत ।
सर्वं वा अत्तीति तददितेरदितित्वम् ।
सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ १,२.५ ॥

सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति ।
सोऽश्राम्यत् ।
स तपोऽतप्यत ।
तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् ।
प्राणा वै यशो वीर्यम् ।
तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत ।
तस्य शरीर एव मन आसीत् ॥ १,२.६ ॥

सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ।
ततोऽश्वः समभवत् ।
यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।
एष ह वा अश्वमेधं वेद य एनमेवं वेद ।
तमनवरुध्यैवामन्यत ।
तं संवत्सरस्य परस्तादात्मन आलभत ।
पशून् देवताभ्यः प्रत्यौहत् ।
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते ।
एष वा अश्वमेधो य एष तपति ।
तस्य संवत्सर आत्मा ।
अयमग्निरर्कः ।
तस्येमे लोका आत्मानः ।
तावेतावर्काश्वमेधौ ।
सो पुनरेकैव देवता भवति मृत्युरेव ।
अप पुनर्मृत्युं जयति ।
नैनं मृत्युराप्नोति ।
मृत्युरस्यात्मा भवति ।
सर्वमायुरेति ।
एतासां देवतानामेको भवति ॥ १,२.७ ॥

द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ १,३.१ ॥

ते ह वाचमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो वागुदगायत् ।
यो वाचि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं वदति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं वदति ।
स एव स पाप्मा ॥ १,३.२ ॥

अथ ह प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः प्राण उदगायत् ।
यः प्राणे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं जिघ्रति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति ।
स एव स पाप्मा ॥ १,३.३ ॥

अथ ह चक्षुरूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यश्चक्षुरुदगायत् ।
यश्चक्षुषि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं पश्यति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति ।
स एव स पाप्मा ॥ १,३.४ ॥

अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः श्रोत्रमुदगायत् ।
यः श्रोत्रे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं शृणोति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं शृणोति ।
स एव स पाप्मा ॥ १,३.५ ॥

अथ ह मन ऊचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो मन उदगायत् ।
यो मनसि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं संकल्पयति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं संकल्पयति ।
स एव स पाप्मा ।
एवमु खल्वेता देवताः पाप्मभिरुपासृजन् ।
एवमेनाः पाप्मनाविध्यन् ॥ १,३.६ ॥

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्य एष प्राण उदगायत् ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविव्यत्सन् ।
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ।
ततो देवा अभवन्, परासुरा ।
भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ १,३.७ ॥

ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेति ।
अयमास्येऽन्तरिति ।
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ १,३.८ ॥

सा वा एषा देवता दूर्नाम ।
दूरं ह्यस्या मृत्युर् ।
दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ १,३.९ ॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार ।
तदासां पाप्मनो विन्यदधात् ।
तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १,३.१० ॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ १,३.११ ॥

सा वै वाचमेव प्रथमामत्यवहत् ।
सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ।
सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १,३.१२ ॥

अथ प्राणमत्यवहत् ।
स यदा मृत्युमत्यमुच्यत स वायुरभवत् ।
सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १,३.१३ ॥

अथ चक्षुरत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ।
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १,३.१४ ॥

अथ श्रोत्रमत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् ।
ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १,३.१५ ॥

अथ मनोऽत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ।
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति ।
एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १,३.१६ ॥

अथात्मनेऽन्नाद्यमागायत् ।
यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते ।
इह प्रतितिष्ठति ॥ १,३.१७ ॥

ते देवा अब्रुवन् ।
एतावद्वा इदं सर्वं यदन्नम् ।
तदात्मन आगासीः ।
अनु नोऽस्मिन्नन्न आभजस्वेति ।
ते वै माभिसंविशतेति ।
तथेति तं समन्तं परिण्यविशन्त ।
तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति ।
एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति ।
अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १,३.१८ ॥

सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ।
प्राणो वा अङ्गानां रसः ।
प्राणो हि वा अङ्गानां रसः ।
तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति ।
एष हि वा अङ्गानां रसः ॥ १,३.१९ ॥

एष उ एव बृहस्पतिः ।
वाग्वै बृहती ।
तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ १,३.२० ॥

एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म ।
तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ १,३.२१ ॥

एष उ एव साम ।
वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम ।
अश्नुते साम्नः सायुज्यं सलोकताम् ।
य एवमेतत्साम वेद ॥ १,३.२२ ॥

एष उ वा उद्गीथः ।
प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् ।
वागेव गीथा ।
उच्च गीथा चेति ।
स उद्गीथः ॥ १,३.२३ ॥

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच ।
अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ १,३.२४ ॥

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् ।
तस्य वै स्वर एव स्वम् ।
तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत ।
तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव ।
अथो यस्य स्वं भवति ।
भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ १,३.२५ ॥

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ १,३.२६ ॥

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति ।
तस्य वै वागेव प्रतिष्ठा ।
वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ।
अन्न इत्यु हैक आहुः ॥ १,३.२७ ॥

अथातः पवमानानामेवाभ्यारोहः ।
स वै खलु प्रस्तोता साम प्रस्तौति ।
स यत्र प्रस्तुयात्तदेतानि जपेत् ।
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति ।
स यदाहासतो मा सद्गमयेति ।
मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
तमसो मा ज्योतिर्गमयेति ।
मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति ।
नात्र तिरोहितमिवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् ।
तस्मादु तेषु वरं वृणीत ।
यं कामं कामयेत्तम् ।
स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति ।
तद्धैतल्लोकजिदेव ।
न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ १,३.२८ ॥

आत्मैवेदमग्र आसीत्पुरुषविधः ।
सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् ।
सोऽहमस्मीत्यग्रे व्याहरत् ।
ततोऽहंनामाभवत् ।
तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति ।
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः ।
ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १,४.१ ॥

सोऽबिभेत्तस्मादेकाकी बिभेति ।
स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति ।
तत एवास्य भयं वीयाय ।
कस्माद्ध्यभेष्यत् ।
द्वितीयाद्वै भयं भवति ॥ १,४.२ ॥

स वै नैव रेमे ।
तस्मादेकाकी न रमते ।
स द्वितीयमैच्छत् ।
स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ।
स इममेवात्मानं द्वेधापातयत् ।
ततः पतिश्च पत्नी चाभवताम् ।
तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः ।
तस्मादयमाकाशः स्त्रिया पूर्यत एव ।
तां समभवत् ।
ततो मनुष्या अजायन्त ॥ १,४.३ ॥

सो हेयमीक्षां चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति ।
हन्त तिरोऽसानीति ।
सा गौरभवद्वृषभ इतरः ।
तां समेवाभवत् ।
ततो गावोऽजायन्त ।
वडवेतराभवदश्ववृष इतरः ।
गर्दभीतरा गर्दभ इतरः ।
तां समेवाभवत् ।
तत एकशफमजायत ।
अजेतराभवद्बस्त इतरः ।
अविरितरा मेष इतरः ।
तां समेवाभवत् ।
ततोऽजावयो ऽजायन्त ।
एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ १,४.४ ॥

सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ।
ततः सृष्टिरभवत् ।
सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ १,४.५ ॥

अथेत्यभ्यमन्थत् ।
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत ।
तस्मादेतदुभयमलोमकमन्तरतः ।
अलोमका हि योनिरन्तरतः ।
तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः ।
एष उ ह्येव सर्वे देवाः ।
अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत ।
तदु सोम ।
एतावद्वा इदं सर्वमन्नं चैवान्नादश्च ।
सोम एवान्नमग्निरन्नादः ।
सैषा ब्रह्मणोऽतिसृष्टिः ।
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् ।
अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ १,४.६ ॥

तद्धेदं तर्ह्यव्याकृतमासीत् ।
तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति ।
तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति ।
स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये ।
तं न पश्यन्ति ।
अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति ।
वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः ।
तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते न स वेद ।
अकृत्स्नो ह्येषोऽत एकैकेन भवति ।
आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा ।
अनेन ह्येतत्सर्वं वेद ।
यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ १,४.७ ॥

तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा ।
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् ।
आत्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ १,४.८ ॥

तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते ।
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ १,४.९ ॥

ब्रह्म वा इदमग्र आसीत् ।
तदात्मानमेवावेत् ।
अहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् ।
तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् ।
तथर्षीनाम् ।
तथा मनुष्याणाम् ।
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते ।
आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ।
यथा पशुरेवं स देवानाम् ।
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति ।
एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु ।
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १,४.१० ॥

ब्रह्म वा इदमग्र आसीदेकमेव ।
तदेकं सन्न व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति ।
तस्मात्क्षत्रात्परं नास्ति ।
तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये ।
क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यद्ब्रह्म ।
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
य उ एनं हिनस्ति स्वां स योनिमृच्छति ।
स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ १,४.११ ॥

स नैव व्यभवत् ।
स विशमसृजत ।
यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १,४.१२ ॥

स नैव व्यभवत् ।
स शौद्रं वर्णमसृजत पूषणम् ।
इयं वै पूषा ।
इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ १,४.१३ ॥

स नैव व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः ।
तस्माद्धर्मात्परं नास्ति ।
अथो अबलीयान् बलीयांसमाशंसते धर्मेण ।
यथा राज्ञैवम् ।
यो वै स धर्मः सत्यं वै तत् ।
तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति ।
धर्मं वा वदन्तं सत्यं वदतीति ।
एतद्ध्येवैतदुभयं भवति ॥ १,४.१४ ॥

तदेतद्ब्रह्म क्षत्रं विट्शूद्रः ।
तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु ।
एताभ्यां हि रूपाभ्यां ब्रह्माभवत् ।
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् ।
यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव ।
आत्मानमेव लोकमुपासीत ।
स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ।
अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १,४.१५ ॥

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ।
स यज्जुहोति यद्यजते तेन देवानां लोकः ।
अथ यदनुब्रूते तेन ऋषीणाम् ।
अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् ।
अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् ।
अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् ।
यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः ।
यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् ।
एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति ।
तद्वा एतद्विदितं मीमांसितम् ॥ १,४.१६ ॥

आत्मैवेदमग्र आसीदेक एव ।
सोऽकामयत जाया मे स्यादथ प्रजायेय ।
अथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
एतावान् वै कामः ।
नेच्छंश्चनातो भूयो विन्देत् ।
तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते ।
तस्यो कृत्स्नता ।
मन एवास्यात्मा ।
वाग्जाया ।
प्राणः प्रजा ।
चक्षुर्मानुषं वित्तम् ।
चक्षुषा हि तद्विन्दते ।
श्रोत्रं दैवम् ।
श्रोत्रेण हि तच्छृणोति ।
आत्मैवास्य कर्म ।
आत्मना हि कर्म करोति ।
स एष पाङ्क्तो यज्ञः ।
पाङ्क्तः पशुः ।
पाङ्क्तः पुरुषः ।
पाङ्क्तमिदं सर्वं यदिदं किञ्च ।
तदिदं सर्वमाप्नोति य एवं वेद ॥ १,४.१७ ॥

यत्सप्तान्नानि मेधया तपसाजनयत्पिता ।
एकमस्य साधारणं द्वे देवानभाजयत् ।
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।
स देवानपिगच्छति स ऊऋजमुपजीवति ।
इति श्लोकाः ॥ १,५.१ ॥

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति ।
मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति ।
इदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
स य एतदुपास्ते न स पाप्मनो व्यावर्तते ।
मिश्रं ह्येतत् ।
द्वे देवानभाजयदिति ।
हुतं च प्रहुतं च ।
तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति ।
अथो आहुर्दर्शपूर्णमासाविति ।
तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति ।
तत्पयः ।
पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति ।
तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति ।
अथ वत्सं जातमाहुस्तृणादिति ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति ।
पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ।
न तथा विद्यात् ।
यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् ।
सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं पुनः पुनर्जनयते ।
यो वैतामक्षितिं वेदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं धियाधिया जनयते कर्मभिः ।
यद्धैतन्न कुर्यात्क्षीयेत ह ।
सोऽन्नमत्ति प्रतीकेनेति ।
मुखं प्रतीकं मुखेनेत्येतत् ।
स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ १,५.२ ॥

त्रीण्यात्मनेऽकुरुतेति
मनो वाचं प्राणं तान्यात्मनेऽकुरुत ।
अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति ।
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव ।
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति ।
यः कश्च शब्दो वागेव सा ।
एषा ह्यन्तं आयत्तैषा हि न ।
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव ।
एतन्मयो वा अयमात्मा ।
वाङ्मयो मनोमयः प्राणमयः ॥ १,५.३ ॥

त्रयो लोका एत एव ।
वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ १,५.४ ॥

त्रयो वेदा एत एव ।
वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ १,५.५ ॥

देवा पितरो मनुष्या एत एव ।
वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ १,५.६ ॥

पिता माता प्रजैत एव ।
मन एव पिता वाङ्माता प्राणः प्रजा ॥ १,५.७ ॥

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
यत्किञ्च विज्ञातं वाचस्तद्रूपम् ।
वाग्घि विज्ञाता ।
वागेनं तद्भूत्वावति ॥ १,५.८ ॥

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् ।
मनो हि विजिज्ञास्यम् ।
मन एनं तद्भूत्वावति ॥ १,५.९ ॥

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् ।
प्राणो ह्यविज्ञातः ।
प्राण एनं तद्भूत्वावति ॥ १,५.१० ॥

तस्यै वाचः पृथिवी शरीरम् ।
ज्योतीरूपमयमग्निः ।
तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ १,५.११ ॥

अथैतस्य मनसो द्यौः शरीरम् ।
ज्योतीरूपमसावादित्यः ।
तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः ।
तौ मिथुनं समैताम् ।
ततः प्राणोऽजायत ।
स इन्द्रः ।
स एषोऽसपत्नः ।
द्वितीयो वै सपत्नः ।
नास्य सपत्नो भवति य एवं वेद ॥ १,५.१२ ॥

अथैतस्य प्राणस्यापः शरीरम् ।
ज्योतीरूपमसौ चन्द्रः ।
तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः ।
त एते सर्व एव समाः सर्वेऽनन्ताः ।
स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति ।
अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १,५.१३ ॥

स एष संवत्सरः प्रजापतिष्षोडशकलः ।
तस्य रात्रय एव पञ्चदश कला ।
ध्रुवैवास्य षोडशी कला ।
स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते ।
सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते ।
तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १,५.१४ ॥

यो वै स संवत्सरः प्रजापतिः षोडशकालोऽयमेव स योऽयमेवंवित्पुरुषः ।
तस्य वित्तमेव पञ्चदश कलाः ।
आत्मैवास्य षोडशी कला ।
स वित्तेनैवा च पूर्यतेऽप च क्षीयते ।
तदेतन्नभ्यं यदयमात्मा ।
प्रधिर्वित्तम् ।
तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ १,५.१५ ॥

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ।
कर्मणा पितृलोकः ।
विद्यया देवलोकः ।
देवलोको वै लोकानां श्रेष्ठः ।
तस्माद्विद्यां प्रशंसन्ति ॥ १,५.१६ ॥

अथातः सम्प्रत्तिः ।
यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति ।
यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ।
ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता ।
एतावद्वा इदं सर्वम् ।
एतन्मा सर्वं सन्नयमितो भुनजदिति ।
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः ।
तस्मादेनमनुशासति ।
स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम ।
स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति ।
अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ १,५.१७ ॥

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति ।
सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १,५.१८ ॥

दिवश्चैनमादित्याच्च दैवं मन आविशति ।
तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १,५.१९ ॥

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
स एष एवंवित्सर्वेषां भूतानामात्मा भवति ।
यथैषा देवतैवं सः ।
यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति ।
यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति ।
पुण्यमेवामुं गच्छति ।
न ह वै देवान् पापं गच्छति ॥ १,५.२० ॥

अथातो व्रतमीमांसा ।
प्रजापतिर्ह कर्माणि ससृजे ।
तानि सृष्टान्यन्योऽन्येनास्पर्धन्त ।
वदिष्याम्येवाहमिति वाग्दध्रे ।
द्रक्ष्याम्यहमिति चक्षुः ।
श्रोष्याम्यहमिति श्रोत्रम् ।
एवमन्यानि कर्माणि यथाकर्मम् ।
तानि मृत्युः श्रमो भूत्वोपयेमे ।
तान्याप्नोत् ।
तान्याप्त्वा मृत्युरवारुन्ध ।
तस्माच्छ्राम्यत्येव वाक् ।
श्राम्यति चक्षुः ।
श्राम्यति श्रोत्रम् ।
अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः ।
तानि ज्ञातुं दध्रिरे ।
अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
हन्तास्यैव सर्वे रूपं भवामेति ।
त एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणा इति ।
तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद ।
य उ हैवंविदा स्पर्धतेऽनुशुष्यति ।
अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ १,५.२१ ॥

अथाधिदेवतं
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः ।
भास्याम्यहमिति चन्द्रमाः ।
एवमन्या देवता यथादेवतम् ।
स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः ।
म्लोचन्ति ह्यन्या देवता न वायुः ।
सैषानस्तमिता देवता यद्वायुः ॥ १,५.२२ ॥

अथैष श्लोको भवति
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति ।
प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति ।
यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च ।
नेन्मा पाप्मा मृत्युराप्नवदिति ।
यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ १,५.२३ ॥

त्रयं वा इदं नाम रूपं कर्म ।
तेषां नाम्नां वागित्येतदेषामुक्थम् ।
अतो हि सर्वाणि नामान्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैर्नामभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि नामानि बिभर्ति ॥ १,६.१ ॥

अथ रूपाणां चक्षुरित्येतदेषामुक्थम् ।
अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वै रूपैः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ १,६.२ ॥

अथ कर्मणामात्मेत्येतदेषामुक्थम् ।
अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैः कर्मभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि कर्माणि बिभर्ति ।
तदेतत्त्रयं सदेकमयमात्मा ।
आत्मो एकः सन्नेतत्त्रयम् ।
तदेतदमृतं सत्येन छन्नम् ।
प्राणो वा अमृतम् ।
नामरूपे सत्यम् ।
ताभ्यामयं प्राणश्छन्नः ॥ १,६.३ ॥


दृप्तबालाकिर्हानूचानो गार्ग्य आस ।
स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति ।
स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ २,१.१ ॥

स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः ।
अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २,१.२ ॥

स होवाच गार्ग्यः य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
बृहन् पाण्दरवासाः सोमो राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽहरहर्सुतः प्रसुतो भवति ।
नास्यान्नं क्षीयते ॥ २,१.३ ॥

स होवाच गार्ग्यः य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
तेजस्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते तेजस्वी ह भवति ।
तेजस्विनी हास्य प्रजा भवति ॥ २,१.४ ॥

स होवाच गार्ग्यः य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
पूर्णमप्रवर्तीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ २,१.५ ॥

स होवाच गार्ग्यः य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ २,१.६ ॥

स होवाच गार्ग्यः य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
विषासहिरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते विषासहिर्ह भवति ।
विषासहिर्हास्य प्रजा भवति ॥ २,१.७ ॥

स होवाच गार्ग्यः य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
प्रतिरूप इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपम् ।
अथो प्रतिरुपोऽस्माज्जायते ॥ २,१.८ ॥

स होवाच गार्ग्यः य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
रोचिष्णुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते रोचिष्णुर्ह भवति ।
रोचिष्णुर्हास्य प्रजा भवति ।
अथो यैः संनिगच्छति ।
सर्वांस्तानतिरोचते ॥ २,१.९ ॥

स होवाच गार्ग्यः य एवायं यन्तं पश्चाच्छब्बोऽनूदेत्येतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
असुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालात्प्राणो जहाति ॥ २,१.१० ॥

स होवाच गार्ग्यः य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
द्वितीयोऽनपग इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते द्वितीयवान् ह भवति ।
नास्माद्गणश्छिद्यते ॥ २,१.११ ॥

स होवाच गार्ग्यः य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
मृत्युरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालान्मृत्युरागच्छति ॥ २,१.१२ ॥

स होवाच गार्ग्यः य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
आत्मन्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्त आत्मन्वी ह भवति ।
आत्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीमास गार्ग्यः ॥ २,१.१३ ॥

स होवाचाजातशत्रुः एतावन्नू३ इति ।
एतावद्धीति ।
नैतावता विदितं भवतीति ।
स होवाच गार्ग्यः उप त्वायानीति ॥ २,१.१४ ॥

स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति ।
व्येव त्वा ज्ञपयिष्यामीति ।
तं पाणावादायोत्तस्थौ ।
तौ ह पुरुषं सुप्तमाजग्मतुः ।
तमेतैर्नामभिरामन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्निति ।
स नोत्तस्थौ ।
तं पाणिनापेषं बोधयां चकार ।
स होत्तस्थौ ॥ २,१.१५ ॥

स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति ।
तदु ह न मेने गार्ग्यः ॥ २,१.१६ ॥

स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्नानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
तानि यदा गृह्णाति ।
अथ हैतत्पुरुषः स्वपिति नाम ।
तद्गृहीत एव प्राणो भवति ।
गृहीता वाग् ।
गृहीतं चक्षुर् ।
गृहीतं श्रोत्रम् ।
गृहीतं मनः ॥ २,१.१७ ॥

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः ।
तदुतेव महाराजो भवत्युतेव महाब्राह्मणः ।
उतेवोच्चावचं निगच्छति ।
स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ २,१.१८ ॥

अथ यदा सुषुप्तो भवति ।
यदा न कस्य चन वेद ।
हिता नाम नाद्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ।
ताभिः प्रत्यवसृप्य पुरीतति शेते ।
स यथा कुमारो अद्द्. वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीत ।
एवमेवैष एतच्छेते ॥ २,१.१९ ॥

स यथोर्णवाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।
तस्योपनिषत्सत्यस्य सत्यमिति ।
प्राणा वै सत्यं तेषामेष सत्यम् ॥ २,१.२० ॥

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि ।
अयं वाव शिशुर्योऽयं मध्यमः प्राणः ।
तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ २,२.१ ॥

तमेताः सप्ताक्षितय उपतिष्ठन्ते ।
तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः ।
अथ या अक्षन्नापस्ताभिः पर्जन्यः ।
या कनीनका तयादित्यः ।
यत्कृष्णं तेनाग्निर् ।
यच्छुक्लं तेनेन्द्रः ।
अधरयैनं वर्तन्या पृथिव्यन्वायत्ता ।
द्यौरुत्तरया ।
नास्यान्नं क्षीयते य एवं वेद ॥ २,२.२ ॥

तदेष श्लोको भवति
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।
इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ।
तस्मिन् यशो निहितं विश्वरूपमिति ।
प्राणा वै यशो विश्वरूपम् ।
प्राणानेतदाह ।
तस्यासत ऋषयः सप्त तीर इति ।
प्राणा वा ऋषयः ।
प्राणाणेतदाह ।
वागष्टमी ब्रह्मणा संविदानेति ।
वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ २,२.३ ॥

इमावेव गोतमभरद्वाजौ ।
अयमेव गोतमोऽयं भरद्वाजः ।
इमावेव विश्वामित्रजमदग्नी ।
अयमेव विश्वामित्रोऽयं जमदग्निः ।
इमावेव वसिष्ठकश्यपौ ।
अयमेव वसिष्ठोऽयं कश्यपः ।
वागेवात्रिः ।
वाचा ह्यन्नमद्यते ।
अत्तिर्ह वै नामैतद्यदौत्रिरिति ।
सर्वस्यात्ता भवति ।
सर्वमस्यान्नं भवति य एवं वेद ॥ २,२.४ ॥

द्वे वाव ब्रह्मणो रूपे ।
मूर्तं चैवामूर्तं च ।
मर्त्यं चामृतं च ।
स्थितं च यच्च ।
सच्च त्यं च ॥ २,३.१ ॥

तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति ।
सतो ह्येष रसः ॥ २,३.२ ॥

अथामूर्तम् ।
वायुश्चान्तरिक्षश्च ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यम् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः ।
त्यस्य ह्येष रस ।
इत्यधिदैवतम् ॥ २,३.३ ॥

अथाध्यात्मम् ।
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः ।
सतो ह्येष रसः ॥ २,३.४ ॥

अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यत् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः ।
त्यस्य ह्येष रसः ॥ २,३.५ ॥

तस्य हैतस्य पुरुषस्य रूपम् ।
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद ।
अथात आदेशो नेति नेति ।
न ह्येतस्मादिति नेत्यन्यत्परमस्ति ।
अथ नामधेयं सत्यस्य सत्यमिति ।
प्राणा वै सत्यम् ।
तेषामेष सत्यम् ॥ २,३.६ ॥

मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ २,४.१ ॥

सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २,४.२ ॥

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ २,४.३ ॥

स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे ।
एह्यास्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ २,४.४ ॥

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ २,४.५ ॥

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ २,४.६ ॥

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ २,४.७ ॥

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ २,४.८ ॥

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ २,४.९ ॥

स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि ।
अस्यैवैतानि निश्वसितानि ॥ २,४.१० ॥

स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ २,४.११ ॥

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
यतोयतस्त्वाददीत लवणम् ।
एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ २,४.१२ ॥

सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अलं वा अर इदं विज्ञानाय ॥ २,४.१३ ॥

यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति ।
यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
विज्ञातारमरे केन विजानीयादिति ॥ २,४.१४ ॥

इयं पृथिवी सर्वेषां भूतानां मधु ।
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१ ॥

इमा आपः सर्वेषां भूतानां मधु ।
आसामपां सर्वाणि भूतानि मधु ।
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.२ ॥

अयमग्निः सर्वेषां भूतानां मधु ।
अस्याग्नेः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.३ ॥

अयं वायुः सर्वेषां भूतानां मधु ।
अस्य वायोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा ।
इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.४ ॥

अयमादित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.५ ॥

इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.६ ॥

अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् ।
इदं ब्रह्मेदं सर्वम् ॥ २,५.७ ॥

इयं विद्युत्सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.८ ॥

अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.९ ॥

अयमाकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१० ॥

अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.११ ॥

इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१२ ॥

इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१३ ॥

अयमात्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २,५.१४ ॥॥

स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ २,५.१५ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ २,५.१६ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ २,५.१७ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
नैनेन किं चनानावृतम् ।
नैनेन किं चनासंवृतम् ॥ २,५.१८ ॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति ।
अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ।
अयमात्मा ब्रह्म सर्वानुभूः ।
इत्यनुशासनम् ॥ २,५.१९ ॥

अथ वंशः
पौतिमाष्यो गौपवनात् ।
गौपवनः पशुतिमाष्यात् ।
पशुतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ २,६.१ ॥

आग्निवेश्यात् ।
आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लातो गौतमात् ।
गौतमः सैतवप्राचीनयोग्याभ्याम् ।
सैतवप्राचीनयोग्यौ पाराशर्यात् ।
पाराशर्यो भारद्वाजात् ।
भारद्वाजो भारद्वाजाच्च गौतमाच्च ।
गौतमो भारद्वाजात् ।
भारद्वाजः पाराशर्यात् ।
पाराशर्यो वैजवापायनात् ।
वैजवापायनः कौशिकायनेः ।
कौशिकायनिः ॥ २,६.२ ॥

घृतकौशिकात् ।
घृतकौशिकः प्राशर्यायणात् ।
पारशर्यायणः पाराशर्यात् ।
पाराशर्यो जातूकर्ण्यात् ।
जातूकर्ण्य आसुरायणाच्च यास्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहारितात् ।
कुमारहारितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादाङ्गिरसात् ।
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् ।
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽव्शिभ्याम् ।
अश्विनौ दधीच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्रध्वंसनात् ।
प्रध्वंसन एकर्षेः ।
एकर्षिर्विप्रचित्तेः ।
विप्रचित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्ठिनः ।
परमेष्ठी ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ २,६.३ ॥


जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः ।
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति ।
स ह गवां सहस्रमवरुरोध ।
दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ ३,१.१ ॥

तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति ।
ते ह ब्राह्मणा न दधृषुः ।
अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच एताः सौम्योदज सामश्रवा३ इति ।
ता होदाचकार ।
ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति ।
अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव ।
स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति ।
स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति ।
तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ ३,१.२ ॥

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति ।
होत्रर्त्विजाग्निना वाचा ।
वाग्वै यज्ञस्य होता ।
तद्येयं वाक्सोऽयमग्निः स होता सा मुक्तिः सातिमुक्तिः ॥ ३,१.३ ॥

याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति ।
अध्वर्युणर्त्विजा चक्षुषादित्येन ।
चक्षुर्वै यज्ञस्याध्वर्युः ।
तद्यदिदं चक्षुः सोऽसावादित्यः ।
सोऽध्वर्युः सा मुक्तिः सातिमुक्तिः ॥ ३,१.४ ॥

याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति ।
उद्गात्रर्त्विजा वयुना प्राणेन ।
प्राणो वै यज्ञस्योद्गाता ।
तद्योऽयं प्राणः स वायुः स उद्गाता ।
स मुक्तिः सातिमुक्तिः ॥ ३,१.५ ॥

याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ।
ब्रह्मणर्त्विजा मनसा चन्द्रेण ।
मनो वै यज्ञस्य ब्रह्मा ।
तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा ।
अथ संपदः ॥ ३,१.६ ॥

याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन् यज्ञे करिष्यतीति ।
तिसृभिरिति ।
कतमास्तास्तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
किं ताभिर्जयतीति ।
यत्किञ्चेदं प्राणभृदिति ॥ ३,१.७ ॥

याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति ।
तिस्र इति ।
कतमास्तास्तिस्र इति ।
या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते ।
किं ताभिर्जयतीति ।
या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति ।
दीप्यत इव हि देवलोको ।
या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयति ।
अतीव हि पितृलोकः ।
या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यि ।
अध इव हि मनुष्यलोकः ॥ ३,१.८ ॥

याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीति ।
एकयेति ।
कतमा सैकेति ।
मन एवेति ।
अनन्तं वै मनोऽनन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ ३,१.९ ॥

याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति ।
तिस्र इति ।
कतमास्तास्तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
कतमास्ताः ।
या अध्यात्ममिति ।
प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या ।
किं ताभिर्जयतीति ।
पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ।
ततो ह होताश्वल उपरराम ॥ ३,१.१० ॥

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ ।
याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति ।
अष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ ३,२.१ ॥

प्राणो वै ग्रहः ।
सोऽपानेनातिग्रहेण गृहीतः ।
प्राणेन हि गन्धाञ्जिघ्रति ॥ ३,२.२ ॥

वाग्वै ग्रहः ।
स नाम्नातिग्रहेण गृहीतः ।
वाचा हि नामान्यभिवदति ॥ ३,२.३ ॥

जिह्वा वै ग्रहः ।
स रसेनातिग्रहेण गृहीतः ।
जिह्वया हि रसान् विजानाति ॥ ३,२.४ ॥

चक्षुर्वै ग्रहः ।
स रूपेणातिग्रहेण गृहीतः ।
चक्षुषा हि रूपाणि पश्यति ॥ ३,२.५ ॥

श्रोत्रं वै ग्रहः ।
स शब्देनातिग्रहेण गृहीतः ।
श्रोत्रेण हि शब्दाञ्शृणोति ॥ ३,२.६ ॥

मनो वै ग्रहः ।
स कामेनातिग्रहेण गृहीतः ।
मनसा हि कामान् कामयते ॥ ३,२.७ ॥

हस्तौ वै ग्रहः ।
स कर्मणातिग्रहेण गृहीतः ।
हस्ताभ्यां हि कर्म करोति ॥ ३,२.८ ॥

त्वग्वै ग्रहः ।
स स्पर्शेनातिग्रहेण गृहीतः ।
त्वचा हि स्पर्शान् वेदयत ।
इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ ३,२.९ ॥

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति ।
अग्निर्वै मृत्युः सोऽपामन्नम् ।
अप पुनर्मृत्युं जयति ॥ ३,२.१० ॥

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति ।
नेति होवाच याज्ञवल्क्यः ।
अत्रैव समवनीयन्ते ।
स उच्छ्वयति ।
आध्मायति ।
आध्मातो मृतः शेते ॥ ३,२.११ ॥

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते ।
किमेनं न जहातीति ।
नामेति ।
अनन्तं वै नामानन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ ३,२.१२ ॥

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति ।
आहर सौम्य हस्तम् आर्तभाग ।
आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति ।
तौ होत्क्रम्य मन्त्रयां चक्राते ।
तौ ह यदूचतुः कर्म हैव तदूचतुः ।
अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ।
ततो ह जारत्कारव आर्तभाग उपरराम ॥ ३,२.१३ ॥

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ।
ते पतञ्चलस्य काप्यस्य गृहानैम ।
तस्यासीद्दुहिता गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्सुधन्वाङ्गिरस इति ।
तं यदा लोकानामन्तानपृच्छाम ।
अथैनमब्रूम क्व पारिक्षिता अभवन्निति ।
क्व पारिक्षिता अभवन् ।
स त्वा पृच्छामि याज्ञवल्क्य ।
क्व पारिक्षिता अभवन्निति ॥ ३,३.१ ॥

स होवाच उवाच वै सः ।
अगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति ।
क्व न्वश्वमेधयाजिनो गच्छन्तीति ।
द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः ।
तं समन्तं पृथिवी द्विस्तावत्पर्येति ।
तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति ।
तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणाकाशः तानैन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ।
तान् वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्निति ।
एवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः ।
अप पुनर्मृत्युं जयति य एवं वेद ।
ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ ३,३.२ ॥

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ।
याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ।
योऽपानेनापानिति स त आत्मा सर्वान्तरः ।
यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः ।
य उदानेनोदनिति स त आत्मा सर्वान्तरः ।
एष त आत्मा सर्वान्तरः ॥ ३,४.१ ॥

स होवाचोषस्तश्चाक्रायणः यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
न दृष्टेर्द्रष्टारं पश्येः ।
न श्रुतेः श्रोतारं शृणुयाः ।
न मतेर्मन्तारं मन्वीथा ।
न विज्ञातेर्विज्ञातारं विजानीयाः ।
एष त आत्मा सर्वान्तरः ।
अतोऽन्यदार्तम् ।
ततो होषस्तश्चाक्रायण उपरराम ॥ ३,४.२ ॥

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ।
एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा ।
उभे ह्येते एषणे एव भवतः ।
तस्माद्ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ।
अमौनं च मौनं च निर्विद्याथ ब्राह्मणः ।
स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव ।
अतोऽन्यदार्तम् ।
ततो ह कहोलः कौषीतकेय उपरराम ॥ ३,५.१ ॥

अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच ।
यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति ।
वायौ गार्गीति ।
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति ।
अन्तरिक्षलोकेषु गार्गीति ।
कस्मिन्नु खल्वन्तरिक्षलोका ओतश्च प्रोतश्चेति ।
गन्धर्वलोकेषु गार्गीति ।
कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति ।
अदित्यलोकेषु गार्गीति ।
कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति ।
चन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति ।
नक्षत्रलोकेषु गार्गीति ।
कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति ।
देवलोकेषु गार्गीति ।
कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति ।
इन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति ।
प्रजापतिलोकेषु गार्गीति ।
कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ।
ब्रह्मलोकेषु गार्गीति ।
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति ।
स होवाच गार्गि मातिप्राक्षीः ।
मा ते मूर्धा व्यपप्तत् ।
अनतिप्रश्न्यां वै देवतामतिपृच्छसि ।
गार्गि मातिप्राक्षीरिति ।
ततो ह गार्गी वाचक्नव्युपरराम ॥ ३,६.१ ॥

अथैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच ।
मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः ।
तस्यासीद्भार्या गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्कबन्ध आथर्वण इति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् ।
इति तेभ्योऽब्रवीत् ।
तदहं वेद ।
तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति ।
वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति ।
यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ ३,७.१ ॥

स होवच वायुर्वै गौतम तत्सूत्रम् ।
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ।
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति ।
वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ।
अन्तर्यामिणं ब्रूहीति ॥ ३,७.२ ॥

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.३ ॥

योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.४ ॥

योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.५ ॥

योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.६ ॥

यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.७ ॥

यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.८ ॥

य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.९ ॥

यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१० ॥

यश्चन्द्रतारके तिष्ठञ्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.११ ॥

य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१२ ॥

यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१३ ॥

यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१४ ॥

अथाधिभूतम् ।
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
इत्यधिभूतम् ॥ ३,७.१५ ॥

अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ३,७.१६ ॥

यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१७ ॥

यश्चक्षुषि तिष्ठञ्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१८ ॥

यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.१९ ॥

यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.२० ॥

यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.२१ ॥

यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३,७.२२ ॥

यो रेतसि तिष्ठं रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता ।
नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता ।
एष त आत्मान्तर्याम्यमृतः ।
अतोऽन्यदार्तम् ।
ततो होद्दालक आरुणिरुपरराम ॥ ३,७.२३ ॥

अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि ।
तौ चेन्मे विवक्ष्यति ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
पृच्छ गार्गीति ॥ ३,८.१ ॥

सा होवाच अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
तौ मे ब्रूहीति ।
पृच्छ गार्गीति ॥ ३,८.२ ॥

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३,८.३ ॥

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ३,८.४ ॥

सा होवच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ३,८.५ ॥

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३,८.६ ॥

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति ।
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ३,८.७ ॥

स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमगात्रमनन्तरमबाह्यम् (Vआऋ fओरगात्रममात्रम्) ।
न तदश्नाति किं चन ।
न तदश्नाति कश्चन ॥ ३,८.८ ॥

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति ।
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु ।
एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ३,८.९ ॥वा अक्षरस्य्

यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति
यो वा एतदक्षरमविदित्वा गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।
अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ ३,८.१० ॥

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ।
नान्यदतोऽस्ति द्रष्टृ ।
नान्यदतोऽस्ति श्रोतृ ।
नान्यदतोऽस्ति मन्तृ ।
नान्यदतोऽस्ति विज्ञातृ ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥ ३,८.११ ॥

सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
ततो ह वाचक्नव्युपरराम ॥ ३,८.१२ ॥

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति ।
स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते ।
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
त्रयस्त्रिंशदिति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
षडिति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
त्रय इति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
द्वाविति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
अध्यर्ध इति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
एक इति ।
ओमिति होवाच ।
कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ ३,९.१ ॥

स होवाच महिमान एवैषामेते ।
त्रयस्त्रिंशत्त्वेव देवा इति ।
कतमे ते त्रयस्त्रिंशदिति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशदैन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ ३,९.२ ॥

कतमे वसव इति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौः च चन्द्रमाश्च नक्षत्राणि चैते वसवः ।
एतेषु हीदं सर्वं वसु हितं इति तस्माद्वसव इति ॥ ३,९.३ ॥

कतमे रुद्रा इति ।
दशेमे पुरुषे प्राणा आत्मैकादशः ।
ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति ।
तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ३,९.४ ॥

कतम आदित्या इति ।
द्वादश वै मासाः संवत्सरस्यैत आदित्याः ।
एते हीदं सर्वमाददाना यन्ति ।
ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ३,९.५ ॥

कतम इन्द्रः कतमः प्रजापतिरिति ।
स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति ।
कतमः स्तनयित्नुरिति ।
अशनिरिति ।
कतमो यज्ञ इति ।
पशव इति ॥ ३,९.६ ॥

कतमे षडिति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षश्चादित्यश्च द्यौश्चैते षट् ।
एते हीदं सर्वं षडिति ॥ ३,९.७ ॥

कतमे ते त्रयो देवा इति ।
इम एव त्रयो लोकाः ।
एषु हीमे सर्वे देवा इति ।
कतमौ तौ द्वौ देवा इति ।
अन्नं चैव प्राणश्चेति ।
कतमोऽध्यर्ध इति ।
योऽयं पवत इति ॥ ३,९.८ ॥

तदाहुर्यदयमेक इवैव पवते ।
अथ कथमध्यर्ध इति ।
यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति ।
कतम एको देव इति ।
प्राण इति ।
स ब्रह्म त्यदित्याचक्षते ॥ ३,९.९ ॥

पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं शारीरः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
अमृतमिति होवाच ॥ ३,९.१० ॥

काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं काममयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
स्त्रिय इति होवाच ॥ ३,९.११ ॥

रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवासावादित्ये पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ ३,९.१२ ॥

आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं श्रौतः प्रातिश्रुत्कः पुरुषः स एष ।
वदैव शाकल्य तस्य का देवतेति ।
दिश इति होवच ॥ ३,९.१३ ॥

तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं छायामयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
मृत्युरिति होवाच ॥ ३,९.१४ ॥

रूपाण्येव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायमादर्शे पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ ३,९.१५ ॥

आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं अप्सु पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
वरुण इति होवाच ॥ ३,९.१६ ॥

रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं पुत्रमयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
प्रजापतिरिति होवाच ॥ ३,९.१७ ॥

शाकल्येति होवाच याज्ञवल्क्यः ।
त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ ३,९.१८ ॥

याज्ञवल्क्येति होवाच शाकल्यः ।
यदिदं कुरुपञ्चालानां ब्राह्मनानत्यवादीः किं ब्रह्म विद्वानिति ।
दिशो वेद सदेवाः सप्रतिष्ठा इति ।
यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ ३,९.१९ ॥

किंदेवतोऽस्यां प्राच्यां दिश्यसीति ।
आदित्यदेवत इति ।
स आदित्यः कस्मिन् प्रतिष्ठित इति ।
चक्षुषीति ।
कस्मिन्नु चक्षुः प्रतिष्ठितमिति ।
रूपेष्विति ।
चक्षुषा हि रूपाणि पश्यति ।
कस्मिन्नु रूपाणि प्रतिष्ठितानीति ।
हृदय इति होवाच ।
हृदयेन हि रूपाणि जानाति ।
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९.२० ॥

किंदेवतोऽस्यां दक्षिणायां दिश्यसीति ।
यमदेवत इति ।
स यमः कस्मिन् प्रतिष्ठित इति ।
यज्ञ इति ।
कस्मिन्नु यज्ञः प्रतिष्ठित इति ।
दक्षिणायामिति ।
कस्मिन्नु दक्षिणा प्रतिष्ठितेति ।
श्रद्धायामिति ।
यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति ।
श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति ।
कस्मिन्नु श्रद्धा प्रतिष्ठितेति ।
हृदय इति होवाच ।
हृदयेन हि श्रद्धाम् ।
हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९.२१ ॥

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति ।
वरुणदेवत इति ।
स वरुणः कस्मिन् प्रतिष्ठित इति ।
अप्स्विति ।
कस्मिन्न्वापः प्रतिष्ठिता इति ।
रेतसीति ।
कस्मिन्नु रेतः प्रतिष्ठितमिति ।
हृदय इति ।
तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति ।
हृदये ह्येव रेतः प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९.२२ ॥

किंदेवतोऽस्यामुदीच्यां दिश्यसीति ।
सोमदेवत इति ।
स सोमः कस्मिन् प्रतिष्ठित इति ।
दीक्षायामिति ।
कस्मिन्नु दिक्षा प्रतिष्ठितेति ।
सत्य इति ।
तस्मादपि दीक्षितमाहुः सत्यं वदेति ।
सत्ये ह्येव दीक्षा प्रतिष्ठितेति ।
कस्मिन्नु सत्यं प्रतिष्ठितमिति ।
हृदय इति होवाच ।
हृदयेन हि सत्यं जानाति ।
हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ३,९.२३ ॥

किंदेवतोऽस्यां ध्रुवायां दिश्यसीति ।
अग्निदेवत इति ।
सोऽग्निः कस्मिन् प्रतिष्ठित इति ।
वाचीति ।
कस्मिन्नु वाक्प्रतिष्ठितेति ।
हृदय इति ।
कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ ३,९.२४ ॥

अहल्लिकेति होवाच याज्ञवल्क्यः ।
यत्रैतदन्यत्रास्मन्मन्यासै ।
यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ ३,९.२५ ॥

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति ।
प्राण इति ।
कस्मिन्नु प्राणः प्रतिष्ठित इति ।
अपान इति ।
कस्मिन्न्वपानः प्रतिष्ठित इति ।
व्यान इति ।
कस्मिन्नु व्यानः प्रतिष्ठित इति ।
उदान इति ।
कस्मिन्नूदानः प्रतिष्ठित इति ।
समान इति ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
एतान्यष्टावायतनान्यष्टौ लोका अद्द्. अष्टौ देवा अष्टौ पुरुषाः ।
स यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि ।
तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति ।
तं ह न मेने शाकल्यस्।
तस्य ह मूर्धा विपपात ।
अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ ३,९.२६ ॥

अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु ।
सर्वे वा मा पृच्छत ।
यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति ।
ते ह ब्राह्मणा न दधृषुः ॥ ३,९.२७ ॥

तान् हैतैः श्लोकैः पप्रच्छ
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ ३,९.२८१ ॥

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः ।
तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥ ३,९.२८२ ॥

मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् ।
अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता ॥ ३,९.२८३ ॥

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३,९.२८४ ॥

रेतस इति मा वोचत जीवतस्तत्प्रजायते ।
धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ३,९.२८५ ॥

यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ३,९.२८६ ॥

जात एव न जायते को न्वेनं जनयेत्पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ ३,९.२८७ ॥

जात एव न जायते को न्वेनं जनयेत्पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥

तिष्ठमानस्य तद्विद इति ॥ ३,९.२८८ ॥


जनको ह वैदेह आसां चक्रे ।
अथ ह याज्ञवल्क्य आवव्राज ।
तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छनण्वन्तानीति ।
उभयमेव संराडिति होवाच ॥ ४,१.१ ॥

यत्ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे जित्वा शैलिनिः वाग्वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेति ।
अवदतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत ।
का प्रज्ञता याज्ञवल्क्य ।
वागेव सम्राडिति होवाच ।
वाचा वै सम्राड्बन्धुः प्रज्ञायते ।
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव संराट्प्रज्ञायन्ते ।
वाग्वै सम्राट्परमं ब्रह्म ।
नैनं वाग्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४,१.२ ॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्म उदङ्कः शौल्बायनः ।
प्राणो वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेति ।
अप्राणतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
प्राण एवायतनमाकाशः प्रतिष्ठा ।
प्रियमित्येनदुपासीत ।
का प्रियता याज्ञवल्क्य ।
प्राण एव सम्राडिति होवाच ।
प्राणस्य वै सम्राट्कामायायाज्यं याजयति ।
अप्रतिगृह्यस्य प्रतिगृह्णाति ।
अपि तत्र वधाशङ्का भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय ।
प्राणो वै सम्राट्परमं ब्रह्म ।
नैनं प्राणो जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४,१.३ ॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे बर्कुर्वार्ष्णः ।
चक्षुर्वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेति ।
अपश्यतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
चक्षुरेवायतनमाकाशः प्रतिष्ठा ।
सत्यमित्येतदुपासीत ।
का सत्यता याज्ञवल्क्य ।
चक्षुरेव सम्राडिति होवाच ।
चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति ।
स आहाद्राक्षमिति तत्सत्यं भवति ।
चक्षुर्वै सम्राट्परमं ब्रह्म ।
नैनं चक्षुर्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४,१.४ ॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे गर्दभीविपीतो भारद्वाजः ।
श्रोत्रं वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति ।
अशृण्वतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्तमित्येनदुपासीत ।
कानन्तता याज्ञवल्क्य ।
दिश एव सम्राडिति होवाच ।
तस्माद्वै सम्राडपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति ।
अनन्ता हि दिशः ।
दिशो वै सम्राट्श्रोत्रम् ।
श्रोत्रं वै सम्राट्परमं ब्रह्म ।
नैनं श्रोत्रं जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४,१.५ ॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेति ।
अमनसो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञावल्क्य ।
मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत ।
कानन्दता याज्ञवल्क्य ।
मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते ।
स आनन्दः ।
मनो वै सम्राट्परमं ब्रह्म ।
नैनं मनो जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४,१.६ ॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे विदग्धः शाकल्यः ।
हृदयं वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति ।
अहृदयस्य हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
हृदयमेवायतनमाकाशः प्रतिष्ठा ।
स्थितिरित्येनदुपासीत ।
का स्थितिता याज्ञवल्क्य ।
हृदयमेव सम्राडिति होवाच ।
हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् ।
हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा ।
हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति ।
हृदयं वै सम्राट्परमं ब्रह्म ।
नैनं हृदयं जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४,१.७ ॥

जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्य ।
अनु मा शाधीति ।
स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि ।
एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति ।
नाहं तद्भगवन् वेद यत्र गमिष्यामीति ।
अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ।
ब्रवीतु भगवानिति ॥ ४,२.१ ॥

इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः ।
तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव ।
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ ४,२.२ ॥

अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् ।
तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः ।
अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः ।
अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव ।
अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति ।
यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति ।
एताभिर्वा एतदास्रवदास्रवति ।
तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः ॥ ४,२.३ ॥

तस्य प्राची दिक्प्राञ्चः प्राणाः ।
दक्षिणा दिग्दक्षिणे प्राणाः ।
प्रतीची दिक्प्रत्यञ्चः प्राणाः ।
उदीची दिगुदञ्चः प्राणाः ।
ऊर्ध्वा दिगूर्ध्वाः प्राणाः ।
अवाची दिगवाञ्चः प्राणाः ।
सर्वा दिशः सर्वे प्राणाः ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः ।
स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे ।
नमस्तेऽस्तु ।
इमे विदेहा अयमहमस्मीति ॥ ४,२.४ ॥

जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
समेनेन वदिष्य इति ।
अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते ।
तस्मै ह याज्ञवल्क्यो वरं ददौ ।
स ह कामप्रश्नमेव वव्रे ।
तं हास्मै ददौ ।
तं ह सम्राडेव पूर्वः पप्रच्छ ॥ ४,३.१ ॥

याज्ञवल्क्य किंज्योतिरयं पुरुष इति ।
आदित्यज्योतिः सम्राडिति होवाच ।
आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४,३.२ ॥

अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति ।
चन्द्रमा एवास्य ज्योतिर्भवतीति ।
चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४,३.३ ॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति ।
अग्निरेवास्य ज्योतिर्भवतीति ।
अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४,३.४ ॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति ।
वागेवास्य ज्योतिर्भवतीति ।
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति ।
तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४,३.५ ॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति ।
आत्मैवास्य ज्योतिर्भवतीति ।
आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ४,३.६ ॥

कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ।
स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ।
स हि स्वप्नो भूत्वेमं लोकमतिक्रामति अद्द्. मृत्यो रूपाणि ॥ ४,३.७ ॥

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते ।
स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ४,३.८ ॥

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः ।
इदं च परलोकस्थानं च ।
सन्ध्यं तृतीयं स्वप्नस्थानम् ।
तस्मिन्सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यतीदं च परलोकस्थानं च ।
अथ यथाक्रमोऽयं परलोकस्थाने भवति ।
तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति ।
स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ ४,३.९ ॥

न तत्र रथा न रथयोगा न पन्थानो भवन्ति ।
अथ रथान् रथयोगान् पथः सृजते ।
न तत्रानन्दा मुदः प्रमुदो भवन्ति ।
अथानन्दान्मुदः प्रमुदः सृजते ।
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति ।
अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते ।
स हि कर्ता ॥ ४,३.१० ॥

तदेते श्लोका भवन्ति
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति ।
शुक्रमादाय पुनरैति स्थानं हिरण्मयःपुरुष एकहंसः ॥ ४,३.११ ॥

प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा ।
स ईयतेऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः ॥ ४,३.१२ ॥

स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि ।
उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ ४,३.१३ ॥

आराममस्य पश्यन्ति न तं पश्यति कश्चनेति ।
तं नायतं बोधयेदित्याहुः ।
दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ।
अथो खल्वाहुर्जागरितदेश एवास्यैस इति ।
यानि ह्येव जाग्रत्पश्यति तानि सुप्त इति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ ४,३.१४ ॥

स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ४,३.१५ ॥

स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ४,३.१६ ॥

स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ ४,३.१७ ॥

तद्यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं च ।
एवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥ ४,३.१८ ॥

तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते ।
एवमेवायं पुरुष एतस्मा अन्ताय धवति ।
यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ ४,३.१९ ॥

ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति ।
शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः ।
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति ।
यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ।
अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते ।
सोऽस्य परमो लोकः ॥ ४,३.२० ॥

तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्माभयं रूपम् ।
तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ ४,३.२१ ॥

अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः ।
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालोऽचण्ड्यालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसः ।
अनन्वागतं पुण्येनानन्वागतं पापेन ।
तीर्णो हि तदा सर्वाञ्शोकान् हृदयस्य भवति ॥ ४,३.२२ ॥

यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति ।
न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ ४,३.२३ ॥

यद्वै तन्न जिघ्रति जिघ्रन् वै तन्न जिघ्रति ।
न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ ४,३.२४ ॥

यद्वै तन्न रसयति रसयन् वै तन्न रसयति ।
न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ ४,३.२५ ॥

यद्वै तन्न वदति वदन् वै तन्न वदति ।
न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ ४,३.२६ ॥

यद्वै तन्न शृणोति शृण्वन् वै तन्न शृणोति ।
न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ ४,३.२७ ॥

यद्वै तन्न मनुते मन्वानो वै तन्न मनुते ।
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ ४,३.२८ ॥

यद्वै तन्न स्पृशति स्पृशन् वै तन्न स्पृशति ।
न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ ४,३.२९ ॥

यद्वै तन्न विजानाति विजानन् वै तन्न विजानाति ।
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ४,३.३० ॥

यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ४,३.३१ ॥

सलिल एको द्रष्टाद्वैतो भवति ।
एष ब्रह्मलोकः सम्राट् ।
इति हैनमनुशशास याज्ञवल्क्यः ।
एषास्य परमा गतिः ।
एषास्य परमा संपत् ।
एषोऽस्य परमो लोकः ।
एषोऽस्य परम आनन्दः ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ४,३.३२ ॥

स यो मनूष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः ।
अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः ।
अथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दः ।
अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते ।
अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथैष एव परम आनन्दः ।
एष ब्रह्मलोकः सम्राट् ।
इति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
अत्र ह याज्ञवल्क्यो बिभयां चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ ४,३.३३ ॥

स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ४,३.३४ ॥

तद्यथानः सुसमाहितमुत्सर्जं यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४,३.३५ ॥

स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति ।
तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यते ।
एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ४,३.३६ ॥

तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीति ।
एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ४,३.३७ ॥

तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति ।
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४,३.३८ ॥

स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति ।
अथैनमेते प्राणा अभिसमायन्ति ।
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति ।
स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते ।
अथारूपज्ञो भवति ॥ ४,४.१ ॥

एकीभवति न पश्यतीत्याहुः ।
एकीभवति न जिघ्रतीत्याहुः ।
एकीभवति न रसयतीत्याहुः ।
एकीभवति न वदतीत्याहुः ।
एकीभवति न शृणोतीत्याहुः ।
एकीभवति न मनुत इत्याहुः ।
एकीभवति न स्पृशतीत्याहुः ।
एकीभवति न विजानातीत्याहुः ।
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति ।
चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति ।
प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ।
सविज्ञनो भवति ।
संजानमेवान्ववक्रामति ।
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ ४,४.२ ॥

तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ४,४.३ ॥

तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुते ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते ।
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४,४.४ ॥

स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः ।
तद्यदेतदिदंमयोऽदोमय इति ।
यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर्भवति ।
पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा पापः पापेन ।
अथो खल्वाहुः ।
काममय एवायं पुरुष इति ।
स यथाकामो भवति तत्क्रतुर्भवति ।
यत्क्रतुर्भवति तत्कर्म कुरुते ।
यत्कर्म कुरुते तदभिसंपद्यते ॥ ४,४.५ ॥

तदेष श्लोको भवति
तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य ।
प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ।
इति नु कामयमानः ।
अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ।
ब्रह्मैव सन् ब्रह्माप्येति ॥ ४,४.६ ॥

तदेष श्लोको भवति
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ।
तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत ।
एवमेवेदं शरीरं शेते ।
अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव ।
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ४,४.७ ॥

तदेते श्लोका भवन्ति
अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव ।
तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ४,४.८ ॥

तस्मिञ्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ४,४.९ ॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ४,४.१० ॥

अनन्दा नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छत्यविद्वांसोऽबुधा जनाः ॥ ४,४.११ ॥

आत्मानं चेद्विजानीयादयमस्मीति पुरुषः ।
किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ ४,४.१२ ॥

यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ ४,४.१३ ॥

इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः ।
ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ ४,४.१४ ॥

यदैतमनुपश्यत्यत्मानं देवमङ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ ४,४.१५ ॥

यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।
तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ ४,४.१६ ॥

यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ ४,४.१७ ॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ।
ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ ४,४.१८ ॥

मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। ४,४.१९ ॥

एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ।
विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ ४,४.२० ॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनं हि तदिति ॥ ४,४.२१ ॥

स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ।
य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
सर्वस्य वशी ।
सर्वस्येशानः ।
सर्वस्याधिपतिः ।
स न साधुना कर्मणा भूयान् ।
नो एवासाधुना कनीयान् ।
एष सर्वेश्वरः ।
एष भूताधिपतिः ।
एष भूतपालः ।
एष सेतुर्विधरण एषां लोकानामसंभेदाय ।
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ।
एतमेव विदित्वा मुनिर्भवति ।
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ॥ ४,४.२२ ॥

तदेतदृचाभ्युक्तम्
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति ।
सर्वमात्मानं पश्यति ।
नैनं पाप्मा तरति ।
सर्वं पाप्मानं तरति ।
नैनं पाप्मा तपति ।
सर्वं पाप्मानं तपति ।
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति ।
एष ब्रह्मलोकः सम्राट् ।
एनं प्रापितोऽसीति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ ४,४.२३ ॥

स वा एष महानज आत्मान्नादो वसुदानः ।
विन्दते वसु य एवं वेद ॥ ४,४.२४ ॥

स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म ।
अभयं वै ब्रह्म ।
अभयं हि वै ब्रह्म भवति य एवं वेद ॥ ४,४.२५ ॥

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च ।
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव ।
स्त्रीप्रज्ञैव तर्हि कात्यायनी ।
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ ४,५.१ ॥

मैत्रेयीति होवाच याज्ञवल्क्यः ।
प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥ ४,५.२ ॥

सा होवाच मैत्रेयी
यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितम् ।
तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ४,५.३ ॥

सा होवाच मैत्रेयी
येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ४,५.४ ॥

स होवाच याज्ञवल्क्यः
प्रिया वै खलु नो भवती सती प्रियमवृधत् ।
हन्त तर्हि ।
भवत्येतद्व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४,५.५ ॥

स होवाच ।
न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ४,५.६ ॥

ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ४,५.७ ॥

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ४,५.८ ॥

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ४,५.९ ॥

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ ४,५.१० ॥

स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि ।
अस्यैवैतानि सर्वाणि निश्वसितानि ॥ ४,५.११ ॥

स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ ४,५.१२ ॥

स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव ।
एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ ४,५.१३ ॥

सा होवाच मैत्रेयी
अत्रैव मा भगवान्मोहान्तमापीपदत् ।
न वा अहमिमं विजानामीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ ४,५.१४ ॥

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते न रिष्यति ।
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि ।
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ ४,५.१५ ॥

अथ वंशः ।
पौतिमाष्यो गौपवनात् ।
गौपवनः पौतिमाष्यात् ।
पौतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ ४,६.१ ॥

अग्निवेश्यात् ।
अग्निवेश्यो गार्ग्यात् ।
गार्ग्यो गार्ग्यात् ।
गार्ग्यो गौतमात् ।
गौतमः सैतवात् ।
सैतवः पाराशर्यायणात् ।
पाराशर्यायणो गार्ग्यायणात् ।
गार्ग्यायण उद्दालकायनात् ।
उद्दालकायनो जाबालायनात् ।
जाबालायनो माध्यन्दिनायनात् ।
माध्यन्दिनायनः सौकरायणात् ।
सौकरायणः काषायणात् ।
काषायणः सायकायनात् ।
साकायनः कौशिकायनेः
कौशिकायनिः ॥ ४,६.२ ॥

घृतकौशिकात् ।
घृतकौशिकः पाराशर्यात् ।
पाराशर्यः पाराशर्यात् ।
पाराशर्यो जातुकर्ण्यात् ।
जातुकर्ण्य आसुरायणाच्च यस्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहरितात् ।
कुमारहरितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादङ्गिरसात् ।
अयास्य आङ्गिरस आभुतेस्त्वाष्ट्रात् ।
आभुतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् ।
अश्विनौ दधिच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्राध्वंसनात् ।
प्राध्वंसनः एकर्षेः ।
एकर्षिर्विप्रजित्तेः ।
विप्रजित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्टिणः ।
परमेष्टी ब्रह्मणः ।
ब्रह्म स्वयम्भु ।
ब्रह्मणे नमः ॥ ४,६.३ ॥


पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
खं ब्रह्म ।
खं पुराणम् ।
वायुरं खम् ।
इति ह स्माह कौरव्यायणीपुत्रः ।
वेदोऽयं ब्राह्मणा विदुः ।
वेदैनेन यद्वेदितव्यम् ॥ ५,१.१ ॥

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः ।
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ ५,२.१ ॥

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दत्तेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ ५,२.२ ॥

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दयध्वमिति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति ।
दम्यत दत्त दयध्वमिति ।
तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ५,२.३ ॥

एष प्रजापतिर्यद्धृदयम् ।
एतद्ब्रह्म ।
एतत्सर्वम् ।
तदेतत्त्र्यक्षरं हृदयमिति ।
हृ इत्येकमक्षरम् ।
अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद ।
द इत्येकमक्षरम् ।
ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
यमित्येकमक्षरम् ।
एति स्वर्गं लोकं य एवं वेद ॥ ५,३.१ ॥

तद्वै तदेतदेव तदास ।
सत्यमेव ।
स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्न्वसावसत् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
सत्यं ह्येव ब्रह्म ॥ ५,४.१ ॥

आप एवेदमग्र आसुः ।
ता आपः सत्यमसृजन्त ।
सत्यं ब्रह्म ।
ब्रह्म प्रजापतिम् ।
प्रजापतिर्देवान् ।
ते देवाः सत्यमेवोपासते ।
तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् ।
तीत्येकमक्षरम् ।
यमित्येकमक्षरम् ।
प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् ।
तदेतदनृतमुभयतः सत्येन परिगृहीतम् ।
सत्यभूयमेव भवति ।
नैवंविद्वांसमनृतं हिनस्ति ॥ ५,५.१ ॥

तद्यत्तत्सत्यमसौ स आदित्यः ।
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ ।
रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ।
स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति ।
नैनमेते रश्मयः प्रत्यायन्ति ॥ ५,५.२ ॥

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहरिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ ५,५.३ ॥

योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ ५,५.४ ॥

मनोमयोऽयं पुरुषो भाःसत्यः ।
तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा ।
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ ५,६.१ ॥

विद्युद्ब्रह्मेत्याहुः ।
विदानाद्विद्युत् ।
विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति ।
विद्युद्ध्येव ब्रह्म ॥ ५,७.१ ॥

वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः ।
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः ।
तस्यै द्वौ स्तनौ देवा उपजीवन्ति ।
स्वाहाकारं च वषट्कारं च ।
हन्तकारं मनुष्याः ।
स्वधाकारं पितरः ।
तस्याः प्राण ऋषभो मनो वत्सः ॥ ५,८.१ ॥

अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे ।
येनेदमन्नं पच्यते ।
यदिदमद्यते ।
तस्यैष घोषो भवति ।
यमेतत्कर्णावपिधाय शृणोति ।
स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ ५,९.१ ॥

यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ।
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स आदित्यमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा दुन्दुभेः खम् ।
तेन स ऊर्ध्व आक्रमते ।
स लोकमागच्छत्यशोकमहिमम् ।
तस्मिन् वसति शाश्वतीः समाः ॥ ५,१०.१ ॥

एतद्वै परमं तपो यद्व्याहितस्तप्यते ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति ।
परमं हैव लोकं जयति य एवं वेद ॥ ५,११.१ ॥

अन्नं ब्रह्मेत्येक आहुः ।
तन्न तथा ।
पूयति वा अन्नमृते प्राणात् ।
प्राणो ब्रह्मेत्येक आहुः ।
तन्न तथा ।
शुष्यति वै प्रण ऋतेऽन्नात् ।
एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः ।
तद्ध स्माह प्रातृदः पितरम् ।
किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति ।
स ह स्माह पाणिना मा प्रातृद ।
कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।
तस्मा उ हैतदुवाच वीति ।
अन्नं वै वि ।
अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
रमिति ।
प्राणो वै रम् ।
प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति ।
सर्वाणि भूतानि रमन्ते य एवं वेद ॥ ५,१२.१ ॥

उक्थम् ।
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वमुत्थापयति ।
उद्धस्मादुक्थविद्वीरस्तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.१ ॥

यजुः ।
प्राणो वै यजुः ।
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय ।
यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.२ ॥

साम ।
प्राणो वै साम ।
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते ।
साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.३ ॥

क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।

त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्रमाप्नोति ।
क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.४ ॥

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.१ ॥

ऋचो यजूषि सामानीत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.२ ॥

प्राणोऽपानो व्यान इत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यद्वै चतुर्थं तत्तुरीयम् ।
दर्शतं पदमिति ददृश इव ह्येषः ।
परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति ।
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ५,१४.३ ॥

सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद्वै तत्सत्ये प्रतिष्ठितम् ।
चक्षुर्वै सत्यम् ।
चक्षुर्हि वै सत्यम् ।
तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति ।
य एवं ब्रूयादहमदर्शमिति ।
तस्मा एव श्रद्दध्याम ।
तद्वै तत्सत्यं बले प्रतिष्ठितम् ।
प्राणो वै बलम् ।
तत्प्राणे प्रतिष्ठितम् ।
तस्मादाहुर्बलं सत्यादोगीय इति ।
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता ।
सा हैषा गयांस्तत्रे ।
प्राणा वै गयाः ।
तत्प्राणास्तत्रे ।
तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम ।
स यामेवामूं सावित्रीमन्वाहैषैव सा ।
स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५,१४.४ ॥

तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः ।
वागनुष्टुप् ।
एतद्वाचमनुब्रूम इति ।
न तथा कुर्यात् ।
गायत्रीमेव सावित्रीमानुब्रूयात् ।
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५,१४.५ ॥

स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् ।
अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत्प्रतिगृह्णीयात् ॥ ५,१४.६ ॥

तस्या उपस्थानम् ।
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि ।
अपदसि ।
न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ।
असावदो मा प्रापदिति ।
यं द्विष्यादसावस्मै कामो मा समर्धीति वा ।
न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ।
अहमदः प्रापमिति वा ॥ ५,१४.७ ॥

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः ।
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच ।
तस्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति ।
एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ५,१४.८ ॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ।
अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ ५,१५.१ ॥


यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥ ६,१.१ ॥

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
वाग्वै वसिष्ठा ।
वसिष्ठः स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥ ६,१.२ ॥

यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे ।
प्रतितिष्ठति दुर्गे ।
चक्षुर्वै प्रतिष्ठा ।
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
य एवं वेद ॥ ६,१.३ ॥

यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते ।
श्रोत्रं वै संपत् ।
श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः ।
सं हास्मै पद्यते यं कामं कामयते ।
य एवं वेद ॥ ६,१.४ ॥

यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् ।
मनो वा आयतनम् ।
आयतनं स्वानां भवत्यायतनं जनानाम् ।
य एवं वेद ॥ ६,१.५ ॥

यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः ।
रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिः ।
य एवं वेद ॥ ६,१.६ ॥

ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः ।
तद्धोचुः को नो वसिष्ठ इति ।
तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ ६,१.७ ॥

वाग्घोच्चक्राम ।
सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह वाक् ॥ ६,१.८ ॥

चक्षुर्होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह चक्षुः ॥ ६,१.९ ॥

श्रोत्रं होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह श्रोत्रम् ॥ ६,१.१० ॥

मनो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह मनः ॥ ६,१.११ ॥

रेतो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति ।
प्रविवेश ह रेतः ॥ ६,१.१२ ॥

अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह ।
ते होचुः मा भगव उत्क्रमीः ।
न वै शक्ष्यामस्त्वदृते जीवितुमिति ।
तस्यो मे बलिं कुरुतेति ।
तथेति ॥ ६,१.१३ ॥

सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति ।
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः ।
यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् ।
यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः ।
यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः ।
तस्यो मे किमन्नं किं वास इति ।
यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् ।
आपो वास इति ।
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद ।
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति ।
एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥ ६,१.१४ ॥

श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम ।
स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।
तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
स भो३ इति प्रतिशुश्राव ।
अनुशिष्टो न्वसि पित्रेति ।
ओमिति होवाच ॥ ६,२.१ ॥

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति ।
नेति होवाच ।
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति ।
नेति हैवोवाच ।
वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति ।
नेति हैवोवाच ।
वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति ।
नेति हैवोवाच ।
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ।
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ।
अपि हि न ऋषेर्वचः श्रुतं
द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति ।
नाहमत एकं चन वेदेति होवाच ॥ ६,२.२ ॥

अथैनं वसत्योपमन्त्रयां चक्रे ।
अनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम् ।
तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति ।
कथं सुमेध इति ।
पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् ।
ततो नैकं चन वेदेति ।
कतमे त इति ।
इम इति ह प्रतीकान्युदाजहार ॥ ६,२.३ ॥

स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् ।
प्रेहि तु तत्र ।
प्रतीत्य ब्रह्मचर्यं वत्स्याव इति ।
भवानेव गच्छत्विति ।
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास ।
तस्मा आसनमाहृत्योदकमाहारयां चकार ।
अथ हास्मा अर्घ्यं चक
ार ।
तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ६,२.४ ॥

स होवाच प्रतिज्ञतो म एष वरः ।
यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ६,२.५ ॥

स होवाच दैवेषु वै गौतम तद्वरेषु ।
मानुषाणां ब्रूहीति ॥ ६,२.६ ॥

स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य ।
मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
स वै गौतम तीर्थेनेच्छसा इति ।
उपैम्यहं भवन्तमिति ।
वाचा ह स्मैव पूर्व उपयन्ति ।
स होपायनकीर्त्योवास ॥ ६,२.७ ॥

स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः ।
यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास ।
तां त्वहं तुभ्यं वक्ष्यामि ।
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ६,२.८ ॥

असौ वै लोकोऽग्निर्गौतम ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहरर्चिः ।
दिशोऽङ्गाराः ।
अवान्तरदिशो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुत्यै सोमो राजा संभवति ॥ ६,२.९ ॥

पर्जन्यो वा अग्निर्गौतम ।
तस्य संवत्सर एव समित् ।
अभ्राणि धूमः ।
विद्युदर्चिः ।
अशनिरङ्गाराः ।
ह्रादुनयो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुत्यै वृष्टिः संभवति ॥ ६,२.१० ॥

अयं वै लोकोऽग्निर्गौतम ।
तस्य पृथिव्येव समित् ।
अग्निर्धूमः ।
रात्रिरर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति ।
तस्या आहुत्या अन्नं संभवति ॥ ६,२.११ ॥

पुरुषो वा अग्निर्गौतम ।
तस्य व्यात्तमेव समित् ।
प्राणो धूमः ।
वागर्चिः ।
चक्षुरङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति ॥ ६,२.१२ ॥

योषा वा अग्निर्गौतम ।
तस्या उपस्थ एव समित् ।
लोमानि धूमः ।
योनिरर्चिः ।
यदन्तः करोति तेऽङ्गाराः ।
अभिनन्दा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुत्यै पुरुषः संभवति ।
स जीवति यावज्जीवति ।
अथ यदा म्रियते ॥ ६,२.१३ ॥

अथैनमग्नये हरन्ति ।
तस्याग्निरेवाग्निर्भवति ।
समित्समित् ।
धूमो धूमः ।
अर्चिरर्चिः ।
अङ्गारा अङ्गाराः ।
विष्फुलिङ्गा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति ।
तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ ६,२.१४ ॥

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति ।
मासेभ्यो देवलोकम् ।
देवलोकादादित्यम् ।
आदित्याद्वैद्युतम् ।
तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनरावृत्तिः ॥ ६,२.१५ ॥

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति ।
धूमाद्रात्रिम् ।
रात्रेरपक्षीयमाणपक्षम् ।
अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति ।
मासेभ्यः पितृलोकम् ।
पितृलोकाच्चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति ।
तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति ।
तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते ।
आकाशाद्वायुम् ।
वायोर्वृष्टिम् ।
वृष्टेः पृथिवीम् ।
ते पृथिवीं प्राप्यान्नं भवन्ति ।
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ।
लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते ।
अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ ६,२.१६ ॥

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति
यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् ।
तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा ।
या तिरश्ची निपद्यसेऽहं विधरणी इति ।
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ ६,३.१ ॥

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ६,३.२ ॥

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ६,३.३ ॥

अथैनमभिमृशति भ्रमदसि ।
ज्वलदसि ।
पूर्णमसि ।
प्रस्तब्धमसि ।
एकसभमसि ।
हिङ्कृतमसि ।
हिङ्क्रियमानमसि ।
उद्गीथमसि ।
उद्गीयमानमसि ।
श्रावितमसि ।
प्रत्याश्रावितमसि ।
आर्द्रे संदीप्तमसि ।
विभूरसि ।
प्रभूरसि ।
अन्नमसि ।
ज्योतिरसि ।
निधनमसि ।
संवर्गोऽसीति ॥ ६,३.४ ॥

अथैनमुद्यच्छत्यामंस्यामं हि ते महि ।
स हि राजेशानोऽधिपतिः ।
स मां राजेशनोऽधिपतिं करोत्विति ॥ ६,३.५ ॥

अथैनमाचामति
तत्सवितुर्वरेण्यम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।
भूः स्वाहा ।
भर्गो देवस्य धीमहि
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ।
भुवः स्वाहा ।
धियो यो नः प्रचोदयात् ।
मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
माध्वीर्गवो भवन्तु नः ।
स्वः स्वाहा ।
सर्वां च सावित्रीमन्वाह ।
सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति ।
प्रातरादित्यमुपतिष्ठते ।
दिशामेकपुण्डरीकमसि ।
अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६,३.६ ॥

तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.७ ॥

एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.८ ॥

एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.९ ॥

एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.१० ॥

एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.११ ॥

एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ ६,३.१२ ॥

चतुरौदुम्बरो भवति ।
औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति ।
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ।
तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति ।
आज्यस्य जुहोति ॥ ६,३.१३ ॥

एषां वै भूतानां पृथिवी रसः ।
पृथिव्या आपः ।
अपामोषधयः ।
ओषधीनां पुष्पाणि ।
पुष्पाणां फलानि ।
फलानां पुरुषः ।
पुरुषस्य रेतः ॥ ६,४.१ ॥

स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे ।
तां सृष्ट्वाध उपास्त ।
तस्मात्स्त्रियमध उपासीत ।
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् ।
तेनैनामभ्यसृजत ॥ ६,४.२ ॥

तस्या वेदिरुपस्थः ।
लोमानि बर्हिश् ।
चर्माधिषवणे ।
समिद्धो मध्यतस्तौ मुष्कौ ।
स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावानस्य लोको भवति ।
य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते ।
अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ ६,४.३ ॥

एतद्ध स्म वै तद्विद्वानुद्दालक आरुनिराह ।
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह ।
एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति ।
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ६,४.४ ॥

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः ।
इदमहं तद्रेत आददे ।
पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः ।
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् ।
इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ६,४.५ ॥

अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति ।
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः ।
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६,४.६ ॥

सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् ।
सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् ।
इन्द्रियेन ते यशसा यश आदद इति ।
अयशा एव भवति ॥ ६,४.७ ॥

सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति ।
यशस्विनावेव भवतः ॥ ६,४.८ ॥

स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत्
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ६,४.९ ॥

अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् ।
इन्द्रियेण ते रेतसा रेत आदद इति ।
अरेता एव भवति ॥ ६,४.१० ॥

अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् ।
इन्द्रियेण ते रेतसा रेत आदधामीति ।
गर्भिण्येव भवति ॥ ६,४.११ ॥

अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् ।
मम समिद्धेऽहौषीः ।
प्राणापानौ त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
पुत्रपशूंस्त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
इष्टासुकृते त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
अशापराकाशौ त आददेऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् ।
उत ह्येवंवित्परो भवति ॥ ६,४.१२ ॥

अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् ।
अहतवासाः ।
नैनां वृषलो न वृषल्यपहन्यात् ।
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ ६,४.१३ ॥

स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१४ ॥

अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१५ ॥

अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१६ ॥

अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१७ ॥

अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवाइ ।
औक्षेण वार्षभेण वा ॥ ६,४.१८ ॥

अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति ।
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति
उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् ।
सं जायां पत्या सहेति ॥ ६,४.१९ ॥

अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् ।
सा त्वमस्यमोऽहम् ।
सामाहमस्मि ऋक्त्वम् ।
द्यौरहं पृथिवी त्वम् ।
तावेहि संरभावहै सह रेतो दधावहै ।
पुंसे पुत्राय वित्तय इति ॥ ६,४.२० ॥

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति ।
तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ६,४.२१ ॥

हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ।
यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी ।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ ६,४.२२ ॥

सोष्यन्तीमद्भिरभ्युक्षति
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः ।
तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ ६,४.२३ ॥

जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति
अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।
अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा ।
मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ६,४.२४ ॥

अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः ।
अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ ६,४.२५ ॥

अथास्य नाम करोति वेदोऽसीति ।
तदस्यैतद्गुह्यमेव नाम भवति ॥ ६,४.२६ ॥

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ ६,४.२७ ॥

अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति ।
तं वा एतमाहुः अतिपिता बताभूः ।
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन ।
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ ६,४.२८ ॥

अथ वंशः ।
पौतिमाषीपुत्रः कात्यायनीपुत्रात् ।
कात्यायनीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्र औपस्वस्तीपुत्रात् ।
औपस्वस्तीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रः कात्यायनीपुत्रात् ।
कात्यायनीपुत्रः कौशिकीपुत्रात् ।
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च ।
वैयाघ्रपदीपुत्रह्काण्वीपुत्राच्च कापीपुत्राच्च ।
कापीपुत्रः ॥ ६,५.१ ॥

आत्रेयीपुत्रात् ।
आत्रेयीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वात्सीपुत्रात् ।
वात्सीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वार्कारुनीपुत्रात् ।
वार्कारुणीपुत्रो वार्कारुणीपुत्रात् ।
वार्कारुणीपुत्र आर्तभागीपुत्रात् ।
आर्तभागीपुत्रः शौङ्गीपुत्रात् ।
शौङ्गीपुत्रः सान्कृतीपुत्रात् ।
साङृतीपुत्र आलम्बायनीपुत्रात् ।
आलम्बायनीपुत्र आलम्बीपुत्रात् ।
आलम्बीपुत्रो जायन्तीपुत्रात् ।
जायन्तीपुत्रो माण्डूकायनीपुत्रात् ।
माण्डूकायनीपुत्रो माण्डूकीपुत्रात् ।
माण्डूकीपुत्रः शाण्डिलीपुत्रात् ।
शाण्डिलीपुत्रो राथीतरीपुत्रात् ।
राथीतरीपुत्रो भालुकीपुत्रात् ।
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् ।
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् ।
वैदभृतीपुत्रः कार्शकेयीपुत्रात् ।
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् ।
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् ।
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः ।
प्राश्नीपुत्र आसुरायणात् ।
आसुरायण आसुरेः ।
आसुरिः। ६,५.२ ॥

याज्ञवल्क्यात् ।
याज्ञवल्क्य उद्दालकात् ।
उद्दालकोऽरुणात् ।
अरुण उपवेशेः ।
उपवेशिः कुश्रेः ।
कुश्रिर्वाजश्रवसः ।
वाजश्रवा जीह्वावतो बाध्योगात् ।
जीह्वावान् बाध्योगोऽसिताद्वार्षगणात् ।
असितो वार्षगणो हरितात्कश्यपात् ।
हरितः कश्यपः शिल्पात्कश्यपात् ।
शिल्पः कश्यपः कश्यपान्नैध्रुवेः ।
कश्यपो नैध्रुविर्वाचः ।
वागम्भिण्याः ।
अम्भिण्यादित्यात् ।
आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ ६,५.३ ॥

समानमा साञ्जीवीपुत्रात् ।
सञ्जिवीपुत्रो माण्डूकायनेः ।
माण्डूकायनिर्माण्डव्यात् ।
माण्डव्यः कौत्सात् ।
कौत्सो माहित्थेः ।
माहित्थिर्वामकक्षायणात् ।
वामकक्षायणः शाण्डिल्यात् ।
शाण्डिल्यो वात्स्यात् ।
वात्स्यः कुश्रेः ।
कुश्रिर्यज्ञवचसः राजस्तम्बायनात् ।
यज्ञवचा राजस्तम्बायनः तुरात्कावषेयात् ।
तुरः कावषेयः प्रजापतेः ।
प्रजापतिर्ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ ६,५.४ ॥


Categories: Sanskrit Documents

Tagged as: