Sanskrit Documents

Sakhi Prakaranam:Ujjawal Neel Mani by Rupa Goswami

Ujjawal Neel Mani Sanskrit

रूपगोस्वामी

सखीप्रकरणम् : Sakhi Prakaranam

प्रेमलीलाविहाराणां सम्यग्विस्तारिका सखी ।
विश्रम्भरत्नपेटी च ततः सुष्थु विविच्यते ॥ ८.१ ॥
एकयूथानुषक्तानां सखीनामेव मध्यतः ।
अधिकादेर्भिदा ज्ञेया प्रखरादेश्च पूर्ववत् ॥ ८.२ ॥
प्रेमसौभाग्यसाद्गुण्याद्याधिक्यादधिका सखी ।
समा तत्साम्यतो ज्ञेया तल्लघुत्वात्तथा लघुः ॥ ८.३ ॥
दुर्लङ्घ्यवाक्यप्रखरा प्रख्याता गौरवोचिता ।
तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यमागता ॥ ८.४ ॥
आत्यन्तिकाधिकत्वादिभेदः पूर्ववदत्र सः ।
स्वयूथे यूथनाथैव स्यादत्रात्यन्तिकाधिका ।
सा क्वापि प्रखरा यूथे क्वापि मध्या मृदुः क्वचित् ॥ ८.५ ॥

तत्र आत्यन्तिकाधिकात्रिकम्
तत्त्रिकं सकलापेक्ष्यं नातीवान्यवशं तथा ।
स्वयूथे तद्व्यवहृतिव्यक्तये पुनरुच्यते ॥ ८.६ ॥

तत्र आत्यन्तिकाधिकप्रखरा
नीले नीलनिचोलमर्थये मघे देहि स्रजं दामनीं
त्वं कालागुरुकर्दमैः सखि तनुं लिम्पस्व चम्पे मम ।
जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे
कुञ्जाभिक्रमणाय मां त्वरयते स्फारान्धकारावली ॥ ८.७ ॥

अधिकप्रखराः श्यामामङ्गलाद्याः प्रकीर्तिताः ॥ ८.८ ॥

तत्र आत्यन्तिकाधिकमध्या
अनङ्गशरजर्जरं स्फुटति चेन्मनो वस्तदा
मदर्थनकदर्थनैः कृतमितः स्वयं गच्छत ।
दृशां पथि भवादृशीप्रणयितानुरूपः सुखं
यदत्र रतहिण्डकः स किल पाति गोमण्डलम् ॥ ८.९ ॥

भवन्त्यधिकमध्यास्तु श्रीराधापालिकादयः ॥ ८.१० ॥

तत्र आत्यन्तिकाधिकमृद्वी
शृणु सखि वचस्तथ्यं मानग्रहे मम का क्षतिः
स्फुरति मुरलीनादे को वा श्रमः श्रवणावृतौ ।
अतिकठिनतादुर्वादं ते निशम्य मया व्रजे
दमयितुममुं किन्तु क्षिप्रं दृगर्धमघद्विषि ॥ ८.११ ॥

अधिका मृदवश्चन्द्रावलीभद्रादयो मताः ॥ ८.१२ ॥

अथ आपेक्षिकाधिकात्रिकम्
यौथिकीषु सखीष्वेव यूथेशातो लघुष्विह ।
याधिकैकामपेक्षान्या सा स्यादापेक्षिकाधिका ॥ ८.१३ ॥

तत्र अधिकप्रखरा
सुमध्ये मा यासीस्त्वमधिकममीभिर्मृदुलतां
मदस्योपादानैः शठकुलगुरोर्जल्पमधुभिः ।
अयि क्रीडालुब्धे किमु निभृतभृङ्गेन्द्रभणिते
कुडुङ्गे राधायाः क्लममपि विसस्मार भवती ॥ ८.१४ ॥

यथा वा
मुग्धे तूष्णीं भव शठकलामण्डलाखण्डलेन
त्वं मन्त्रेण स्फुटमिह वशीकृत्य तेनानुशिष्टा ।
कुञ्जे गोवर्धनशिखरिणो जागरेणाद्य राधां
दृष्ट्वाप्युच्चैः सखि यदसि मे चाटुवादे प्रवृत्ता ॥ ८.१५ ॥

ललिताद्यास्तु गान्धर्वायूथेऽत्र प्रखराधिकाः ॥ ८.१६ ॥

अथ अधिकमध्या
दामार्प्यतां प्रियसखीप्रहितां त्वयैव
दामोदरे कुसुममत्र मयावचेयम् ।
नाहं भ्रमाच्चतुरिके सखि सूचनीया
कृष्णः कदर्थयति मामधिकं यदेषः ॥ ८.१७ ॥

यथा वा
गीरो गम्भीरार्थाः कथमिव हितास्ते न शृणुयां
निगूढो मां किन्तु व्यथयति मुरारेरविनयः ।
मयोल्लासात्तस्मै स्वयमुपहृता हन्त सखि या
कुरङ्गाक्षीकेशोपरि परिचिता सा स्रगधुना ॥ ८.१८ ॥

अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः ॥ ८.१९ ॥

अथ अधिकमृद्वी
दरापि न दृगर्पिता सखि शिखण्डचूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् ।
नटन्मकरकुण्डलं सपदि चण्डि लीलागतिं
तनोत्ययमदूरतः किमिह संविधेयं मया ॥ ८.२० ॥

अधिका मृदवश्चात्र चित्रा मधुरिकादयः ॥ ८.२१ ॥

अथ समात्रिकम्
गाढविश्रम्भनिर्भेदप्रेमबन्धं समात्रिकम् ॥ ८.२२ ॥

तत्र समप्रखरा
प्रविशति हरिरेष प्रेक्ष्य नौ हृष्टचेताः
सखि सपदि मुधा त्वं सम्भ्रमान्मा प्रयासीः ।
पृथुभुजपरिघाभ्यां स्कन्धयोरर्पिताभ्यां
तटभुवि सुखमावां मण्डिते पर्यटावः ॥ ८.२३ ॥

अथ सममध्या
श्यामे गौरि हरिः क्व दीव्यति सखि क्षौणीभृतः कन्दरे
किं पञ्चास्यनखाः स्वविक्रममधुर्वक्षोजकुम्भे तव ।
आकर्षत्यभितः स नागमथनस्त्वामेव कृत्वा रवं
मिथ्यालास्यनटि त्वमेव रमसे तस्मिन् सुकण्ठिरवे ॥ ८.२४ ॥

अथ सममृद्वी
प्रालम्बमिन्दुमुखि यादृशमेव दत्तं
कृष्णेन तुभ्यमपरं सखि तादृशं मे ।
त्वं चेन्मदीयमपि दित्ससि नाद्य मा दा
हास्यं विमुञ्च चलिता तव पार्श्वतोऽस्मि ॥ ८.२५ ॥

अथ लघुत्रिकम्
लघुत्रिकं प्रियसखीसौख्योत्कर्षार्थचेष्टितम् ॥ ८.२६ ॥
यदप्यन्योन्यनिष्ठं स्यात्सख्यं तदपि युज्यते ।
सदा साहाय्यहेतुत्वान्मुख्यं तत्तु लघुत्रिके ॥ ८.२७ ॥
लघुरापेक्षिकी चात्यन्तिकी चेति द्विधेरिता ॥ ८.२८ ॥

तत्र आपेक्षिकलघुः
आपेक्षिकलघुश्चात्र कथिता ललितादिका ॥ ८.२९ ॥

तत्र लघुप्रखरा, यथा विदग्धमाधवे (५.३२)
धारा बाष्पमयी न याति विरतिं लोकस्य निमित्सतः
प्रेमास्मिन्निति नन्दनन्दनरतं लोभोन्मना मा कृथाः ।
इत्थं भूरि निवारितापि तरले मद्वाचि साचीकृत
भ्रूद्वन्द्वा न हि गौरवं त्वमकरोः किं नाद्य रोदिष्यसि ॥ ८.३० ॥

सा लघुप्रखरा द्वेधा भवेद्वामाथ दक्षिणा ॥ ८.३१ ॥

तत्र वामा
मानग्रहे सदोद्युक्ता तच्छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥ ८.३२ ॥

तत्र मानग्रहे सदोद्युक्ता, यथा पद्यावल्यां (२२२)
कञ्चन वञ्चनचतुरे
प्रपञ्चय त्वं मुरान्तके मानम् ।
बहुवल्लभे हि पुरुषे
दाक्षिण्यं दुःखमुद्वहति ॥ ८.३३ ॥

मानशैथिल्ये कोपना, यथा
सरभसमभिव्यक्तिं याते नवाविनयोत्करे
चटुपटिमभिर्नीता मृद्वी प्रसादमघद्विषा ।
असरलसखीचिल्लीव्यालीपरिभ्रमकम्पिता
विमुखितमुखी भूयो भद्रा हठाद्भ्रुकुटिं दधे ॥ ८.३४ ॥

नायकाभेद्या, यथोद्धवसन्देशे (५२)
कामं दूरे वसतु पटिमा चाटुवृन्दस्तत्रायं
राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः ।
हन्त क्लान्ता मम सहचरी रात्रिमेकाकिनी इयं
नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण ॥ ८.३५ ॥

नायके क्रूरा, यथा दानकेलिकौमुद्यां (५७)
अमूर्व्रजमृगेक्षणाश्चतुरशीतिलक्षाधिकाः
प्रतिस्वमिति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ
कथं तदपि साहसी शठ! जिघृक्षुरेनामसि ॥ ८.३६ ॥

यूथे ‘त्र वामप्रखरा ललिताद्याः प्रकीर्तिताः ॥ ८.३७ ॥

अथ दक्षिणा
असहा माननिर्बन्धे नायके युक्तवादिनी ।
सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ॥ ८.३८ ॥

तत्र माननिर्बन्धासहा, यथा श्रीगीतगोविन्दे (९.१०)
स्निग्धे यत्परुषासि प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ८.३९ ॥

नायके युक्तवादिनि, यथा पद्यावल्याम् (२९७)
अदोषाद्दोषाद्वा त्यजति विपिने तां यदि भवान्
अभद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः ।
इदं तु क्रूरं मे स्मरति हृदयं यत्किल तया
त्वदर्थं कान्तारे कुलतिलक नात्मापि गणितः ॥ ८.४० ॥

नायकभेद्या, यथा
न व्यर्थां कुरुषे ममैव भणितिं मध्ये सखीनामिति
श्रुत्वा ख्यातिमसौ कृती मधुरिपुर्मां बाढमाशिश्रिये ।
दृष्ट्वा मद्वदनं प्रसीद रभसादेनं पुरः कातरं
कल्याणीभिरलं कृशोदरि दृशोर्भङ्गीभिरङ्गीकुरु ॥ ८.४१ ॥

तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेत् ॥ ८.४२ ॥

अथ लघुमध्या
त्वया रचितसंकथां पथि समीक्ष्य मां मानिनी
सखी मम विषण्णधीः कृतकटाक्षमाक्षेप्यति ।
व्रजाधिपतिनन्दन त्वमवधेहि मन्त्रं ब्रुवे
विनात्र ललिताश्रयं भवदुपक्रमोऽयं वृथा ॥ ८.४३ ॥

अथ लघुमृद्वी
सखि तव मुहुर्मूर्ध्ना पादग्रहोऽपि मया कृत
स्तदपि च हरौ जातासि त्वं प्रसादपराङ्मुखी ।
भवतु यमुनातीरे वेणोरुदञ्चति पञ्चमे
विचलितधृतिस्त्वं लोलाक्षी मयापि हसिष्यसे ॥ ८.४४ ॥

अथ आत्यन्तिकलघुः
आत्यन्तिकलघुस्तत्र प्रोक्ता कुसुमिकादिका ।
सर्वथा मृदुरेवेयं यन्नितान्तलघीयसी ॥ ८.४५ ॥

यथा
वन्दे सुन्दरि सन्दिश प्रियसखीं मानं विमुञ्चत्वसौ
सोत्कण्ठापि मनस्विनीव वसति त्वच्छङ्कया वेश्मनि ।
दूरे त्वन्मुखमीक्षते हरिरियं मौनं शुकः शिक्षते
लास्यं नेच्छति चन्द्रकी सवयसः क्वासीमित्न स्वं विदुः ॥ ८.४६ ॥

प्रखरादिष्वन्यतमा यूथेशैकैव कीर्तिता ।
मध्यस्था नवधैवन्त्या समा लघुरिति द्विधा ॥ ८.४७ ॥
एकैकस्मिन्नतो यूथे भिदा द्वादशधा भवेत् ।
अथ दूत्यार्थमेतासां विशेषः पुनरुच्यते ॥ ८.४८ ॥
दूत्यमत्र तु तद्दूराद्यूनोर्यदभिसारम् ।
तत्र तु प्रथमा नित्यनायिकावात्र कीर्तिता ॥ ८.४९ ॥
स्युर्नायिकाश्च सख्यश्च तिस्रो मध्यस्थितास्ततः ॥ ८.५० ॥
तत्राद्या नायिकाप्राया द्वितीया द्विसमा ततः ।
तृतीया तु सखीप्राया नित्यसख्येव पञ्चमी ॥ ८.५१ ॥
आद्यायां निखिलाः सख्यो दूत्य एव न नायिकाः ।
पूर्वोक्ता नायिका एव पञ्चम्यां न तु दूतिकाः ॥ ८.५२ ॥

तत्र नित्यनायिका
यात्र यूथेश्वरी प्रोक्ता सा भवेन्नित्यनायिका ।
अपेक्ष्यत्वादतीवास्या मुख्यं दूत्यं न विद्यते ॥ ८.५३ ॥
स्वयौथिक्यसखीमध्ये या यत्रातीव रागिणी ।
नियुक्तैरस्ति तद्दूत्ये सुष्ठु सा यूथमुख्यया ।
तथापि प्रणयां क्वापि कदाचिद्गौणमीक्ष्यते ॥ ८.५४ ॥
दूरे गतागतमृते यद्दूत्यं गौणमत्र तत् ।
गौणं हरेः समक्षं च परोक्षं चेति तद्द्विधा ॥ ८.५५ ॥

तत्र समक्षम्
साङ्केतिकं वाचिकं च समक्षं द्विविधं मतम् ॥ ८.५६ ॥

तत्र साङ्केतिकम्
तत्राद्यं स्याद्दृगन्ताद्यैः कृष्णं प्रेर्य स्वनिह्नुतिः ॥ ८.५७ ॥

यथा
प्रियसखि विदितं ते कर्म यत्प्रेरयन्ती
त्वमघदमनमक्ष्णा क्षिप्त्रमन्तर्हितासि ।
अहह न हि लताः स्युस्तत्र चेत्कण्टकिन्यो
मम गतिरभविष्यत्तत्करात्का न वेद्मि ॥ ८.५८ ॥
इदमधिकमृद्वीदूत्यम्

अथ वाचिकम्
मिथः पुरो वा पश्चाद्वा वाक्यमेकत्र वाचिकम् ॥ ८.५९ ॥

तत्र मिथः पुरः कृष्णे वाचिकम्
मयापलपनं कियत्त्वयि करिष्यते या सखी
ममानिशमुपेन्द्र ते कुसुममञ्जरीर्लुञ्चति ।
इयं गुणवती करे तव विधृत्य दत्ताद्य सा
यथेच्छसि तथा कुरु स्वयमितो गृहं गम्यते ॥ ८.६० ॥
इदमधिकप्रखरादूत्यम्

कृष्णस्य पश्चात्सख्यं, यथा
मत्कण्ठादिह मौक्तिकानि विचिनु त्वं वीरुदारोधतः
स्रस्तान्येष किलास्ति माल्यरचनाव्यासक्तचित्तो हरिः ।
दिष्ट्या क्षेममुपस्थितं सुमुखि नः सानौ यदस्य च्युतो
हस्ताद्वेणुरिति प्रयामि कपटान्निह्नोतुमेनं गिरौ ॥ ८.६१ ॥
इदमधिकमध्यादूत्यम्

सख्याः पश्चात्कृष्णे, यथा
विचकिलमवचेतुं सा सखी मद्वचोभिः
कथमपि तटपुष्पारण्यमेका गतास्ति ।
अघहर मम गेनाद्यान्तमभ्यर्थये त्वां
पुनरियमतिमुग्धा न त्वया खेदनीया ॥ ८.६२ ॥

अथ हरेः परोक्षम्
तत परोक्षं हरेः सख्याः सखीद्वारा यदर्पणम् ।
व्यपदेशादिना वापि तत्पार्श्वे प्रेषणादिकम् ॥ ८.६३ ॥

तत्र सखीद्वारा, यथा
रुद्धां विद्धि गुरोर्गिरा शशिकलामात्मद्वितीयामत
स्त्वामुद्यम्य नयामि शर्मणि सदा जागर्ति ते राधिका ।
भृङ्गाः सुभ्रु तदङ्गसौरभभरैराकृष्यमाणाः क्रमात्
पन्थानं प्रथयन्ति ते कुरु पुरः कुञ्जप्रवेशे त्वराम् ॥ ८.६४ ॥

अथ व्यपदेशः
व्यपदेशो हरौ लेखोपायनाद्यर्पणक्रिया ।
निजप्रयोजनाश्चर्यदर्शनादिश्च कीर्तितः ॥ ८.६५ ॥

तत्र लेख्यव्यपदेशेन, यथा
दूतीपद्धतिमुद्धते परिहर त्वं साचि किं प्रेक्षसे
वामाक्षि स्वयमाहृतं प्रियसखीलेखं पुरो वाचय ।
शय्या पुष्पमयी निकुञ्जभवने सौरभ्यपुञ्जावृता
मृद्वी त्वामियमाह्वयत्यलिघटा कोलाहलव्याजतः ॥ ८.६६ ॥

उपायनव्यपदेशेन, यथा
प्रसीद वसनाञ्चलं मम विमुञ्च निर्मञ्छनं
व्रजामि ननु निर्दय स्फुरति पश्य सन्ध्योर्जिता ।
विदत्यपि तवोन्नतं गुणमुपाहरं मन्दधीः
स्रजं प्रियसखीगिरा व्रजपते न ते दूषणम् ॥ ८.६७ ॥

निजप्रयोजनव्यपदेशेन, यथा
मुक्तावली निशि मया दयिता कदम्ब
बाटीकुटीरकुहरे सखि विस्म्.र्तास्ति ।
तामाहरेति व्.र्.सभानुजया नियुक्ता
तां प्रोज्झ्य किं शशिकले ग्.र्हमागतासि ॥ ८.६८ ॥

आश्चर्यदर्शनव्यपदेशेन, यथा
सखि व्यालीं वक्त्रे द्युमणिपटलं कण्ठसविधे
दधच्चन्द्रान्मूर्धोपरि सकलरत्नानि वमति ।
अलिश्यामो हंसः स्फुटमिति मदुक्तासि चलिता
तदाश्चर्यं द्रष्टुं किमिव कुपितेवात्र मिलसि ॥ ८.६९ ॥

अथ नायिकाप्रायात्रिकम्
आपेक्षिकाधिकानां यत्तिसॄणां लघुषु स्फुटम् ।
कदाचिदेव दूत्यं ता नायिकाप्रायिकास्ततः ॥ ८.७० ॥

तत्र अधिकप्रखरादूत्यम्
पाणौ मे पतितासि शम्भलि चिरादत्याकुलं मा कृथाः
काकुं ते करवाणि निष्क्रयमहं शीर्णाभिसारैः सदा ।
त्वं दिष्ट्यात्र निकुञ्जसीमनि समानीता किमु स्तम्भसे
मुक्तास्त्वत्कुचकुम्भगाः क्षपतु श्यामः स सिंहीपतिः ॥ ८.७१ ॥

तत्र अधिकमध्यादूत्यम्
व्यथयसि सदा मां वाग्भङ्ग्या शनैरनुशिष्य यं
छलयसि च मां भ्रूनर्तक्या विनुद्य यमुद्धते ।
अहमिह वशीकृत्य स्वैरी मयाप्युपलम्भित
स्त्वयि वितनुतां कृष्णः पद्मी स पद्मिनि विभ्रमम् ॥ ८.७२ ॥

तत्र अधिकमृद्वीदूत्यम्
अनुदिनमभिसारं कारितास्मि त्वयाहं
कुसुमितरविकन्यातीरवन्याकुटीषु ।
सकृदहमकृतज्ञा त्वां पुरः कुञ्जमध्ये
यदियमुपनये का निष्कृतिस्ते ततोऽभूत् ॥ ८.७३ ॥

अथ द्विसमात्रिकम्
समानां प्रखरामध्यामृद्वीनां तु परस्परम् ।
दूत्यं च नायिकात्वं च समं ता द्विसमास्ततः ॥ ८.७४ ॥

तत्र समप्रखरादूत्यम्
प्रागेकान्तरमेव निश्चितमभूदन्योन्यदूत्यं हि नौ
वारस्तत्र तवायमस्तु करवै दूत्यं तथाप्यद्य ते ।
भ्रूभङ्गं सखि मुञ्च मण्डय तनुं यद्याचते मामसौ
सव्या ते स्फुरती दृगद्य मृगये गोष्ठाङ्गने माधवम् ॥ ८.७५ ॥

अथ सममध्यादूत्यम्
त्वं न्यस्तासि मुरद्विषः शशिकले पाणौ मया गम्यते
दूती हन्त तवाहमेव कमले किं धिङ्मृषा जल्पसि ।
इत्यन्योन्यविक्षेपणप्रणयितामाधुर्यमुग्धो हरि
र्दोर्भ्यां ते हृदये निधाय युगपत्पश्योन्मदः खेलति ॥ ८.७६ ॥

यथा वा
क्व मालतिकयार्पिता चलसि माधवि त्वं मम
क्व माधविकयार्पिता त्वमपि यास्यलं मालति ।
असम्भवसहोद्गमे रहसि कृष्णभृङ्गो युवा
युवामिह धयन्नयं वहतु कञ्चिदानन्दथुम् ॥ ८.७७ ॥
अतीवाभेदमधुरं सौहृदं सममध्ययोः ।
विरलं शक्यते ज्ञातुं किन्तु प्रेमविशेषिभिः ॥ ८.७८ ॥

अथ सममृद्वीदूत्यम्
द्रुतमनुसरन्मन्दाराक्षीं मुकुन्द निवर्तय
व्रजति निभृतं या कुञ्जान्तःकुटीमुपनीय माम् ।
इति तव सखीवाक्येन त्वामहं सुखमाह्वये
स्फुरति हि मुहुर्मध्ये तिष्ठन् विधुः समतारयोः ॥ ८.७९ ॥

अथ सखीप्रायात्रिकम्
लघूनां प्रखरामध्यामृद्वीनां प्रायशः सदा ।
दूत्यं भवति तेनेमाः सखीप्रायाः प्रकीर्तिताः ॥ ८.८० ॥

तत्र लघुप्रखरादूत्यं, यथा श्रीगीतगोविन्दे (११.२२)
त्वं चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासम्बाधबिम्बाधरम् ।
अस्याङ्कं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव
क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ८.८१ ॥

अथ लघुमध्यादूत्यम्
किमिति कुटिलितभ्रूश्चण्डि वृत्ताद्य सद्य
स्त्वमिह कुसुमहेतोः सौहृदादाहृतासि ।
व्रजनरपतिपुत्रं सन्तमन्तर्निलीय
प्रियसखि तटकुञ्जे हन्त जाने कथं वा ॥ ८.८२ ॥

अथ लघुमृद्वीदूत्यम्
कुञ्जगेहमवगाह्य माधवं
सुप्तमत्र सिचयेन वीजय ।
फुल्लमिन्दुकिरणैः कुमुद्वती
कोरकप्रकरमाहराम्यहम् ॥ ८.८३ ॥

आसां मध्ये भवेत्काचिन्नायिकात्वे दराग्रहा ।
तस्मिन्ननाग्रहा काचित्सख्यसौख्याभिलाषिणी ॥ ८.८४ ॥

तत्र आद्या, यथा
लेखामाहर नीपकुञ्जकुहरात्त्वं चन्द्रकाणां मया
न्यस्तानामिति मद्गिरा सरभसं स्मेरा स्वयं प्रस्थिता ।
तामुन्मुच्य मदीरितां शशिकले किं चन्द्रलेखाशतं
चेलेनावृतमन्यदेव दधती लब्धासि नम्रा गृहम् ॥ ८.८५ ॥

द्वितीया, यथा
मां पुष्पाणामवचयमियाद्वृन्दशो मा प्रहैषी
र्वृन्दारण्ये परमिह भवद्दुःखभीत्या प्रयामि ।
सत्यं सत्यं सुमुखि सखितासौख्यतस्ते मम स्या
न्न स्वादीयानघविजयिनः केलिशय्याधिरोहः ॥ ८.८६ ॥

अथ नित्यसखी
सख्येनैव सदा प्रीता नायिकात्वानपेक्षिणी ।
भवेन्नित्यसखी सा तु द्विधैकात्यन्तिकी लघुः ।
आपेक्षिकलघूनां च मध्येऽन्या काचिदीरिता ॥ ८.८७ ॥

यथा
राधारङ्गलसत्त्वदुज्ज्वलकलासञ्चारणप्रक्रिया
चातुर्योत्तरमेव सेवनमहं गोविन्द सम्प्रार्थये ।
येनाशेषवधूजनोद्भटमनोराज्यप्रपञ्चावधौ
नौत्सुक्यं भवदङ्गसङ्गमरसेऽप्यालम्बते मन्मनः ॥ ८.८८ ॥

यथा वा
त्वया यदुपभुज्यते मुरजिदङ्गसङ्गे सुखं
तदेव बहु जानती स्वयमवाप्तितः शुद्धधीः ।
मया कृतविलोभनाप्यधिकचातुरीचर्यया
कदापि मणिमञ्जरी न कुरुतेऽभिसारस्पृहाम् ॥ ८.८९ ॥

तत्र तद्दूत्यं, यथा
अन्तः प्रविशति स सखी
कुप्यति मे कुञ्जदेहलीलीना ।
तदिमां भङ्गुरितभ्रुव
मनुनय वृन्दाटवीचन्द्र ॥ ८.९० ॥

प्राख्यर्यं मार्दवं चापि यद्यप्यापेक्षिकं भवेत् ।
तथापि विस्तरभयात्तद्विशेषोऽत्र नेरितः ॥ ८.९१ ॥
प्राखर्यादिस्वभावोऽयं यथायथमुदीरितः ।
देशकालादिवैशिष्ट्ये स्यादस्यापि विपर्ययः ॥ ८.९२ ॥

तत्र प्राखर्यस्य विपर्ययो, यथा
ध्वान्तैर्गाढतमां तमीमगणयन् वृष्टिं च धारामयीं
चण्डं चानिलमण्डलं सखि हरिद्वारं तवासौ श्रितः ।
हा क्रोधं विसृज प्रसीद तरसा कण्ठे गृहाण प्रियं
मूर्ध्नायं ललिताभिधस्तव पदं नत्वा जनो याचते ॥ ८.९३ ॥

मार्दवस्य विपर्ययो, यथा
गुणस्तवनकूटतः कुटिलधीः सखि त्वामसौ
कटाक्षितवती कथं तदपि नोज्झसि प्रश्रयम् ।
रुषं कुरु करोषि चेन्मृदुतराद्य चित्राप्यसौ
विधास्यति तदौचितीं हिमघटेव पद्मोपरि ॥ ८.९४ ॥

दूत्यं तु कुर्वती सख्याः सखी रहसि सङ्गता ।
कृष्णेन प्रार्थ्यमानापि स्यात्कदापि न सम्मता ॥ ८.९५ ॥

यथा
दूत्येनाद्य सुहृज्जनस्य रहसि प्राप्तास्मि ते सन्निधिं
किं कन्दर्पधनुर्भयङ्करममुं भ्रूगुच्छमुद्यच्छसि ।
प्राणानर्पयितास्मि सम्प्रति वरं वृन्दाटवीचन्द्र ते
न त्वेतामसमापितप्रियसखीकृत्यानुबन्धां तनुम् ॥ ८.९६ ॥

मिथः प्रेमगुनोत्कीर्तिस्तयोरासक्तिकारिता ।
अभिसारो द्वयोरेव सख्याः कृष्णे समर्पणम् ॥ ८.९७ ॥
नर्माश्वासननेपथ्यं हृदयोद्घाटपाटवम् ।
छिद्रसंवृतिरेतस्याः पत्यादेः परिवञ्चना ॥ ८.९८ ॥
शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः ।
तयोर्द्वयोरुपालम्भः सन्देशप्रेषणं तथा ।
नायिकाप्राणसंरक्षा प्रयत्नाद्याः सखीक्रियाः ॥ ८.९९ ॥

तत्र कृष्णे सखीप्रेमोत्कीर्तिः, यथा पद्यावल्यां (१८९)

मुरहर साहसगरिमा
कथमिव वाच्यः कुरङ्गशावाक्ष्याः ।
खेदार्णवपतितापि
प्रेममधुरां ते न सा त्यजति ॥ ८.१०० ॥

सख्यां कृष्णप्रेमोत्कीर्तिः, यथा तत्रैव (१९१)

केलिकलासु कुशला नगरे मुरारेर्
आभीरनीरजदृशः कति वा न सन्ति ।
राधे त्वया महदकारि तपो यदेष
दामोदरस्त्वयि परं परमानुरागः ॥ ८.१०१ ॥

तत्र तस्या गुणोत्कीर्तिः, यथा

निनिन्दि निजमिन्दिरा वपुरवेक्ष्य यस्याः श्रियं
विचार्य गुणचातुरीमचलजा च लज्जां गता ।
अघार्दन त्वया विना जगति क्वानुरूपास्ति ते
परं परमदुर्लभा मिलतु कस्य सा मे सखी ॥ ८.१०२ ॥

तस्यां तस्य गुणोत्कीर्तिः, यथा ललितमाधवे (१.४९)

महेन्द्रमणिमण्डलीमदविडम्बिदेहद्युतिर्
व्रजेन्द्रकुलचन्द्रमास्फुरति को ‘पि नव्यो युवा
सखि स्थिरकुलाङ्गनानिकरनीविबन्धार्गल
च्छिदाकरणकौतुकी जयति यस्य वंशीध्वनिः ॥ ८.१०३ ॥

कृष्णे सख्या आसक्तिकारिता, यथा विदग्धमाधवे (२.१०)

सा सौरभोर्मिपरिदिग्धदिगन्तरापि
बन्ध्यं जनुः सुतनु गन्धफली बिभर्ति ।
राधे न बिभ्रमभरः क्रियते यदङ्के
कामं निपीतमधुना मधुसूदनेन ॥ ८.१०४ ॥

तस्यां तस्यासक्तिकारिता, यथा

यद्येतस्यां वरपरिमलारब्धविश्वोत्सवायां
न त्वं कृष्णभ्रमर रमसे राधिकामल्पिकायाम् ।
अर्थः को वा नवतरुणिमोद्भासिनस्ते ततः स्याद्
वृन्दाटव्यामिह विहरणप्रक्रियाचातुरीभिः ॥ ८.१०५ ॥

कृष्णस्याभिसारणं, यथा

अवरुद्धसुधांशुवैभवं
विनुदन्तं सखि सर्वतोमुखम् ।
इह कृष्णघनं प्रगृह्य तं
ललिताप्रावृडियं समागता ॥ ८.१०६ ॥

सख्या अभिसारणं, यथा श्रीगीतगोविन्दे (५.१८)

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घमदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ८.१०७ ॥

कृष्णे सख्याः समर्पणं, यथा

तदन्तरमुपासितुं कमलयोनिमीजुर्गुणा
यदङ्गमुपसेवितुं तरुणिमापि चक्रे तपः ।
नवप्रणयमाधुरीप्रमदमेदुरेयं सखी
मयाद्य भवतः करे मुरहरोपहारीकृता ॥ ८.१०८ ॥

नर्म, यथा विदग्धमाधवे (१.३३)

देहं ते भुवनान्तरालविरलच्छायाविलासास्पदं
मा कौतूहलचञ्चलाक्षि लतिकाजाले प्रवेशं कृथाः ।
नव्यामञ्जनपुञ्जमञ्जुलरुचिः कुञ्जेचरी देवता
कान्तां कान्तिभिरङ्कितामिह वने निःशङ्कमाकर्षति ॥ ८.१०९ ॥

आश्वासनं, यथा
मा गाः क्लमं सखि मुहुर्वृषभानुपुत्रि
भानुं प्रतीहि चरमाचलचङ्क्रमोत्कम् ।
आनन्दयन्नयनमुद्धुरधेनुधूली
ध्वान्तं विधूय विधुरेष पुरोज्जिहीते ॥ ८.११० ॥

नेपथ्यं, यथा

हृदयोद्घाटपाटवं, यथा

यथा वा

छिद्रसंवृतिर्, यथा विदग्धमाधवे (६.१)
मुदा क्षिप्तैः पर्वोत्तरलहृदयाभिर्युवतिभिः
पयःपूयैः पीतीकृतमतिहरिद्राद्रवमयैः ।
दुकूलं दोर्मूलोपरि परिदधानां प्रियसखीं
कथं राधामार्ये कुटिलितदृगन्तं कलयसि ॥ ८.११४ ॥

पत्यादेः परिवञ्चना, यथा

शिक्षा, यथा

यथा वा

अथ काले सङ्गमनं, यथा

अथ व्यजनादिना सेवा, यथा

अथ तयोर्द्वयोरुपालम्भः । तत्र हरेरुपालम्भो, यथा

सख्या उपालम्भो, यथा
अथ सन्देशप्रेषणं, यथा हंसदूते
त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं
न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् ।
अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्
दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥ ८.१२२ ॥

अथ नायिकाप्राणसंरक्षाप्रयत्नो, यथा
त्वामायान्तं कथयसि मृषा कुर्वती दिव्यमुग्रं
मूर्च्छारम्भे तव मणिमयीं दर्शयत्याशु मूर्तिम् ।
वन्ये वेणौ ध्वन्ति मरुता कर्णरोधं विधत्ते
रक्षत्यस्याः कथमपि तनुं माधवी यादवेन्द्र ॥ ८.१२३ ॥

इति सखीक्रियाप्रकरणम् ।

अथासामपरः कोऽपि विशेषः पुनरुच्यते ।
असमं च समं चेति स्नेहं सख्यं स्वपक्षगाः ।
कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः ॥ ८.१२४ ॥

अथ असमस्नेहाः
अधिकं प्रियसख्यास्तु हरौ तस्यां ततस्तथा ।
वहन्त्यः स्नेहमसमस्नेहास्तु द्विविधा मताः ॥ ८.१२५ ॥

तत्र हरौ स्नेहाधिकाः
अहं हरेरिति स्वान्ते गूढानभिमतिं गताः ।
अन्यत्र क्वाप्यनासक्त्या स्वेष्टां यूथेश्वरीं श्रिताः ॥ ८.१२६ ॥
मनागेवाधिकं स्नेहं वहन्त्यस्तत्र माधवे ।
तद्दूत्यादिरताश्चेमा हरौ स्नेहाधिका मताः ॥ ८.१२७ ॥

यथा
न मे चेतस्यन्यद्वचसि पुनरन्यं कथमपि
स्थवीयान्मानस्ते सखि मयि सुखं प्रथयति ।
रवेस्तापेनेव क्षणमुदयता येन जनितो
बकारेर्वक्त्रेन्दुच्छविशवलिमा मां ग्लपयति ॥ ८.१२८ ॥

यथा वा
सुरकुलमखिलं प्रणम्य मूर्ध्ना
प्रवरममुं वरमर्थये वराङ्गि ।
मुहुरभिमतसेवया यथाहं
सुबलसखं सुखयामि राधिकां च ॥ ८.१२९ ॥

याः पूर्वं सख्य इत्युक्तास्तास्तु स्नेहाधिका हरौ ॥ ८.१३० ॥

अथ प्रियसख्यां स्नेहाधिकाः
तदीयताभिमानिन्यो याः स्नेहं सर्वदाश्रिताः ।
सख्यामल्पाधिकं कृष्णात्सखीस्नेहाधिकास्तु ताः ॥ ८.१३१ ॥

यथा
विरमतु तव वृन्दे दूत्यचातुर्यचर्या
सहचरि विनिवृत्य ब्रूहि गोष्ठेन्द्रसूनुम् ।
विषमविषधरेयं शर्वरी प्रावृषेण्या
कथमिह गिरिकुञ्जे भीरुरेषा प्रहेया ॥ ८.१३२ ॥

यथा वा
वयमिदमनुभूय शिक्षयाम
कुरु चतुरे सह राधयैव सख्यम् ।
प्रियसहचरि यत्र बाढमन्त
र्भवति हरिप्रणयप्रमोदलक्ष्मीः ॥ ८.१३३ ॥

याः पूर्वं प्राणसख्यश्च नित्यसख्यश्च कीर्तिताः ।
सखीस्नेहाधिका ज्ञेयास्ता एवात्र मनीषिभिः ॥ ८.१३४ ॥

अथ समस्नेहाः
कृष्णे स्वप्र्यसख्यां च वहन्त्यः कमपि स्फुटम् ।
स्नेहमन्यूनताधिक्यं समस्नेहास्तु भूरिशः ॥ ८.१३५ ॥

यथा
विना कृष्णं राधा व्यथयति समन्तान्मम मनो
विना राधां कृष्णो ‘प्यहह सखि मां विक्लवयति ।
जनिः सा मे मा भूत्क्षणमपि न यत्र क्षणदुहौ
युगेनाक्ष्णोर्लिह्यां युगपदनयोर्वक्त्रशशिनौ ॥ ८.१३६ ॥

तुल्यप्रमाणकं प्रेम वयन्त्योऽपि द्वयोरिमाः ।
राधाया वयमित्युच्चैरभिमानमुपाश्रिताः ।
परमप्रेष्ठसख्यश्च प्रियसख्यश्च ता मताः ॥ ८.१३७ ॥

इति श्रीश्रीउज्ज्वलनीलमणौ सखीभेदप्रकरणम् ॥८॥


अथ उद्दीपनविभावप्रकरणम् (१०)

अथ विभावेषूद्दीपनाः
उद्दीपनविभावा हरेस्तदीयप्रियाणां च ।
कथिता गुणनामचरितमण्डनसम्बन्धिनस्तटस्थाश्च ॥ १०.१ ॥

तत्र गुणाः
गुणास्त्रिधा मानसा स्युर्वाचिकाः कायिकास्तथा ॥ १०.२ ॥

तत्र मानसाः
गुणाः कृतज्ञताक्षान्तिकरुणाद्यास्तु मानसाः ॥ १०.३ ॥

यथा
वशमल्पिकयापि सेवयामुम्
विहितेऽप्यागसि दुःसहे स्मितास्यम् ।
परदुःखलवेऽपि कातरं मे
हरिमुद्वीक्ष्य मनस्तनोति तृष्णाम् ॥ १०.४ ॥

अथ वाचिकाः
वाचिकास्तु गुणाः प्रोक्ताः कर्णानन्दकतादयः ॥ १०.५ ॥

यथा
कर्णापहारिवर्णाम्
अश्रुतचरमाधुरीभिरभ्यस्ताम् ।
आलि रसालां माधव
वाचं नाचम्य तृप्यामि ॥ १०.६ ॥

अथ कायिकाः
ते वयो रूपलावण्ये सौन्दर्यमभिरूपता ।
माधुर्यं मार्दवाद्याश्च कायिकाः कथिता गुणाः ॥ १०.७ ॥
तत्र वयः
वयश्चतुर्विधं त्वत्र कथितं मधुरे रसे ।
वयःसन्धिस्तथा नव्यं व्यक्तं पूर्णमिति क्रमात् ॥ १०.८ ॥
वयोमुखा गुणाः पूर्वमुक्ताः केशवसंश्रयाः ।
तेन तेऽत्र प्रवक्ष्यन्ते प्रायशस्तत्प्रियानुगाः ॥ १०.९ ॥

तत्र वयःसन्धिः
बाल्ययौवनयोः सन्धिर्वयःसन्धिरितीर्यते ॥ १०.१० ॥

स कृष्णस्य, यथा
यान्ती श्यामलतां विमुच्य कपिशच्छायां स्मरक्ष्मापते
रद्याज्ञालिपिवर्णपङ्क्तिपदवीमाप्नोति रोमावली ।
वाञ्छत्युच्छलितं मनागभिनवां तारुण्यनीरच्छटां
लब्ध्वा किञ्चिदधीरमक्षिशफरद्वन्द्वं च कंसद्विषः ॥ १०.११ ॥

तन्माधुर्यम्
दशार्धशरलुब्धकं चलमवेक्ष्य लक्ष्येच्छया
विशन्तमिह साम्प्रतं भवद्रूपाङ्गशृङ्गोपरि ।
सदाश्रुनिकरोक्षिता व्रजमहेन्द्र वृन्दावने
कुरङ्गनयनावली दरपरिप्लवत्वं गता ॥ १०.१२ ॥

तत्प्रियाणां, यथा
वाद्यं किङ्किणिमाहरत्युपचयं ज्ञात्वा नितम्बो गुणी
स्वस्य ध्वंसमवेत्य वष्टि बलिभिर्योगं ह्रसन्मध्यमम् ।
वक्षः साधुफलद्वयं विचिनुते राजोपहारक्षमं
राधायास्तनुराज्यमञ्चति नवे क्षौणीपतौ यौवने ॥ १०.१३ ॥

तन्माधुर्यम्
आशास्ते पतितुं कटाक्षमधुपो मन्दं दृगिन्दीवरे
किञ्चिद्व्रीडविसाङ्कुरं मृगयते चेतोमरालार्भकः ।
नर्मालापमधुच्छटाद्य वदनाम्भोजे तवोदीयते
शङ्के सुन्दरि माधवोत्सवकरीं काञ्चिद्दशामञ्चसि ॥ १०.१४ ॥

अथ नव्यम्
दरोद्भिन्नस्तनं किञ्चिच्चलाक्षं मन्थरस्मितम् ।
मनागभिस्फुरद्भावं नव्यं यौवनमुच्यते ॥ १०.१५ ॥

यथा
उरः स्तोकोच्छूनं वचनमुदयद्वक्रिमलवं
दवोद्घूर्णा दृष्टिर्जघनतटमीषद्घनतरम् ।
मनाग्व्यक्ता रोमावलिरपचितं किञ्चिदुदरं
हरेः सेवौचित्यं तव सुवदने विन्दति वयः ॥ १०.१६ ॥

तन्माधुर्यम्
वारं वारं विचरसि हरेरद्य विश्रामवेद्या
मुद्भ्रान्तासि स्फुरति पवने तद्वपुर्गन्धभाजि ।
बाले नेत्रे विकिरसि मुहुर्नैचिकीनां पदव्यां
भावाग्निस्ते स्फुटमिह मनोधाम्नि धूमायितोऽस्ति ॥ १०.१७ ॥

अथ व्यक्तम्
वक्षः प्रव्यक्तवक्षोजं मध्यं च सुवलित्रयम् ।
उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने ॥ १०.१८ ॥

यथा
रथाङ्गमिथुनं नवं प्रकटयत्युरोजद्युति
र्व्यनक्ति युगलं दृशोः शफरवृत्तिमिन्द्रावलि ।
बिभर्ति च बलित्रयं तव तरङ्गभङ्गोद्गमं
त्वमत्र सरसीकृता तरुणिमश्रिया राजसि ॥ १०.१९ ॥

तन्माधुर्यम्
भ्राजन्ते वरदन्तिमौक्तिकगणा यस्योल्लिखद्भिर्नखैः
क्षिप्ताः पुष्करमालयावृतरुचः कुञ्जेषु कुञ्जेश्वमी ।
शौटीर्याब्धिरुरोजपञ्जरतटे संवेशयन्त्या कथं
स श्रीमान् हरिणेक्षणे हरिरभून्नेत्रेण बद्धस्त्वया ॥ १०.२० ॥
अथ पूर्णम्
नितम्बो विपुलो मध्यं कृशमङ्गं वरद्युति ।
पीनौ कुचावुरुयुग्मं रम्भाभं पूर्णयौवने ॥ १०.२१ ॥

यथा
दृशोर्द्वन्द्वं वक्रां हरति शफरोल्लासलहरी
मखण्डं तुण्डश्रीर्विधुमधुरिमाणं दमयति ।
कुचौ कुम्भभ्रान्तिं मुहुरविकलां कन्दलयत
स्तवापूर्वं लीलावति वयसि पूर्णे वपुरभूत् ॥ १०.२२ ॥

तन्माधुर्यम्
न वित्रस्ता का ते प्रतियुवतिरासीन्मुखरुचा
दधार स्तैमित्यं प्रणयघनवृष्ट्या तव न का ।
व्रजे शिष्या काभून्न हि तव कलायामिति हरे
र्निकुञ्जस्वाराजे त्वमसि रसिके पट्टमहिषी ॥ १०.२३ ॥

तारुण्यस्य नवत्वेऽपि कासाञ्चिद्व्रजसुभ्रुवाम् ।
शोभापूर्तिविशेषेण पूर्णतेव प्रकाशते ॥ १०.२४ ॥

अथ रूपम्
अङ्गान्यभूषितान्येव केनचिद्भूषणादिना ।
येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥ १०.२५ ॥

यथा दानकेलिकौमुद्यां (२२)
त्रपते विलोक्य पद्मा
ललिते राधां विनाप्यलङ्कारम् ।
तदलं मणिमयमण्डन
मण्डलरचनाप्रयासेन ॥ १०.२६ ॥

यथा वा विदग्धमाधवे (७.४८)
नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं
नेत्राभ्यां विफलीकृतं कुवलयद्वन्द्वं च कर्णापितम् ।
हारश्च स्मितकान्तिभङ्गिभिरलं पिष्टानुपेषीकृतः
किं राधे तव मण्डनेन नितरामङ्गैरसि द्योतिता ॥ १०.२७ ॥

अथ लावण्यम्
मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥ १०.२८ ॥

यथा
जगदमलरुचिर्विचित्य राधे
व्यधित विधिस्तव नूनमङ्गकानि ।
मणिमयमुकुरं कुरङ्गनेत्रे
किरणगणेन विडम्बयन्ति यानि ॥ १०.२९ ॥

यथा वा
शृणु सखि तव कर्णे वर्णयाम्यत्र नीचै
र्विरचय मुखचन्द्रं मा वृथाराद्विवर्णम् ।
इयमुरसि मुरारेरस्ति नान्या मृगाक्षी
मरकतमुकुराभे बिइम्बितासि त्वमेव ॥ १०.३० ॥

अथ सौन्दर्यम्
अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमितीर्यते ॥ १०.३१ ॥

यथा
अखण्डेन्दोस्तुल्यं मुखमुरुकुचद्योतितमुरो
भुजौ स्रस्तावंसे करपरिमितं मध्यमभितः ।
परिस्फारा श्रोणी क्रमलघिमभागूरुयुगलं
तवापूर्वं राधे किमपि कमनीयं वपुरभूत् ॥ १०.३२ ॥

अथ अभिरूपता
यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितम् ।
सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥ १०.३३ ॥

यथा
मग्ना शुभ्रे दशनकिरणे स्फाटिकीव स्फुरन्ती
लग्ना शोणे करसरसिजे पद्मारगीव गौरि ।
गण्डोपान्ते कुवलयरुचा वैन्द्रनीलीव जाता
सूते रत्नत्रयधियमसौ पश्य कृष्णस्य वंशी ॥ १०.३४ ॥

यथा वा
वक्षोजे तव चम्पकच्छविमवष्टम्भोरुकुम्भोपमे
राधे कोकनदश्रियः करतले सिन्दूरतः सुन्दरे ।
द्रागिन्दिन्दिरबन्धुरेषु चिकुरेष्विन्दीवरआभां वहन्
नकः कैरवकोरको वितनुते पुष्पत्रयीविभ्रमम् ॥ १०.३५ ॥

अथ माधुर्यम्
रूपं किमप्यनिर्वाच्यं तनोर्माधुर्यमुच्यते ॥ १०.३६ ॥

यथा
किमपि हृदयमभ्रश्यामलं धाम रुन्धे
दृशमहह विलुण्ठत्याङ्गिकी कापि मुद्रा ।
चटुलयति कुलस्त्रीधर्मचर्यां बकारेः
सुमुखि नवविवर्तः कोऽप्यसौ माधुरीणाम् ॥ १०.३७ ॥

अथ मर्दवम्
मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते ।
उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत्त्रिधा ॥ १०.३८ ॥

तत्र उत्तमम्
अभिनवनवमालिकामयं सा
शयनवरं निशि राधिकाधिशिश्ये ।
न कुसुमपटलं दरापि जग्लौ
तदनुभवात्तनुरेव सव्रणासीत् ॥ १०.३९ ॥

मध्यमं, यथा
चित्रं धनिष्ठे तनुवाससोऽपि
चीनस्य पीनस्तनि सङ्गमेन ।
लिप्तेव ते लोहितचन्दनेन
मूर्तिर्बिन्दुना सखि लोहितासीत् ॥ १०.४० ॥

कनिष्ठं, यथा रससुधाकरे (१.१८६ )
आमोदमामोदनमादधानं
निलीननीलालकचञ्चरीकम् ।
क्षणेन पद्मामुखपद्ममासीत्
त्विषा रवेः कोमलयापि ताम्रम् ॥ १०.४१ ॥

अथ नाम, यथा
तटभुवि रविपुत्र्याः पश्य गौराङ्गि रङ्गी
स्फुरति सखि कुरङ्गीमण्डले कृष्णसारः ।
इति भवदभिधानं शृण्वती सा मदुक्तौ
सुतनुरतनुघूर्णापूरपूर्णा बभूव ॥ १०.४२ ॥

अथ चरितम्
अनुभावाश्च लीला चेत्युच्यते चरितं द्विधा ।
अग्रेऽनुभावा वक्तव्या लीलेयं कथ्यतेऽधुना ॥ १०.४३ ॥
लीला स्याच्चारुविक्रीडा ताण्डवं वेणुवादनम् ।
गोदोहः पर्वतोद्धारो गोहूतिर्गमनादिका ॥ १०.४४ ॥

अथ चारुविक्रीडा
रासकन्दूकखेलाद्या चारुक्रीडात्र कीर्तिता ॥ १०.४५ ॥

तत्र रासः
तं विलासवति रासमण्डले
पुण्डरीकनयनं सुराङ्गनाः ।
प्रेक्ष्य सम्भृतविहारविभ्रमं
बभ्रमुर्मदनसम्भ्रमोर्मिभिः ॥ १०.४६ ॥

कन्दूकक्रीडा
अरुणरुचिमुदस्य क्षेपिणीं कुञ्चिताग्रां
सरभसमभिधावन् विभ्रमद्दीर्घवेणिः ।
विरचयति मुकुन्दः कन्दुकान्दोलनृत्य
द्विपुलनयनभङ्गीविभ्रमः कौतुकं नः ॥ १०.४७ ॥

ताण्डवम्
प्रचलप्रचलाककुण्डलोऽयं
स्वसुहृन्मण्डलचर्चरीपरीतः ।
हरिरद्य नटन् पतङ्गपुत्री
तटरङ्गे मम रङ्गमातनोति ॥ १०.४८ ॥

वेणुवादनं, यथा ललितमाधवे (४.२७)
जङ्घाधस्तटसङ्गिदक्षिणपदं किञ्चिद्विभुग्नत्रिकम्
साचिस्तम्भितकन्धरं सखि तिरःसञ्चारिनेत्राञ्चलम् ।
वंशीं कुट्मलिते दधानमधरे लोलाङ्गुलीसङ्गतां
रिङ्गद्भ्रूभ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु ॥ १०.४९ ॥

गोदोहो, यथा पद्यावल्यां (२६२)
अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्थनीरुद्धभू
रार्द्रीकृत्य पयोधराञ्चलमलं सद्यः पयोबिन्दुभिः ।
न्यग्जानुद्वयमध्ययन्त्रितगह्टीवक्त्रान्तरालस्खल
द्धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥ १०.५० ॥

पर्वतोद्धारः
उद्यम्य कन्दुकितमन्दरसोदराद्रिं
सव्यं करं कटिमनु स्थगयन्नसव्यम् ।
स्मेराननश्चलदृगञ्चलचञ्चरीक
श्चित्ताम्बुजं मम हरिश्चटुलीचकार ॥ १०.५१ ॥

गोहूतिः
पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे
मृदङ्गमुखि धूमले शबलि हंसि वंशीप्रिये ।
इति स्वसुरभीकुलं मुहुरुदीर्णहीहीध्वनि
र्विदूरगतमाह्वयन् हरति हन्त चित्तं हरिः ॥ १०.५२ ॥

गमनम्
अनुपममदमन्दान्दोलिदोरर्गलश्रीः
सुरगजगुरुगर्वस्तम्भिगम्भीरकेलिः ।
सहचरि दरचञ्चच्चारुचूडारुचिर्मां
मदयति गतिमुद्रामाधुरी माधवस्य ॥ १०.५३ ॥

अथ मण्डनम्
चतुर्धा मण्डनं वासोभूषामाल्यानुलेपनैः ॥ १०.५४ ॥

अथ वस्त्रं, यथा
अम्बरं रचितधैर्यसंवरं
रम्यमम्बरमणिप्रभोज्ज्वलम् ।
सुभ्रु किं न हि कटीरमण्डले
पुण्डरीकनयनस्य पश्यसि ॥ १०.५५ ॥

यथा वा
अमलकमलरागरागमेतत्तव
जयति स्फुटमद्भुतं दुकूलम् ।
मम हृदि निजरागमत्र राधे
दधदपि यद्द्विगुणं बभूव रक्तम् ॥ १०.५६ ॥

भूषा, यथा
प्रहरतु हरिणा कदम्बपुष्पं
प्रियसखि शेखरितं यदङ्गजास्त्रम् ।
बत कथममुनावतंसितोऽसौ
मम हृदि बिध्यति नीलकण्ठपक्षः ॥ १०.५७ ॥

यथा वा
हारेण तारद्युतिना कपोलः
प्रेङ्खोलिना कुण्डलयोर्युगेन ।
उत्तुङ्गभासा कनकाङ्गदेन
मां लालितेयं ललिता धिनोति ॥ १०.५८ ॥

माल्यानुलेपने, यथा रससुधाकरे (१.८६)
आलोक्लैरनुमीयते मधुकरैः केशेषु माल्यग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम् ।
अङ्गानामनुभूयते परिमलैरालेपनप्रक्रिया
वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥ १०.५९ ॥

यथा वा
अनङ्गरागाय बभूव सद्य
स्तवाङ्गरागोऽपि किमङ्गनासु ।
उद्दामभावाय तथा किमासीद्
दामापि दामोदर तावकीनम् ॥ १०.६० ॥

अथ सम्बन्धिनः
लग्नाः सन्निहिताश्चेति द्विधा सम्बन्धिनो मताः ॥ १०.६१ ॥

तत्र लग्नाः
वंशीशृङ्गीरवौ गीतं सौरभ्यं भूषणक्वणः ।
पदाङ्काद्या विपञ्च्यादिनिक्वाणाः शिल्पकौशलम् ।
इत्यादयोऽत्र कथिता लग्नाः सम्बन्धिनो बुधैः ॥ १०.६२ ॥

तत्र वंशीरवो, दानकेलिकौमुद्यां (३२)
वेणोरेष कलस्वनस्तरुलताव्याजृम्भणे दोहदं
सन्ध्यागर्जभरः पिकद्विजकुहुस्वाध्यायपारायणे ।
आभीरेन्दुमुखीस्मरानलशिखोत्सेके सलीलानिलो
राधाधैर्यधराधरेन्द्रदमने दम्भोह्लिरुन्मीलति ॥ १०.६३ ॥

यथा वा रससुधाकरे (१.१००) [पद्यावल्यां (२४६)]
माधवो मधुरमाधवीलता
मण्डपे पटुरटन्मधुव्रते ।
संजगौ श्रवणचारु गोपिका
मानमीनवडिशेन वेणुना ॥ १०.६४ ॥

कृष्णवक्त्रेन्दुनिष्ठ्यूतं मुरलीनिनदामृतम् ।
उद्दीपनानां सर्वेषां मध्ये प्रवरमीर्यते ॥ १०.६५ ॥

शृङ्गीरवः
कंसारातेः पिबतु मुरली तस्य सद्वंशजन्मा
सा वक्त्रेन्दुं स्फुटमकुटिला पञ्चमोद्गारगुर्वी ।
आस्वाद्यामुं त्वमपि विषमा भङ्गुराङ्गारकाली
तुङ्गं शृङ्गि ध्वनसि यदिदं तत्तु दुःखाकरोति ॥ १०.६६ ॥

अथ गीतम्
मानानलं मे शमयन् समिद्धं
गानामृतं वर्षति कृष्णमेघः ।
मा क्रुध्य वात्यासि सखि प्रसीद
दूरे नयामुं निजविभ्रमेण ॥ १०.६७ ॥

सौरभम्
मिलति परिमलोर्मिः कस्य रोमश्रियासौ
मम तनुलतिकायां कुर्वती कुड्मलानि ।
सखि विदितमिहाग्रे माधवः प्रादुरासीद्
भुवि सुरभितया यः ख्यातिमङ्गीकरोति ॥ १०.६८ ॥

यथा वा
मदयति हृदयं किमप्यकाण्डे
मम यदिदं नवसौरभं वरीयः ।
तदिह कुसुमसंग्रहाय राधा
शिखरितटे शिखरद्विजा विवेश ॥ १०.६९ ॥

भूषणक्वणः
कलहंसनादमिह हंसगामिनी
निशमय्य हंसदुहितुस्तटान्तरे ।
तव नूपुरध्वनिधिया परिप्लवा
कलसीं न वेद शिरसश्च्युतामपि ॥ १०.७० ॥

यथा वा ललितमाधवे (१.५१)
मधुरिमलहरीभिः स्तम्भयत्यम्बरे या
स्मरमदसरसानां सारसानां रुतानि ।
इयमुदयति राधाकिङ्किनीझङ्कृतिर्मे
हृदि परिणमयन्ती विक्रियाडम्बराणि ॥ १०.७१ ॥

पदाङ्काद्याः, यथा दानकेलिकौमुद्यां (१३)
पदततिभिरलं कृतोज्ज्वलेयं
ध्वजकुलिशाङ्कुशपङ्कजाङ्किताभिः ।
नखरलुठितकुट्मलावनाली
किमपि धिनोति धुनोति चान्तरं मे ॥ १०.७२ ॥

विपञ्चीनिक्वाणो, यथा ललितमाधवे (१.३६)
स्मरकेलिनाट्यनान्दीं
शब्दब्रह्मश्रियं मुहुर्दुहती ।
वहति मुदं मम महती
मिह महिता श्यामलामहती ॥ १०.७३ ॥

शिल्पकौशलं, यथा
वरकुसुमनिवेशप्रक्रियासौष्ठवेन
प्रकटितहरिशिल्पा पट्टसूत्रोज्ज्वलश्रीः ।
हृदि विनिहितकम्पा निर्मिमीते स्रगेषा
निशितशरपरीतस्मारतुणीरशङ्काम् ॥ १०.७४ ॥

अथ सन्निहिताः
निर्माल्याद्याः सन्निहिता बर्हगुञ्जाद्रिधातवः ।
नैचिकीनां समुदयो लगुडीवेणुशृङ्गीकाः ॥ १०.७५ ॥
तत्प्रेष्ठदृष्टिर्गोधूलिर्वृन्दारण्यं तदाश्रिताः ।
गोवर्धनो रविसुता तथा रासस्थलादयः ॥ १०.७६ ॥

तत्र निर्माल्याद्याः, यथा विदग्धमाधवादौ (२.४२)
अङ्गोत्तीर्णविलेपनं सखि समाकृष्टिक्रियायां मणि
र्मन्त्रो हन्त मुहुर्वशीकृतिविधौ नामास्य वंशीपतेः ।
निर्माल्यस्रगियं महौषधिरिह स्वान्तस्य सम्मोहने
नासां कस्तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम् ॥ १०.७७ ॥

यथा वा ललितमाधवे (६.२६)
दुकूलेऽस्मिन् कार्तस्वरमहसि विस्तारितदृशो
वपुः किं ते फुल्लैर्वहति तुलनां नीपकुसुमैः ।
त्रुटन्तीभिः किं वा स्फटिकमणिमालाभिरुपमां
लभन्तेऽमी क्षामोदरि नयनयोस्तोयपृषताः ॥ १०.७८ ॥

अथ बर्हगुञ्जे, यथा विदग्धमाधवे (२.१६)
अग्रे वीक्ष्य शिखण्डखण्डमचिरादुत्कम्पमालम्बते
गुञ्जानां च विलोकनान्मुहुरसौ सास्रं परिक्रोशति ।
नो जाने जनयन्नपूर्वनटनक्रीडाचमत्कारितां
बालायाः किल चित्तभूमिमविशत्को ‘यं नवीनग्रहः ॥ १०.७९ ॥

अद्रिधातुर्, यथा
आभीरवृन्दाधिपनन्दनस्य
कएवरालङ्करणोज्ज्वलश्रीः ।
क्षिप्तेन्द्रगोपांशुरपांशुलोऽयं
तनोति रागं मम धातुरागः ॥ १०.८० ॥

नैचिकीसमुदयो, यथा
सन्ध्याद्योते विलसति गताः प्रेक्ष्य गोष्ठप्रकोष्ठे
हम्बारभोन्मुखरितमुखीनैचिकीस्त्वद्विहीनाः ।
अन्तश्चिन्ताचुलुकितमतिर्यादवेन्द्राद्य मन्दा
कष्टं चन्द्रावलिरिह कथं प्राणबन्धं करोतु ॥ १०.८१ ॥

लगुडी, यथा
विष्टभ्य यां भुवि पुरः शिखरार्पितेन
विन्यस्तचारुचिबुकेन करद्वयेन ।
दीव्यन् हरिर्गिरितटे मुदमादधान्नः
सा हन्त यस्टिरधुना हृदयं पिनष्टि ॥ १०.८२ ॥

वेणुर्, यथा
हृदि न्यस्ता वंशी तदधरसुधाभागिति मया
दुरन्तं विश्लेषज्वरगरलमस्याः शमयितुम् ।
वितेने सा तूर्णं शतगुणमिदं यादवपते
विरक्तो यत्रेशस्तमिह न हि वा कः प्रहरति ॥ १०.८३ ॥

शृङ्गिका, यथा
वलितं विलोचनाग्रे, शवलं धूरिभिरिदं बलावरज ।
बलवत्कुवलयनयनास्तव गवलं कवलयत्यद्य ॥ १०.८४ ॥

तत्प्रेष्ठदृष्टिर्, यथा
सखि मृगमदलेखया विशाखा
हृदि मकरीरपि राधिका लिखन्ती ।
सुबलमवकलय्य घूर्णिताग्रे
पुलकवती वनमालिनं लिलेख ॥ १०.८५ ॥

यथा वा ललितमाधवे (६.४३)
निखिलसुहृदामर्थारम्भे विलम्बितचेतसा
मसृणितशिखो यः प्राप्तोद्भूद्मनागिव मार्दवम् ।
स खलु ललितासान्द्रस्रेहप्रसङ्गघनीभवन्
पुनरपि बलादिन्धे राधावियोगमयः शिखी ॥ १०.८६ ॥

गोधूलिर्, यथा उद्धवसन्देशे (३७)
आप्रत्यूषादपि सुमनसां वीचिभिर्ग्रथ्यमाना
धत्ते नासौ सखि कथमहो वैजयन्ती समाप्तिम् ।
धिन्वन् गोपीनयनशिखिनः व्योमकक्षां जगाहे
सोऽयं मुग्धे निविडधवलो धूलिचक्राम्बुवाहः ॥ १०.८७ ॥

वृन्दारण्यं, यथा तत्रैव (८३)
आशापाशैः सखि नवनवैः कुर्वती प्राणबन्धं
जात्या भीरुः कति पुनरहं वासराणि क्षयिष्ये ।
एते वृन्दावनविटपिनः स्मारयन्तः विलासान्
उत्फुल्लास्तान्मम किल बलान्मर्म निर्मूलयन्ति ॥ १०.८८ ॥

तदाश्रिताः
तदाश्रित्याः खगा भृङ्गा मृगाः कुञ्जा लतास्तथा ।
तुलसी कर्णिकारश्च कदम्बाद्याश्च कीर्तिताः ॥ १०.८९ ॥

तत्र खगाः, यथा ललितमाधवे (१०.१६)
कस्तान् पश्यन् भवदुपहृतस्निग्धपिञ्छावतंसान्
कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी ।
उन्मीलन्तं नवजलधरं नीलमद्यापि मत्वा
ये त्वामन्तर्मुदितमतयस्तन्वते ताण्डवानि ॥ १०.९० ॥

भृङ्गाः, यथा
वृन्दावने श्रवसि ये निनदं विपञ्ची
निष्ठ्युतपञ्चममनोहरमाहरन्तः ।
ते षट्पदाः कुलिशघट्टनघोरमेतं
दैवे विरोधिनि भवन्ति न के विपक्षाः ॥ १०.९१ ॥

मृगाः, यथा तत्रैव
हरि हरि भवतीभिः स्वान्तहारी हरिण्यो
हरिरिह किमपाङ्गातिथ्यसङ्गी व्यधायि ।
यदनुरणितवंशीकाकलीभिर्मुखेभ्यः
सुखतृणकवला वः सामिलीढाः स्खलन्ति ॥ १०.९२ ॥
कुञ्जाः, यथा उद्धवसन्देशे (१२५)
लब्धान्दोलः प्रणयरभसादेष ताम्रौष्ठि नम्रः
प्रम्लायन्तीं किमपि भवतीं याचते नन्दसूनुः ।
प्रेमोद्दामप्रमदपदवी साक्षिणी शैलकक्षे
द्रष्टव्या ते कथमपि न सा माधवी कुञ्जवीथी ॥ १०.९३ ॥

लतादिर्, यथा पद्यावल्यां (२९५)
तुलसि विलससि त्वं मल्लि जातासि फुल्ला
स्थलकमलिनि भृङ्गे सङ्गताङ्गी विभासि ।
कथयत बत सख्यः क्षिप्रमस्मासु कस्मिन्
वसति कपटकन्दः कन्दरे नन्दसूनुः ॥ १०.९४ ॥

कर्णिकारो, यथा ललितमाधवे (७.१५)
रासात्तिरोहिततनुः सखि यस्य पुष्पैश्
चूडां चकार चिकुरे मम पिञ्छचूडः ।
कूले कलिन्ददुहितुर्धृतकन्दलोऽयं
मां दन्दहीति स मुहुर्नवकर्णिकारः ॥ १०.९५ ॥

कदम्बो, यथा
सखि रोपितो द्विपत्रः
शतपत्राक्षेण यो व्रजद्वारि ।
सोऽयं कदम्बडिम्भः
फुल्लो वल्लववधूस्तुदति ॥ १०.९६ ॥

गोवर्धनो, यथा ललितमाधवे (३.४२)
गोवर्धन त्वमिह गोकुलसङ्गिभूमौ
तुङ्गैः शिरोभिरभिपद्य नभो विभासि ।
तेनावलोक्य हरितः परितो वदाशु
कुत्राद्य वल्लवमणिः खलु खेलतीति ॥ १०.९७ ॥

रविसुता, यथा पद्यावल्याम् (३६८)
मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनम् ।
पुनरपि यमुनासलिले
कालियगरलानलो ज्वलति ॥ १०.९८ ॥

रासस्थली, यथा
गोष्ठादप्यवलोक्य मानशिखरोच्छ्रायश्रिया दूरतः
सद्यः खेदिनि चित्तचत्वरतटे वंशीवटेनार्पिता ।
कुर्वाणा हृतवृत्तिमिन्द्रियगणं सा यादवेन्द्राय ते
कष्टं रासविहारभुर्विहरति प्राणैः कुरङ्गीदृशाम् ॥ १०.९९ ॥

अथ तटस्थाः
तटस्थाश्चन्द्रिकामेघविद्युतो माधवस्तथा ।
शरत्पूर्णसुधांशुश्च गन्धवाहखगादयः ॥ १०.१०० ॥

तत्र चन्द्रिका, यथा रससुधाकरे (१.८७)
दुरासदे चन्द्रिकया सखीगणै
र्लतालिकुञ्जे ललिता निगूहिता ।
चकोरचञ्चुच्युतकौमुदीकणं
कुतोऽपि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥ १०.१०१ ॥

