Mangal sloka of Ramcharit Manasa

श्री गणेशाय नमः ॥
श्रीजानकीवल्लभो विजयते श्री रामचरित मानस प्रथम सोपान (बालकाण्ड) श्लोक

वर्णानामर्थसंघानां रसानां छन्दसामपि ।
मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ ॥ १ ॥

भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ ।
याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम ॥२॥

वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम ।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥३॥

सीतारामगुणग्रामपुण्यारण्यविहारिणौ ।
वन्दे विशुद्धविज्ञानौ कबीश्वरकपीश्वरौ ॥४॥

उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम ।
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम ॥५॥

यन्मायावशवर्तिं विश्वमखिलं ब्रह्मादिदेवासुरा यत्सत्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः ।
यत्पादप्लवमेकमेव हि भवाम्भोधेस्तितीर्षावतां वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम ॥६॥

नानापुराणनिगमागमसम्मतं यद रामायणे निगदितं क्वचिदन्यतोऽपि ।
स्वान्तःसुखाय तुलसी रघुनाथगाथा- भाषानिबन्धमतिमञ्जुलमातनोति ॥७॥


वाणीविनायकौ
श्रद्धाविश्वास
बोधमयं
विशुद्धविज्ञानौ
स्वान्तःसुखाय

Next Post

Current Affairs-2019 October 25TH

Fri Oct 25 , 2019
New Delhi 26 °C Dhanteras is being celebrated today all over the India The Supreme Court today sought the Centre’s response by November 5 on a plea seeking entry of Muslim women in mosques across the country and claiming that such restriction was “unconstitutional” and violative of fundamental rights to life, equality and gender justice. The bench headed by Chief Justice Ranjan […]
Daily Current Affairs-September

You May Like

Recent Updates

%d bloggers like this: