Sanskrit

Radha Prakaranam: Ujjawal Neel Mani

Ujjawal Neel Mani Sanskrit

श्रीराधाप्रकरणम् : Shree Radha Prakaranam

रूपगोस्वामी

तत्रापि सर्वथा श्रेष्ठे राधाचन्द्रावलीत्युभे ।
यूथयोस्तु ययोः सन्ति कोटिसङ्ख्या मृगीदृशः ॥ ४.१ ॥
अभूदाकुलितो रासः प्रमदाशतकोटिभिः ।
पुलिने यामुने तस्मिन्नित्येषागमिकी प्रथा ॥ ४.२ ॥
तयोरप्युभयोर्मध्ये राधिका सर्वथाधिका ।
महाभावस्वरूपेयं गुणैरतिवरीयसी ॥ ४.३ ॥
गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता ।
राधेत्यृक्परिशिष्टे च माधवेन सहोदिता ।
अतस्तदीयमाहात्म्यं पाद्मे देवर्षिणोदितम् ॥ ४.४ ॥

तथा हि
यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ ४.५ ॥

ह्लादिनी या महाशक्तिः सर्वशक्तिवरीयसी ।
तत्सारभावरूपेयमिति तन्त्रे प्रतिष्ठिता ॥ ४.६ ॥
सुष्ठुकान्तस्वरूपेयं सर्वदा वार्षभानवी ।
धृतषोडशशृङ्गारा द्वादशाभरणान्विता ॥ ४.७ ॥

तत्र सुष्ठुकान्तस्वरूपा, यथा श्रीकृष्णवाक्यम्

कचास्तव सुकुञ्चिता मुखमधीरदीर्घेक्षणं
कठोरकुचभागुरः क्रशिमशालि मध्यस्थलम् ।
नते शिरसि दोर्लते करजरत्नरम्यौ करौ
विधूनयति राधिके त्रिजगदेष रुपोत्सवः ॥ ४.८ ॥

अथ धृतषोडशशृङ्गारा

स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी
सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।
ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥ ४.९ ॥

अथ द्वादशाभरणाश्रिता

दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि
निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।
हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास्
तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥ ४.१० ॥।

अथ वृन्दावनेश्वर्याः कीर्त्यन्ते प्रवरा गुणाः ।
मधुरेयं नववयाश्चलापाङ्गोज्ज्वलस्मिता ॥ ४.११ ॥
चारुसौभाग्यरेखाढ्या गन्धोन्मादितमाधवा ।
सङ्गीतप्रसराभिज्ञा रम्यवाङ्नर्मपण्डिता ॥ ४.१२ ॥
विनीता करुणापूर्णा विदग्धा पाटवान्विता ।
लज्जाशीला सुमर्यादा धैर्यगाम्भीर्यशालिनी ॥ ४.१३ ॥
सुविलासा महाभावपरमोत्कर्षतर्षिणी ।
गोकुलप्रेमवसतिर्जगच्छ्रेणीलसद्यशाः ॥ ४.१४ ॥
गुर्वर्पितगुरुस्नेहा सखीप्रणयितावशा ।
कृष्णप्रियावलीमुख्या सन्तताश्रवकेशवा ।
बहुना किं गुणास्तस्याः सङ्ख्यातीता हरेरिव ॥ ४.१५ ॥
इत्यङ्गोक्तिमनःस्थास्ते परसम्बन्धगास्तथा ।
गुणा वृन्दावनेश्वर्या इह प्रोक्ताश्चतुर्विधाः ॥ ४.१६ ॥
माधुर्यं चारुता नव्यं वयः कैशोरमध्यमम् ।
सौभाग्यरेखा पादादिस्थिताश्चन्द्रकलादयः ॥ ४.१७ ॥
साधुमार्गादचलनं मर्यादेत्युदितं बुधैः ।
लज्जाभिजात्यशीलाद्यैर्धैर्यं दुःखसहिष्णुता ॥ ४.१८ ॥
व्यक्तत्वाल्लक्षितत्वाच्च नान्येषां लक्षणं कृतम् ॥ ४.१९ ॥

तत्र मधुरा, यथा विदग्धमाधवे (१.३२)

बलादक्ष्णोर्लक्ष्मीः कवलयति नव्यं कुवलयं
मुखोल्लासः फुल्लं कमलवनमुल्लङ्घयति च ।
दशां कष्टामष्टापदमपि नयत्याङ्गिकरुचिर्
विचित्रं राधायाः किमपि किल रूपं विलसति ॥ ४.२० ॥

अथ नववयाः
श्रोणिः स्यन्दनतां कृशोदरि कुचद्वन्द्वं क्रमाच्चक्रतां
भ्रूश्चापश्रियमीक्षणद्वयमिदं यात्याशुगत्वं तव ।
सैनापत्यमतः प्रदाय भुवि ते कामः पशूनां पतिं
धुन्वन् जित्वरमानिनं त्वयि निजं साम्राज्यभारं न्यधात् ॥ ४.२१ ॥

अथ चपलापाङ्गी
तडिदतिचलतां ते किं दृगन्तादपाठीद्
विधुमुखि तडितो वा किं तवायं दृगन्तः ।
ध्रुवमिह गुरुताभूत्त्वद्दृगन्तस्य राधे
वरमतिजविनां मे येन जिग्ये मनोऽपि ॥ ४.२२ ॥

अथ उज्ज्वलस्मिता
तव वदनविधौ विधौतमध्यां
स्मितसुधयाधरलेखिकामुदीक्ष्य ।
सखि लघुरघभिच्चकोरवर्यः
प्रमदमदोद्धुरबुद्धिरुज्जिहीते ॥ ४.२३ ॥

अथ चारुसौभाग्यरेखाढ्या
अघहर भज तुष्टिं पश्य यच्चन्द्रलेखा
वलयकुसुमवल्लीकुण्डलाकारभाग्भिः ।
अभिदधति निलीनामत्र सौभाग्यरेखा
विततिभिरनुविद्धाः सुष्ठु राधां पदाङ्काः ॥ ४.२४ ॥

अथ गन्धोन्मादितमाधवा

वल्लीमण्डलपल्लवालिभिरितः सङ्गोपनायात्मनो
मा वृन्दावनचक्रवर्तिनि कृथा यत्नं मुधा माधवि ।
भ्राम्यद्भिः स्वविरोधिभिः परिमलैरुन्मादनैः सूचितां
कृष्णस्तां भ्रमाधिपः सखि धुवन् धूर्तो ध्रुवं धास्यति ॥ ४.२५ ॥

अथ सङ्गीतप्रसराभिज्ञा

कृष्णसारहरपञ्चमस्वरे
मुञ्च गीतकुतुकानि राधिके ।
प्रेक्षतेऽत्र हरिणानुधावितां
त्वां न यावदतिरोषणः पतिः ॥ ४.२६ ॥

अथ रम्यवाक्
सुवदने वदने तव रधिके
स्फुरति केयमिहाक्षरमाधुरी ।
विकलतां लभते किल कोकिलः
सखि ययाद्य सुधापि मुधार्थताम् ॥ ४.२७ ॥

अथ नर्मपण्डिता
वंश्यास्त्वमुपाध्यायः
किमुपाध्यायी तवात्र वंशी वा ।
कुलयुवतिधर्महरणाद्
अस्ति ययोर्नापरं कर्म ॥ ४.२८ ॥

यथा वा
देव प्रसीद वृषवर्धन पुण्यकीर्ते
साध्वीगणस्तनशिवार्चननित्यपूत ।
निर्मञ्छनं तव भजे रविपूजनाय
स्नातास्मि हन्त मम न स्पृश न स्पृशाङ्गम् ॥ ४.२९ ॥

अथ विनीता
अपि गोकुले प्रसिद्धा भ्रूभ्रमिभिः परिजनैर्निषिद्धापि ।
पीठं मुमोच राधा भद्रिकामपि दूरतः प्रेक्ष्य ॥ ४.३० ॥

यथा वा, विदग्धमाधवे (५.१५)
भूयो भूयः कलिविलसितैः सापराधापि राधा
श्लाघ्येनाहं यदघरिपुणा बाढमङ्गीकृतास्मि ।
तत्र क्षामोदरि किमपरं कारणं वः सखीनां
दत्तामोदां प्रगुणकरुणामञ्जरीमन्तरेण ॥ ४.३१ ॥

अथ करुणापूर्णा
तार्णसूचिशिखयापि तर्णकं
विद्धवक्त्रमवलोक्य सास्रया ।
लिप्यते क्षतमवाप्तबाधया
कुङ्कुमेन कृपयास्य राधया ॥ ४.३२ ॥

अथ विदग्धा
आचार्या धातुचित्रे पचनविरचनाचातुरीचारुचित्ता
वाग्युद्धे मुग्धयन्ती गुरुमपि च गिरां पण्डिता माल्यगुम्फे ।
पाठे शारीशुकानां पटुरजितमपि द्यूतकेलिषु जिष्णुर्
विद्याविद्योतिबुद्धिः स्फुरति रतिकलाशालिनी राधिकेयम् ॥ ४.३३ ॥

अथ पाटवान्विता, यथा विदग्धमाधवे (३.३)

छिन्नः प्रियो मणिसरः सखि मौक्तिकानि
वृत्तान्यहं विचिनुयामिति कैतवेन ।
मुग्धं विवृत्य मयि हन्त दृगन्तभङ्गीं
राधा गुरोरपि पुरः प्रणयाद्व्यतानीत् ॥ ४.३४ ॥

अथ लज्जाशीला

व्रजनरपतिसूनुर्दुल्रभालोकनोऽयं
स्फुरति रहसि ताम्यत्येष तर्षाज्जनोऽपि ।
विरम जननि लज्जे किञ्चिदुद्घाट्य वक्त्रं
निमिषमिह मनागप्यक्षिकोणं क्षिपामि ॥ ४.३५ ॥

अथ सुमर्यादा
प्राणानकृताहारा सखि राधाचातकी वरं त्यजति ।
न तु कृष्णमुदिरमुक्तादमृताद्वृत्तिं भजेदपराम् ॥ ४.३६ ॥

यथा वा
आहूयमाना व्रजनाथयास्मि युक्तोऽभिसारः सखि नाधुना मे ।
न तादृशीनां हि गुरूत्तमानामाज्ञास्ववज्ञा वलते शिवाय ॥ ४.३७ ॥

यथा वा
पूर्णाशीः पूर्णिमासावनवहिततया या त्वयास्यै वितीर्णा
वष्टि त्वामेव तन्वन्नखिलमधुरिमोत्सेकमस्यां मुकुन्दः ।
दिष्ट्या पर्वोदगात्ते स्वयमभिसरणे चित्तमाधत्स्व वत्से
युक्त्याप्युक्ता मयेति द्युमणिसखसुता प्राहिणोदेव चित्राम् ॥ ४.३८ ॥

अथ धैर्यशालिनी
तीव्रस्तर्जति भिन्नधीर्गृहपतिश्छद्मज्ञया पद्मया
हारं हारयति हरिप्रणिहितं कीशेन भर्तुः स्वसा ।
मल्लीं लुम्पति कृष्णकाम्यकुसुमां शैव्या प्रिया वर्करी
राधा पश्य तथाप्यतीव सहना तुष्णीमसौ तिष्ठति ॥ ४.३९ ॥

अथ गाम्भीर्यशालिनी
कलहान्तरितापदे स्थितिं
सखि धीराद्य गतापि राधिका ।
बहिरुद्भटमानलक्षणा
सुदुरूहा ललिता धियाप्यभूत् ॥ ४.४० ॥

अथ सुविलासा
तिर्यक्क्षिप्तचलद्दृगञ्चलरुचिर्लास्योल्लसद्भ्रूलता
कुन्दाभस्मितचन्दिकोज्ज्वलमुखी गण्डोच्छलत्कुण्डला ।
कन्दर्पागमसिद्धमन्त्रगहनामर्धं दुहाना गिरं
हारिण्यद्य हरेर्जहार हृदयं राधा विलासोर्मिभिः ॥ ४.४१ ॥

अथ महाभावपरमोत्कर्षतर्षिणी

अश्रूणामतिवृष्टिभिर्द्विगुणयन्त्यर्कात्मजानिर्झरं
ज्योत्स्नीस्यन्दिविधूपलप्रतिकृतिच्छायं वपुर्बिभ्रती ।
कण्ठान्तस्त्रुटदक्षराद्यपुलकैर्लब्धा कदम्बाकृतिं
राधा वेणुधर प्रवातकदलीतुल्या क्वचिद्वर्तते ॥ ४.४२ ॥

अथ गोकुलप्रेमवसतिः

प्रेमसन्ततिभिरेव
वेधसा नु वृषभानुनन्दिनी ।
यादृशां पदमिता मनांसि नः
स्नेहयत्यखिलगोष्ठवासिनाम् ॥ ४.४३ ॥

अथ जगच्छ्रेणीलसद्यशाः

उत्फुल्लं किल कुर्वती कुवलयं देवेन्द्रपत्नीश्रुतौ
कुन्दं निक्षिपती विरिञ्चीगृहिणीरोमौषधीहर्षिणी ।
कर्णोत्तंससुधांशुरत्नसकलं विद्राव्य भद्राङ्गि ते
लक्ष्मीमप्यधुना चकार चकितां राधे यशःकौमुदी ॥ ४.४४ ॥

अथ गुर्वर्पितगुरुस्नेहा

न सुतासि कीर्तिदायाः
किन्तु ममैवेति तथ्यमाख्यामि ।
प्राणिमि वीक्ष्य मुखस्ते
कृष्णस्येवेति किं त्रपसे ॥ ४.४५ ॥

अथ सखीप्रणयाधीना

उपदिश सखि वृन्दे वल्लवेन्द्रस्य सूनुं
किमयमिह सखीनां मामधीनां दुनोति ।
अपसरतु सशङ्कं मन्दिरान्मानिनीनां
कलयति ललितायाः किं न शौटीर्यधाटीम् ॥ ४.४६ ॥

अथ कृष्णप्रियावलीमुख्या, यथा ललितमाधवे (१०.१०)

सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः
स्वस्ति स्यान्मदिरेक्षणे क्षणमपि त्वामन्तरा मे कुतः ।
ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया
नाकाशे वृषभानुजां श्रियमृते निष्पद्यते स्वश्छटा ॥ ४.४७ ॥

अथ सन्तताश्रवकेशवा

षडङ्घ्रिभिरर्दितान् कुसुमसञ्चयानाचिनोद्
अखण्डमपि राधिके बहुशिखण्डकं त्वद्गिरा ।
अमुञ्च नवपल्लवव्रजमुदञ्चदर्कोज्ज्वलं
करोतु वशगो जनः किमयमन्यदाज्ञापय ॥ ४.४८ ॥

यस्याः सर्वोत्तमे यूथे सर्वसद्गुणमण्डिताः ।
समन्तान्माधवाकर्षिविभ्रमाः सन्ति सुभ्रुवः ॥ ४.४९ ॥
तास्तु वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः ।
सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन ।
प्रियसख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ॥ ४.५० ॥
सख्यः कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः ।
नित्यसख्यश्च कस्तूरीमणिमञ्जरिकादयः ॥ ४.५१ ॥
प्राणसख्यः शशिमुखीवासन्तीलासिकादयः ।
गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥ ४.५२ ॥
प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी ।
माधवी मालती कामलता शशिकलादयः ॥ ४.५३ ॥
परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।
सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ॥ ४.५४ ॥
आसां सुष्ठु द्वयोरेव प्रेम्णः परमकाष्ठया ।
क्वचिज्जातु क्वचिज्जातु तदाधिक्यमिवेक्षते ॥ ४.५५ ॥

इति श्रीश्रीउज्ज्वलनीलमणौ श्रीराधाप्रकरणम्


श्रीश्रीउज्ज्वलनीलमणौ श्रीराधाप्रकरणम्-Radha Prakaranam: Ujjawal Neel Mani

रूपगोस्वामी