मेघो, यथा रससुधाकरे (?)
वासः पीतं कुतुकिनि कुतः कुत्र बर्हं मदान्धे
कंसारिर्वा क्व नु सखि मुधा सम्भ्रमान्मा प्रयाहि ।
पश्योत्तुङ्गे क्षणरुचिघटालिङ्गिता शैलशृङ्गे
नव्यः शक्रं दधदुदयते कार्मुचं वार्मुगेषः ॥ १०.१०२ ॥

विद्युत्, यथा रससुधाकरे (१.९८)
वर्षासु तासु क्षणरुक्प्रकाशा
द्गोपाङ्गना माधवमालिलिङ्ग ।
विद्युच्च सा वीक्ष्य तदङ्गशोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥ १०.१०३ ॥

वसन्तो, यथा
ऋतुहतकः सखि भुवने
किमवततीर्षुर्बभूवाद्य ।
मन्दादरमलिवृन्दं
वृन्दावनकुन्दसङ्गमे यदभूत् ॥ १०.१०४ ॥

शरत्, यथा
कलहंसोज्ज्वलजल्पा
प्रकटितवृन्दावनोरुमाधुर्या ।
धृतिमपहर्तुं सखि मे
दूतीव हरेः शरन्मिलिता ॥ १०.१०५ ॥

पूर्णसुधांशुर्, यथा
राकासुधांशुरभवन्न तमांसि हर्तुं
वृन्दाटवीजठरगान्यधुनापि शक्तः ।
राकासुधांशुमुखि तानि तवोन्नतानि
हृत्कन्दरास्तरचराणि कथं जहार ॥ १०.१०६ ॥

गन्धवाहो, यथा श्रीगीतगोविन्दे (७.३९)
मनोभवानन्दनचन्दनानिल
प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण निदाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ १०.१०७ ॥

खगाः, यथा
मानेन सार्धं पशुपालसुभ्रुवां
मरालमाला चलिता घनागमे ।
कदम्बकुञ्जे विजिहीर्षया समं
समागता नागरि चातकावली ॥ १०.१०८ ॥

आदिशब्दात्सखीस्नेह आत्मन्युद्दीपनो वरः ॥ १०.१०९ ॥

यथा
हरिमवेक्ष्य पुरो गुर्तो भिया
मुहुरभून्मुकुलन्नवविभ्रमा ।
ललितया विवृते निजसौहृदे
चलदृगञ्चलमाधित राधिका ॥ १०.११० ॥

इति श्रीश्रीउज्ज्वलनीलमणौ उद्दीपनविभावभेदप्रकरणम् ॥१०॥


अध्याय ११

अथ अनुभावप्रकरणम्

अनुभावास्त्वलङ्कारास्तथैवोद्भास्वराभिधाः ।
वाचिकाश्चेति विद्वद्भिस्त्रिधामी परिकीर्तिताः ॥ ११.१ ॥

तत्र अलङ्काराः
यौवने सत्त्वजास्तासामलङ्कारास्तु विंशतिः ।
उदयन्त्यद्भुताः कान्ते सर्वथाभिनिवेशतः ॥ ११.२ ॥
भावो हावश्च हेला च प्रोक्तास्तत्र त्रयोऽङ्गजाः ॥ ११.३ ॥
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्य्मित्येते सप्तैव स्युरयत्नजाः ॥ ११.४ ॥
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥ ११.५ ॥

तत्र भावः
प्रादुर्भावं व्रजत्येव रत्याख्ये भाव उज्ज्वले ।
निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ११.६ ॥

तथा ह्युक्तं (रससुधाकरे १.१९२)
चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादिविकारवत् ॥ ११.७ ॥

यथा
पितुर्गोष्ठे स्फीते कुसुमिनि पुरा खाण्डववने
न ते दृष्ट्वा सअङ्क्रन्दनमपि मनः स्पन्दनमगात् ।
पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदा
किमान्दोलादक्ष्णः श्रुतिकुमुदमिन्दीवरमभूत् ॥ ११.८ ॥

अथ हावः
ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् ।
भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥ ११.९ ॥

यथा
साचिस्तम्भितकण्ठि कुड्मलवतीं नेत्रालिरभ्येति ते
घूर्णन् कर्णलतां मनाग्विकसिता भ्रूवल्लरी नृत्यति ।
अत्र प्रादुरभूत्तटे सुमनसामुल्लासकस्त्वत्पुरो
गौराङ्गि प्रथमं वनप्रिअयबन्धुः स्फुटं माधवः ॥ ११.१० ॥

अथ हेला
हाव एव भवेद्धेला व्यक्तशृङ्गारसूचकः ॥ ११.११ ॥

यथा
श्रुते वेणौ वक्षः स्फुर्तिअकुचमाध्मातमपि ते
तिरोविक्षिप्ताक्षं पुलकितकपोलं च वदनम् ।
स्खलत्काञ्चि स्वेदार्गलितसिचयं चापि जघनं
प्रमादं मा कार्षीः सखि चरति सव्ये गुरुजनः ॥ ११.१२ ॥

अथ अयत्नजाः । तत्र शोभा
सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥ ११.१३ ॥

यथा
धृत्वा रक्ताङ्गुलिकिशलयैर्नीपशाखां विशाखा
निष्क्रामन्ती व्रततिभवनात्प्रातरुद्घूर्णिताक्षी ।
वेणीमंसोपरि विलुठतीमर्धमुक्तां वहन्ती
लग्ना स्वान्ते मम न हि बहिः सेयमद्याप्ययासीत् ॥ ११.१४ ॥

अथ कान्तिः
शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥ ११.१५ ॥

यथा
प्रकृतिमधुरमूर्तिर्बाढमत्राप्युदञ्च
त्तरुणिमनवलक्ष्मीलेखयालिङ्गिताङ्गी ।
वरमदनविहारैरद्य तत्राप्युदारा
मदयति हृदयं मे रुन्धती राधिकेयम् ॥ ११.१६ ॥

अथ दीप्तिः
कान्तिरेव वयोभोगदेशकालगुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥ ११.१७ ॥

यथा
निमीलन्नेत्रश्रीरचटुलपटीराचलमरु
न्निपीतस्वेदाम्बुस्त्रुटदमलहारोज्ज्वलकुचा ।
निकुञ्जे क्षिप्ताङ्गी शशिकिरणकिर्मीरिततटे
किशोरी सा तेने हरिमनसि राधा मनसिजम् ॥ ११.१८ ॥

अथ माधुर्यम्
माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता ॥ ११.१९ ॥

यथा
असव्यं कंसारेर्भुजशिरसि धृत्वा पुलकिनं
निजश्रोण्यां सव्यं करमनृजुविष्कम्भितपदा ।
दधाना मूर्धानं लघुतरतिरःस्रंसिनमियं
बभौ रासोत्तीर्णा मुहुरलसमूर्तिः शशिमुखी ॥ ११.२० ॥
अथ प्रगल्भता
निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥ ११.२१ ॥

यथा विदग्धमाधवे (७.४०)
प्रातिकूल्यमिव यद्विवृण्वती
राधिका रदनखार्पणोद्धूरा ।
केलिकर्मणि गता प्रवीणतां
तेन तुष्टिमतुलां हरिर्ययौ ॥ ११.२२ ॥

अथ औदार्यम्
औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः ॥ ११.२३ ॥

यथा विदग्धमाधवे (४.१३)
न्यविशत नयनान्ते कापि सारल्यनिष्ठा
वचसि च विनयेन स्तोत्रभङ्गी न्यवात्सीत् ।
अजनि च मयि भूयान् सम्भ्रमस्तेन तस्या
व्यवृणुत हृदि मन्युं सुष्ठु दाक्षिण्यमेव ॥ ११.२४ ॥

यथा वा
कृतज्ञोऽपि प्रेमोज्ज्वलमतिरपि स्फारविनयोऽ
प्यभिज्ञानां चुडामणिरपि कृपानीरधिरपि ।
यदन्तःस्वच्छोऽपि स्मरति न हरिर्गोकुलभुवं
ममैवेदं जन्मान्तरदुरितदुस्टद्रुमफलम् ॥ ११.२५ ॥
अथ धैर्यम्
स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति कीर्त्यते ॥ ११.२६ ॥

यथा ललितमाधवे (७.७)
औदासीन्यधुरापरीतहृदयः काठिन्यमालम्बतां
कामं श्यामलसुन्दरो मयि सखि स्वैरी सहस्रं समाः ।
किन्तु भ्रान्तिभरादपि क्षणमिदं तत्र प्रियेभ्यः प्रिये
चेतो जन्मनि जन्मनि प्रणयितादास्यं न मे हास्यति ॥ ११.२७ ॥

अथ स्वभावजाः । तत्र लीला
प्रियानुकरणं लीला रम्यैर्वेशक्रियादिभिः ॥ ११.२८ ॥

यथा विष्णुपुराणे (५.१३.२७)
दुष्टकालिय तिष्ठाद्य कृष्णोऽहमिति चापरा ।
बाहुमास्फोट्य कृष्णस्य लीलासर्वस्वमाददे ॥ ११.२९ ॥

यथा वा छन्दोमञ्जर्याम्
मृगमदकृतचर्चा पीतकौषेयवासा
रुचिरशिखिशिखण्डा बद्धधम्मिल्लपाशा ।
अनृजुनिहितमंसे वंशमुत्क्वाणयन्ती
कृतमधुरिपुवेषा मालिनी पातु राधा ॥ ११.३० ॥

अथ विलासः
गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् ।
तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥ ११.३१ ॥

यथा
रुणत्सि पुरतः स्फुरत्यघहरे कथं नासिका
शिखग्रथितमौक्तिकोन्नमनकैत्वेन स्मितम् ।
निरास्थदचिरं सुधाकिरणकौमुदीमाधुरीं
मनागपि तवोद्गता मधुरदन्ति दन्तद्युतिः ॥ ११.३२ ॥

यथा वा
अध्यासीनममुं कदम्बनिकटे क्रीडाकुटीरस्थली
माभीरेन्द्रकुमारमत्र रभसादालोकयन्त्याः पुरः ।
दिग्धा दुग्धसमुद्रमुग्धलहरीलावण्यनिस्यन्दिभिः
कालिन्दी तव दृक्तरङ्गितभरैस्तन्वङ्गि गङ्गायते ॥ ११.३३ ॥

अथ विच्छित्तिः
आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥ ११.३४ ॥

यथा
माकन्दपत्रेण मुकुन्दचेतः
प्रमोदिनी मारुतकम्पितेन ।
रक्तेन कर्णाभरणीकृतेन
राधामुखाम्भोरुहमुल्ललास ॥ ११.३५ ॥

यथा वा हरिवंशे
एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।
रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥ ११.३६ ॥

सखीयत्नादिव धृतिर्मण्डनानां प्रियागसि ।
सेर्ष्यावज्ञा वरस्त्रीभिर्विच्छित्तिरिति केचन ॥ ११.३७ ॥

यथा
मुद्रां गाढतरां विधाय निहिते दूरीकुरुष्वाङ्गदे
ग्रन्थिं न्यस्य कठोरमर्पितमतिः कण्ठान्मणिं भ्रंशय ।
मुग्धे कृष्णभुजङ्गदृष्टिकलया दुर्वारया दूषिते
रत्नालङ्करणे मनागपि मनस्तृष्णां न पुष्णाति मे ॥ ११.३८ ॥

अथ विभ्रमः
वल्लभप्राप्तिवेलायां मदनावेशसम्भ्रमात् ।
विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः ॥ ११.३९ ॥

यथा विदग्धमाधवे (४.२१)
धम्मिल्लोपरि नीलरत्नरचितो हारस्त्वयारोपितो
विन्यस्तः कुचकुम्भयोः कुर्वलयश्रेणीकृतो गर्भकः ।
अङ्गे चर्चितमञ्जनं विनिहिता कस्तूरिका नेत्रयोः
कंसारेरभिसारसम्भ्रमभरान्मन्ये जगद्विस्मृतम् ॥ ११.४० ॥

यथा वा, श्रीदशमे (१०.२९.७)
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ ११.४१ ॥

अधीनस्यापि सेवायां कान्तस्यानभिनन्दनम् ।
विभ्रमो वामतोद्रेकात्स्यादित्याख्याति कश्चन ॥ ११.४२ ॥

यथा
त्वं गोविन्द मयासि किं नु कवरीबन्धार्थमभ्यर्थितः
क्लेशेनालमबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे ।
वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचते
नैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति ॥ ११.४३ ॥

अथ किलकिञ्चितम्
गर्वाभिलाषरुदितस्मितासूयाभयक्रुधाम् ।
सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥ ११.४४ ॥

यथा
मया जातोल्लासं प्रियसहचरी लोचनपथे
बलान्न्यस्ते राधाकुचमुकुलयोः पाणिकमले ।
उदञ्चद्भ्रूभेदं सपुलकमवष्टम्भि वलितं
स्म्राम्यन्तस्तस्याः स्मितरुदितकान्तद्युति मुखम् ॥ ११.४५ ॥

यथा वा दानकेलिकौमुद्यां (१)
अन्तःस्मेरतयोज्ज्वला जलकणव्याकीर्णपक्ष्माङ्कुरा
किञ्चित्पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती ।
रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तरा
राधायाः किलकिञ्चितस्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥ ११.४६ ॥

अथ मोट्टायितम्
कान्तस्मरणवार्तादौ हृदि तद्भावभावतः ।
प्राकट्यमभिलाषस्य मोट्टायितमुदीर्यते ॥ ११.४७ ॥

यथा
न ब्रूते क्लमबीजमालिभिरलं पृष्टापि पाली यदा
चातुर्येण तदग्रतस्तव कथा ताभिस्तदा प्रस्तुता ।
तां पीताम्बर जृम्भमाणवदनाम्भोजा क्षणं शृण्वती
बिम्बोष्ठी पुलकरि विडम्बितवती फुल्लां कदम्बश्रियम् ॥ ११.४८ ॥

अथ कुट्टमितम्
स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात् ।
बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥ ११.४९ ॥

यथा
करौद्धत्यं हन्त स्थगय कवरी मे विघटते
दुकूलं च न्यञ्चत्यघहर तवास्तां विहसितम् ।
किमारब्धः कर्तुं तमनवसरे निर्दय मदात्
पताम्येषा प्¸अदे वितर शयितुं मे क्षणमपि ॥ ११.५० ॥

यथा वा
न भ्रूलतां कुटिलय क्षिप नैव हस्तं
वक्त्रं च कण्टकितगण्डमिदं न रुन्धि ।
प्रीणातु सुन्दरि तवाधरबन्धुजीवे
पीत्वा मधुनि मधुरे मधुसूद्नोऽसौ ॥ ११.५१ ॥

अथ बिब्बोकः
बिब्बोको मानगर्वाभ्यां स्यादभीष्टेऽप्यनादरः ॥ ११.५२ ॥

तत्र गर्वेण, यथा
प्रियोक्तिलक्षेण विपक्षसन्निधौ
स्वीकारितां पश्य शिखण्डमौलिना ।
श्यामातिवामा हृदयङ्गमामपि
स्रजं दराघ्राय निरास हेलया ॥ ११.५३ ॥

यथा वा
स्फुरत्यग्रे तिष्ठन् सखि तव मुखक्सिप्तनयनः
प्रतीक्षां कृत्वायं भवदवसरस्याघदमनः ।
दृशोच्चैर्गाम्भीर्यग्रथितगुरुहेलागहनया
हसन्तीव क्षीवे त्वमिह वनमालां रचयसि ॥ ११.५४ ॥

मानेन, यथा
हरिणा सखि चाटुमण्डलीं
क्रियमाणामवमन्य मन्युतः ।
न वृथाद्य सुशिक्षितामपि
स्वयमध्यापय गौरि शारिकाम् ॥ ११.५५ ॥

अथ ललितम्
विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः ।
सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥ ११.५६ ॥

यथा
सुभ्रूभङ्गमननङ्गबाणजननीरालोकयन्ती लताः
सोल्लासं पदपङ्कजे दिशि दिशि प्रेङ्खोलयन्त्युज्ज्वला ।
गन्धाकृष्टधियः करेण मृदुना व्याधुन्वती षट्पदान्
राधा नन्दति कुञ्जकन्दरतटे वृन्दावनश्रीरिव ॥ ११.५७ ॥

अथ विकृतम्
ह्रीमानेर्ष्यादिभिर्यत्र नोच्यते स्वविवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥ ११.५८ ॥

तत्र ह्रिया, यथा
निशमय्य मुकुन्द मन्मुखा
द्भवदभ्यर्थितमत्र सुन्दरी ।
न गिराभिनन्द किन्तु सा
पुलकेनैव कपोलशोभिना ॥ ११.५९ ॥

यथा वा
न परपुरुसे दृष्टिक्सेपो वराक्षि तवोचित
स्त्वमसि कुलजा साध्वी वक्त्रं प्रसीद विवर्तय ।
इति पथि मया नर्मण्युक्ते हरेर्नववीक्षणे
सदयमुदयत्कार्पण्यं मामवैक्षत राधिका ॥ ११.६० ॥

मानेन, यथा
मयासक्तवति प्रसादनविधौ विस्मृत्य चन्द्रग्रहं
तद्विज्ञप्तिसमुत्सुकापि विजहौ मौनं न सा मानिनी ।
किन्तु श्यामलरत्नसम्पुटदलेनावृत्य किञ्चिन्मुखं
सत्या स्मारयति स्म विस्मृतमसौ मामौपरागीं श्रियम् ॥ ११.६१ ॥

ईर्स्यया, यथा
वितर तस्करि मे मुरलीं हृता
मिति मदुद्धरजल्पविवृत्तया ।
भ्रूकुटिभङ्गुरमर्कसुतातटे
सपदि राधिकयाहमुदीक्षितः ॥ ११.६२ ॥

अलङ्कारा निगदिता विंशतिर्गात्रचित्तजाः ।
अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥ ११.६३ ॥
कैश्चिदन्येऽप्यलङ्काराः प्रोक्ता नात्र मयोदिताः ।
मुनेरसम्मतत्वेन किन्तु द्वितयमुच्यते ।
मौग्ध्यं च चकितं चेति किञ्चिन्माधुर्यपोषणात् ॥ ११.६४ ॥

तत्र मौग्ध्यम्
ज्ञातस्याप्यज्ञवत्पृच्छा प्रियाग्रे मौग्ध्यमीरितम् ॥ ११.६५ ॥

यथा मुक्ताचरिते
कास्ता लताः क्व वा सन्ति केन वा किल रोपिताः ।
नाथ मत्कङ्कणन्यस्तं यासां मुक्ताफलं फलम् ॥ ११.६६ ॥

चकितम्
प्रियाग्रे चकितं भीतेरस्थानेऽपि भयं महत् ॥ ११.६७ ॥

यथा
रक्ष रक्ष मुहुरेष भीषणो
धावति श्रवणचम्पकं मम ।
इत्युदीर्य मधुपाद्विशङ्किता
सस्वजे हरिणलोचना हरिम् ॥ ११.६८ ॥

इत्यलङ्कारविवृतिः

अथ उद्भास्वराः

उद्भासन्ते स्वधानीति प्रोक्ता उद्भास्वरा बुधैः ॥ ११.६९ ॥
नीव्युत्तरीयधम्मिल्लस्रंसनं गात्रमोटनम् ।
जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्च ते मताः ॥ ११.७० ॥

तत्र नीविस्रंसनं, यथा विदग्धमाधवे(७.४१)
नैरञ्जन्यमुपेयतुः परिगलन्मोदाश्रुणी लोचने
स्वेदोद्धूतविलेपनं किल कुचद्वन्द्वं जहौ रागिताम् ।
योगौत्सुक्यमगादुरः स्फुरदिति प्रेक्ष्योदयं सङ्गिनां
राधे नीविरियं तव श्लथगुणा शङ्के मुमुक्षां दधे ॥ ११.७१ ॥

उत्तरीयस्रंसनं, यथा
तव हृदि मम रागात्कोऽपि रागो गरिष्ठः
स्फुरति तदपसृत्य व्यक्तमेतं करोमि ।
इति खलु हृदयात्ते राधिके रोधकारि
च्युतमिव पुरतो मे मञ्जु माञ्जिष्ठवासः ॥ ११.७२ ॥

धम्मिल्लस्रंसनं, यथा
स्फुरति मुरद्विषि पुरतो
दुरात्मनामपि विमुक्तिदे गौरि ।
नाद्भुतमिदं यदीयुः
संयमिनस्ते कचा मुक्तिम् ॥ ११.७३ ॥

गात्रमोटनं, यथा
व्रजाङ्गने वल्लवपुङ्गवस्य
पुरः कुरङ्गीनयना सलीलम् ।
अप्यङ्गभङ्गं किल कुर्वतीय
मनङ्गभङ्गं तरसा व्यतानीत् ॥ ११.७४ ॥

जृम्भा, यथा
पुष्पैरवेत्य विशिखैर्भवतीमसाध्यां
साध्वीमधीत्य मदनः किल जृम्भणास्त्राम् ।
चन्द्रावलि प्रसभमेव वशीचकार
यद्गोष्ठसीमनि मुहुः सखि जृम्भसेऽद्य ॥ ११.७५ ॥

घ्राणफुल्लत्वं, यथा
रचितशिखरशोभारम्भमम्भोरुहाक्षी
श्वसितपवनदोलान्दोलिना मौक्तिकेन ।
पुटयुगमतिफुल्लं बिभ्रती नासिकायां
मम मनसि विलग्ना दर्शनादेव राधा ॥ ११.७६ ॥

यद्यप्येते विशेषाः स्युर्मोट्टायितविलासयोः ।
शोभाविशेषपोषित्वात्तथापि पृथगीरिताः ॥ ११.७७ ॥

अथ वाचिकाः
आलापश्च विलापश्च संलापश्च प्रलापकः ।
अनुलापोऽपलापश्च सन्देशश्चातिदेशकः ॥ ११.७८ ॥
अपदेशोपदेशौ च निर्देशो व्यपदेशकः ।
कीर्तिता वचनारम्भा द्वादशामी मनीषिभिः ॥ ११.७९ ॥

तत्र आलापः
चाटुप्रियोक्तिरालापः ॥ ११.८० ॥

यथा श्रीदशमे(१०.२९.४०)
का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन
सम्मोहिता ‘र्यपदवीं न चलेत्त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ ११.८१ ॥

यथा वा विदग्धमाधवे (५.३१)
कठोरा भव मृद्वी वा प्राणास्त्वमसि राधिके ।
अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥ ११.८२ ॥

अथ विलापः
विला
पो दुःखजं वचः ॥ ११.८३ ॥

यथा श्रीदशमे (१०.४७.४७)
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।
तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ ११.८४ ॥

संलापः ।
उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्यते ॥ ११.८५ ॥

यथा पद्यावल्यां (२६९)
उत्तिष्ठारात्तरौ मे तरुणि मम तरोः शक्तिरारोहणे का
साक्षादाख्यामि मुग्धे तरणिमिह रवेराख्यया का रतिर्मे ।
वार्तेयं नौप्रसङ्गे कथमपि भविता नावयोः सङ्गमार्था
वार्तापीति स्मितास्यं जितगिरिमजितं राधयाराधयामि ॥ ११.८६ ॥

प्रलापः ।
व्यर्थालापः प्रलापः स्यात् ॥ ११.८७ ॥

यथा
करोति नादं मुरली रली रली
व्रजाङ्गनाहृन्मथनं थनं थनम् ।
ततो विदूना भजते जते जते
हरे भवन्तं ललिता लिता लिता ॥ ११.८८ ॥

अनुलापः
अनुलापो मुहुर्वचः ॥ ११.८९ ॥

यथा
कृष्णः कृष्णो नहि नहि तापिञ्छोऽयं
वेणुर्वेणुर्नहि नहि भृङ्गोद्घोषः ।
गुञ्जा गुञ्जा नहि नहि बन्धूकाली
नेत्रे नेत्रे नहि नहि पद्मद्वन्द्वम् ॥ ११.९० ॥

अपलापः ।
अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥ ११.९१ ॥

यथा
फुल्लोज्ज्वलवनमालं कामयते का न माधवं प्रमदा ।
हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय ॥ ११.९२ ॥

सन्देशः
सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् ॥ ११.९३ ॥

यथा
व्याहर मथुरानाथे मम सन्देशप्रहेलिकां पान्थ ।
विकला कृता कुहूभिर्लभते चन्द्रावली क्व लयम् ॥ ११.९४ ॥

अतिदेशः
सोऽतिदेशस्तदुक्तानि मदुक्तानीति यद्वचः ॥ ११.९५ ॥

यथा
वृथा वृथास्त्वं विचिकित्सितानि
मा गोकुलाधीश्वरनन्दनात्र ।
गान्धर्विकाया गिरमन्तरस्थां
वीणेव गीतिं ललिता व्यनक्ति ॥ ११.९६ ॥

अथ अपदेशः
अन्यार्थकथनं यत्तु सोऽपदेश इतीरितः ॥ ११.९७ ॥

यथा
यत्ते विक्षतमुज्ज्वलं पृथुफलद्वन्द्वं नवा दाडिमी
भृङ्गेण व्रणितं मधूनि पिबता ताम्रं च पुष्पद्वयम् ।
इत्याकर्ण्य सखीगिरं गुरुजनालोके किल श्यामला
चैलेन स्तनयोर्युगं व्यवदधे दन्तच्छदौ पाणिना ॥ ११.९८ ॥

उपदेशः
यत्तु शिक्षार्थवचनमुपदेशः स उच्यते ॥ ११.९९ ॥

यथा छन्दोमञ्जर्याम्
मुग्धे यौवनलक्ष्मीर्विद्युद्विभ्रमलोला
त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ।
तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथे
श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ ११.१०० ॥

निर्देशः
निर्देशस्तु भवेत्सोऽयमहमित्यादिभाषणम् ॥ ११.१०१ ॥

यथा
सेयं मे भगिनी राधा ललितेयं च मे सखी ।
विशाखेयमहं कृष्ण तिस्रः पुष्पार्थमागताः ॥ ११.१०२ ॥

व्यपदेशः
व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते ॥ ११.१०३ ॥

यथा
विलसन्नवकस्तवका काम्यवने पश्य मालती मिलति ।
कथमिव चुम्बसि तुम्बीमथवा भ्रमरोऽसि किं ब्रूमः ॥ ११.१०४ ॥

अनुभावा भवन्त्येते रसे सर्वत्र वाचिकाः ।
माधुर्याधिक्यपोषित्वादिहैव परिकीर्तिताः ॥ ११.१०५ ॥

इति श्रीश्रीउज्ज्वलनीलमणौ अनुभावप्रकरणम् ॥११॥


अथ सात्त्विकप्रकरणम्(१२)

तत्र स्तम्भः, स हर्षाद्, यथा दानकेलिकौमुद्याम् (३६)
अभ्युक्ष्य निष्कं पतयालुना मुहुः
स्वेदेन निष्कम्पतया व्यवस्थिता ।
पञ्चालिका कुञ्चितलोचना कथं
पञ्चालिकाधर्ममवाप राधिका ॥ १२.१ ॥

भयाद्, यथा
घनस्तनितचक्रेण चकितेयं घनस्तनी ।
बभूव हरिमालिङ्ग्य निश्चलाङ्गी व्रजाङ्गना ॥ १२.२ ॥
दिग्धोऽयम् ।
आश्चर्याद्, यथा
तव मधुरिमसम्पदं विलक्ष
त्रिजगदलक्ष्यतुलां मुकुन्द राधा ।
कलय हृदि बलवच्चमत्क्रियासौ
समजनि निर्निमिषा च निश्चला च ॥ १२.३ ॥

विषादाद्, यथा
विलम्बमम्भोरुहलोचनस्य
विलोक्य सम्भावितविप्रलम्भा ।
सङ्केतगेहस्य नितान्तमङ्के
चित्रायिता तत्र बभूव चित्रा ॥ १२.४ ॥

अमर्षाद्, यथा
माधवस्य परिवर्तितगोत्रां
श्यामला निशि गिरं निशमय्य ।
देवयोषिदिव निर्निमिषाक्षी
छायया च रहिता क्षणमयासीत् ॥ १२.५ ॥

अथ स्वेदः, स हर्षाद्, यथा विष्णुपुराणे (५.१३.५५)
गोपीकपोलसंश्लेषमभिपत्य हरेर्भुजौ ।
पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ १२.६ ॥

यथा वा
ध्रुवमुज्ज्वलचन्द्रकान्तयष्ट्या
विधिना माधव निर्मितास्ति राधा ।
यदुदञ्चति तावकास्यचन्द्रे
द्रवतां स्वेदभरच्छलाद्बिभर्ति ॥ १२.७ ॥

भयाद्, यथा
मा भूर्विशाखे तरला विदूरतः
पतिस्तवासौ निविडा लताकुटि ।
महा प्रयत्नेन कृताः कपोलयोः
स्वेदोदबिन्दुर्मकरीर्विलुम्पति ॥ १२.८ ॥

क्रोधाद्, यथा
खिन्नापि गोत्रस्खलनेन पाली
शालीनभावं छलतो व्यतानीत् ।
तथापि तस्याः पटमार्द्रयन्ती
स्वेदाम्बुवृष्टिः कुर्धमाचचक्षे ॥ १२.९ ॥

अथ रोमाञ्चः । स आश्चर्याद्, यथा
चुम्बन्तमालोक्य चमुरुचक्षुषां
चमूरमूषां युगपन्मधुरद्विषम् ।
व्योमाङ्गने तत्र सुराङ्गनावली
रोमाञ्चिता विस्तृतदृष्टिराबभौ ॥ १२.१० ॥

हर्षाद्, यथा श्रीदशमे (१०.३२.८)
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्गुल्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ १२.११ ॥

यथा वा श्रीरुक्मिणीस्वयंवरे
रोमाणि सर्वाण्यपि बालभावात्
प्रियश्रियं द्रष्टुमिवोत्सुकानि ।
तस्यास्तदा कोरकिताङ्गयष्टेर्
उद्ग्रीविकादानमिवाम्बभुवन् ॥ १२.१२ ॥

भयाद्, यथा
परिमलचटुले द्विरेफवृन्दे
मुखमभिधावति कम्पिताङ्गयष्टिः ।
विपुलपुलकपालिरद्य पाली
हरिमधरीकृतह्रीधूरालिलिङ्ग ॥ १२.१३ ॥

अथ स्वरभङ्गः, स विषादाद्यथा श्रीगीतगोविन्दे (६.१०)
विपुलपुलकपालिः स्फीतसीत्कारमन्तर्
जनितजडिमम्काकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलनिधिमग्ना ध्यानलग्ना मृगक्षी ॥ १२.१४ ॥

विस्मयाद्, यथा
गुरुसम्भ्रमस्तिमितकण्ठया मया
करसंज्ञयापि बहुधावबोधिता ।
न पुनस्त्वमत्र हरिवेणुवादने
पुलकान् विलोकितवती लतास्वपि ॥ १२.१५ ॥
अमर्षाद्, यथा
प्रेयस्यः परमाद्भुताः कति न मे दीव्यन्ति गोष्ठान्तरे
तासां नोज्ज्वलनर्मभङ्गिभिरपि प्राप्तोऽस्मि तुष्टिं तथा ।
द्वित्रैरद्य मुहुस्तरङ्गदधरग्रस्तार्धवर्णैर्यथा
राधायाः सखि रोषगद्गदपदैराक्षेपवाग्बिन्दुभिः ॥ १२.१६ ॥

हर्षाद्, यथा श्रीरुक्मिणीस्वयंवरे
पश्येम तं भूय इति ब्रुवाणां
सखीं वचोभिः किल सा ततर्ज ।
न प्रीतिकर्णेजपतां गतानि
विदाम्बभूव स्मरवैकृतानि ॥ १२.१७ ॥

भीतेर्, यथा
प्रथमसङ्गमनर्मणि साध्वस
स्खलितयापि गिरा सखि राधिका ।
नवसुधाह्रदिनीं मदिरेक्षणा
श्रुतितटे मम काञ्चिदवीवहत् ॥ १२.१८ ॥

अथ वेपथुः, स त्रासेन, यथा
केशवो युवतिवेशभागयं
बालिशः किल पतिस्तवाग्रतः ।
राधिके तदपि मूर्तिरद्य ते
किं प्रवातकदलीतुलां दधे ॥ १२.१९ ॥

अमर्षेण, यथा
यदि कुपितासि न पद्मे
किं तुनुरुत्कम्पते प्रसभम् ।
विचलति कुतो निवाते
दीपशिखा निर्भरस्निग्धा ॥ १२.२० ॥

हर्षेण, यथा
वल्लवराजकुमारे
मिलिते पुरतः किमात्तकम्पासि ।
तव पेशलास्मि पार्श्वे
ललितेयं परिहरातङ्कम् ॥ १२.२१ ॥

अथ वैवर्ण्यम्, तद्विषादाद्, यथा
मधुरिमभरैर्मुक्तस्यालं कलङ्कितकुङ्कुमैर्
र्द्विरदरदनश्रेणीमाभां चिराय वितन्वतः ।
विधुरपि तुलामाप्तस्तस्या मुखस्य बकीरिपो
वद परमतः सारङ्ग्याक्ष्याः किमस्ति विडम्बनम् ॥ १२.२२ ॥

रोषाद्, यथा
विलसति किल वृन्दारण्यलीलाविहारे
कथय कथमकाण्डे ताम्रवक्त्रासि वृत्ता ।
प्रसरदुदयरागग्रस्तपूर्णेन्दुबिम्बा
किमिव सखि निशीथे शारदी जायते द्यौः ॥ १२.२३ ॥

भीतेर्, यथा
क्रीडन्त्यास्तटभुवि माधवेन सार्धं
तत्रारात्पतिमवलोक्य विक्लवायाः ।
राधायास्तनुमनु कालिमा तथासीत्
तेनेयं किमपि यथा न पर्यचायि ॥ १२.२४ ॥

अथ अश्रु, तत्र हर्षाद्, यथा श्रीगीतगोविन्दे (११.३२)
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन
प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ १२.२५ ॥

फुल्लगण्डं सरोमाञ्चं बाष्पमानन्दजं मतम् ॥ १२.२६ ॥

रोषाद्, यथा
प्रातर्मुरद्विषमुरःस्फुरदन्यनारी
पत्राङ्कुरप्रकरलक्ष्मणमीक्षमाणा ।
अप्रोच्य किञ्चिदपि कुञ्चितदृष्टिरेषा
रोषाश्रुबिन्दुभरमिन्दुमुखी मुमोच ॥ १२.२७ ॥

यथा वा बिल्वमङ्गले
राधेऽपराधेन विनैव कस्माद्
अस्मासु वाचः परुषा रुषा ते ।
अहो कथं ते कुचयोः प्रथन्ते
हारानुकारास्तरलाश्रुधाराः ॥ १२.२८ ॥

शिरःकम्पि सनिश्वासं स्फुरदोष्ठकपोलकम् ।
कटाक्षभ्रूकुटीवक्त्रं स्त्रीणामीर्ष्योत्थरोदनम् ॥ १२.२९ ॥

विषादाद्, यथा पद्यावल्याम् (३४९)
मलिनं नयनाञ्जनाम्बुभिर्
मुखचन्द्रं करभोरु मा कुरु ।
करुणावरुणालयो हरिस्
त्वयि भूयः करुणां विधास्यति ॥ १२.३० ॥

अथ प्रलयः, स सुखेन, यथा
जङ्घे स्थावरतां गते परिहृतस्पन्दा द्वयी नेत्रयोः
कण्ठ कुण्ठितअनिस्वनो विघटितश्वासा च नासापुटी ।
राधायाः परमप्रमोदसुधया धौतं पुरो माधवे
साक्षात्कारमिते मनोऽपि मुनिवन्मन्ये समाधिं दधे ॥ १२.३१ ॥

दुःखेन, यथा ललितमाधवे (३.६१)
दंशः कंसनृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां
दूरे गोष्ठतडागजीवनमितो येनापजह्रे हरिः ।
हा धिक्कः शरणं भवेन्मृदि लुठद्गात्रीयमन्तःक्लमाद्
आभीरीशफरीततिः शिथिलितश्वासोर्मिरामीलति ॥ १२.३२ ॥

अथ एषु धूमायिताः
सुराङ्गने सखि मधुरापुराङ्गने
पुरः पुरातनपुरुषस्य वीक्षया ।
तवाक्षिणी जलकणसाक्षिणी कुतः
कथं पुनः पुलकि च गण्डमण्डलम् ॥ १२.३३ ॥

ज्वलिताः
सखि स्तब्धीभावं भजति नितरामुरुयुगलं
तनुजाली हर्षं युगमपि तवाक्ष्णोः सरसताम् ।
तदुन्नीतं धन्ये रहसि करपङ्केरुहतलं
प्रपन्नस्ते दिष्ट्या नलिनमुखि नीलो निधिरभूत् ॥ १२.३४ ॥

अथ दीप्ताः, यथा विदग्धमाधवे (१.३६)
क्षौणिं पङ्किलयन्ति पङ्कजरुचोरक्ष्णोः पयोबिन्दवः
श्वासास्ताण्डवयन्ति पाण्डुवदने दूरादुरोजांशुकम् ।
मूर्तिं दन्तुरयन्ति सन्ततममी रोमाञ्चपुञ्जाश्च ते
मन्ये माधवमाधुरीश्रवणयोरभ्यासमभ्याययौ ॥ १२.३५ ॥

उद्दीप्ताः
स्नाता नेत्रजनिर्झरेण दधती स्वेदाम्बुमुक्तावलिं
रोमाञ्चोत्करकञ्चुकेन निचिता श्रीखण्डपाण्डुद्युतिः ।
खञ्जन्मञ्जुलभारती सवयसा युक्ता स्फुरतीत्यसौ
सज्जा ते नवसङ्गमाय ललिता स्तम्भाश्रिता वर्तते ॥ १२.३६ ॥

उद्दीप्तानां भिदा एव सूद्दीप्ताः सन्ति कुत्रचित् ।
सात्त्विकाः परमोत्कर्षकोटिमत्रैव बिभ्रति ॥ १२.३७ ॥

यथा
स्वेदैर्दर्शिअदुर्दिना विदधती बाष्पाबुभिर्निस्तृषो
वत्सीरङ्गरुहालिभिर्मुकुकिनीफुल्लाभिरामूलतः ।
श्रुत्वा ते मुरलीं तथाभवदियं राधा यथाराध्यते
मुग्धैर्माधव भारतीप्रतिकृतिर्भ्रान्त्याद्य विद्यार्थिभिः ॥ १२.३८ ॥

इति श्रीश्रीउज्ज्वलनीलमणौ सात्त्विकप्रकरणम्
॥१२॥
(१३)

अथ व्यभिचारिप्रकरणम्

निर्वेदाद्यास्त्रयस्त्रिंशद्भावा ये परिकीर्तिताः ।
औग्र्यलस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः ॥ १३.१ ॥
सख्यादिषु निजप्रेमाप्यत्र सञ्चारितां व्रजेत् ॥ १३.२ ॥
साक्षादङ्गत्या नेष्टा किन्त्वत्र मरणादयः ।
वर्ध्यमानास्तु युक्त्यामी गुणतामुपचिन्वते ॥ १३.३ ॥

तत्र निर्वेदः, स महार्त्या, यथा विदग्धमाधवे (२.४१)
यस्योत्सङ्गसुखाश्रया शिथिलता गुर्वी गुरुभ्यस्त्रपा
प्राणेभ्योऽपि सुहृत्तमाः सखि तथा यूयं परिक्लेशिताः ।
धर्मः सोऽपि महान्मया न गणितः साध्वीभिरध्यासितो
धिग्धैर्यं तदुपेक्षितापि यदहं जीवामि पापीयसी ॥ १३.४ ॥

विप्रयोगेण, यथा उद्धवसन्देशे (८१)
न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे
क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि ।
खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं
ध्वस्तालम्बा यदहमहह प्राणकीटं बिभर्मि ॥ १३.५ ॥

ईर्स्यया, यथा
नात्मानमाक्षिप त्वं म्लायद्वदना गभीरगरिमाणम् ।
सखि नान्तरं क्षितौ कश्चन्द्रावलितारयोर्वेत्ति ॥ १३.६ ॥

अथ विषादः । स इष्टानवाप्तितो, यथा विदग्धमाधवे (२.५६)
पीतं नवागमृतमद्य हरेरशङ्कं
न्यस्तं मयाद्य वदने न दृगञ्चलं च ।
रम्ये चिरादवसरे सखि लब्धमात्रे
हा दुर्विधिर्विरुरुधे जरती च्छलेन ॥ १३.७ ॥

यथा व श्रीदशमे (१०.२१.७)
अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननुविवेशतयोर्वयस्यैः ।
वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ १३.८ ॥

प्रारब्धकार्यासिद्धेर्, यथा श्रीगीतगोविन्दे (२.१०)
गणयति गुणग्रामं भ्रामं भ्रामादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलत्तृष्णे कृष्णे विहरति मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १३.९ ॥

विपत्तितो, यथा ललितमाधवे (३.२६)
निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर्
न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः ।
हरेर्वक्षःपीठं न किल घनमालिङ्गितमभूद्
इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥ १३.१० ॥

अपराधाद्, यथा
हरेर्वचसि सूनृते न निहिता श्रुतिर्वामया
तथा दृगपि नार्पिता प्रणतिभाजि तस्मिन् पुरः ।
हितोक्तिरपि धिक्कृता प्रियसखी मुहुस्तेन मे
ज्वलत्यहह मुर्मुरज्वलनजालरुद्धं मनः ॥ १३.११ ॥

अथ दैन्यम् । तद्दुःखेन, यथा बिल्वमङ्गले
अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द
श्वसन्रसरसज्ञे त्वां नमस्कृत्य याचे ।
मधुरमधरबिम्बं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ १३.१२ ॥

यथा वा, श्रीदशमे (१०.२९.३८)
तन्नः प्रसीद वृजिनार्दन ते ‘ङ्घ्रिमूलं
प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम
तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ १३.१३ ॥

त्रासेन, यथा
अपि करधुतिभिर्मयापनुन्नो
मुखमयमञ्चति चञ्चलो द्विरेफः ।
अघदमन मयि प्रसीद वन्दे
कुरु करुणामवरुन्धि दुष्टमेनम् ॥ १३.१४ ॥

अपराधेन, यथा
आलि तथ्यमपराद्धमेव ते
दुष्टमानफणिदष्टया मया ।
पिञ्छमौलिरधुनानुमीयतां
मामकीनमनवेक्ष्य दूषणम् ॥ १३.१५ ॥

अथ ग्लानिः, सा श्रमेण, यथा
व्यात्युक्षीमघमथनेन पङ्कजाक्षी
कुर्वाणा किमपि सखीषु सस्मितासु ।
क्षामाङ्गी मणिवलयं स्खलत्करान्तात्
कालिन्दीपयसि रुरोध नाद्य राधा ॥ १३.१६ ॥

आधिना, यथा हंसदूते (९५)
प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणतेर्
विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः ।
अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ
बलादद्य प्राणानवति भवाशासहचरी ॥ १३.१७ ॥

रतेन, यथा श्रीगीतगोविन्दे (१२.१२)
माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ १३.१८ ॥

अथ श्रमः । सोऽध्वनो, यथा पद्यावल्यां (२११)
द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं
कण्ठान्मौक्तिकमालिकां तदनु च त्यक्त्वा पदैः पञ्चमैः ।
कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारातुरा
तन्वङ्गी निरुपायमध्वनि परं श्रेणीभरं निन्दति ॥ १३.१९ ॥

नृत्याद्, यथा
शिथिलगतिविलासास्तत्र हल्लीशरङ्गे
हरिभुजपरिघाग्रन्यस्तहस्तारविन्दाः ।
श्रमलुलितललाटश्लिष्टलीलालकान्ताः
प्रतिपदमनवद्याः सिष्विदुर्वेदिमध्याः ॥ १३.२० ॥

रताद्, यथा
अहह भुजयोर्द्वन्द्वं मन्दं बभूव विशाखिके
समजनि घनस्वेदं चेदं युगं तव गण्डयोः ।
धृतमधुरिमस्फूर्तिमूर्तिस्तथापि वरानने
प्रमदसुधयाक्रान्तं स्वान्तं मम प्रणयत्यसौ ॥ १३.२१ ॥

अथ मदः । स मधुपानजो, यथा
या ह्रिया हरिपुरो मुखमुद्रां
भङ्क्तुमध्यवससौ न कदापि ।
स पपाठ चटुलं मधु पीत्वा
शारिकेव पशुपालकिशोरी ॥ १३.२२ ॥

अथ गर्वः । स सौभाग्येन, यथा
मुञ्चन्मित्रकदम्बसङ्गमभजन्नप्युत्सुकाः प्रेयसी
रेष द्वारि हरिस्त्वदाननतटीन्यस्तेक्षणस्तिष्ठति ।
यूथिभिर्मकराकृति स्मितमुखी त्वं कुर्वती कुण्डलं
गण्डोद्यत्पुलका दृशोऽपि न किल्क्षीवे क्षिपस्यञ्चलम् ॥ १३.२३ ॥

रूपेण, यथा
चन्द्रावलीवदनचन्द्रमरीचिपुञ्जं
कः स्तोतुमप्यतिपटु क्षमते क्षमायाम् ।
येनाद्य पिञ्छमुकुटोऽपि निकेतवाटी
पर्यन्तकाननकुटिरचरः कृतोऽयम् ॥ १३.२४ ॥

यथा वा विदग्धमाधवे (७.२७)
सहचरि वृषभानुजया प्रादुर्भावे वरत्विषोपगते ।
चन्द्रावलीशतान्यपि भवन्ति निर्धूतकान्तीनि ॥ १३.२५ ॥

गुणेन, यथा
रमयन्तु तावदमलै
र्ध्वनिभिर्गोपीकपोतिका कृष्णम् ।
इह ललिताकलकण्ठी
कलं न यावत्प्रपञ्चयति ॥ १३.२६ ॥

सर्वोत्तमाश्रयेण, यथा श्रीविष्णुपुराणे (५.३०.५१)
जानामि ते पतिं शत्रुं जानामि त्रदशेश्वरम् ।
पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ १३.२७ ॥

इष्टलाभेन, यथा
नम्रा न भवतु वंशी मुकुन्दवक्त्रेन्दुमाधुरीरसिका ।
त्वं दुर्लभतद्गन्धा लगुडि वृथा स्तब्धतां वहसि ॥ १३.२८ ॥

यथा वा श्रीदशमे (१०.८३.२९)
उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्
गण्डस्थलं शिशिरहासकटाक्षमोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर्
अंसे ‘नुरक्तहृदया निदधे स्वमालाम् ॥ १३.२९ ॥

अथ शङ्का, सा चौर्येण, यथा
हरन्ती निद्राणे मधुभिदि करात्केलिमुरलीं
लतोत्सङ्गे लीना घनतमसि राधा चकितधीः ।
निशि ध्वान्ते शान्ते शरदअमलचन्द्रद्युतिमुषा
मसौ निर्मातारं स्ववदनरुचां निन्दति विधिम् ॥ १३.३० ॥

अपराधाद्, यथा ललितमाधवे (२.४)
उत्ताम्यन्ती विरमति तमस्तोमसम्पत्प्रपञ्चे
न्यञ्चन्मूर्धा सरभसमसौ स्रस्तवेणीवृतांसा ।
मन्दस्पन्दं दिशि दिशि दृशोर्द्वन्द्वमल्पं क्षिपन्ती
कुञ्जाद्गोष्ठं विशति चकिता वक्त्रमावृत्य पाली ॥ १३.३१ ॥

शङ्का तु प्रवरस्त्रीणां भीरुत्वाद्भयकृद्भवेत् ॥ १३.३२ ॥

परक्रौर्याद्, यथा विदग्धमाधवे (५.२३)
व्यक्तिं गते मम रहस्यविनोदवृत्ते
रुष्टो लघिष्ठहृदयस्तरसाभिमन्युः ।
राधां निरुध्य सदने विनिगूहन्ते वा
हा हन्त लम्भयति वा यदुराजधानीम् ॥ १३.३३ ॥

अथ त्रासः, स तडिता, यथा
स्फूर्जिते नभसि भीरुरुद्यतां
विद्युतां द्युतिमवेक्ष्य कम्पिता ।
सा हरेरुरसि चञ्चलेक्षणा
चञ्चलेव जलदे न्यलीयत ॥ १३.३४ ॥

घोरसत्त्वेन, यथा विदग्धमाधवे (५.४४)
कर्णोत्तंसितरक्तपङ्कजजुषो भृङ्गीपतेर्झङ्क्रिया
भ्रान्तेनाद्य दृगञ्चलेन दधती भृङ्गावलीविभ्रमम् ।
त्रासान्दोलितदोर्लतान्तविलसच्चूडाझणत्कारिणी
राधे व्याकुलतां गतापि भवति मोदं ममाध्यस्यति ॥ १३.३५ ॥

उग्रनिस्वनेन, यथा
त्वमसि मम सखेति किंवदन्ती
मुद्र चिराद्भवता व्यधायि तथ्या ।
मदुरसि रसितैर्निरस्यमानं
यदुदितवेपथुरर्पिताद्य राधा ॥ १३.३६ ॥

अथ आवेगः, स प्रियदर्शनजो, यथा ललितमाधवे (२.११)
सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर्
व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः ।
अहह चटुलैरुत्सर्पद्भिर्दृगअङ्चलतस्करैर्
मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः ॥ १३.३७ ॥

यथा वा तत्रैव (६.४०)
उपतरु ललितां तां प्रत्यभिक्षाय सद्यः
प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च ।
मणिमपि परिचिन्वन् शङ्खचूडावतंसं
मुहुरहमुद्घूर्णं भूरिणा सम्भ्रमेण ॥ १३.३८ ॥

प्रियश्रवणजो, यथा ललितमाधवे (१.२५)
धन्ये कज्जलमुक्तवामनयना पद्मे पदोढाङ्गदा
सारङ्गि ध्वनदेकनूपुरधरा पालि स्खलन्मेखला ।
गण्डोद्यत्तिलका लवङ्गि कमले नेत्रार्पितालक्तका
माधावोत्तरलं त्वमत्र मुरली दूरे कलं कूजति ॥ १३.३९ ॥

अप्रियदर्शनजो, यथा तत्रैव (३.१८)
क्षणं विक्रोशन्ती विलुठति शताङ्गस्य पुरतः
क्षणं बाष्पग्रस्तां किरति किल दृष्टिं हरिमुखे ।
क्षणं रामस्याग्रे पतति दशनोत्तम्भिततृणा
न राधेयं कं वा क्षिपति करुणाम्भोधिकुहरे ॥ १३.४० ॥

अप्रियश्रवणजो, यथा
व्रजनरपतेरेष क्षत्ता करोति गिरा प्रगे
नगरगतये घोरं घोषे घनां सखि घोषणाम् ।
श्रवणपदवीमारोहन्त्या यया कुलिशोग्रया
रचितमचिरादाभीरीणां कुलं मुहुराकुलम् ॥ १३.४१ ॥
एवमन्येऽप्यूह्याः ।

अथ उन्मादः, स प्रौढानन्दाद्, यथा
प्रसीद मदिराक्षि मां सखि मिलन्तमालिङ्गितुं
निरुन्धि मुदिरद्युतिं नवयुवानमेनं पुरः ।
इति भ्रमरिकामपि प्रियसखीभ्रमाद्याचते
समीक्ष्य हरिमुन्मदप्रमदविक्लवा वल्लवी ॥ १३.४२ ॥

विरहाद्, यथा
क्वाप्यान्दोलितकुन्तला विलुठति क्वाप्याङ्गुलीभङ्गत
स्त्वङ्गद्भ्रूर्दशनैर्विदश्य दशनान् कंसं शपत्युद्धूरा ।
कुत्राप्यद्य तमालमुत्तरलधीरालोक्य धावत्यलं
राधा त्वद्विरहज्वरेण पृथुना दूना यदूनां पते ॥ १३.४३ ॥

अत्ज अपस्मारः, यथा
अङ्गक्षेपविधायिभिर्निविडतोत्तुङ्गप्रलापैरलं
गाढोद्वर्तिततारलोचनपुटैः फेनच्छटोद्गारिभिः ।
कृष्ण त्वद्विरहोत्थितैर्मम सखीमन्तर्विकारोर्मिभि
र्ग्रस्तां प्रेक्ष्य वितर्कयन्ति गुरवः सम्प्रत्यपस्मारिणीम् ॥ १३.४४ ॥

अथ व्याधिः, स यथा रससुधाकरे (२.५२)
शय्या पुष्पमयी परागमयतामङ्गार्पणादश्नुते
ताम्यन्त्यन्तिकतालवृन्तनलिनीपत्राणि गात्रोष्मणा ।
न्यस्तं च स्तनमण्डले मलयजं शीर्णान्तरं लक्ष्यते
क्वाथादाशु भवन्ति फेनिलमुखा भूषामृणालाङ्कुराः ॥ १३.४५ ॥

अथ मोहः, स हर्षाद्, यथा विदग्धमाधवे (२.६)
दरोन्मीलन्नीलोत्पलदलरुचस्तस्य निविडाद्
विरूढानां सद्यः करसरसिजस्पर्शकुतुकात् ।
वहन्ती क्षोभाणां निवहमिह नाज्ञासिषमिदं
क्व वाहं का वाहं चकर किमहं वा सखि तदा ॥ १३.४६ ॥

यथा व श्रीदशमे (१०.२१.१२)
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं
श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् ।
देव्यो विमानगतयः स्मरनुन्नसारा
भ्रश्यत्प्रसूनकवरा मुमुहुर्विनीव्य् ॥ १३.४७ ॥

विश्लेषाद्, यथा उद्धवसन्देशे (११७)
सा पल्यङ्के किशलयदलैः कल्पिते तत्र सुप्ता
गुप्ता नीरस्तवकिततृशां चक्रवालैः सखीनाम् ।
द्रष्टव्या ते क्रशिमकलिताकण्ठनालोपकण्ठ
स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी ॥ १३.४८ ॥

विषादाद्, यथा श्रीदशमे (१०.३५.१६१७)
निजपदाब्जदलैर्ध्वजवज्र
नीरजाङ्कुशविचित्रललामैः ।
व्रजभुवः शमयन् खुरतोदं
वर्ष्मधुर्यगतिरीडितवेणुः ॥ १३.४९ ॥

व्रजति तेन वयं सविलास
वीक्षणार्पितमनोभववेगाः ।
कुजगतिं गमिता न विदामः
कश्मलेन कवरं वसनं वा ॥ १३.५० ॥

अथ मृतिः
मृतेरध्यवयायोऽत्र वर्ण्यः साक्षादियं न हि ॥ १३.५१ ॥

यथा उद्धवसन्देशे (६९)
यावद्व्यक्तिं न किल भजते गान्दिनेयानुबन्धस्
तावन्नत्वा सुमुखि भवतीं किंचिदभ्यर्थयिष्ये ।
पुष्पैर्यस्या मुहुरकरवं कर्णपूरान्मुरारेः
सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥ १३.५२ ॥

अथ आलस्यम्
साक्षादङ्गं न चालस्यं भङ्ग्या तेन निबध्यते ॥ १३.५३ ॥

यथा
निरवधि दधिपूर्णां गर्गरीं लोडयित्वा
सखि कृततनुभङ्गं कुर्वती भूरि जृम्भाम् ।
भुवमनुपतिता ते पत्युरास्ते सवित्री
विरचय तदशङ्कं त्वं हरेर्मूर्ध्नि चूडाम् ॥ १३.५४ ॥

अथ जाड्यं, तदिष्टश्रुत्या, यथा
गोपुरे रुवति कृष्णनूपुरे
निष्क्रमाय धृतसम्भ्रमाप्यसौ ।
कीलितेव परिमीलितेक्षणा
सीदति स्म सदने मनोरमा ॥ १३.५५ ॥

अनिष्टश्रुत्या, यथा ललितमाधवे (३.१०)
आलीव्यालीकवचनेन मुहुर्विहन्तो
हन्तारविन्दविगलद्ग्रथितार्धमाल्या ।
हा हन्त हन्त किमपि प्रतिपन्नतन्द्रा
चन्द्रावली किल दशान्तरमारुरोह ॥ १३.५६ ॥

इष्टेक्षणेन, यथा विदग्धमाधवे (३.२९)
अहो धन्या गोप्यः कलितनवनर्मोक्तिभिरलं
विलासैरामोदं दधति मधुरैर्या मधुभिदः ।
धिगस्तु स्वं भाग्यं यदिह मम राधा प्रियसखी
पुरस्तस्मिन् प्राप्ते जडिमनिविडाङ्गी विलुठति ॥ १३.५७ ॥

अनिष्टेक्षणेन, यथा
राधा वनान्ते हरिणा विहारिणी
प्रेक्ष्याभिमन्युं स्तिमिताभरत्तथा ।
क्रुद्यास्य तूर्णं भजतोऽपि सन्निधिं
यथा भवानीप्रतिमाभ्रमं दधे ॥ १३.५८ ॥

विरहेण, यथा पद्यावल्यां (१८७)
गृहीतं ताम्बूलं परिजनवचोभिर्न सुमुखी
स्मरत्यन्तःशून्या मुरहर गतायामपि निशि ।
ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस्
तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥ १३.५९ ॥

अथ व्रीडा, सा नवीनसङ्गमेन, यथा
विधुमुखि भज शय्यां वर्तसे किं नतास्या
मुहुरयमनुवर्ती याचते त्वां प्रसीद ।
इति चटुभिरनल्पैः सा मयाभ्यर्थ्यमाना
व्यरुचदिह निकुञ्जश्रीरिव द्वारि राधा ॥ १३.६० ॥

अकार्येण, यथा
पटुः किमपि भाग्यतत्त्वमसि पुत्रि वित्तार्जने
यदेतमतुल्यं बलादपजहर्थ हारं हरेः ।
गभीरमिति शृण्वती गुरुजनादुपालम्भनं
मणिस्रगवलोकनान्मुखमवाञ्चयन्मालती ॥ १३.६१ ॥

स्तवेन, यथा
सङ्कुच न तथ्यवचसा
जगन्ति तव कीर्तिकौमुदी मार्ष्टि ।
उरसि हरेरसि राधे
यदक्षया कौङ्कुमीचर्चा ॥ १३.६२ ॥

अवज्ञया, यथा श्रीगीतगोविन्दे (८.१०)
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियपादालक्तच्छुरितमरुणद्योति हृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ १३.६३ ॥

अथ अवहित्था, सा जैह्म्येन, यथा श्रीजगन्नाथवल्लभे
अमुष्याः प्रोन्मीलत्कमलमधुधारा इव गिरो
निपीय क्षीबत्वं गत इव चलन्मौलिरधिकम् ।
उदञ्चत्कामोऽपि स्वहृदयकलागोपनपरो
हरिः स्वैरं स्वैरं स्मितसुभगमूचे कथमयम् ॥ १३.६४ ॥

जैह्म्यलज्जाभ्यां, यथा उद्धवसन्देशे (५२)
मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां
गन्तव्या मे न खलु तरले दूति सीमापि तस्य ।
विख्याताहं जगति कठिना यत्पिधत्ते मदङ्गं
रोमाञ्चो.अयं सपदि पवनो हैमनस्तत्र हेतुः ॥ १३.६५ ॥

ह्रिया, यथा विदग्धमाधवे (२.१६)
भजन्त्याः सव्रीडं कथमपि तदाडम्बरघटाम्
अपह्नोतुं यत्नादपि नवमदामोदमधुरा ।
अधीरा कालिन्दीपुलिनकलभेन्द्रस्य विजयं
सरोजाक्ष्याः साक्षाद्वदति हृदि कुञ्जे तनुवनी ॥ १३.६६ ॥

दाक्षिण्येन, यथा ललितमाधवे (७.३८)
उद्धूता स्मितकौमुदी न मधुरा वक्त्रेन्दुबिम्बात्तया
मृद्वीनां न निराकृता निजगिरां माधुर्यलक्ष्मीरपि ।
कोष्णैरद्य दुरावरैर्निजमनोगूढव्यथाशंसिभिः
श्वासैरेव दरोद्धूतस्तनपटैस्तस्या रुषः कीर्तिताः ॥ १३.६७ ॥

ह्रीभयाभ्यां, यथा
हृदये त्वदीयरागं, माधव दधती शमीव सा दहनम् ।
अन्तर्ज्वलितापि बहिः, सरसा स्फुरति क्षमागुणतः ॥ १३.६८ ॥

भयेन, यथा
चन्द्रावली मन्दिरमण्डलानि
पतुय्ः प्रस्ताच्चिरमाचरन्ती ।
वंशीनिनादेन विरूडकम्पा
निनिन्द धूर्ता घनगर्जितानि ॥ १३.६९ ॥

गौरवदाक्षिण्याभ्यां, यथा
स्वकरग्रथितामवेक्ष्य मालां
विलुठन्तीं प्रतिपक्षकेशपक्षे ।
मलिनाप्यघमर्दनादरोर्मि
स्थगिता चन्द्रमुखी बभूव तूष्णीम् ॥ १३.७० ॥

अथ स्मृतिः । सा सदृशेक्षया, यथा हंसदूते (२३)
तमालस्यालोकाद्गिरिपरिसरे सन्ति चपलाः
पुलिन्द्यो गोविन्दस्मरणरभसोत्तप्तवपुषः ।
शनैस्तासां तापं क्षणमपनयन् यास्यति भवान्
अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥ १३.७१ ॥

द्यूताभ्यासेन, यथा
ते पीयूषिकिरां गिरां परिमलाः सा पिञ्छचूडोज्ज्वला
तास्तापिञ्छमनोहरास्तनुरुचस्ते केलयः पेशलाः ।
तद्वक्त्रं शरदिन्दुनिन्दि नयने ते पुण्डरीकश्रिणी
तस्येति क्षणमप्यविस्मरदिदं चेतो ममाघूर्णते ॥ १३.७२ ॥

अथ वितर्कः, स विमर्शाद्यथा विदग्धमाधवे (६.२९)
विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः
शुकोऽयं नादत्ते कलितजडिमा दाडिमफलम् ।
विवर्णा पर्णाग्रं चरति हरिणीयं न हरितं
पथानेन स्वामी तदिभवरगामी ध्रुवमगात् ॥ १३.७३ ॥

संशयाद्, यथा ललितमाधवे (३.४०)
विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ
पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति ।
न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस्
तडिल्लेखाहारी गिरिमवललम्बे जलधरः ॥ १३.७४ ॥

यथा पद्यावल्यां (२३८)
आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते
तद्ब्रूयाः सखि योगिनी किमसि भोः किं वियोगिन्यपि ॥ १३.७५ ॥

यथा वा विदग्धमाधवे (३.४)
अक्ष्णोर्द्वन्द्वं प्रसरति दरोद्घूर्णतारं मुरारेः
श्वासाः क्प्तां किल विचकिलैर्मालिकां म्लापयन्ति ।
केयं धन्या वसति रमणी गोकुले क्षिप्रमेतां
नीतस्तीव्रामयमपि यया कामपि ध्याननिष्ठाम् ॥ १३.७६ ॥

अनिष्टाप्त्या
बाल्यस्योच्छिदुरतया यथा यथाङ्गे
राधाया मधुरिमकौमुदी दिदीपे ।
पद्माया मुखकमलं विशीर्णमन्तः
सन्ताम्यद्भ्रमरमिदं तथा तथासीत् ॥ १३.७७ ॥

यथा वा
मा चन्द्रावलि मलिना भव राधायाः समीक्ष्य सौभाग्यम् ।
ज्योतिर्विदोऽपि विद्युः कृष्णे किल बलवती तारा ॥ १३.७८ ॥

अथ मतिः, यथा पद्यावल्याम् (३३७)
आश्लिष्य वा पादरतां पिनष्टु माम्
अदर्शनान्मर्महतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्प्राणनाथस्तु स एव नापरः ॥ १३.७९ ॥

यथा वा
भवाम्बुजभवादयस्तव पदाम्बुजोपासना
मुशन्ति सुरवन्दिताः किमुत मन्दपुण्या नृपाः ।
अतस्तव जगत्पते मधुरिमाम्बुधेर्मद्विधो
न दास्यमिह वष्टि कः पुरुषरत्न कन्याजनः ॥ १३.८० ॥

अथ धृतिः । सा दुःखाहावेन, यथा श्रीदशमे (१०.३२.१३)
तद्दर्शनाह्लादविधूतहृद्रुजो
मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैर्
अचीक्ल्पन्नासनमात्मबन्धवे ॥ १३.८१ ॥

उत्तमाप्त्या, यथा
नव्या यौवनमञ्जरी स्थिरतरा रूपं च विस्मापनं
सर्वाभीरमृगीदृशामिह गुणश्रेणी च लोकोत्तरा ।
स्वाधीन पुरुषोत्तमश्च नितरां त्यक्तान्यकान्तास्पृहो
राधायाः किमपेक्षणीयमपरं पद्मे क्षितौ वर्तते ॥ १३.८२ ॥

अथ हर्षः । सोऽभीष्टेक्षणेन, यथा श्रीदशमे (१०.३२.३)
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशो ‘बलाः ।
उत्तस्थुर्युग्थे कारिकासोf रसार्णवसुधाकर ॥ १३.८३ ॥

यथा वा ललितमाधवे (१.५३)
स एष किमु गोपिकाकुमुदिनीसुधादीधितिः
स एष किमु गोकुलस्फुरितयौवराज्योत्सवः ।
स एष किमु मन्मनःपिकविनोदपुष्पाकरः
कृशोदरि दृशोर्द्वईममृतवीचिभिः सिञ्चति ॥ १३.८४ ॥

अभीष्टलाभेन, यथा तत्रैव (८.११)
आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे
नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी ।
वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते
वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः ॥ १३.८५ ॥

अथ औत्सुक्यम् । तदिष्टेक्षास्पृहया, यथा हंसदूते (३६)
असव्यं बिभ्राणा पदमधूतलाक्षारसमसौ
प्रयाताहं मुग्धे विरम मम वेशैः किमधुना ।
अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्
अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥ १३.८६ ॥

इष्टाप्तिस्पृहया, यथा श्रीगीतगोविन्दे (६.११)
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ १३.८७ ॥

अथ औग्र्यम् ।
औग्र्यं न साक्षादङ्गं स्यात्तेन वृद्धादिषूच्यते ॥ १३.८८ ॥
यथा विदग्धमाधवे (४.५०)
नवीनाग्रे नप्त्री चटुल न हि धर्मात्तव भयं
न मे दृष्टिर्मध्येदिनमपि जरत्याः पटुरियम् ।
अलिन्दात्त्वं नन्दात्मज न यदि रे यासि तरसा
ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी ॥ १३.८९ ॥

अथ अमर्षः । सोऽधिक्षेपाद्, यथा श्रीदशमे (१०.६०.४४)
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः
स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः ।
यत्कर्णमूलमरिकर्षण नोपयायाद्
युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ १३.९० ॥

अपमानाद्, यथा विदग्धमाधवे (४.३९)
बाले वल्लवयौवतस्तनतटीदत्तार्धनेत्रादितः
कामं श्यामशिलाविलासिहृदयाच्चेतः परावर्तय ।
विद्मः किं न हि यद्विकृष्य कुलजाः केलिभिरेष स्त्रियो
धूर्तः सङ्कुलयन् कलङ्कततिभिर्निःशङ्कमुन्मुञ्चति ॥ १३.९१ ॥

अथ असूया । सा सौभाग्येन, याथा श्रीदशमे (१०.३०.३२)
इमान्यधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ १३.९२ ॥

याथा वा तत्रैव (१०.२१.९)
गोप्यः किमाचरदयं कुशलं स्म वेणुर्
दामोदराधरसुधामपि गोपिकानाम् ।
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो
हृष्यत्त्वचो ‘श्रु मुमुचुस्तरवो यथार्याः ॥ १३.९३ ॥

यथा वा,
कृष्णाधरमधुमुग्धे पिबसि सदेति त्वमुन्मदा मा भूः ।
मुरलीभुक्तविमुक्ते रज्यति भवतीव का तत्र ॥ १३.९४ ॥

गुणेन, यथा
त्वत्तोऽपि मुग्धे मधुरं सखी मे
वन्यस्रजः स्रष्टुमसौ प्रवीणा ।
नास्याः करौ सिञ्चति चेदुदीर्णा
निरुध्य दृष्टिं प्रणयाश्रुधारा ॥ १३.९५ ॥

अथ चापल्यम् । तद्रागेण, यथा
फुल्लासु गोकुलतडागभवासु केलिं
निःशङ्कमाचर चिरं वरपद्मिनीषु ।
मृद्वीमलब्धकुसुमां नलिनीं त्वमेनां
मा कृष्णकुञ्जर करेण परिस्पृशाद्य ॥ १३.९६ ॥

यथा वा, श्रीगीतगोविन्दे (१.४९)
रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवाम्
अभ्यर्णं परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुद्भटचुम्बितः स्मृतमनोहारि हरिः पातु वः ॥ १३.९७ ॥

द्वेषेण, यथा
यातु वक्षसि हरेर्गुणसङ्ग
प्रोज्झिता लयमियं वनमाला ।
या कदाप्यखिलसौख्यपदं नः
कण्ठमस्य कुटिला न जहाति ॥ १३.९८ ॥

अथ निद्रा । सा क्लमेन, यथा
श्वासस्पन्दनबन्धुरोदरतलं पुष्पावलीस्रस्तर
न्यञ्चन्मौक्तिकहारयष्टि कलयन्नीवीं मनागाकुलाम् ।
क्लान्तः केलिभरादुरोजकलसीमाभीरवामभ्रुवः
कल्याणीमुपधाय सान्द्रपुलकामद्रौ निदद्रौ हरिः ॥ १३.९९ ॥

यथा वा हंसदूते (११५)
अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसतेर्
वसन्तीं वासन्ती नवपरिमलोद्गारिचिकुराम् ।
त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां
कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥ १३.१०० ॥

अथ सुप्तिर्, यथा
पुरः पन्थानं मे त्यज यदमुना यामि यमुना
मिति व्याक्षाणा चुचुकविचरत्कौस्तुभरुचिः ।
हरेः सव्यं राधा भुजमुपदधत्यम्बुजमुखी
दरीक्रोडे क्लान्ता निविडमिह निद्राभरमगात् ॥ १३.१०१ ॥

यथा वा
आभीरेन्द्रसुतस्य गण्डमुकुरे स्वाप्नीभिरुल्लासितं
लीलाभिः पुलकं विलोक्य चकिता निश्चिन्वती जागरम् ।
सा वेणोर्हरणोत्सवे धृतनवोत्कण्ठापि तल्पाञ्चले
विस्रस्तं करतोऽपि माध्यवससौ तं हर्तुमेणेक्षणा ॥ १३.१०२ ॥

प्रबोधः, यथा
निद्राप्रमोदहरमप्युरुकण्ठनादं
कण्ठीरवस्य शितिकण्ठपतत्रमौलिः ।
तुष्टाव सत्वरविबुद्धपरिप्लवाक्ष
राधापयोधरगिरिन्द्रनिपीडिताङ्गम् ॥ १३.१०३ ॥

सख्यां स्वस्नेहो, यथा
शैलमूर्ध्नि हरिणा विहरन्ती
रोमकुड्मलकर्मबितमूर्तिः ।
राधिका सललितं ललितायाः
पश्य मार्ष्टि लुलितालकमास्यम् ॥ १३.१०४ ॥

अथ उत्पत्त्यादिदशाचतुष्टयम्, तत्र उत्पत्तिर्, यथा
मृदुरियमिति वादीर्मा त्वमस्या कुडुङ्गे
शशिमुखि तव सख्याः पौरुषं दृष्टमस्ति ।
इति भवदुपकण्ठे मद्गिरा भुग्नदृष्टेः
स्थपुटितवदनाया राधिकायाः स्मरामि ॥ १३.१०५ ॥
अत्रासूयोत्पत्तिः ।

अथ सन्धिः । तत्र सरूपयोर्, यथा
चिराभीष्टे प्रेक्षे दनुजदमने विद्नति दृशोः
पदं पत्यौ चार्धस्फुटवचसि रक्तत्विषि रुषा ।
इयं निस्पन्दाङ्गी निमिषकलनोन्मुक्तनयना
बभूवावष्टम्भप्रतिकृतिरिवाब्म्होजवदना ॥ १३.१०६ ॥
अत्रेष्टानिष्टेक्षणकृतयोर्जाड्ययोः सन्धिः ।

अथ भिन्नयोः । तत्र एकहेतुजयोर्, यथा ललितमाधवे (९.३९)
शिखरिभरवितर्कतः प्रतप्तं
समहमहर्निशमीक्षया प्रियस्य ।
हृदयमिह समस्तवल्लवीनां
युगपदपूर्वविधं द्विधा बभूव ॥ १३.१०७ ॥
अत्र विषादहर्षयोः ।

भिन्नहेतुजयोर्, यथा
स्थवयति नवरागं माधवे राधिकायां
गिरमथ ललितायाः सावहेलां प्रतीत्य ।
चलतरचरणाग्रेणालिखन्ती धरित्रीं
विधृतवदनपद्मा तत्र सिष्वेद पद्मा ॥ १३.१०८ ॥
अत्र चिन्तामर्षयोः ।

अथ शावल्यम्, यथा विदग्धमाधवे (५.७)
धन्यास्ता हरिणीदृशः स रमते याभिर्नवीनो युवा
स्वैरं चापलमाकलय्य लल्ता मां हन्त निन्दिष्यति ।
गोविन्दं परिरब्धुमिन्दुवदनं हा चित्तमुत्कण्ठते
धिग्वामं विधिमस्तु येन गरलं मानाभिधं निर्ममे ॥ १३.१०९ ॥
अत्र चापलशङ्कौत्सुक्यामर्षाणां शावल्यम् ।

अथ शान्तिः, यथा
आलीयुक्तिकुठारिकापटिमाभिर्यो न प्रपेदे छिदां
दूतीजल्पितनिर्झरेण च चिरं यः क्वापि नोच्चालितः ।
वंश्नादमरुल्लवेन कमलाचेतस्तटीवेष्टनो
मानाख्यः प्रबलोन्नतिस्तरुरयं न क्षिप्रमुन्मूल्यते ॥ १३.११० ॥
अत्रेर्ष्याख्यभावस्य शान्तिः ।

इति श्रीश्रीउज्ज्वलनीलमणौ व्यभिचारिप्रकरणम् ॥१३॥


अथ स्थायिभावप्रकरणम् (१४)

स्थायिभावोऽत्र शृङ्गारे कथ्यते मधुरा रतिः ॥ १४.१ ॥

सा, यथा गोविन्दविलासे
कालाहिवक्त्रविलसद्रसनाग्रजाग्रद्
गोपीदृगञ्चलचमत्कृतिबिद्धमर्मा ।
शर्मादिशत्वरुणघूर्णितलोचनान्तः
सञ्चारचूर्णितसतीहृदयो मुकुन्दः ॥ १४.२ ॥

यथा वा दानकेलिकौमुद्याम् (३०)
गोवर्धनगिरिमुपेत्य कटाक्षबाणान्
कर्णस्फुरन्मणिशिलोपरि सङ्क्षुवाना ।
का भ्रूधनुर्धुवनसूचितलुञ्चनेयं
व्यग्रीकरोत्यहह मामपि सम्भ्रमेण ॥ १४.३ ॥

अभियोगाद्विषयतः सम्बन्धादभिमानतः ।
सा तदीयविशेषेभ्य उपमातः स्वभावतः ।
रतिराविर्भवेदेषामुत्तमत्वं यथोत्तरम् ॥ १४.४ ॥

तत्र अभियोगः
अभियोगो भवेद्भावव्यक्तिः स्वेन परेण च ॥ १४.५ ॥

तत्र स्वेनाभियोगाद्, यथा
मदधरविलुठद्विलोचनान्तं
मृदुललतानवपल्लवं दशन्तम् ।
सखि हरिमवलोक्य भानुजाया
स्तटविपिने स्फुटदन्तरास्मि जाता ॥ १४.६ ॥

यथा वा
कुवलयविपिनान्यसौ सृजन्ती
दिशि दिशि लोचनचापलाच्चलाक्षी ।
हरति तरणिजातटे पुरः का
सुबल बलान्मम चित्तचञ्चरीकम् ॥ १४.७ ॥

परेणाभियोगाद्, यथा
त्वदीयमापीय गतावलम्बा
संवादमाध्वीकमतीव साध्वी ।
आघूर्णमाना व्रजराजसूनो
नीवीं स्खलन्तीं न विदाञ्चकार ॥ १४.८ ॥

अथ विषयाः
शब्दस्पर्शादयः पञ्च विषयाः किल विश्रुताः ॥ १४.९ ॥

तत्र शब्दाद्, यथा विदग्धमाधवे (१.३४)
नादः कदम्बविटपान्तरतो विसर्पन्
को नाम कर्णपदवीमविशन्न जाने ।
हा हा कुलीनगृहिणीगणगर्हणीयां
येनाद्य कामपि दशां सखि लम्भितासि ॥ १४.१० ॥

यथा वा, तत्रैव (२.२)
एकस्य श्रुतमेव लुम्पति मतिं कृष्णेति नामाक्षरं
सान्द्रोन्मादपरम्परामपनयत्यन्यस्य वंशीकलः ।
एष स्निग्धघनद्युतिर्मनसि मे लग्ना सकृद्वीक्षणात्
कष्टं धिक्पुरुषत्रये रतिरभून्मन्ये मृतिः श्रेयसी ॥ १४.११ ॥

स्पर्शाद्, यथा
व्रजं मुष्टिग्राह्ये तमसि निगिरत्यङ्गमिह मे
सखि स्पर्शं दैवाद्यदवधि परं कस्यचिदगात् ।
गृहीता जागर्या तदवधि सदैवाङ्गजगणैः
सशङ्कैर्या पश्य क्षणमपि न साद्यान्प्युपरता ॥ १४.१२ ॥

रूपाद्, यथा हंसदूते (७७)
कृताकृष्टिक्रीडं किमपि तव रूपं मम सखी
सकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः ।
हता सेयं प्रेमानलमनु विशन्ती सरभसं
पतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥ १४.१३ ॥

रसाद्, यथा
पुलकयति यदङ्गं सेवते गात्रभङ्गं
वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा ।
तदघदमनवक्त्रोद्गीर्णताम्बूलमल्पं
स्फुटमविदितमास्ये न्यस्तमस्यास्त्वयालि ॥ १४.१४ ॥

गन्धाद्, यथा
विभ्राजन्ते क्व सखि सुखिनः शाखिनो मोहनास्ते
येषां पुष्पैरियमनुपमा वैजयन्ती कृतास्ति ।
पश्याकृष्टभ्रमरपटला यातयामापि कामं
या भूयोभिर्मम परिमलैः स्तम्भयत्यद्य चेतः ॥ १४.१५ ॥

लोकोत्तरपदार्थानां प्रभावः कोऽप्यनर्गलः ।
रतिं तद्विषयं चासौ भासयेत्तूर्णमेकदा ॥ १४.१६ ॥

अथ सम्बन्धः
सम्बन्धः कुलरूपादिसामग्रीगौरवं भवेत् ॥ १४.१७ ॥

ततो यथा
वीर्यं कन्दुकितादिर्रूपमखिलक्ष्मामण्डलीमण्डनं
जन्माभीरपुरन्दरस्य भवने पारेपरार्धं गुणाः ।
लीला क्वापि जगच्चमत्कृतिकरीत्येतस्य लोकोत्तरा
वृत्तिर्वेणुधरस्य दुर्मुखि धृतिं कस्याः क्षणं रक्षति ॥ १४.१८ ॥

अथ अभिमानः
सन्तु रम्याणि भूरीणि प्रार्थ्यं स्यादिदमेव मे ।
इति यो निर्णयो धीरैरभिमानः स उच्यते ॥ १४.१९ ॥

ततो यथा
स्फुरन्तु बहवः क्षितौ मधुरिमोर्मिधौरेयका
विदग्धमणयो गुणावलिपतिंवराभिर्वृताः ।
न यस्य शिखिचन्द्रं शिरसि नैव वेणुर्मुखे
न धातुवचना तनौ सखि तृणाय मन्ये न तम् ॥ १४.२० ॥

अथ तदीयविशेषाः
तदीयानां विशेषाः स्युः पदगोष्ठप्रियादयः ॥ १४.२१ ॥

तत्र पदानि
पदान्यत्र पदाङ्काः स्युः ॥ १४.२२ ॥

ततो यथा
स्फुरति सखि रथाङ्गाम्भोजदम्भोलिभाजां
तटभुवि विशदेयं कस्य पङ्क्तिः पदानाम् ।
हृदयमघृणघूर्णाघ्रातमुद्घाटयन्ती
मम तनुलतिकायां कुड्मलं या तनोति ॥ १४.२३ ॥

अथ गोष्ठम्
गोष्ठं वृन्दावनाश्रितम् ॥ १४.२४ ॥

ततो, यथा
मदयति हृदयं सखि व्रजोऽयं
मधुरिमभिः क्वचिदप्यदृष्टपूर्वैः ।
इह विहरति कोऽपि नागरेन्दर
स्त्रिभुवनमण्डलमूर्तिरित्यवेहि ॥ १४.२५ ॥

अथ प्रियजनः
प्रौढभावानुबिद्धो यस्तस्य प्रियजनोऽत्र सः ॥ १४.२६ ॥

ततो, यथा
गुरुभिर्निषिद्धा तामहं यावदक्ष्णोः
पदमनयमनन्तश्रेयसां सद्म राधाम् ।
तृषितमिव मनो मे प्रेक्षते तन्वि तावद्
दिशि दिशि विहरन्तीं श्यामलां शालभञ्जीम् ॥ १४.२७ ॥

अथ उपमा
यथा कथञ्चिदप्यस्य सादृश्यमुपमोदिता ॥ १४.२८ ॥

ततो, यथा
नवाम्बुधरमाधुरी स्फुरति मूर्तिरुर्वीतले
कृशोदरि दृशोरियात्पथि किमीदृशो वा युवा ।
पुरः सुमुखि गोपतेः सदै सन्निविष्टस्य मे
पितुर्वितनुते नटो यमनुकृत्य नृत्यक्रमम् ॥ १४.२९ ॥
यथा वा
स्फुरत्येष प्रेयानिव नवघनस्तस्य सुभगे
शिखण्डीनां श्रेणीं तुलयति सुरेन्द्रायुधमिदम् ।
असौ वासो लक्ष्मीरिव विहरते विद्युदिति सा
निशम्योदस्राक्षी त्वयि निहितबुद्धिर्निवसति ॥ १४.३० ॥

अथ स्वभावः
भैर्हेत्वनपेक्षी तु स्वभावोऽर्थः प्रकीर्तितः ।
निसर्गश्च स्वरूपं चेत्येषोऽपि भवति द्विधा ॥ १४.३१ ॥

अत्र निसर्गः
निसर्गः सुदृढाभ्यासजन्यः संस्कर उच्यते ।
तदुद्भोधस्य हेतुः स्याद्गुणरूपश्रुतिर्मनाक् ॥ १४.३२ ॥

ततो, यथा
स तर्जतु बताग्रजं त्यजतु मां सुहृन्मण्डलः
पिता किल विलज्जतां घनदृगम्बुरम्बास्तु मे ।
मनः सखि समीहते श्रुतगुणश्रियं सर्वथा
तमेव यदुपुङ्गवं न तु कदापि चैद्यं नृपम् ॥ १४.३३ ॥

यथा वा
असुन्दरः सुन्दरशेखरो वा
गुणैर्विहीनो गुणिनां वरो वा ।
द्वेषी मयि स्यात्करुणाम्बुधिर्वा
श्यामः स एवाद्य गतिर्ममायम् ॥ १४.३४ ॥

अथ स्वरूपम्
अजन्यस्तु स्वतःसिद्धः स्वरूपं भाव इष्यते ।
एतत्तु कृष्णललनोभयनिष्ठतया त्रिधा ॥ १४.३५ ॥

अथ कृष्णनिष्ठम्
कृष्णनिष्ठं स्वरूपं स्याददैत्यैः सुगमं जनैः ॥ १४.३६ ॥

ततो, यथा
इयं व्यक्तिर्गोपी न भवति पुरः किन्तु कुतुकी
हरिर्नारीवेशो यदखिलसुरस्त्रीर्धुवति नः ।
जगन्नेत्रश्रेणीतिमिरहरणायाम्बरमणिं
विना कस्यान्यस्य प्रियसखि भवेदौपयिकता ॥ १४.३७ ॥

अथ ललनानिष्ठम्
स्वरूपं ललनानिष्ठं स्वयमुद्बुद्धतां व्रजेत् ।
अदृष्टेऽप्यश्रुतेऽप्युच्चैः कृष्णे कुर्याद्द्रुतं रतिम् ॥ १४.३८ ॥

ततो, यथा
जिहीते यः कक्षां क्वचिदलमदृष्टाश्रुतचर
त्रिलोक्यामस्तीति क्षणमपि न सम्भावनमयीम् ।
घनश्यामं पीताम्बरमहह सङ्कल्पयदमुं
जनं कञ्चिद्गोष्ठे सखि मम वृथा दीर्यति मनः ॥ १४.३९ ॥
अथ उभयनिष्ठम्
तत्स्यादुभयनिष्ठं यत्स्वरूपं कृष्णसुभ्रुवोः ॥ १४.४० ॥

ततो, यथा ललितमाधवे (२.१२)
सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः
किमयमितरथा मे विद्रवत्यन्तरात्मा ।
शशधरमणिवेदी स्वेदधारां प्रसूते
न किल कुमुदबन्धोः कौमुदीमन्तरेण ॥ १४.४१ ॥

प्रोक्ता अत्राभियोगाद्या विलासाधिक्यहेतवे ।
रतिः स्वभावजैव स्यात्प्रायो गोकुलसुभ्रुवाम् ॥ १४.४२ ॥
साधारणी निगदिता समञ्जसासौ समर्था च ।
कुब्जादिषु महिषीषु च गोकुलदेवीष्ण्ड्च क्रमतः ॥ १४.४३ ॥
मणिवच्चिन्तामणिवत्कौस्तुभमणिवत्त्रिधाभिमता ।
नातिसुलभेयमभितः सुदुर्लभा स्यादनन्यलभ्या च ॥ १४.४४ ॥

तत्र साधारणी
नातिसान्द्रा हरेः प्रायः साक्षाद्दर्शनसम्भवा ।
सम्भोगेच्छानिदानेयं रतिः साधारणी मता ॥ १४.४५ ॥

यथा श्रीदशमे (१०.४८.९)
सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।
रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ १४.४६ ॥

असान्द्रत्वाद्रतेरस्याः सम्भोगेच्छा विभिद्यते ।
एतस्या ह्रासतो ह्रासस्तद्धेतुत्वाद्रतेरपि ॥ १४.४७ ॥

अथ समञ्जसा
पत्नीभावाभिमानात्मा गुणादिश्रवणादिजा ।
क्वचिद्भेदितसम्भोगतृष्णा सान्द्रा समञ्जसा ॥ १४.४८ ॥

यथा तत्रैव (१०.५२.३८)
का त्वा मुकुन्द महती कुलशीलरूप
विद्यावयोद्रविणधामभिरात्मतुल्यम् ।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोऽभिरामम् ॥ १४.४९ ॥

समञ्जसातः सम्भोगस्पृहाया भिन्नता यदा ।
तदा तदुत्थितैर्भावैर्वश्यता दुष्करा हरिः ॥ १४.५० ॥

तथा हि तत्रैव (१०.६१.४)
स्मायावलोकलवदर्शितभावहारि
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर्
यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ १४.५१ ॥

अथ समर्था
कंचिद्विशेषमायन्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यमापन्ना सा समर्थेति भण्यते ॥ १४.५२ ॥
स्वस्वरूपात्तदीयाद्वा जाता यत्किंचिदन्वयात् ।
समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥ १४.५३ ॥

प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं
हा कृष्णेत्यश्रुतचरमपि व्याहरन्त्युन्मदासीत् ॥ १४.५४ ॥

सर्वाद्भुतविलासोर्मिचमत्कारकरश्रियः ।
सम्भोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते ।
इत्यस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥ १४.५५ ॥
पूर्वस्यां स्वसुखायापि कदाचित्तत्र सम्भवेत् ॥ १४.५६ ॥
इयमेव रतिः प्रौढा महाभावदशां व्रजेत् ।
या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसाम् ॥ १४.५७ ॥

यथा श्रीदशमे (१०.४७.५८)
एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ १४.५८ ॥

स्याद्दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमादयम् ।
स्यान्मानः प्रणयो रागोऽनुरागो भाव इत्यपि ॥ १४.५९ ॥
बीजमिक्षुः स च रसः स गुडः खण्ड एव सः ।
स शर्करा सिता सा च सा यथा स्यात्सितोपला ॥ १४.६० ॥
अतः प्रेमविलासाः स्युर्भावाः स्नेहादयस्तु षट् ।
प्रायो व्यवहिर्यन्तेऽमी प्रेमशब्देन सूरिभिः ॥ १४.६१ ॥
यस्या यादृशजातीयः कृष्णे प्रेमाभ्युदञ्चति ।
तस्यां तादृशजातीयः स कृष्णस्याप्युदीयते ॥ १४.६२ ॥

तत्र प्रेमा
सर्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे ।
यद्भावबन्धनं यूनोः स प्रेमा परिकीर्तितः ॥ १४.६३ ॥

यथा
शपे तुभ्यं धर्मस्थितिमन्युसरन्त्या सखि मया
विशुद्धामुग्राभिर्मुहुरपि निरस्तो भणितिभिः ।
स मुग्धे श्यामात्मा त्यजति न हि मे वर्त्म बत मां
जगारापद्घोरा विरचयतु शास्तिं गृहपतिः ॥ १४.६४ ॥

यथा वा
राधायाः सखि सद्गुणैरनुदिनं रूपानुरागादिभिः
सान्द्रां लब्धवतोरपि व्यसनितां व्याक्षिप्तकान्तान्तरैः ।
प्राप क्वापि परस्परोपरि ययोर्न म्लानतां यस्तयो
स्तं चन्द्रावलिचन्द्रकाभरणयोः को वेत्ति भावक्रमम् ॥ १४.६५ ॥

स त्रिधा कथ्यते प्रौढमध्यमन्दप्रभेदतः ॥ १४.६६ ॥
तत्र प्रौढः
विलम्बादिभिरज्ञातचित्तवृत्तौ प्रिये जने ।
इतरक्लेशकारी यः स प्रेमा प्रौढ उच्यते ॥ १४.६७ ॥

यथा
गत्वा ब्रूहि निकुञ्जसद्मनि सखे खिन्नां मम प्रेयसीं
मा कालात्ययमाकलय्य कमले मय्यप्रतीतिं कृथाः ।
दुष्टं दानवमत्र गोकुलशिरःशूलं चिकित्सन्नहं
द्रागेष प्रणयेन पल्लवमयीं लब्धोऽस्मि शय्यां तव ॥ १४.६८ ॥

अथ मध्यः
इतरानुभवापेक्षां सहते यः स मध्यमः ॥ १४.६९ ॥

यथा
सर्वारम्भमनोहरां सपदि मे चन्द्रावलीं विन्दतो
रङ्गः शारदशर्वरीसमुचितः पर्याप्तिमेवाययौ ।
तां कन्दर्पचमूचमत्कृतिकरक्रीडोर्मिकिर्मीरितां
राधां हन्त तथापि चित्तमधुना साक्षान्ममापेक्षते ॥ १४.७० ॥

अथ मन्दः
सदा परिचितत्वादेः करोत्यत्यन्तिकात्तु यः ।
नैवोपेक्षां न चापेक्षां स प्रेमा मन्द उच्यते ॥ १४.७१ ॥

यथा
अनुमीय रूढमानामानय भामां सखीमशोकलताम् ।
भवति प्रेमवतीनां मनागुपेक्षापि दोषाय ॥ १४.७२ ॥

अथवा
प्रौढः प्रेमा स यत्र स्याद्विश्लेषस्यासहिष्णुता ॥ १४.७३ ॥

यथा उद्धवसन्देशे (५०)
निर्माय त्वं वितर फलकं हारि कंसारिमूर्त्या
वारं वारं दिशसि यदि मां माननिर्वाहनाय ।
यत्पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं
साहंकारा प्रियसखि सुखं यापयिष्यामि यामम् ॥ १४.७४ ॥

कृच्छ्रात्सहिष्णुता यत्र स तु मध्यम उच्यते ॥ १४.७५ ॥

यथा
अवितथमसौ किं द्राघीयान् गमिष्यति वासरः
सुमुखि स निशारम्भः किंवा समेष्यति मङ्गलः ।
स्मितमुखशशी गोधूलिभिः करम्बितकुन्तलः
क्षपयति दृशामार्तिं यत्र व्रजेश्वरनन्दनः ॥ १४.७६ ॥

स मन्दः कथितो यत्र भवेत्कुत्रापि विस्मृतिः ॥ १४.७७ ॥

यथा
प्रतिपक्षजनेर्ष्यया न मे
स्मृतिरासीद्वनमाल्यगुम्फने ।
सखि किं करवै गवां पुरो
घनहम्बाध्वनिरेष जृम्भते ॥ १४.७८ ॥

अथ स्नेहः
आरुह्य परमां काष्ठां प्रेमा चिद्दीपदीपनः ।
हृदयं द्रावयन्नेष स्नेह इत्यभिधीयते ।
अत्रोदिते भवेज्जातु न तृप्तिर्दर्शनादिषु ॥ १४.७९ ॥

यथा क्रमदीपिकायाम् (३.२७)
तदतिमधुररूपकम्रशोभा
मृतरसपानविधानलालसाभ्याम् ।
प्रणयसलिलपूरवाहिनीनाम्
अलसविलोलविलोचनाम्बुजाभ्याम् ॥ १४.८० ॥

यथा वा
ज्योत्स्नशीधुं हरिमुखविधोरप्यनल्पं पिबन्तौ
नान्तस्तृप्तिं तव कथमपि प्राप्नुतो दृक्चकोरौ ।
आघूर्णन्तौ मदकलतया सुष्ठु मुग्धौ यदेतौ
भूयो भूयस्तमिह वमतो बाष्पपूरच्छलेन ॥ १४.८१ ॥

अङ्गसङ्गे विलोके च श्रवणादौ च स क्रमात् ।
कनिष्ठो मध्यमः श्रेष्ठस्त्रिविधोऽयं मनोद्रवः ॥ १४.८२ ॥

तत्र अङ्गसङ्गे, यथा
असि घनरसरूपस्त्वं पाली लावण्यसारमयमूर्तिः ।
माधव भवदाश्लेषे भविता नास्याः कथं द्रवता ॥ १४.८३ ॥

विलोके, यथा
अस्यास्त्वद्वदने सरोजसुहृदि व्यक्तिं पुरस्ताद्गते
नाश्चर्यं द्रवतामविन्दत मनोहैयङ्गवीनं यदि ।
किन्त्वाश्चर्यमिदं मुकुन्द मिलिते श्यामामुखेन्दौ भव
च्चेतश्चन्द्रमणिर्द्रवन् जलतया भूयो बभूवाचलः ॥ १४.८४ ॥

श्रवणे, यथा
श्रुतिपरिसरकक्षां याति नाम्नस्तवार्धे
मुरदमन दृगम्भोदारया धौतगात्री ।
मदनमदमधूलीमुग्धमेधासमृद्धिः
स्खलति कुवलयाक्षी जृम्भते स्तम्भते च ॥ १४.८५ ॥

आदिशब्देन स्मरणे, यथा
कृष्णवर्त्मनि कृताभिनिवेशो
साम्प्रतः त्वमसि कम्पितगात्री ।
स्नेहपूरपरिपाकमयं ते
किं भविष्यति मनो न विलीनम् ॥ १४.८६ ॥

स घृतं मधु चेत्युक्तं स्नेहो द्वेधा स्वरूपतः ॥ १४.८७ ॥

तत्र घृतस्नेहः
आत्यन्तिकादरमयः स्नेहो घृतमितीर्यते ॥ १४.८८ ॥
भावान्तरान्वितओ गच्छन् स्वादोद्रेकं न तु स्वयम् ।
घनीभवेन्निसर्गातिशीतलान्मिथ आदरात् ।
गाढादरमयस्तेन स्नेहः स्याद्घृतवद्घृतम् ॥ १४.८९ ॥

यथा
अभुत्थाय विदूरतो मधुभ्ञ्दा याश्लिष्यते सादरं
या स्नेहेन वशीकरोति गुरुणा पावित्र्यपूर्णेन तम् ।
क्षिप्रं याति सितोपलेव विलयं तत्केलिवृष्ट्या च या
युक्ता हन्त कयोपमातुमपि सा चन्द्रावली मे सखी ॥ १४.९० ॥

यथा वा
निजमघरिपुणांसे न्यस्तमाकृष्य सव्यं
भुजमिह निदधाना दक्षमस्रोक्षिताक्षी ।
पदयुगमपि बङ्कं शङ्कया विक्षिपन्ती
प्रतियुवतिवयस्यां स्मेरयामास गौरी ॥ १४.९१ ॥

आदरो गौरवोत्थः स्यादित्यन्योन्याश्रितद्वयम् ।
रत्यादौ सदपि स्नेहे सुव्यक्तत्वादिहोच्यते ॥ १४.९२ ॥
मदीयतातिशयभाक्प्रिये स्नेहो भवेन्मधु ।
स्वयं प्रकटमाधुर्यो नानारससमाहृतिः ॥ १४.९३ ॥
मत्ततोष्मधरः स्नेहो मधुसाम्यान्मधूच्यते ॥ १४.९४ ॥

यथा
राधा स्नेहमयेन हन्त रचिता माधुर्यसारेण सा
सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता ।
यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृति ॥ १४.९५ ॥

अथ मानः
स्नेहस्तूत्कृष्टतावाप्त्या माधुर्यं मानयन्नवम् ।
यो धारयत्यदाक्षिण्यं स मान इति कीर्त्यते ॥ १४.९६ ॥

यथा
स्रवदस्रभरे कृते दृशौ मे
तव गोधूलिभिरेव गोपवीर ।
अधुना वदनानिलैः किमेभि
र्विरमेति भ्रूकुटिं बभार सुभ्रूः ॥ १४.९७ ॥

उदात्तो ललितश्चेति मानोऽयं द्विविधो मतः ॥ १४.९८ ॥

तत्र उदात्तः
उदात्तः स्याद्घृतस्नेहो धारयन् गहनक्रमम् ।
दाक्षिण्यभागदाक्षिण्यं वाम्यगन्धं च कुत्रचित् ॥ १४.९९ ॥

तत्र दाक्षिण्योदात्तो, यथा
राधेति स्खिलाभिधे मयि हठाद्बिद्धान्तराप्यार्तिभिर्
मद्वैलक्ष्यशमाय सा द्विगुणयन्त्यास्यारविन्दे स्मितम् ।
जल्पे च म्रदिमानुबिद्धमधिकं माधुर्यमातन्वती
चित्राणीव चकार मत्प्रियसुहृद्वृनानि चन्द्रावली ॥ १४.१०० ॥

अथ वाम्यगन्धोदात्तो, यथा श्रीविष्णुपुराणे (५.१३.४५)
काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ १४.१०१ ॥

यथा वा
अक्षसंसदि जितापि मृगाक्षी
माधवेन परिरम्भपणेन ।
भुग्नदृष्टिरिह विप्रतिपन्नां
तं करणे रुरुधे परिरिप्सुम् ॥ १४.१०२ ॥

अथ ललितः
मधुस्नेहस्तु कौटिल्यं स्वातन्त्र्यहृदयङ्गमम् ।
बिभ्रन्नर्मविशेषं च ललितोऽयमुदीर्यते ॥ १४.१०३ ॥

तत्र कौटिल्यललितो, यथा श्रीदशमे (१०.३२.६)
एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला ।
घ्नतीवैक्षत्सन्दष्टदशनच्छदा ॥ १४.१०४ ॥

यथा वा
अदत्त मे वर्त्मनि मन्मथोन्मदा
स्वयंग्रहाश्लेषमसौ सखी तव ।
इत्युक्तवन्तं कुटिलीभवन्मुखी
कृष्णं वतंसेन जघान मङ्गला ॥ १४.१०५ ॥

यथा वा
चित्रं चिरस्पर्शसुखाय चुचुके
कुर्वन्तमक्षिप्रमियं चलेक्षणा ।
स्विन्नाङ्गुलीकं पुलकाञ्चितश्रिया
सव्येन चिक्षेप कुचेन केशवम् ॥ १४.१०६ ॥

अथ नर्मललितो, यथा दानकेलिकौमुद्याम् (९०)
मिथ्या जल्पतु ते कथं नु रसना साध्वीसहस्रस्य या
बिम्बोष्ठामृतसेवनादघरिपो पुण्या प्रयत्नादभूत् ।
कस्मादेव बल्ंत्करोतु च करः सोढुं क्षमः सुभ्रुवां
रक्तः सुष्ठु न निविबन्धमपि यः का वान्यबन्धे कथा ॥ १४.१०७ ॥

अथ प्रणयः
मानो दधानो विश्रम्भं प्रणयः प्रोच्यते बुधैः ॥ १४.१०८ ॥

यथा
कुचोपान्ते स्पृष्टा मुरविजयिना तद्भुजशिर
स्तिरोन्यस्तग्रीवा भ्रुवमनृजुदृष्टिर्विभुजती ।
पटेनास्य म्लानीकृतपुरटभासा पुलकिनी
प्रमोदास्रैर्धौतं निजमुखमियं मार्ष्टि सुमुखी ॥ १४.१०९ ॥
स्वरूपं प्रणयस्यास्य विश्रम्भः कथितो बुधैः ।
विश्रम्भोऽपि द्विधा मैत्रं सख्यं चेति निगद्यते ॥ १४.११० ॥

तत्र मैत्रं
भावज्ञैः प्रोच्यते मैत्रं विश्रम्भो विनयान्वितः ॥ १४.१११ ॥

यथा श्रीदशमे (१०.३२.४)
काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिनां मुदा ।
काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥ १४.११२ ॥

यथा वा
न हि सङ्कुच पङ्कजेक्षणः
पादयोस्ते निदधातु नूपुरौ ।
अनयोर्ध्वनिभिर्विलज्जतां
कलहंसीव विपक्षकामिनी ॥ १४.११३ ॥

अथ सख्यम्
विस्रम्भं साध्वसोन्मुक्तः सख्यं स्ववशतामयः ॥ १४.११४ ॥

यथा
सरभसमधिकण्ठमर्पिताभ्यां
दनुजरिपोर्निजबाहुवल्लरीभ्याम् ।
निटिलमवनमय्य तस्य कर्णे
सखि कथितं किमिव त्वया रहस्यम् ॥ १४.११५ ॥

यथा वा श्रीविष्णुपुराणे (५.३०.३४)
यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मद्गेहनिष्कुटार्थाय तदायं नीयतां तरुः ॥ १४.११६ ॥

यथा वा
विन्यस्य वक्षोरुहकोरकद्वयीं
वक्षःस्थले कंसहरस्य हारिणीम् ।
पत्राङ्कुरं कुङ्कुमबिन्दुनालिके
लिखत्यसौ चन्द्रमुखी सखी मम ॥ १४.११७ ॥

यथा वा श्रीदशमे (१०.३०.३८)
ततो गत्वा वनोद्देशे दृप्ता केशवमब्रवीत् ।
न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ १४.११८ ॥

जनित्वा प्रणयः स्नेहात्कुत्रचिन्मानतां व्रजेत् ।
स्नेहान्मानः क्वचिद्भूत्वा प्रणयत्वमथाश्नुते ॥ १४.११९ ॥
कार्यकारणतान्योन्ऽन्यमतः प्रणयमानयोः ।
इत्यत्र पृथगेवासौ विश्रम्भोदाहृतिः कृता ॥ १४.१२० ॥
उदात्तललिताभ्यां तु मैत्र्यसख्ये सुसङ्गते ।
द्वे सुमैत्र्यसुसख्याख्ये यथासङ्ख्यमुदीरिते ॥ १४.१२१ ॥

तत्र सुमैत्र्यम्
आलीपुरः कथयितुं रजनीरहस्यं
तत्रोद्यते मधुरिपौ मृदुला भ्रमद्भ्रूः ।
उत्क्षिप्य तन्मुखपुटावरणाय हस्तं
न्यञ्चन्मुखी समवरिष्ट पुनर्वराक्षी ॥ १४.१२२ ॥

यथा वा
क्षिप्ते वर्णकभाजने तरणिजापुरे परीहासतः
कृष्णेन भ्रुवमारचय्य कुटिलामालोकयन्ती तिरः ।
तारा वक्षसि चित्रमर्धलिखितं श्रीवत्सविभ्राजिते
काश्मीरेण घनश्रिया निजकुचाकृष्टेन पूर्णं व्यधात् ॥ १४.१२३ ॥

अथ सुसख्यम्
द्यूते सकृत्पानविधौ पणीकृते
जित्वा द्विरोष्ठं पिबति स्वमच्युते ।
बबन्ध कण्ठे कुटिलीकृतेक्षणा
तं वामया दोर्लतयास्य वल्लवी ॥ १४.१२४ ॥

यथा वा
आविष्कुर्वति विस्फुरन्नवनखोल्लेखं स्ववक्षस्तटं
कृष्णे पीतदुकूलसङ्कलनया स्मित्वा सखीनां पुरः ।
अभ्रश्याममुरो रुरोध वलितभ्रूराननं धुन्वती
रोमाञ्चोद्गमकञ्चुकेन कुचयोर्द्वन्द्वेन गान्धर्विका ॥ १४.१२५ ॥

अथ रागः
दुःखमप्यधिकं चित्ते सुखत्वेनैव रज्यते ।
यतस्तु प्रणयोत्कर्षात्स राग इति कीर्त्यते ॥ १४.१२६ ॥

यथा
तीव्रार्कद्युतिदीपितैरसिलताधाराकरालास्रिभि
र्मार्तण्डोपलमण्डलैः स्थपुटितेऽप्यद्रेस्तटे तस्थुषी ।
पश्यन्ति पशुपेन्द्रनन्दनमसाविन्दीवरैरास्तृते
तल्पे न्यस्तपदाम्बुजेव मुदिता न स्पन्दते राधिका ॥ १४.१२७ ॥

यथा वा पद्यावल्यां (१७९)
ताराभिसारक चतुर्थनिशाशशाङ्क
कामाम्बुराशिपरिवर्धन देव तुभ्यम् ।
अर्घो नमो भवतु मे सह तेन यूना
मिथ्यापवादवचसाप्यभिमानसिद्धिः ॥ १४.१२८ ॥

नीलिमा रक्तिमा चेति रागोऽयं द्विविधो मतः ॥ १४.१२९ ॥

तत्र नीलिमा
नीलीश्यामाभवो रागो नीलिमा कथ्यते बुधैः ॥ १४.१३० ॥

तत्र नीलीरागः
व्ययसम्भावनाहीनो बहिर्नातिप्रकाशवान् ।
स्वलग्नभावावरणो नीलीरागः सतां मतः ।
यथावलोक्यते चैष चन्द्रावलिमुकुन्दयोः ॥ १४.१३१ ॥

यथा
प्रसन्नविशदाशया विविधमुद्रया निर्मितं
प्रतारणमपि त्वया गुणतया सदा गृह्णती ।
तथा व्यवजहार सा व्रजकुलेन्द्र चन्द्रावली
सखीभिरपि तर्किता त्वयि यथा तटस्थेत्यसौ ॥ १४.१३२ ॥

अथ श्यामारागः
भीरुतौषधिसेकादिराद्यात्किञ्चित्प्रकाशभाक् ।
यश्चिरेणैव साध्यः स्यात्स श्यामाराग उच्यते ॥ १४.१३३ ॥

यथा
पुरा कुञ्जे मञ्जुन्यवतमसयुक्तेऽपि चकिता
मुरारेर्या पार्श्वे न तरुणि दिवाप्यन्तरमगात् ।
तमालैः सैवाद्य द्विगुणिततमिस्रेऽपि मुदिता
तमिस्रार्धे मानिन्यहह भवती तं मृगयते ॥ १४.१३४ ॥

अथ रक्तिमा
रागः कुसुम्भमञ्जिष्ठासम्भवो रक्तिमा मतः ॥ १४.१३५ ॥

तत्र कुसुम्भरागः
कुसुम्भरागः स ज्ञेयो यश्चित्ते सज्जति द्रुतम् ।
अन्यरागच्छविव्यञ्जी शोभते च यथोचितम् ॥ १४.१३६ ॥

यथा
त्वय्येव श्रवणावधि प्रियसखी या कृष्णबद्धान्तरा
या दृष्टे भुजगेऽपि तावकभुजासाम्यात्प्रमोदोन्मदा ।
प्रेक्ष्य त्वां पुरतोऽद्य कामपि दशां प्रातास्ति सेयं तथा
न ज्ञायेत यथा किमेष बलवान् रागो विरागोऽथवा ॥ १४.१३७ ॥

सदाधारविशेषेषु कौसुम्भोऽपि स्थिरो भवेत् ।
इति कृष्णप्रणयिषु म्लानिरस्य न युज्यते ॥ १४.१३८ ॥

अथ मञ्जिष्ठरागः
अहार्योऽनन्यसापेक्षो यः कान्त्या वर्द्धते सदा ।
भवेन्माञ्जिष्ठरागोऽसौ राधामाधवयोर्यथा ॥ १४.१३९ ॥

यथा
धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते
सूतेऽत्याहितसञ्चयैरपि रसं ते चेन्मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरां
राधामाधवयोरयं निरुपमः प्रेमानुबन्धोत्सवः ॥ १४.१४० ॥

यथा वा विदग्धमाधवे (३.१७)
मया ते निर्बन्धान्मुरजयिनि रागः परिहृत्य
मयि स्निग्धे किन्तु प्रथय परमाशीस्ततिमिमाम् ।
मुखामोदोद्गारग्रहिलमतिरद्यैव हि यतः
प्रदोषारम्भे स्यां विमलवनमालामधुकरी ॥ १४.१४१ ॥

पूर्वपूर्वस्तु यो भावः सोमाभादौ स राजते ।
तथा भीष्मसुतादौ च श्रीहरेर्महिषीगणे ॥ १४.१४२ ॥
य उत्तरोत्तरो द्वियो राधिकादौ स दीव्यति ।
तथा श्रीसत्यभामायां लक्ष्मणायामपि क्वचित् ॥ १४.१४३ ॥
इत्थं भेदेन भावानां सर्वगोकुलसुभ्रुवाम् ।
आत्मपक्षविपक्षादिभेदाः पूर्वमुदीरिताः ॥ १४.१४४ ॥
या भावान्तरसम्बन्धाज्जायन्ते विविधा भिदाः ।
अपरा अपि भावानां ज्ञेयास्ताः प्रज्ञया बुधैः ॥ १४.१४५ ॥

अथ अनुरागः
सदानुभूतमपि यः कुर्यान्नवनवं प्रियम् ।
रागो भवन्नवनवः सोऽनुराग इतीर्यते ॥ १४.१४६ ॥

यथा दानकेलिकौमुद्याम् (२८)
प्रपन्नः पन्थानं हरिरसकृदस्मन्नयनयोर्
अपूर्वोऽयं पूर्वं क्वचिदपि न दृष्टो मधुरिमा ।
प्रतीकेऽप्येकस्य स्फुरति मुहुरङ्गस्य सखि या
श्रियस्तस्याः पातुं लवमपि समर्था न दृगियम् ॥ १४.१४७ ॥

यथा वा
कोऽयं कृष्ण इति व्युदस्यति धृति यस्तन्वि कर्णं विशन्
रागान्धे किमिदं सदैव भवती तस्योरसि क्रीडति ।
हास्यं मा कुरु मोहिते त्वमधुना न्यस्तास्य हस्ते मया
सत्यं सत्यमसौ दृगङ्गनमगादद्यैवअ विद्युन्निभः ॥ १४.१४८ ॥

परस्परवशीभावः प्रेमवैचित्त्यकं तथा ।
अप्राणिन्यपि जन्माप्तौ लालसाभर उन्नतः ।
विप्रलम्भेऽस्य विस्फूर्तिरित्याद्याः स्युरिह क्रियाः ॥ १४.१४९ ॥

अत्र परस्परवशीभावो, यथा
समारम्भं पारस्परिकविजयाय प्रथन्नतो
रपूर्वा केयं वामघदमन संरम्भलहरी ।
मनोहस्ती बन्धस्तव यदनया रागनिगडै
स्त्वअयाप्यस्याः प्रेमोत्सवनवगुणैश्चित्तहरिणः ॥ १४.१५० ॥

प्रेमवैचित्त्यसंज्ञस्तु विप्रलम्भः स कथ्यते ॥ १४.१५१ ॥

अप्राणिन्यपि जन्मलालसाभरो, यथा दानकेलिकौमुद्याम् (१७)
तपस्यामह्क्षामोदरि वरयितुं वेनुषु जनुर्
वरेण्यं मन्येथाः सखि तदखिलानां सुजनुषाम् ।
तपह्स्तोमेनोच्चैर्यदियमुरर्ञ्कृत्य मुरली
मुरारातेर्बिम्बाधरमधुरिमानं रसयति ॥ १४.१५२ ॥

अथ विप्रलम्भे विस्फूर्तिर्, यथा
ब्रूयास्त्वं मथुराध्वनीन मथुरानाथं तमित्युच्चकैः
सन्देशं व्रजसुन्दरी कमपि ते काचिन्मया प्राहिणोत् ।
तत्र क्ष्मापतिपत्तने यदि गतः स्वच्छन्द गच्छाधुना
किं क्लिष्टामपि विस्फुरन् दिशि दिशि क्लिश्नासि हा मे सखीम् ॥ १४.१५३ ॥
अथ भावः
अनुरागः स्वसंवेद्यदशां प्राप्य प्रकाशितः ।
यावदाश्रयवृत्तिश्चेद्भाव इत्यभिधीयते ॥ १४.१५४ ॥

यथा
राधाया भवतश्च चित्तजतुनी स्वेदैर्विलाप्य क्रमात्
युञ्जन्नद्रिनिकुञ्जकुञ्जरपते निर्धूतभेदभ्रमम् ।
चित्राय स्वयमन्वरञ्जयदिह ब्रह्माण्डहर्म्योदरे
भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारुः कृती ॥ १४.१५५ ॥

मुकुन्दमहिषीवृन्दैरप्यसावतिदुर्लभः ।
व्रजदेव्येकसंवेद्यो महाभावाख्ययोच्यते ॥ १४.१५६ ॥
वरामृतस्वरूपश्रीः स्वं स्वरूपं मनो नयेत् ॥ १४.१५७ ॥
स रूढश्चाधिरूढश्चेत्युच्यते द्विविधो बुधैः ॥ १४.१५८ ॥

तत्र रूढः
उद्दीप्ता सात्त्विका यत्र स रूढ इति भण्यते ॥ १४.१५९ ॥

निमेषासहतासन्नजनताहृद्विलोडनम् ।
कल्पक्षणत्वं खिन्नत्वं तत्सौख्येऽप्यार्तिशङ्कया ॥ १४.१६१ ॥
मोहाद्यभावेऽप्यात्मादिसर्वविस्मरणं सदा ।
क्षणस्य कल्पएत्याद्या यत्र योगवियोगयोः ॥ १४.१६२ ॥

तत्र निमेषासहता, यथा श्रीदशमे (१०.८२.३८)
गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं
यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।
दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास्
तद्भावमापुरपि नित्ययुजां दुरापम् ॥ १४.१६३ ॥

आसन्नजनताहृद्विलोडनं, यथा
सख्यः प्रोक्ष्य कुरून् गुरुक्षितिभृतामाघूर्णयन्ती शिरः
स्वस्था विश्लथयन्त्यशेषरमणीराप्लाव्य सर्वं जनम् ।
गोपीनामनुरागसिन्धुलहरी सत्यान्तरं विक्रमै
राक्रम्य स्तिमितां व्यधादपि परां वैकुण्ठकण्ठश्रियम् ॥ १४.१६४ ॥

कल्पक्षणत्वम्, यथा
शरज्ज्योत्स्नी रासे विधिरजनिरूपापि निमिषा
दतिक्षुद्रा तासां यदजनि न तद्विस्मयपदम् ।
सुखोत्सेकारम्भे निमिषलवकल्पामिव दशां
महाकल्पाकल्पाप्यहह लभते कालकलना ॥ १४.१६५ ॥

तत्सौख्येऽप्यार्तिशङ्कया खिन्नत्वम्, यथा श्रीदशमे (१०.३१.१९)
यत्ते सुजातचरणाम्बुरुहं स्तनेषु॑
भीताः शनैः प्रिय दधीमहि कर्कशेषु
तेनाटवीमटसि तद्व्यथते न किं स्वित्॑
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १४.१६६ ॥

मोहाद्यभावेऽपि सर्वविस्मरणं, यथा एकादशे (११.१२.१२)
ता नाविदन्मय्यनुषङ्गबद्ध
धियः स्वमात्मानमदस्तथेदम्
यथा समाधौ मुनयोऽब्धितोये
नद्यः प्रविष्टा इव नामरूपे ॥ १४.१६७ ॥

क्षणकल्पता, यथा तत्रैव (११.१२.११)
तास्ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण ।
क्षणार्धवत्ताः पुनरङ्ग तासां
हीना मया कल्पसमा बभूवुः ॥ १४.१६८ ॥

आद्यशब्दादिह प्रोक्ता कृष्णाविर्भावकारिता ।
सम्भोगभेदे विस्पष्टं सा पुरस्तात्प्रवक्ष्यते ॥ १४.१६९ ॥

अथ अधिरूढः
रूढोक्तेभ्योऽनुभावेभ्यः कामप्याप्ता विशिष्टताम् ।
यत्रानुभावा दृश्यन्ते सोऽधिरूढो निगद्यते ॥ १४.१७० ॥

यथा शिववाक्यम्
लोकातीअतमजाण्डकोटिगमपि त्रैकालिकं यत्सुखं
दुःखं चेति पृथग्यदि स्फुटमुभे ते गच्छतः कुटताम् ।
नैवाभासतुलां शिवे तदपि तत्कुटद्वयं राधिका
प्रेमोद्यत्सुखदुःखसिन्धुभवयोर्विन्देत बिन्द्वोरपि ॥ १४.१७१ ॥

मोदनो मादनश्चासावधिरूढो द्विधोच्यते ॥ १४.१७२ ॥

तत्र मोदनः
मोदनः स द्वयोर्यत्र सात्त्विकोद्दीप्तसौष्ठवम् ॥ १४.१७३ ॥

यथा ललितमाधवे (८.९)
आतन्वन् कलकण्ठनादमतुलं स्तम्भश्रियोज्जृम्भितो
भूयिष्ठोच्छलदङ्कुरः फलितवान् स्वेदाम्बुमुक्ताफलैः ।
उद्यद्बाष्पमरन्दभागविचलोऽप्युत्कम्पवान् विभ्रमै
राधामाधवयोर्विराजति चिरादुल्लासकल्पद्रुमः ॥ १४.१७४ ॥

हरेर्यत्र सकान्तस्य विक्षोभभरकारिता ।
प्रेमोरुसम्पद्विख्यातकान्तातिशयितादयः ॥ १४.१७५ ॥
राधिकायूथ एवासौ मोदनो न तु सर्वतः ।
यः श्रीमान् ह्लादिनीशक्तेः सुविलासः प्रियो वरः ॥ १४.१७६ ॥

तत्र सकान्तस्य हरेः क्षोभभरकारिता, यथा
हन्त स्तम्भकरम्बिता भुवि कुरोर्भद्रा सरस्वत्यभू
द्बाष्पं भास्करजा मुमोच तरसा सत्याभ्रमन्नर्मदा ।
भेजे भीष्मसुता च वर्णविकृतिं गाम्भीर्यभागप्यसौ
कृष्णोदन्वति राधिकाद्भुतनदीप्रेमोर्मिभिः संवृते ॥ १४.१७७ ॥

प्रेमोरुसम्पद्वतीवृन्दातिशयित्वं, यथा
अद्वैताद्गिरिजां हरार्धवपुषं सख्यात्प्रियोरःस्थितां
लक्ष्मीमच्युतचित्तभृङ्गनलिनीं सत्यां च सौभाग्यतः ।
माधुर्यान्मधुरेशजीवितसखीं चन्द्रावलीं च क्षिपन्
पश्यारुद्ध हरिं प्रसार्य लहरीं राधानुरागाम्बुधिः ॥ १४.१७८ ॥

मोदनोऽयं प्रविश्लेषदशायां मोहनो भवेत् ।
यस्मिन् विरहवैवश्यात्सूद्दीप्ता एव सात्त्विकाः ॥ १४.१७९ ॥

यथा
उद्यद्वेपथुवाद्यमानदशना कण्ठस्थलान्तर्लुठ
ज्जल्पा गोकुलमण्डलं विदधती बाष्पैर्नदीमातृकम् ।
राधा कण्टकितेन कण्टकिफलं गात्रेण धिक्कुर्वती
चित्रं तद्घनरागराशिभिरपि श्वेतीकृता वर्तते ॥ १४.१८० ॥

अत्रानुभावा गोविन्द कान्ताश्लिष्टेऽपि मूर्च्छना ।
असह्यदुःखस्वीकारादपि तत्सुखकामता ॥ १४.१८१ ॥
ब्रह्माण्डक्षोभकारित्वं तिरश्चामपि रोदनम् ।
स्वभूतैरपि तत्सङ्गतृष्णा मृत्युप्रतिश्रवात् ।
दिव्योन्मादादयोऽप्यन्ये विद्वद्भिरनुकीर्तिताः ॥ १४.१८२ ॥
प्रायो वृन्दावनेश्वर्यां मोहनोऽयमुदञ्चति ।
सम्यग्विलक्षणं यस्य कार्यं सञ्चारिमोहतः ॥ १४.१८३ ॥

तत्र कान्ताश्लिष्टेऽपि हरौ मूर्च्छाकारित्वं, यथा पद्यावल्याम् (३७१)
रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य ।
विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे
राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥ १४.१८४ ॥

असह्यदुःखस्वीकारात्तत्सुखकामता
स्यान्नः सौख्यं यदपि बलवद्गोष्ठमाप्ते मुकुन्दे
यद्यल्पापि क्षतिरुदयते तस्य मागात्कदापि ।
अप्राप्तेऽस्मिन् यदपि नगरादार्तिरुग्रा भवेन्नः
सौख्यं तस्य स्फुरति हृदि चेत्तत्र वासं करोतु ॥ १४.१८५ ॥

ब्रह्माण्डक्षोभकारित्वं, यथा
नारं चुक्रोश चक्रं फणिकुलमभवद्व्याकुलं स्वेदमूहे
वृन्दं वृन्दारकाणां प्रचुरमुदममुचन्नश्रु वैकुण्ठभाजः ।
राधायाश्चित्रमीश भ्रमति दिशि दिशि प्रेमनिःश्वासधूमे
पूर्णानन्देऽप्युषित्वा बहिरिदमबहिश्चार्तमासीदजाण्डम् ॥ १४.१८६ ॥

यथा वा
और्वस्तोमात्कटुरपि कथं दुर्बलेनोरसा मे
तापः प्रौढो हरिविरहजः सह्यते तन्न जाने ।
निष्क्रान्ता चेद्भवति हृदयाद्यस्य धूमच्छटापि
ब्रह्माण्डानां सखि कुलमपि ज्वालया जाज्वलीति ॥ १४.१८७ ॥

तिरश्चामपि रोदनम्, यथा पद्यावल्याम् (३७३)
याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया
कालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ १४.१८८ ॥

मृत्युस्वीकारात्स्वभूतैरपि तत्सङ्गतृष्णा, यथा तत्रैव (३३६)
पञ्चत्वं तनुरेतु भूतनिवहाउ स्वांशे विशन्तु स्फुटं
धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् ।
तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गन
व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ १४.१८९ ॥

अथ दिव्योन्मादः
एतस्य मोहनाख्यस्य गतिं कामप्युपेयुषः ।
भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥ १४.१९० ॥
उद्घूर्णाचित्रजल्पाद्यास्तद्भेदा बहवो मताः ॥ १४.१९१ ॥

तत्र उद्घूर्णा
स्याद्विलक्षणमुद्घूर्णा नानावैवश्यचेष्टितम् ॥ १४.१९२ ॥

यथा
शय्यां कुञ्जगृहे क्वचिद्वितनुते सा वाससज्जायिता
नीलाभ्रं धृतखण्डिता व्यवहृतिश्चण्डी क्वचित्तर्जति ।
आघूर्णत्यभिसारसम्भ्रमवती ध्वान्ते क्वचिद्दारुणे
राधा ते विरहोद्भ्रमप्रमथिता धत्ते न कां वा दशाम् ॥ १४.१९३ ॥

मथुरानगरं कृष्णे लब्धे ललितमाधवे ।
उद्घूर्णेयं तृतीयाङ्के राधायाः स्फुटमीरिता ॥ १४.१९४ ॥

अथ चित्रजल्पः
प्रेष्ठस्य सुहृदालोके गूढरोषाभिजृम्भितः ।
भूरिभावमयो जल्पो यस्तीव्रोत्कण्ठितान्तिमः ॥ १४.१९५ ॥
चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् ।
विजल्पोज्जल्पसंजल्पा अवजल्पोऽभिजल्पितम् ।
आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्तिताः ॥ १४.१९६ ॥
एष भ्रमरगीताख्यो दशमे प्रकटीकृतः ॥ १४.१९७ ॥
असङ्ख्यभाववैचित्री चमत्कृतिसुदुस्तरः ।
अपि चेच्चित्रजल्पोऽयं मनाक्तदपि कथ्यते ॥ १४.१९८ ॥

तत्र प्रजल्पः
असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया ।
प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥ १४.१९९ ॥

यथा (१०.४७.१२)
मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १४.२०० ॥

अथ परिजल्पितम्
प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् ।
स्वविचक्षणताव्यक्तिर्भङ्ग्या स्यात्परिजल्पितम् ॥ १४.२०१ ॥

यथा (१०.४७.१३)
सकृदधरसुधां स्वां मोहिनीं पाययित्वा
सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।
परिचरति कथं तत्पादपद्मं नु पद्मा
ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥ १४.२०२ ॥

अथ विजल्पः
व्यक्तयासूयया गूढमानमुद्रान्तरालया ।
अघद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥ १४.२०३ ॥

यथा (१०.४७.१४)
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम्
अधिपतिमगृहाणामग्रतो नः पुराणम् ।
विजयसखसखीनां गीयतां तत्प्रसङ्गः
क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४.२०४ ॥

अथ उज्जल्पः
हरेः कुहकताख्यानं गर्वगर्भितयेर्ष्यया ।
सासूयश्च तदाक्षेपो धीरैरुज्जल्प ईर्यते ॥ १४.२०५ ॥

यथा (१०.४७.१५)
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः
कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।
चरणरज उपास्ते यस्य भूतिर्वयं का
अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः ॥ १४.२०६ ॥

अथ संजल्पः
सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया ।
तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो बुधैः ॥ १४.२०७ ॥

यथा (१०.४७.१६)
विसृज शिरसि पादं वेद्म्यहं चाटुकारैर्
अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।
स्वकृत इह विसृष्टापत्यपत्यन्यलोका
व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १४.२०८ ॥

अथ अवजल्पः
हरौ काठिन्यकामित्वधौर्त्यादासक्त्ययोग्यता ।
यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ॥ १४.२०९ ॥

यथा (१०.४७.१७)
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा
स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।
बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्
तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १४.२१० ॥
अथ अभिजल्पितम्
भङ्ग्या त्यागौचिती तस्य खगानामपि खेदनात् ।
यत्र सानुशयं प्रोक्ता तद्भवेदभिजल्पितम् ॥ १४.२११ ॥

यथा (१०.४७.१८)
यदनुचरितलीलाकर्णपीयूषविप्रुट्
सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।
सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना
बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १४.२१२ ॥

अथ आजल्पः
जैह्म्यं तस्यार्तिदत्वं च निर्वेदाद्यत्र कीर्तितम् ।
भङ्यान्यसुखदत्वं च स आजल्प उदीरितः ॥ १४.२१३ ॥
यथा (१०.४७.१९)
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः
कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः
ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र
स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १४.२१४ ॥

अथ प्रतिजल्पः
दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम् ।
दूतसम्माननेनोक्तं यत्र स प्रतिजल्पकः ॥ १४.२१५ ॥

यथा (१०.४७.२०)
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं
वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।
नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं
सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ १४.२१६ ॥

अथ सुजल्पः
यत्रार्जवात्सगाम्भीर्यं सदैन्यं सहचापलम् ।
सोत्कण्ठं च हरिः पृष्टः स सुजल्पो निगद्यते ॥ १४.२१७ ॥

यथा (१०.४७.२१)
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते
स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् ।
क्वचिदपि स कथां नः किङ्करीणां गृणीते
भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ १४.२१८ ॥

अथ मादनः
सर्वभावोद्गमोल्लासी मादनोऽयं परात्परः ।
राजते ह्लादिनीसारो राधायामेव यः सदा ॥ १४.२१९ ॥

यथा
आसृष्टेरक्षयिष्णुं हृदयविधुमणिद्रावणं वक्रिमाणं
पूर्णत्वेऽप्युद्वहन्तं निजरुचिघटया साध्वसं ध्वंसयन्तम् ।
तन्वानं शं प्रदोषे धृतनवनवतासम्पदं मादनत्वा
दद्वैतं नौमि राधादनुजविजयिनोरद्भुतं भावचन्द्रम्
॥ १४.२२० ॥

अत्रेर्ष्याया अयोग्येऽपि प्रबलेर्ष्याविधायिता ।
सदाभोगेऽपि तद्गन्धमात्राधारस्तवादयः ॥ १४.२२१ ॥

अथ अयोग्येऽपीर्ष्या, यथा दानकेलिकौमुद्याम् (९२)
विशुद्धाभिः सार्धं व्रजहरिणनेत्राभिरनिशं
त्वमद्धा विद्वेषं किमिति वनमाले रचयसि ।
तृणीकुर्वत्यस्मान् वपुरघरिपोराशिखमिदं
परिष्वज्यापाद महति हृदये या विहरसि ॥ १४.२२२ ॥

सदाभोगेऽपि तद्गन्धमात्राधारस्तुतिर्, यथा श्रीदशमे (१०.२१.१७)
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन
लिम्पन्त्य आननकुचेषु जुहुस्तदाधिम् ॥ १४.२२३ ॥

यथा वा
दुष्करं कतरदालि मालती
कोमलेयमकरोत्तपः पुरा ।
हन्त गोष्ठपतिनन्दनोपमं
या तमालममलोपगूहते ॥ १४.२२४ ॥

योग एव भवेदेष विचित्रः कोऽपि मादनः ।
यद्विलासा विराजन्ते नित्यलीलाः सहस्रधा ॥ १४.२२५ ॥
मादनस्य गतिः सुष्ठु मदनस्येव दुर्गमा ।
न निर्वक्तुं भवेच्छक्या तेनासौ मुनिनाप्यलम् ॥ १४.२२६ ॥

किं च
रागानुरागतामादौ स्नेहः प्राप्यैव सत्वरम् ।
मानत्वं प्रणयत्वं च क्वचित्पश्चात्प्रपद्यते ॥ १४.२२७ ॥
अतएवात्र शास्त्रेषु श्रूयते राधिकादिषु ।
पूर्वरागप्रसङ्गेऽपि प्रकटं रागलक्षणम् ॥ १४.२२८ ॥
स्फुरन्ति व्रजदेवीषु परा भावभिदाश्च याः ।
तास्तर्काय्गोचरत्या न सम्यगिह वर्णिताः ॥ १४.२२९ ॥
साधारण्यां रतावेव धूमायिततया मताः ।
ज्वलितास्तु रतिप्रेम्णोर्दीप्ताः स्नेहादिपञ्चसु ।
रूढे भावे तथोद्दीप्ताः सुदीप्ता मोहनादिषु ॥ १४.२३० ॥
इयं प्रायिकता किन्तु श्रेष्ठमध्यादिभारतः ।
देशकालजनादीनां क्वाप्येषां स्याद्विपर्ययम् ॥ १४.२३१ ॥
आद्या प्रेमान्तिमां तत्रानुरागान्तां समञ्जसा ।
रतिर्भावान्तिमां सीमां समर्थैव प्रपद्यन्ते ॥ १४.२३२ ॥
रतिर्नर्मवयस्यानामनुरागान्तिमां स्थितिम् ।
तेष्वेव सुबलादीनां भावान्तामेव गच्छति ॥ १४.२३३ ॥

इति श्रीश्रीउज्ज्वलनीलमणौ स्थायिभावप्रकरणम् ॥१४॥


अथ शृङ्गारभेदप्रकरणम्(१५)

स विप्रलम्भः सम्भोग इति द्वेधोज्ज्वलो मतः ॥ १५.१ ॥
तत्र विप्रलम्भः

यूनोरयुक्तयोर्भावो युक्तयोर्वा तयोर्मिथः ।
अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥ १५.२ ॥

तथा चोक्तम्
न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते ।
काषायिते हि वस्त्रादौ भूयानेवाभिवर्धते ॥ १५.३ ॥

पूर्वरागस्तथा मानः प्रेमवैचित्त्यमित्यपि ।
प्रवासश्चेति कथितो विप्रलम्भश्चतुर्विधः ॥ १५.४ ॥

तत्र पूर्वरागः

रतिर्या सङ्गमात्पूर्वं दर्शनश्रवणादिजा ।
तयोरुन्मीलति प्राज्ञैः पूर्वरागः स उच्यते ॥ १५.५ ॥

तत्र दर्शनात्
साक्षात्कृष्णस्य चित्रे च स्यात्स्वप्नादौ च दर्शनम् ॥ १५.६ ॥

तत्र साक्षात्, यथा पद्यावल्याम् (१५९)
इन्दीवरोदरसहोदरमेदुरश्रीर्
वासो द्रवत्कनकवृन्दनिभं दधानः ।
आमुक्तमौक्तिकमनोहरहारवक्षाः
कोऽयं युवा जगदनङ्गमयं करोति ॥ १५.७ ॥

चित्रे, यथा विदग्धमाधवे (२.२३)
शिशिरय दृशौ दृष्ट्वा दिव्यं किशोरमितीक्षितः
परिजल्पनगिरां विश्रम्भात्त्वं विलासफलाङ्कितः ।
शिव शिव कथं जानीमस्त्वामवक्रधियो वयं
निविडबडवावह्निज्वालाकलापविकासिनम् ॥ १५.८ ॥

स्वप्ने, यथा
स्वप्ने दृष्ट्वा सहचरि सरित्कासरी श्यामनीरा
तीरे तस्याः क्वणितमधुपा माधवईकुञ्जशाला ।
तस्यां कान्तं कपिशजघनो ध्वान्तराशिः शरीरी
चित्रं चन्द्रावलिमपि स मां पातुमिच्छन्नरौत्सीत् ॥ १५.९ ॥

अथ श्रवणम्
वन्दिदूतीसखीवक्त्राद्गीतादेश्च श्रुतिर्भवेत् ॥ १५.१० ॥
ततो वन्दिवक्त्रात्, यथा
पठति मगधराजनिर्जयार्थां
सखि विरुदावलिमत्र वन्दिवर्ये ।
वद कथमिव लक्ष्मणे तनुते
पुलककुलेन विलक्षणा किलासीत् ॥ १५.११ ॥

दूतीवक्त्रात्, यथा
आविष्कृते तव मुकुन्द मया प्रसङ्गे
तारावली पुलकिताङ्गलता नताक्षी ।
शुश्रूषुरप्यलघुगद्गदरुद्धकण्ठी
प्रष्टुं तवाक्षमत सा न कथाविशेषम् ॥ १५.१२ ॥

सखीवक्त्रात्, यथा
यावदुन्मदचकोरलोचना
मन्मुखात्तव कथामुपाशृणोत् ।
तावदञ्चति दिनं दिनं सखी
कृष्ण शारदनदीर्य तानवम् ॥ १५.१३ ॥

गीतात्, यथा
नयने प्रणयन्नुदश्रुणी
मम सद्यः सदसि क्षितीशितुः ।
उपवीणयति प्रवीणधीः
कमुदश्रुः सखि वैणिको मुनिः ॥ १५.१४ ॥

पुरोक्ता येऽभियोगाद्या हेतवो रतिजन्मनि ।
अत्र ते पूर्वरागेऽपि ज्ञेया धीरैर्यथोचितम् ॥ १५.१५ ॥
अपि माधवरागस्य प्राथम्ये सम्भवत्यपि ।
आदौ रागे मृगाक्षीणां प्रोक्ते स्याच्चारुताधिका ॥ १५.१६ ॥
अत्र सञ्चारिणो व्याधिः शङ्कासूया श्रमः क्लमः ।
निर्वेदौत्सुक्यदैन्यानि चिन्तानिद्राप्रबोधनम् ॥ १५.१७ ॥
विषादो जडतोन्मदो मोहमृत्यादयः स्मृताः ।
प्रौढः समञ्जसः साधारणश्चेति स तु त्रिधा ॥ १५.१८ ॥

तत्र प्रौढः
समर्थअरतिरूपस्तु प्रौढ इत्यभिधीयते ।
लालसादिरिह प्रौढे मरणान्ता दशा भवेत् ।
तत्तत्सञ्चारिभावानामुत्कटत्वादनेकधा ॥ १५.१९ ॥
तथापि प्राक्तनैरस्य दशावस्था समासतः ।
प्रोक्तास्तदनुरोधेन तासां लक्षणमुच्यते ॥ १५.२० ॥
लालसोद्वेगजागर्यास्तानवं जडिमात्र तु ।
वैयग्र्यं व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥ १५.२१ ॥
प्रौढत्वात्पूर्वरागस्य प्रौढाः सर्वा दशा अपि ॥ १५.२२ ॥

तत्र लालसः
अभीष्टलिप्सया गाढगृध्नुता लालसो मतः ।
अत्रौत्सुक्यं चपलता घूर्णाश्वासादयस्तथा ॥ १५.२३ ॥
यथा
त्वमवसितान्निष्क्रामन्ती पुनः प्रविशन्त्यसौ
झटिति घटिकामध्ये वाराञ्छतं व्रजसीमनि ।
अगणितगुरुत्रासा श्वासान् विमुच्य विमुच्य किं
क्षिपसि बहुशो नीपारण्ये किशोरि दृशोर्द्वयम् ॥ १५.२४ ॥

यथा वा विदग्धमाधवे (३.२४)
दूरादप्यनुषङ्गतः श्रुतिमिते त्वन्नामधेयाक्षरे
सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर्वेपथुम् ।
आः किं वा कथनीयमन्यदसिते दैवाद्वराम्भोधरे
दृष्टे तं परिरब्धुमुत्सुकमतिः पक्षद्वयीमिच्छति ॥ १५.२५ ॥

अथ उद्वेगः
उद्वेगो मनसः कम्पस्तत्र निःश्वासचापले ।
स्तम्भश्चिन्ताश्रुवैवर्ण्यस्वेदादय उदीरिताः ॥ १५.२६ ॥

यथा विदग्धमाधवे (२.२)
चिन्तासन्ततिरद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं
किंवा सिञ्चति ताम्रमम्बरमतिस्वेदाम्भसां डम्बरः ।
कम्पश्चम्पकगौरि लुम्पति वपुःस्थैर्यं कथं वा बलात्
तथ्यं ब्रूहि न मङ्गला परिजने सङ्गोपनाङ्गीकृतिः ॥ १५.२७ ॥

अथ जागर्या
निद्राक्षयस्तु जागर्या स्तम्भशोषगदादिकृत् ॥ १५.२८ ॥

यथा
श्यामं कञ्चन काञ्चनोज्ज्वलपटं सन्दर्श्य निद्रा क्षणं
मामाजन्म सखी विमुच्य चलिता रुष्टेव नावर्तते ।
चिन्तां प्रोह्य सखि प्रपञ्चय मतिं तस्यास्त्वमावर्तने
नान्यः स्वाप्निकतस्करोपहरणे शक्तो जनस्तां विना ॥ १५.२९ ॥

अथ तानवम्
तानवं कृशता गात्रे दौर्बल्यभ्रमणादिकृत् ॥ १५.३० ॥

यथा
च्युते वलयसञ्चये प्रबलरिक्ततादूषण
व्ययाय निहितोर्मिकावलिरपि स्खलत्यञ्जसा ।
निशम्य मुरलीकलं सखि सकृद्विशाखे तनु
स्तवासितचतुर्दशीशशिकला कृशत्वं ययौ ॥ १५.३१ ॥

कैश्चित्तु तानवस्थाने विलापः परिपठ्यते ॥ १५.३२ ॥

यथा
अत्रासीन्नवनीपभूरुहतटे कुर्वन् विहारं हरि
श्चक्रे ताण्डवमत्र मित्रसहितश्चण्डांशुजारोधसि ।
पश्यन्ती लतिकान्तरे क्षणमहं व्यग्रा निलीय स्थितं
सख्यः किं कथयामि दग्धविधिना क्षिप्तास्मि दावोपरि ॥ १५.३३ ॥

अथ जडिमा
इष्टानिष्टापरिज्ञानं यत्र प्रश्नेष्वनुत्तरम् ।
दर्शनश्रवणाभावो जडिमा सोऽभिधीयते ।
अत्राकाण्डेऽपि हुङ्कारस्तम्भश्वासभ्रमादयः ॥ १५.३४ ॥

यथा
अकाण्डे हुङ्कारं रचयसि शृणोषि प्रियसखी
कुलानां नालापं दृतिरिव मुहुर्निःश्वसिषि च ।
ततः शङ्के पङ्केरुहमुखि ययौ वैणवकला
मधुली ते पालि श्रुतिचषकयोः प्राघूणिकताम् ॥ १५.३५ ॥

अथ वैयाग्र्यम्
वैयाग्र्यं भावगाम्भीर्यविक्षोभासहतोच्यते ।
तत्राविवेकनिर्वेदखेदासूयादयो मताः ॥ १५.३६ ॥

यथा विदग्धमाधवे (२.१७)
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्तिलवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान्निष्क्रान्तिमाकाङ्क्षति ॥ १५.३७ ॥

अथ व्याधिः
अभीष्टालाभतो व्याधिः पाण्डिमोत्तापलक्षणः ।
अत्र शीतस्पृहामोहनिःश्वासपतनादयः ॥ १५.३८ ॥

यथा
दवदमनतया निशम्य भद्रा
मदनदवज्वलिता दधे हृदि त्वाम् ।
द्विगुणितदवथुव्यथाविदग्धा
मुरहर भस्ममयीव पाण्डुरासीत् ॥ १५.३९ ॥

अथ उन्मादः
सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा ।
अतस्मिंस्तु तदिति भ्रान्तिरुन्माद इति कीर्त्यते ।
अत्रेष्टद्वेषनिःश्वासनिमेषविरहादयः ॥ १५.४० ॥

यथा विदग्धमाधवे (२.३)
वितन्वानस्तन्वा मरकतरुचीनां रुचिवतां
पटान्निष्क्रान्तोऽभूद्धृतशिखण्डो नवयुवा ।
भ्रुवं तेन क्षिप्त्वा किमपि हसतोन्मादितमतेः
शशी वृत्तो वह्निः परमहह वह्निर्मम शशी ॥ १५.४१ ॥

अथ मोहः
मोहो विचित्तता प्रोक्तो नैश्चल्यपतनादिकृत् ॥ १५.४२ ॥

यथा
नासाश्वासपराङ्मुखी विघटिते दृष्टी स्नुषायाः कथं
हा धिक्कृष्णतिलान्ममार्पय करे कुर्यामपामार्जनम् ।
इत्यारोहति कर्णयोः परिसरं कृष्णेति कर्णद्वये
कम्पेनाच्युत तत्र सूत्रितवती त्वामेव हेतुं सखी ॥ १५.४३ ॥
अथ मृत्युः
तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः ।
कन्दर्पबाणकदनात्तत्र स्यान्मरणोद्यमः ॥ १५.४४ ॥
तत्र स्वप्रियवस्तूनां वयस्यासु समर्पणम् ।
भृङ्गमन्दानिलज्योत्स्नाकदम्बानुभवादयः ॥ १५.४५ ॥

यथा
राधा रोधसि रोपितां मुकुलिनीमालिङ्ग्य मल्लीलतां
हारं हीरमयं समर्प्य ललिताहस्ते प्रशस्तश्रियम् ।
मूर्च्छामाप्नुवती प्रविश्य मधुपैर्गीतां कदम्बाटवीं
नाम व्याहरता हरेः प्रियसखीवृन्देन सन्धुक्षिता ॥ १५.४६ ॥

यथा वा विदग्धमाधवे (२.४७)
अकारुण्यः कृष्णो यदि मयि तवागः कथमिदं
मुधा मा रोदीर्मे कुरु परमिमामुत्तरकृतिम् ।
तमालस्य स्कन्धे विनिहितभुजवल्लरिरियं
यथा वृन्दारण्ये चिरमविचला तिष्ठति तनुः ॥ १५.४७ ॥

अथ समञ्जसः
भवेत्समञ्जसरतिस्वरूपोऽयं समञ्जसः ॥ १५.४८ ॥
अत्राभिलाषचिन्तास्मृतिगुणसङ्कीर्तनोद्वेगाः ।
सविलापा उन्मादव्याधिजडता मृतिश्च ताः क्रमशः ॥ १५.४९ ॥

तत्र अभिलाषः
व्यवसायोऽभिलाषः स्यात्प्रियसङ्गमलिप्सया ।
स्वमण्डनान्तिकप्राप्तिरागप्रकटनादिकृत् ॥ १५.५० ॥

यथा
यदिह सखि सुभद्रासख्यमाख्याय धूर्ते
व्रजसि पितुरगाराद्देवेकीमन्दिराय ।
रचयसि बत सत्ये मण्डने च प्रयत्नं
स्फुटमजनि तदन्तर्वस्तु गूढं तवाद्य ॥ १५.५१ ॥

अथ चिन्ता
अभीष्टावाप्त्युपायानां ध्यानं चिन्ता प्रकीर्तिता ।
शय्याविवृत्तिनिःश्वासनिर्लक्षप्रेक्षणादिकृत् ॥ १५.५२ ॥

यथा
निःश्वासस्ते कमलवदने म्लापयत्योष्ठबिम्बं
शय्यायां च क्रशिमकलिता चेष्टते देहयष्टिः ।
द्वन्द्वं चाक्ष्णोर्विकिरति चिरं रुक्मिणि श्याम अम्भो
न श्वोभाविन्युपयमविधौ शोभते विक्रियेयम् ॥ १५.५३ ॥

अथ स्मृतिः
अनुभूतप्रियादीनामर्थानां चिन्तनं स्मृतिः ।
अत्र कम्पाङ्गवैवश्यबाष्पनिःश्वसितादयः ॥ १५.५४ ॥

यथा
प्लुतं पुरेणापां नयनकमलद्वन्द्वमभितो
धृतोत्कम्पं सात्राजिति कुचरथाङ्गद्वयमपि ।
श्लथारम्भं चैतद्भुजविसलयुगं तत्तव मन
स्तडागेऽस्मिन् कृष्णद्विरदपतिरन्तर्विहरति ॥ १५.५५ ॥

अथ गुणकीर्तनम्
सौन्दर्यादिगुणश्लाघा गुणकीर्तनमुच्यते ।
अत्र वेपथुरोमाञ्चकण्ठगद्गदिकादयः ॥ १५.५६ ॥

यथा
यान्त्यस्तृष्णापि युवतयो येषु घूर्णां भजन्ते
यान्याचम्य स्वयमपि भवान् रोमहर्षं प्रयाति ।
गन्धं तेषां तव मधुपते रूपसम्पन्मधूनां
दूरे विन्दन्मम न हि धृतिः चित्तभृङ्गस्तनोति ॥ १५.५७ ॥

षडुद्वेगादयः पूर्वं प्रौढे तस्मिन्नुदाहृताः ।
सामञ्जस्याद्रतेरत्र किन्तु ताः स्युर्यथोचितम् ॥ १५.५८ ॥

अथ साधारणः
साधारणरतिप्रायः साधारण इतीरितः ।
अत्र प्रोक्ता विलापान्ताः षड्दशान्ताश्च कोमलाः ॥ १५.५९ ॥

अथ अभिलाषो, यथा प्रथमस्कन्धे (१.१०.३०)
एताः परं स्त्रीत्वमपास्तपेशलं
निरस्तशौचं बत साधु कुर्वते ।
यासां गृहात्पुष्करलोचनः पतिर्
न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ १५.६० ॥

चिन्तादीनां तथान्यासामूह्या धीरैरुदाहृतिः ॥ १५.६१ ॥
पूर्वरागे प्रहीयेत कामलेखस्रगादिकम् ।
वयस्यादिकरेणात्र कृष्णेनास्य च कान्तया ॥ १५.६२ ॥

तत्र कामलेखः
स लेखः कामलेखः स्यात्यः स्वप्रेमप्रकाशकः ।
युवत्या यूनि यूना च युवत्यां संप्रहीयते ॥ १५.६३ ॥
निरक्षरः साक्षरश्च कामलेखो द्विधा भवेत् ॥ १५.६४ ॥

तत्र निरक्षरः
सुरक्तपल्लवमयश्चन्द्रार्धादिनखाङ्कभाक् ।
वर्णविन्यासरहितो भवेदेष निरक्षरः ॥ १५.६५ ॥

यथा
किसलयशिखरे विशाखिकाया
नखरशिखालिखितोऽयमर्धचन्द्रः ।
दधदिह मदनार्धचन्द्रभावं
हृदि मम हन्त कथं हठाद्विवेश ॥ १५.६६ ॥

अथ साक्षरम्
गाथामयी लिपिर्यत्र स्वहस्ताङ्कैष साक्षरः ॥ १५.६७ ॥

यथा जगन्नाथवल्लभे
सुइरं विज्झसि हिअअं लम्भै मअणो क्खु दुज्जसः बलिअम् ।
दीससि सअलदिसासुं दीसै मअणो ण कुत्ताबि ॥ १५.६८ ॥

(सुचिरं बिध्यसि हृदयं लभते मदनः खलु दुर्यशो बलीयः ।
दृश्यसे सकलदिशासु दृश्यते मदनो न कुत्रापि ॥)

बन्धोऽब्जतन्तुना रागः किं वा कस्तूरिकामसी ।
पृथुपुष्पदलं पत्रः मुद्राकृत्कुङ्कुमैरिह ॥ १५.६९ ॥

अथ माल्यार्पणम्
सुश्लिष्टां निजशिल्पकौशलभरव्याहारिणीमद्भुतां
गोष्ठाधीश्वरनन्दनं स्रजमिमां तुभ्यं सखि प्राहिणोत् ।
इत्याकर्ण्य गिरं सरोरुहदृशः स्वेदोदबिन्दूच्छला
दङ्गेभ्यः कुलधर्मधैर्यमभितः शङ्के बहिर्निर्ययौ ॥ १५.७० ॥

केचित्तु
नयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथ सङ्कल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाप ।
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ १५.७१ ॥
इत्याचक्षते ।

एवं क्रमेण विज्ञेयः पूर्वरागो हरेरपि ।
निदर्शनाय तत्रैकमुदाहरणमुच्यते ॥ १५.७२ ॥

यथा
उपारंसीद्वंशीकलपरिमलोल्लासरभसा
द्विसस्मार स्फारां विविधकुसुमाकल्परचनाम् ।
जहौ कृष्णस्तृष्णां सहचरचमूचारुचरिते
सखि त्वद्भ्रूव्यालीचुलुकितचलच्चित्तपवनः ॥ १५.७३ ॥

इति पूर्वरागः ।

अथ मानः

दम्पत्योर्भाव एकत्र सतोरप्यनुरक्तयोः ।
स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥ १५.७४ ॥
सञ्चारिणोऽत्र निर्वेदशङ्कामर्षाः सचापलाः ।
गर्वासूयावहित्थाश्च ग्लानिश्चिन्तादयोऽप्यमी ॥ १५.७५ ॥
अहेतोर्नेति नेत्युकेर्हेतोर्यन्मान उच्यते ।
अस्य प्रणय एव स्यान्मानस्य पदमुत्तमम् ॥ १५.७६ ॥

तत्र सहेतुः
हेतुरीर्ष्याविपक्षादेर्वैशिष्ट्ये प्रेयसा कृते ।
भावः प्रणयमुख्योऽयमीऋषामानत्वमृच्छति ॥ १५.७७ ॥

तथा चोक्तम् (शृङ्गारतिलक २.५३)
स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना ।
तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ १५.७८ ॥

अतएव हरिवंशे (२.६६.४, २.६५.५०)
रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव ।
भीतभीतोऽतिशनकैर्विवेश यदुनन्दनः ॥ १५.७९ ॥
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥ १५.८० ॥
इति ।

तत्रापि च सुसख्यादि हृदि यस्या विराजते ।
तस्या विपक्षवैशिष्ट्ये न स्यादेव सहिष्णुता ॥ १५.८१ ॥
अतः सत्यां विनान्यासां सुसख्यादेरभावतः ।
श्रुतेऽपि पारिजातस्य दाने मानो न चाभवत् ॥ १५.८२ ॥
श्रुतं चानुमितं दृष्टं तद्वैशिष्ट्यं त्रिधा मतम् ॥ १५.८३ ॥

अथ श्रवणम्
श्रवणं तु प्रियसखीशुकादीनां मुखाद्भवेत् ॥ १५.८४ ॥

तत्र सखीमुखात्, यथा
शशिमुखि मृषा जल्पं श्रुत्वा कठोरसखीमुखात्
प्रणयिनि हरौ मा विश्रम्भं कृथाः शिथिलं वृथा ।
परिहर मनःक्लान्तिं देवि प्रसीद मनोरमे
तव मुखमनालोच्य प्रेयान् वनेऽद्य विशीर्यति ॥ १५.८५ ॥

यथा वा
अहह गहना केयं वार्ता श्रुतौ पतिताद्य मे
विदितमनृतं हास्याद्ब्रूषे विमुञ्च कदर्थनाम् ।
सहचरि कुतो जीवत्यस्मिन् जनेऽपि जनार्दनो
द्युतरु कुसुमं तस्यै हा धिक्कृती वितरिष्यति ॥ १५.८६ ॥

शुकमुखा, यथा
आस्ते काचिद्दयितकलहा क्रूरचेताः सखी ते
कीरो वन्यः स्फुटमिह यया श्यामले पाठितोऽस्ति ।
अथ व्यर्थे विहगलपिते सुष्ठु विश्रम्भमाणा
मानारम्भे न कुरु हृदयं कातरोऽस्मि प्रसीद ॥ १५.८७ ॥

अनुमितिः
भोगाङ्कगोत्रस्खलनस्वप्नैरनुमितिस्त्रिधा ॥ १५.८८ ॥

अत्र भोगाङ्कः
भोगाङ्को दृश्यते गात्रे विपक्षस्य प्रियस्य च ॥ १५.८९ ॥

तत्र विपक्षगात्रे भोगाङ्कदर्शनं, यथा
कालिन्दीतटधूर्त चाटुभिरलं निद्रातु चन्द्रावली
खिन्नाक्षी क्षणमङ्गनादपसर क्रुद्धास्ति वृद्धा गृहे ।
किञ्चिद्बिम्बितधातुपत्रमकरीचित्रेण तत्राधुना
सर्वा ते ललिता ललाटफलकेनोद्घाटिता चातुरी ॥ १५.९० ॥

प्रियगात्रे भोगाङ्कदर्शनं, यथा विदग्धमाधवे (४.४०)
मुक्तान्तर्निमिषं मदीयपदवीमुद्वीक्षमाणस्य
जाने केशररेणुभिर्निपतितैः शोणीकृते लोचने ।
शीतैः काननवायुभिर्विरचितो बिम्बाधरे च व्रणः
सङ्कोचं त्यज देव दैवहतया न त्वं मया दूष्यसे ॥ १५.९१ ॥

तत्र गोत्रस्खलनम्
विपक्षसंज्ञयाह्वानमीर्ष्यातिशयकारणम् ।
आसां तु गोत्रस्खलनं दुःखदं मरणादपि ॥ १५.९२ ॥

तेन यथा बिल्वमङ्गले
राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममिहेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥ १५.९३ ॥

यथा वा
अहह विलसत्यग्रे चन्द्रावली विमलद्युतिः
कितव कलिता तारा सात्र त्वया क्व नु षोडशी ।
तिमिरमलिनाकार क्षिप्रं व्रजारुणमण्डला
मम सहचरी यावन्मन्युद्युतिं न विमुञ्चति ॥ १५.९४ ॥

अथ स्वप्नः
हरेर्विदूषकस्यापि स्वप्नः स्वप्नायितं मतः ॥ १५.९५ ॥

तत्र हरेः स्वप्नायितम्, यथा
शपे तुभ्यं राधे त्वमसि हृदये त्वं मम बहि
स्त्वमग्रे त्वं पृष्ठे त्वमिह भवने त्वं गिरिवने ।
इति स्वप्ने जल्पं निशि निशमयन्ती मधुरिपो
रभूत्तल्पे चन्द्रावलिरथ परावर्तितमुखी ॥ १५.९६ ॥

विदूषकस्य, यथा
अवञ्चि चटुपाटवैरघभिदाद्य पद्मासखी
ततस्त्वरय राधिकां किमिति माधवि ध्यायसि ।
निशम्य मधुमङ्गलादिति गिरं पुरः स्वप्नजां
विदूनवदना सखि ज्वलति पश्य चन्द्रावली ॥ १५.९७ ॥

अथ दर्शनम्, यथा
मिथ्या मा वद कन्दरे सम सखीं हित्वा त्वमेकाकिनीं
निष्क्रान्तः पृथुसम्भ्रमेण किमपि प्रख्यापयन् कैतवम् ।
दूरात्किञ्चिदञ्चितेन रसनाशब्देन सातङ्कया
निष्क्रम्याथ तया शठेन्द्र पुलिने दृष्टोऽसि राधासखः ॥ १५.९८ ॥

यथा वा
सहचरि परिगुम्फ्य प्रातरेवार्पितासीद्
ब्रजपतिसुतकण्ठे या मयोत्कण्ठयाद्य ।
अपि हृदि ललितायास्तस्थुषी हन्त हृन्मे
दहति दहनदीप्तिः पश्य गुञ्जावली सा ॥ १५.९९ ॥

अथ निर्हेतुः
अकारणाद्द्वयोरेव कारणाभासतस्तथा ।
प्रोद्यन् प्रणय एवायं व्रजेन्निर्हेतुमानताम् ॥ १५.१०० ॥
आद्यं मानं परीणामं प्रणयस्य जगुर्बुधाः ।
द्वितीयं पुनरस्यैव विलासभरवैभवम् ।
बुधैः प्रणयमानाख्यं एष एव प्रकीर्तितः ॥ १५.१०१ ॥

तथा चोक्तम् (सरस्वतीकण्ठाभरणे ५.४८)
अहेरिव गतिः प्रेम्णः स्वभावकुटिला भवेत् ।
अतो हेतोरहेतोश्च यूनोर्मान उदञ्चति ॥ १५.१०२ ॥

अवहित्थादयो ह्यत्र विज्ञेया व्यभिचारिणः ॥ १५.१०३ ॥

तत्र कृष्णस्य, यथा
अव्यक्तस्मितदृष्टिमर्पय पुरः स्वल्पोऽपि मन्तुर्न मे
पत्युर्वञ्चनपाटवाद्व्रजपते ज्योत्स्नीनिशार्धं ययौ ।
शुभ्रालङ्कृतिभिर्द्रुतं पथि मया दूरं ततः प्रस्थिते
सान्द्रा चान्द्रमरुन्ध बिम्बमचिरादाकस्मिकी कालिका ॥ १५.१०४ ॥

यथा वा
पुष्पेभ्यः स्पृहया विलम्बितवतीमालोक्य मामुन्मनाः
कंसारिः सखि लम्बिताननशशी तूष्णीं निकुञ्जे स्थितः ।
आतङ्केन मया तदङ्घ्रिनखरे क्षिप्ते प्रसूनाञ्जलौ
तस्यालीकरुषा भ्रुवं विभुजतोऽप्याविर्बभूव स्मितम् ॥ १५.१०५ ॥

कृष्णप्रियायाः, यथा उद्धवसन्देशे (४४)
तिष्ठन् गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते
जातोत्कण्ठस्तव सखि हरिर्देहलीवेदिकायाम् ।
मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी
स्वान्तं हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम् ॥ १५.१०६ ॥

यथा वा
अहमिह विचिनोमि त्वद्गिरैव प्रसूनं
कथय कथमकाण्डे चण्डि वाचं यमासि ।
विदितमुपधिनालं राधिके शाधि केन
प्रियसखि कुसुमेन श्रोत्रमुत्तंसयामि ॥ १५.१०७ ॥

द्वयोरेव युगपद्, यथा
कुञ्जे तुष्णीमसि नतशिराः किं चिरात्त्वं मुरारे
किं वा श्यामे त्वमपि विमुखी मौनमुद्रां तनोषि ।
ज्ञातं ज्ञातं स्मितविमुषिते कापि वामास्ति योग्या
क्रीडावादे बलवति यया न द्वयोरेव भङ्गः ॥ १५.१०८ ॥

यथा वा
कुञ्जद्वारि निविष्टयोस्तरणिजातीरे द्वयोरेव नौ
तत्रान्योन्यमपश्यतोः सखि मुधा निर्बन्धतः क्लान्तयोः ।
हस्ते द्रागथ दाडिमीफलमभिन्यस्ते मया निस्तलं
राधामुद्भिदुरस्मितां परिहसन् फुल्लाङ्गमालिङ्गिषम् ॥ १५.१०९ ॥

निर्हेतुकः स्वयं शाम्येत्स्वयंग्राहस्मिताविधिः ॥ १५.११० ॥

यथा
रोषस्तवाभूद्यदि राधिकेऽधिक
स्तथास्तु गण्डः कथमुच्छ्वसित्यसौ ।
स्वनर्मणेत्थं दुरपह्नवस्मितां
प्रियामचुम्बत्पशुपेन्द्रनन्दनः ॥ १५.१११ ॥

हेतुर्यस्तु शमं यथायोग्यं प्रकल्पितैः ।
सामभेदक्रियादाननत्युपेक्षारसान्तरैः ॥ १५.११२ ॥
मानोपशमनस्याङ्का बाष्पमोक्षस्मितादयः ॥ १५.११३ ॥

तत्र साम
प्रियवाक्यस्य रचनं यत्तु तत्साम गीयते ॥ १५.११४ ॥

यथा
जातं सुन्दरि तथय्मेव पृथुना राधेऽपराधेन मे
किन्तु स्वारसिको ममात्र शरणं स्नेहस्त्वदीयो बली ।
इत्याकर्ण्य गिरं हरेर्नतमुखी बाष्पाम्भसां धारया
सानङ्गोत्सवरङ्गमङ्गलघटो पूर्णावकार्षीत्कुचौ ॥ १५.११५ ॥

अथ भेदः
भेदो द्विधा स्वयं भङ्ग्या स्वमाहात्म्यप्रकाशनम् ।
सख्यादिभिरुपालम्भप्रयोगश्चेति कीर्त्यते ॥ १५.११६ ॥

तत्र भङ्ग्या स्वमाहात्म्यप्रकाशनं, यथा विदग्धमाधवे (४.४१)
चञ्चन्मीनविलोचनासि कमठोतकृष्टस्तनी सङ्गता
क्रोङेन स्फुरता तवायमधरः प्रह्लादसंवर्धनः ।
मध्योऽसौ बलिबन्धनो मुखरुचा रामास्त्वया निर्जिता
लब्धा श्रीघनताद्य मानिनि मनस्यङ्गीकृता कल्किता ॥ १५.११७ ॥

अथवेदं प्रियोक्तित्वात्सामोदाहरणं भवेत् ।
नायकस्य स्ववचसा भङ्ग्यायं भेद ईर्यते ॥ १५.११८ ॥

यथा
रूक्षा यन्मयि वर्तसे त्वमभितः स्निग्धेऽपि ते दूषणं
तत्रास्ते न हि किन्तु तत्किल ममानौचित्यजातं फलम् ।
येन स्वस्तरुणीरुपेक्ष्य चरमामप्याश्रयन्तीर्दशां
प्रेमार्तं व्रजयौवतं च सुमुखि त्वं केवलं सेव्यसे ॥ १५.११९ ॥

सख्यादिभिरुपालम्भप्रयोगो, यथा
कर्तुं सुन्दरि शङ्खचूडमथने नास्मिन्नुपेक्षोचिता
सर्वेषामभयप्रदानपदवीबद्धव्रते प्रेयसि ।
इत्यालीभिरलक्षितं मुरभिदा भद्रावली भेदिता
नासाग्रे वरमौक्तिकश्रियमधादस्रस्य सा बिन्दुना ॥ १५.१२० ॥

अथ दानम्
व्याजेन भूषणादीनां प्रदानं दानमुच्यते ॥ १५.१२१ ॥

यथा
कामो नाम सुहृन्ममास्ति भवतीमाकर्ण्य मत्प्रेयसीं
हारस्तेन तवार्पितोऽयमुरसि प्राप्नोतु सङ्गोत्सवम् ।
इत्युन्नम्य करं मुरद्विषि वदत्युद्भिन्नसान्द्रस्मिता
पद्मा मानविनिग्रहात्प्रणयिना तेनोद्भटं चुम्बिता ॥ १५.१२२ ॥

अथ नतिः
केवलं दैन्यमालम्ब्य पादपातो नतिर्मता ॥ १५.१२३ ॥

यथा
क्षितिलुठितशिखण्डापीडमारान्मुकुन्दे
रचयति रतिकान्तस्तोमकान्ते प्रणामम् ।
नयनजलधराभ्यां कुर्वती बाष्पवृष्टिं
वरतनुरिह मानग्रीष्मनाशं शशंस ॥ १५.१२४ ॥

अथ उपेक्षा
सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ।
उपेक्षा कथ्यते कैश्चित्तूष्णीम्भावतया स्थितिः ॥ १५.१२५ ॥

तद्द्वयं, यथा
सूनुर्वल्लभ एष वल्लवपतेस्तत्रापि वीराग्रणी
स्तत्रापि स्मरमण्डलीविजयिना रूपेण विभ्राजितः ।
सख्यः सम्प्रति रूक्षता पृथुरियं तेनात्र न श्रेयसे
दूरे पश्यत याति निष्ठुरमनाः का युक्तिरत्रोचिता ॥ १५.१२६ ॥

माने मुहुर्नितिभिरप्यतिदुर्निवारे
वाचंयमव्रतमहं तरसाग्रहीषम् ।
बाष्पं ततो विकिरती निजगाद पद्मा
पौष्पं रजः पतितमत्र दृशोर्ममेति ॥ १५.१२७ ॥

अथवा
प्रसादनविधिं मुक्त्वा वाक्यैरन्यार्थसूचकैः ।
प्रसादनं मृगाक्षीणामुपेक्षेति स्मृता बुधैः ॥ १५.१२८ ॥

यथा
धम्मिल्ले नवमालती परिचिता सव्ये च शब्दग्रहे
मल्ली सुन्दरि दक्षिणे तु कतरत्पुष्पं तव भ्राजते ।
आघ्रेयं परिचेतुमित्युपहिते व्याजेन नासापुटे
गण्डोद्यत्पुलका विहस्य हरिणा चन्द्रावली चुम्बिता ॥ १५.१२९ ॥

अथ रसान्तरम्
आकस्मिकभयादीनां प्रस्तुतिः स्याद्रसान्तरम् ।
यादृच्छिकं बुद्धिपूर्वमिति द्वेधा तदुच्यते ॥ १५.१३० ॥
तत्र यादृच्छिकम्
उपस्थितमकस्माद्यत्तद्यादृच्छिकमुच्यते ॥ १५.१३१ ॥

यथा
अपि गुरुभिरुपायैरद्य सामादिभिर्या
लवमपि न मृगाक्षी मानमुद्रामभाङ्क्षीत् ।
हरिमिह परिरेभे सा स्वयंग्राहमग्रे
नवजलधरनादैर्भीषिता पश्य भद्रा ॥ १५.१३२ ॥

यथा वा
उपायेषु व्यर्थोन्नतिषु बत सामादिषु सखे
सखीनां चातुर्ये गतवति च सद्यः शिथिलताम् ।
विशाखायाः कोपज्वरहरणमन्त्रप्रतिनिधिं
सचीत्कारं रूक्षस्वनितमकरोदुक्षदनुजः ॥ १५.१३३ ॥

अथ बुद्धिपूर्वम्
बुद्धिपूर्वं तु कान्तेन प्रत्युत्पन्नधिया कृतम् ॥ १५.१३४ ॥

यथा
पाणौ पञ्चमुखेन दुष्टकृमिणा दष्टोऽस्मि रोषादिति
व्याजात्कूणितलोचनं व्रजपतौ व्याभुज्य वक्त्रं स्थिते ।
सद्यः प्रोज्झितरोषवृत्तिरसकृत्किं वृत्तमित्याकुला
जल्पन्ती स्मितबन्धुरास्यममुना गान्धर्विका चुम्बिता ॥ १५.१३५ ॥

यथा वा
न्यस्तं दाम कृतागसाद्य हरिणा दृष्ट्वा पुरो राधया
क्षिप्तेनाभिहतः स तेन कपटी दुःखीव भुग्नाननः ।
मीलन्नेव निषेदिवान् भुवि ततः सद्यस्तया व्यग्रया
पाञिभ्यां धृतकन्धरः स्थितमुखो बिम्बोष्ठमस्याः पपौ
॥ १५.१३६ ॥

देशकालबलेनैव मुरलीश्रवणेन च ।
विनाप्युपायं मानोऽसौ लीयते व्रजसुभ्रुवाम् ॥ १५.१३७ ॥

तत्र देशबलेन, यथा
अलङ्कीर्णं चन्द्रावलिरलिघटाझङ्कृतिभरैः
पुरो वृन्दारण्यं किमपि कलयन्ती कुसुमितम् ।
हरिं च स्मेरास्यं प्रियकतरुमूले प्रियमितः
स्खलन्माना सख्यामदिशत सतृष्णं दृशमसौ ॥ १५.१३८ ॥

कालबलेन, यथा
शरदि मधुरमूर्तिः पश्य कान्तिच्छटाभिः
स्नपयति रविकन्यातीरवन्यां सुधांशुः ।
इति निशि निशमय्य व्याहृतिं दूतिकायाः
स्मितरुचिभिरतानीत्तत्र राधा प्रसादम् ॥ १५.१३९ ॥

मुरलीशब्देन, यथा
यदि रोषं न हि मुञ्चसि
न मुञ्च मम देवि नात्र निर्बन्धः ।
फुत्कृतिविधूतमानः
स भवतु विजयी हरेर्वेणुः ॥ १५.१४० ॥

यथा वा
मानस्योपाध्यायि प्रसीद सखि रुन्धि मे श्रुतिद्वन्द्वम् ।
अयमुच्चाटनमन्त्रं सिद्धो वेणुर्वने पठति ॥ १५.१४१ ॥

तारतम्यं तु मानस्य हेतोः स्यात्तारतम्यतः ।
स्याल्लघुर्मध्यमश्चासौ महिष्ठश्चेत्यतस्त्रिधा ॥ १५.१४२ ॥
सुसाध्यः स्याल्लघुर्मानो यत्नसाध्यस्य मध्यमः ।
दुःसाध्यः स्यादुपायेन महिष्ठः प्रेयसाप्ययम् ॥ १५.१४३ ॥
कृष्णे रोषोक्तयस्तासां वामो दुर्लीलशेखरः ।
कितवेन्द्रो महाधूर्तः कठोरो निरपत्रपः ॥ १५.१४४ ॥
अतिदुर्ललितो गोपीभुजङ्गो रतहिण्डकः ।
गोपिकाधर्मविध्वंसी गोपसाध्वीविडम्बकः ॥ १५.१४५ ॥
कामुकेशस्तमिस्रौघः श्यामात्माम्बरतस्करः ।
गोवर्धनतटारण्यबाटपाटच्चरादयः ॥ १५.१४६ ॥

इति मानः ।


अथ प्रेमवैचित्त्यम्

प्रियस्य सन्निकर्षेऽपि प्रेमोन्मादभ्रमाद्भवेत् ।
या विश्लेषधियार्तिस्तत्प्रेमवैचित्त्यमुच्यते ॥ १५.१४७ ॥

यथा
आभीरेन्द्रसुते स्फुरत्यपि पुरस्तीव्रानुरागोत्थया
विश्लेषज्वरसम्पदा विवशधीरत्यन्तमुद्घूर्णिता ।
कान्तं मे सखि दर्शयेति दशनैरुद्गूर्णशस्याङ्कुरा
राधा हन्त तथा व्यचेष्टते यतः कृष्णोऽप्यभूद्विस्मितः ॥ १५.१४८ ॥

यथा वा विदग्धमाधवे (५.४६)
समजनि दवाद्वित्रस्तानां किमार्तरवो गवां
मयि किमभवद्वैगुण्यं वा निरङ्कुशमीक्षितम् ।
व्यरचि निभृतं किं वाहूतिः कयाचिदभीष्टया
यदिह सहसा मामत्याक्षीद्वने वनजेक्षणः ॥ १५.१४९ ॥

विलासमनुरागस्तु कुत्रचित्कमपि व्रजम् ।
पार्श्वे सन्तमपि प्रेष्ठं हारितं कुरुते स्फुटम् ॥ १५.१५० ॥
सुष्ठूदाहरता पट्टमहिषीगीतविभ्रमम् ।
स्पष्टं मुक्ताफले चैतद्वोपदेवेन वर्णितम् ॥ १५.१५१ ॥

इति प्रेमवैचित्त्यम्


अथ प्रवासः

पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः ।
व्यवधानं तु यत्प्राज्ञैः स प्रवास इतीर्यते ॥ १५.१५२ ॥
तज्जन्यविप्रलम्भोऽयं प्रवासत्वेन कथ्यते ।
हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥ १५.१५३ ॥
शृङ्गारयोग्याः सर्वेऽपि प्रवासे व्यभिचारिणः ।
स द्विधा बुद्धिपूर्वः स्यात्तथिअवाबुद्धिपूर्वकः ॥ १५.१५४ ॥
अत्र बुद्धिपूर्वः
दूरे कार्यानुरोधेन गमः स्याद्बुद्धिपूर्वकः ।
कार्यं कृष्णस्य कथितं स्वभक्तप्रीणनादिकम् ॥ १५.१५५ ॥
किञ्चिद्दूरे सुदूरे च गमनादप्ययं द्विधा ॥ १५.१५६ ॥

तत्र आद्यः
दृष्टिं निधाय सुरभीनिकुरम्बवीथ्यां
कृष्णेति वर्णयुगलाभ्यसेन रसज्ञाम् ।
शुश्रूषणे मुरलिनिस्वनितस्य कर्णौ
चित्तं मुखे तव नयत्यहरद्य राधा ॥ १५.१५७ ॥

अथ द्वितीयः
भावी भवंश्च भूतश्च तिर्विधः स तु कीर्त्यते ॥ १५.१५८ ॥

तत्र भावी, यथा उद्धवसन्देशे (६७)
एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन्
बाले प्रातो नगरगतये घोषणामातनोति ।
दुष्टं भूयः स्फुरति च बलादीक्षणं दक्षिणं मे
तेन स्वान्तं स्फुटति चटुलं हन्त भाव्यं न जाने ॥ १५.१५९ ॥

भवन्, यथा ललितमाधवे (३.७)
भानोर्बिम्बे त्वरितमुदयप्रस्थतः प्रस्थितेऽसौ
यात्रानन्दीं पठति मुदितः स्यन्दने गान्दिनेयः ।
तावत्तूर्णं स्फुट खुरपुटैः क्षौणिपृष्टं खनन्तो
यावन्नामी हृदय भवतो घोटकाः स्फोटका स्युः ॥ १५.१६० ॥

भूतो, यथा उद्धवसन्देशे (८५)
कामं दूरे सहचरि वरीवर्ति यत्कंसवैरी
न इदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति ।
आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे
सोऽयं पीडां निविडवडवावह्नितीव्रस्तनोति ॥ १५.१६१ ॥

अत्र श्रीयदुसिंहेन प्रेयसीहिरमुष्य च ।
प्रेषणं क्रियते प्रेम्णा सन्देशस्य परस्परम् ॥ १५.१६२ ॥

यथा उद्धवसन्देशे (११५)
सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा
तीव्रोत्तापं हतमनसिजोद्दामविक्रान्तचक्रम् ।
द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये
यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम् ॥ १५.१६३ ॥

तथा पद्यावल्याम् (३७६)
कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।
सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥ १५.१६४ ॥

अथ अबुद्धिपूर्वः
पारत्न्त्र्योद्भवो यस्तु प्रोक्तः सोऽबुद्धिपूर्वकः ।
दिव्यादिव्यादिजनितं पारतन्त्र्यमनेकधा ॥ १५.१६५ ॥

यथा ललितमाधवे (२.२७)
आनीतासि मया मनोरथशतव्यग्रेण निर्बन्धतः
पूर्णं शारदपुर्णिमापरिमलैर्वृन्दाटवीमण्डलम् ।
सद्यः सुन्दरि शङ्खचूडकपटप्राप्तोदयेनाधुना
दैवेनाद्य विरोधिना कथमितस्त्वं हन्त दूरीकृता ॥ १५.१६६ ॥

चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता ।
प्रलापो व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥ १५.१६७ ॥

तत्र चिन्ता, यथा हंसदूते (२)
यदा यातो गोपीहृदयमदनो नन्दसदनान्
मुकुन्दो गान्दिन्यास्तनयमनुविन्दन्मधुपुरीम् ।
तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्
अगाधायां बाधामयपयसि राधा विरहिणी ॥ १५.१६८ ॥

अथ जागरः, यथा पद्यावल्यां (३२२)
याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः ।
अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी ॥ १५.१६९ ॥

अथ उद्वेगः, यथा हंसदूते (१०४)
मनो मे हा कष्टं ज्वलति किमहं हन्त करवै
न पारं नावारं किमपि कलयाम्यस्य जलधेः ।
इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां
परामृष्ये यस्माद्धृतिकणिकयापे क्षणिकया ॥ १५.१७० ॥

अथ तानवं, यथा
उदञ्चद्वक्त्राम्भोरुहविकृतिरन्तःकलुषिता
सदाहाराभावग्लपितकुचकोका यदुपते ।
विशुष्यन्ती राधा तव विरहतापादनुदिनं
निदाघे कुल्येव क्रशिमपरिपाकं प्रथयति ॥ १५.१७१ ॥

अथ मलिनाङ्गता
हिमविसरविशीर्णाम्भोजतुल्याननश्रीः
खरमरुदपरज्यद्बन्धुजीवोपमौष्ठी ।
अघहर शरदर्कोत्तापितेन्दीवराक्षी
तव विरहविपत्तिम्लापितासीद्विशाखा ॥ १५.१७२ ॥

अथ प्रलापः, यथा ललितमाधवे (३.२५)
क्व नन्दकुलचन्द्रमाः क्व शिखिचन्द्रकालङ्कृतिः
क्व मन्द्रमुरलीरवः क्व नु सुरेन्द्रनीलद्युतिः
क्व रासरसताण्डवी क्व सखि जीवरक्षौषधिर्
निधिर्मम सुहृत्तमः क्व बत हन्त हा धिग्विधिम् ॥ १५.१७३ ॥

अथ व्याधिः, यथा तत्रैव (३.२८)
उत्तापी पुटपाकतो ‘पि गरलग्रामादपि क्षोभणो
दम्भोलेरपि दुःसहः कटुरलं हृन्मग्नशूल्यादपि
तीव्रः प्रौढविसूचिकानिचयतो ‘प्युच्चैर्ममायं बली
मर्माण्यद्य भिनत्ति गोकुलपतेर्विश्लेषजन्मा ज्वरः ॥ १५.१७४ ॥

अथ उन्मादः
भ्रमति भवनगर्भे निर्निमित्तं हसन्ती
प्रथयति तव वार्तां चेतनाचेतनेषु ।
लुत्ःति च भुवि राधा कम्पिताङ्गी मुरारे
विषमविरहखेदोद्गारिविभ्रान्तचित्ता ॥ १५.१७५ ॥

यथा वा
अद्याकाण्डिकमट्टहासपटलं निर्माति घर्माम्बुभाक्
चीत्कारं कुरुते चमत्कृतिपरा सोत्कण्ठमाकस्मिकम् ।
आक्रन्दं वितनोति घर्घरघनोद्घोषं किलातर्कितं
राधा माधवविप्रयोगरभसादन्येव तीव्रादभूत् ॥ १५.१७६ ॥

अथ मोहः
निरुन्धे दैन्याब्धिं हरति गुरुचिन्ता परिभवं
विलुम्पत्युन्मादं स्थगयति बलाद्बाष्पलहरीम् ।
इदानीं कंसारे कुवलयदृशः केवलमिदं
विधत्ते साचिव्यं तव विरहमूर्च्छासहचरी ॥ १५.१७७ ॥

अथ मृत्युः, यथा हंसदूते (९६)
अये रासक्रीडारसिक मम सख्यां नवनवा
पुरा बद्धा येन प्रणयलहरी हन्त गहना ।
स चेन्मुक्तापेक्षस्त्वमपि धिगिमां तुलशकलं
यदेतस्या नासानिहितमिदमद्यापि चलति ॥ १५.१७८ ॥

प्रवासविप्रलम्भेऽस्मिन् दशास्तास्ता हरेरपि ।
अत्रोपलक्षणायैकमुदाहरणमीर्यते ॥ १५.१७९ ॥

यथा
क्रीडारत्नगृहे विडम्बितपयःफेनावलीमार्दने
तल्पे नेच्छति कल्पशाखिचमरीरम्येऽपि राज्ञां सुताः ।
किन्तु द्वारवतीपतिर्व्रजगिरिद्रोणीविलान्तःशिला
पर्यङ्कोपरि राधिकारतिकलां ध्यायन्मुहुः क्लाम्यति ॥ १५.१८० ॥

प्रोक्तानां प्रेमभेदानां विविधत्वाद्दशा अपि ।
विविधाः स्युरिहेत्येता भूमभीत्या न कीर्तिताः ॥ १५.१८१ ॥
एतास्तु प्रेमभेदानामनुभावतया दशाः ।
साधारण्यः समस्तानां प्रायशः सम्भवन्त्यपि ॥ १५.१८२ ॥
किन्त्वत्रैवाधिरूढस्य मोहनत्वमपेयुषः ।
असाधारणरूपास्तु तत्प्रसङ्गे पुरोदिताः ॥ १५.१८३ ॥
विप्रलम्भं परं केचित्करुणाभिधमुचिरे ।
स प्रवासविशेषत्वान्नैवात्र पृथगीरितः ॥ १५.१८४ ॥

इति विप्रलम्भभेदाः
अथ संयोगवियोगस्थितिः

हरेर्लीलाविशेषस्य प्रकटस्यानुसारतः ।
वर्णिता विरहावस्था गोष्ठवामभ्रुवामसौ ॥ १५.१८५ ॥
वृन्दारण्ये विहरता सदा रासादिविभ्रमैः ।
हरिणा व्रजदेवीनां विरहोऽस्ति न कर्हिचित् ॥ १५.१८६ ॥

तथा च पाद्मे पातालखण्डे मथुरामाहात्म्ये
गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा ॥ १५.१८७ ॥
इति ।

इति संयोगवियोगस्थितिः


अथ सम्भोगः

दर्शनालिङ्गनादीनां आनुकूल्यान्निषेवया ।
यूनोरुल्लासमारोहन् भावः सम्भोग उच्यते ॥ १५.१८८ ॥
मनीषिभिरयं मुखो गौणश्चेति द्विधोदितः ॥ १५.१८९ ॥

तत्र मुख्यः
मुख्यो जाग्रदवस्थायां सम्भोगः स चतुर्विधः ॥ १५.१९० ॥
तान् पूर्वरागतो मानात्प्रवासद्वयतः क्रमात् ।
जातान् संक्षिप्तसङ्कीर्णसम्पन्नर्द्धिमतो विदुः ॥ १५.१९१ ॥

तत्र सङ्क्षिप्तः
युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः ।
उपचारान्निषेवेते स संक्षिप्त इतीरितः ॥ १५.१९२ ॥

तत्र नायकेन कृतः, यथा सप्तशत्याम्
लीलाहितुलिअसेलो रक्खौ वो राहिआत्थणप्फंसे ।
हरिणो पढमसमागमसज्झसबेबेल्लिओ हत्थो ॥ १५.१९३ ॥
(लीलाभितुलितशैलो रक्षतु वो राधिकास्तनस्पर्शे ।
हरेः प्रथमसमागमसाध्वसवेवेल्लितो हस्तः ॥)

नायिकायाः, यथा
चुम्बे पटावृतमुखी नवसङ्गमेऽभू
दालिङ्गने कुटिलिताङ्गलता तदासीत् ।
अव्यक्तवागजनि केलिकथासु राधा
मोदं तथापि विदधे मधुसूदनस्य ॥ १५.१९४ ॥

अथ सङ्कीर्णः
यत्र सङ्कीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः ।
उपचाराः स सङ्कीर्णः किञ्चित्तप्तेक्षुपेशलः ॥ १५.१९५ ॥

यथा
सासूयजल्पितसुधानि समत्सराणि
मनोपरामरमणीयदृगिङ्गितानि ।
कंसद्विषः स्फुरदमन्दमुखान्यनङ्ग
विक्रीडितानि सह राधिकया जयन्ति ॥ १५.१९६ ॥

यथा वा
वक्त्रं किञ्चिदवाञ्चितं विवृणुते नातिप्रसादोदयं
दृष्टिर्भुग्नतटा व्यनक्ति शनकैरीर्ष्यावशेषच्छटाम् ।
राधायाः सखि सूचयत्यविशदा वागप्यसूयाकलां
मानन्तं ब्रुवती तथापि मधुरा कृष्णं धिनोत्याकृतिः ॥ १५.१९७ ॥

अथ सम्पन्नः
प्रवासात्सङ्गते कान्ते भोगः सम्पन्न ईरितः ।
द्विधा स्यादागतिः प्रादुर्भावश्चेति स सङ्गमः ॥ १५.१९८ ॥

तत्र आगतिः
लौकिकव्यवहारेण स्यादागमनमागतिः ॥ १५.१९९ ॥

यथा उद्धवसन्देशे (४०)
मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या
देहि क्लान्ता दिवसमखिलं हन्त विश्लेषतोऽसि ।
एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी
हारी गुञ्जावलिभिरलिभिर्लीढगन्धो मुकुन्दः ॥ १५.२०० ॥

अथ प्रादुर्भावः
प्रेष्ठानां प्रेमसंरम्भविह्वलानां पुरो हरिः ।
आविर्भवत्यकस्माद्यत्प्रादुर्भावः स उच्यते ॥ १५.२०१ ॥

यथा श्रीदशमे (१०.३२.२)
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ १५.२०२ ॥

यथा वा हंसदूते (१०७)
अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा
दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया ।
वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका
दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥ १५.२०३ ॥

रूढाख्यभावजातोऽयं सम्भोगो वैप्रलम्भिकः ।
निर्भरानन्दपुराणां परमावधिरिष्यते ॥ १५.२०४ ॥
द्विगुणा विरहार्तिः स्यात्स्फुरणे वेणुरागजे ।
प्रादुर्भावे भवत्यत्र सर्वाभीष्टसुखोत्सवः ॥ १५.२०५ ॥

अथ समृद्धिमान्
दुर्लभालोकयोर्यूनोः पारतन्त्र्याद्वियुक्तयोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥ १५.२०६ ॥

यथा ललितमाधवे (७.१८)
दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया
सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया ।
कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती
सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः ॥ १५.२०७ ॥

यथा वा (८.१०)
तवात्र परिमृग्यता किमपि लक्ष्म साक्षादियं
मया त्वमुपसादिता निखिललोकलक्ष्मीरसि ।
यथा जगति चञ्चता चणकमुष्टिसम्पत्तये
जनेन पतिता पुरः कनकवृष्टिरासाद्यते ॥ १५.२०८ ॥

इति मधुररसपरिपाकविवेकः ।


अथ गौणसम्भोगः

छन्नप्रकाशभेदेन कैश्चिदेषां द्विरूपता ।
इष्टाप्यत्र न हि प्रोक्ता नात्युल्लासकरी यतः ॥ १५.२०९ ॥

अथ गौणः
स्वप्ने प्राप्तिविशेषोऽस्य हरेर्गौण इतीर्यते ।
स्वप्नो द्विधात्र सामान्यविशेषत्वेन कीर्तितः ॥ १५.२१० ॥
सामान्यः स तु यः पूर्वं कथितो व्यभिचारिषु ।
विशेषः खलु जागर्या निर्विशेषओ महाद्भुतः ॥ १५.२११ ॥
भावौत्कण्ठ्येमयो ह्येष चतुर्धा पूर्ववन्मतः ॥ १५.२१२ ॥

तत्र स्वप्ने सङ्क्षिप्तो, यथा
विहारं कुर्वाणस्तरणितनयातीरविपिने
नवाम्भोदश्रेणीमधुरिमविडम्बिद्युतिभरः ।
विदग्धानां चूडामणिरनुदिनं चुम्बति मुखं
मम स्वप्ने कोऽपि प्रियसखि बलीयान्नवयुवा ॥ १५.२१३ ॥

अथ स्वप्ने सङ्कीर्णो, यथा
सखि क्रुद्धा मा भूर्लघुरपि न दोषः सुमुखि मे
न मानाग्निज्वालामशमयमहं तामसमये ।
स धूर्तस्ते स्वप्ने रसवृष्टिं मयि तथा
यतो विस्तीर्णापि स्वयमियमयासीदुपशमम् ॥ १५.२१४ ॥

अथ स्वप्ने सम्पन्नः, यथा हंसदूते (१०५)
प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ
पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः ।
इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा
दिहायातो वृन्दावनभुवि कलान्मां रमयति ॥ १५.२१५ ॥

अथ स्वाप्नसमृद्धिमान्, यथा ललितमाधवे (७.११)
चिरादद्य स्वप्ने मम विविधयत्नादुपगते
प्रपेदे गोविन्दः सखि नयनयोरक्षणभुवम् ।
गृहीत्वा हा हन्त त्वरितमथ तस्मिन्नपि रथं
कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः ॥ १५.२१६ ॥

तुल्यस्वरूप एवायं प्रोद्यन् यूनोर्द्वयोरपि ।
ऊषानिरुद्धयोर्यद्वत्क्वचित्स्वप्नोऽप्यबाधितः ॥ १५.२१७ ॥
अतएव हि सिद्धानां स्वप्नेऽपि परमाद्भुते ।
प्राप्तानि मण्डनादीनि दृश्यन्ते जागरेऽपि च ॥ १५.२१८ ॥
व्यतीत्य तुर्यामपि संश्रितानां
तां पञ्चमीं प्रेममयीमवस्थाम् ।
न सम्भवत्येव हरिप्रियाणां
स्वप्नो रजोवृत्तिविजृम्भितो यः ॥ १५.२१९ ॥
इत्येष हरिभावस्य विलासः कोऽपि पेशल ।
चित्रस्वप्नमिवातन्वन् कृष्णः सङ्गमयत्यलम् ॥ १५.२२० ॥
अथैतेषु निरूप्यन्ते तद्विशेषाः सुपेशलाः ।
येऽनुभावदशामस्याः प्राप्नुवन्ति रतेः स्फुटम् ॥ १५.२२१ ॥
ते तु सन्दर्शनं जल्पः स्पर्शनं वर्त्मरोधनम् ।
रासवृन्दावन्क्रीडायमुनाद्यम्बुकेलयः ॥ १५.२२२ ॥
नौखेला लीलया चौर्यं घट्टः कुञ्जादिलीनता ।
मधुपानं वधूवेशधृतिः कपटसुप्तता ॥ १५.२२३ ॥
द्यूतक्रीडा पटाकृष्टिश्चुम्बाश्लेषौ नखार्पणम् ।
बिम्बाधरसुधापानः सम्प्रयोगादयो मताः ॥ १५.२२४ ॥

तत्र सन्दर्शनं, यथा ललितमाधवे (२.२६)
चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं
कुलस्थितिरलं तु मे मनसि तावदुन्मीलति ।
चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं
न यावदपरोक्षतामिदमपैति वक्त्राम्बुजम् ॥ १५.२२५ ॥

अथ जल्पः
जल्पः परस्परं गोष्ठी वितथोक्तिश्च कथ्यते ॥ १५.२२६ ॥

अत्र परस्परः गोष्ठी, यथा दानकेलिकौमुद्याम् (४२४३)
धर्षणे नकुलस्त्रीणां भुजङ्गेशः क्षमः कथम् ।
यदेता दशनैरेष दशन्नाप्नोति मङ्गलम् ॥ १५.२२७ ॥

अप्रौढद्विजराजराजदलिका लब्धा विभूतिं रुचां
नव्यामात्मनि कृष्णवर्त्मविलसद्दृष्टिर्विशाखाञ्चिता ।
कन्दर्पस्य विदग्धतां विदधति नेत्राञ्चलस्य त्विषा
त्वं राधे शिवमूर्तिरित्युरसि मां भोगीन्द्रमङ्गीकुरु ॥ १५.२२८ ॥

वितथोक्तिः, यथा तत्रैव (४४)
अस्मिन्नद्रौ कति न हि मया हन्त हारादिवित्तं
हारं हारं हरिणनयना ग्राहिता जैनदीक्षाम् ।
याः काकूक्तिस्थगितवदनाः पत्रदानेन दीनास्
तूर्णं दूरादनुजगृहिरे प्रौढवल्लीसखीभिः ॥ १५.२२९ ॥

अथ स्पर्शनम्, यथा
न कुरु शपथमस्य स्पर्शतो दूषितोच्चैर्
असि भुजभुजगेन त्वं भुजङ्गाधिपस्य ।
तनुरनुपमकम्पा स्वेदमभ्युद्गिरन्ती
कपटिनि परितस्ते पश्य रोमाञ्चितास्ति ॥ १५.२३० ॥
अथ वर्त्मरोधनं, यथा विदग्धमाधवे (६.१९)
परीतं शृङ्गेण स्फुटतरशिलाश्यामलरुचं
वलद्वेत्रं वंशव्यतिकरलसन्मेखलममुम् ।
अतिक्रम्योत्तुङ्गं धरणिधरमग्रे कथमितस्
त्वया गन्तुं शक्या तरणिदुहितुस्तीरसरणी ॥ १५.२३१ ॥

अथ रासो, यथा
हरिर्नवघनाकृतिः प्रतिवधूद्वयं मध्यतस्
तदंसविलसद्भुजो भ्रमति चित्रमेकोऽप्यसौ ।
वधूश्च तडिदुज्ज्वला प्रतिहरिद्वयं मध्यतः
सखीधृतकराम्बुजा नटति पश्य रासोत्सवे ॥ १५.२३२ ॥

अथ वृन्दावनक्रीडा
स्थलकमलमलीनां स्तौति गीतैः पदं ते
रदततिमतिनम्रा वन्दते कुन्दराजी ।
अधरमनुभजन्ती लम्बते बिम्बमाला
विलसति तव वश्या पश्य वृन्दाटवीयम् ॥ १५.२३३ ॥

यमुनाजलकेलिः, यथा
व्यात्युक्षीयुधि राधया घनरसैः पर्युक्ष्यमाणस्य ते
माल्यं भङ्गमवाप वीर तिलको यातः किलादृश्यताम् ।
वक्त्रेन्दौ प्रतिमाच्छलेन शरणं लब्धः सखीं कौस्तुभस्
तन्मा भूश्चकितो विमुक्तचिकुरं नार्दत्यसौ त्वद्विधम् ॥ १५.२३४ ॥

यथा वा, पद्यावल्यां (३०१)
जलकेलितरलकरतल
मुक्तपुनःपिहितराधिकावदनः ।
जगदवतु कोकयूनोर्
विघटनसङ्घटनकौतुकी कृष्णः ॥ १५.२३५ ॥

अथ नौखेला, यथा पद्यावल्यां (२७०)
मुक्ता तरङ्गनिवहेन पतङ्गपुत्री
नव्या च नौरिति वचस्तव तथ्यमेव ।
शङ्कानिदानमिदमेव ममातिमात्रं
त्वं चञ्चलो यदिह माधव नाविकोऽसि ॥ १५.२३६ ॥

अथ लीलाचौर्यम्
लीलाचौर्यं भवेद्वंशीवस्त्रपुष्पादिहारिता ॥ १५.२३७ ॥

अथ वंशीचौर्यम्, यथा पद्यावल्यां (२५३)
नीचैर्न्यासादथ चरणयोर्नूपुर मूकयन्ती
धृत्वा धृत्वा कतकवलयान्युत्क्षिपन्ती भुजान्ते ।
मुद्रामक्ष्णोश्चकितं शश्वदालोकयन्ती
स्मित्वा स्मित्वा हरति मुरलीमङ्कतो माधवस्य ॥ १५.२३८ ॥

अथ वस्त्रचौर्यं, यथा
छदावलिवृतैव नः सपदि काचिदेका व्रजं
प्रविश्य जरतीरिहानयतु घोरकर्मोद्धताः ।
अयं गुणनिधिस्तरोरुपरि ताभिरभ्यर्च्यताम्
उमाव्रतकुमारिकापटलचेलपाटच्चरः ॥ १५.२३९ ॥

अथ पुष्पचौर्यं, यथा
अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं
त्वमेव प्रच्छन्ना मम सुमनसां मञ्जरिमितः ।
चिराद्दिष्ट्या चौरि त्वमिह विधृताद्य स्वयमतो
गुहाकारामारात्प्रविश वसतिं प्रौढिभिरलम् ॥ १५.२४० ॥

अथ घट्टः, यथा दानकेलिकौमुद्याम् (६४)
घट्टाधिराजमवमत्य विवादमेव
यूयं यदाचरथ शुल्कमदित्यमानाः ।
मन्ये विधित्सथ तदत्र गिरेस्तटेषु
दुर्गेषु हन्त विषमेषु रणाभियोगम् ॥ १५.२४१ ॥

अथ कुञ्जादिलीनता, यथा विदग्धमाधवे (६.२५)
शङ्के सङ्कुलितान्तराद्य निविडक्रीडानुबन्धेच्छया
कुञ्जे वञ्जुलशाखिनः शशिमुखी लीना वरीवर्ति सा ।
नो चेदेष तदङ्घ्रिसङ्गमविनाभावादकाले कथं
पुष्पामोदनिमन्त्रितालिपटलीस्तोत्रस्य पात्रीभवेत् ॥ १५.२४२ ॥

अथ मधुपानं, यथा
मुखविधुमुदितं मधुद्विषोऽसौ
मधुचषके मधुरं समीक्ष्य मुग्धा ।
अदिशत दृशमेव तत्र पातुं
न तु वदनं मुहुरर्थितापि तेन ॥ १५.२४३ ॥

अथ वधूवेशधृतिः, यथा उद्धवसन्देशे (६४)
केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं
प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या ।
आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा
नारीवेशं ह्रियमुपययौ मानिनी यत्र राधा ॥ १५.२४४ ॥

कपटसुप्तता, यथा कर्णामृते (२१)
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतुं श्रोत्रमनोहरं व्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १५.२४५ ॥

अथ द्यूतक्रीडा
जित्वा द्यूतपणं दशत्यघहरे गण्डं मुदा दक्षिणं
सा वामं च दशेति तत्र रभसादक्षं क्षिपन्त्यभ्यधात् ।
आज्ञां सुन्दरि ते यथेति हरिणा वामे च दष्टे ततः
संरम्भादिव सा भुजालतिकया कण्ठे बबन्ध प्रियम् ॥ १५.२४६ ॥

अथ पट्टाकृष्टिः, यथा ललितमाधवे (६.३१)
धन्यः सोऽयं मणिरविरलध्वान्तपुञ्जे निकुञ्जे
स्मित्वा स्मित्वा मयि कुचपटीं कृष्टवत्युन्मदेन ।
गाढं गूढाकृतिरपि तया मन्मुखाकुतवेदी
निष्ठीवन् यः किरणलहरीं ह्रेपयामास राधाम् ॥ १५.२४७ ॥

अथ चुम्बो, यथा
कपटचटुलितभ्रुवः समन्ता
न्मुखशशिनः रभसाद्विधूयमानम् ।
दनुजरिपुरचुम्बदम्बुजाक्ष्याः
कमलमिवानिलकम्पि चञ्चरीकः ॥ १५.२४८ ॥

अथ आश्लेषो, यथा
नवजागुडवर्णयोपगूढः
स्फुरदभ्रद्युतिरेतयोन्मदेन ।
हरति स्म हरिर्हिरण्यवल्ली
परिवीताङ्गतमालमङ्गलानि ॥ १५.२४९ ॥

अथ नखक्षतं, यथा
न कुचाविमौ गतिजिता तया हृतं
गजतः प्रसह्य सखि कुम्भयोर्युगम् ।
क्षतमत्र नागदमनो यदर्पय
त्परमङ्गजाङ्कुशवरेण तत्क्षणम् ॥ १५.२५० ॥

अथ बिम्बाधरसुधापानं, यथा
न हि सुधाकरबिम्बसुधाकरं
कुरु मुखं करभोरु करावृतम् ।
अधररङ्गणमङ्ग वराङ्गने
पिबतु नीपवनीभ्रमरस्तव ॥ १५.२५१ ॥

अथ सम्प्रयोगो, यथा
द्राग्दोर्मण्डलपीडनोद्धुरधियः प्रोद्दामवैजात्यया
निर्बन्धादधरामृतानि पिबतः सीत्कारपूर्णास्यया ।
कन्दर्पोत्सवपण्डितस्य मणिअतिराक्रान्तकुञ्जान्तया
सार्धं राधिकया हरेर्निधुवनक्रीडाविधिर्वर्धते ॥ १५.२५२ ॥

विदग्धानां मिथो लीलाविलासेन यथा सुखम् ।
न तथा सम्प्रयोगेण स्यादेवं रसिका विदुः ॥ १५.२५३ ॥

यथा
बलेन परिरम्भणे नखशिखाभिरुल्लेखनं
हठादधरखण्डने भुजयुगेन बन्धक्रियाम् ।
दुकूलदलने हतिः कुवलयेन कुर्वाणया
रतादपि सुखं हरेरधिकमादधे राधया ॥ १५.२५४ ॥

यथा वा
नर्मोत्सेककलादृगञ्चलचमत्कारी भ्रुवोर्विभ्रमः
संव्यानस्य विकर्षण्चटुलतां कर्णोत्पलेनाहतिः ।
क्रीडेयं व्रजनागरीरतिगुरोर्गान्धर्विकायास्तथा
भूयिष्ठं सुरतोत्सवादपि नवास्वादं वितेने सुखम् ॥ १५.२५५ ॥

अतएव श्रीगीतगोविन्दे (१२.१०)
प्रत्यूहपुलकाङ्कुरेण निविडलेशनिमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद्
उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १५.२५६ ॥

यथा
गोकुलानन्द गोविन्द गोष्ठेन्द्रकुलचन्द्रमः ।
प्राणेश सुन्दरोत्तंस नागराणां शिखामणेः ॥ १५.२५७ ॥
वृन्दावनविधो गोष्ठयुवराज मनोहर ।
इत्याद्या व्रजदेवीनां प्रेयसी प्रणयोक्तयः ॥ १५.२५८ ॥

अतुलत्वादपारत्वादाप्तोऽसौ दुर्विगाहताम् ।
स्पृष्टः परं तटस्थेन रसाब्धिर्मधुरो मया ॥ो॥
अयमुज्ज्वलनीलमणिर्गहनमहाघोषसागरप्रभवः ।
भजतु तव मकरकुण्डलपरिसरसेवौचितीं देव ॥ो॥

इति सम्भोगभेदाः ।

इति श्रीश्रीउज्ज्वलनीलमणौ शृङ्गारभेदप्रकरणम् ।

सम्पूर्णोऽयं श्रीश्रीलरूपगोस्वामि प्रभुपादप्रणीतश्रीश्रीउज्ज्वलनीलमणिर्नाम ग्रन्थः ।

Categories: Sanskrit Documents

Tagged as: