Commentary on Panini Astadhyayi
अष्टाध्यायी – पाणिनि 1.1
1-1-1 वृद्धिरादैच् ।
1-1-2 अदेङ् गुणः ।
1-1-3 इको गुणवृद्धी ।
1-1-4 न धातुलोप आर्धधातुके ।
1-1-5 ग्क्ङिति च ।
1-1-6 दीधीवेवीटाम् ।
1-1-7 हलोऽनन्तराः संयोगः ।
1-1-8 मुखनासिकावचनोऽनुनासिकः ।
1-1-9 तुल्यास्यप्रयत्नं सवर्णम् ।
1-1-10 नाज्झलौ ।
1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम् ।
1-1-12 अदसो मात् ।
1-1-13 शे ।
1-1-14 निपात एकाजनाङ् ।
1-1-15 ओत् ।
1-1-16 सम्बुद्धौ शाकल्यस्येतावनार्षे ।
1-1-17 उञः ।
1-1-18 ऊँ ।
1-1-19 ईदूतौ च सप्तम्यर्थे ।
1-1-20 दाधा घ्वदाप् ।
1-1-21 आद्यन्तवदेकस्मिन् ।
1-1-22 तरप्तमपौ घः ।
1-1-23 बहुगणवतुडति संख्या ।
1-1-24 ष्णान्ता {षट्} ।
1-1-25 डति च ।
1-1-26 क्तक्तवतू निष्ठा ।
1-1-27 सर्वादीनि सर्वनामानि ।
1-1-28 विभाषा दिक्समासे बहुव्रीहौ ।
1-1-29 न बहुव्रीहौ ।
1-1-30 तृतीयासमासे ।
1-1-31 द्वन्द्वे च ।
1-1-32 विभाषा जसि ।
1-1-33 प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।
1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि -व्यवस्थायामसंज्ञायाम् ।
1-1-35 स्वमज्ञातिधनाख्यायाम् ।
1-1-36 अन्तरं बहिर्योगोपसंव्यानयोः ।
1-1-37 स्वरादिनिपातमव्ययम् ।
1-1-38 तद्धितश्चासर्वविभक्तिः ।
1-1-39 कृन्मेजन्तः ।
1-1-40 क्त्वातोसुन्कसुनः ।
1-1-41 अव्ययीभावश्च ।
1-1-42 शि सर्वनामस्थानम् ।
1-1-43 सुडनपुंसकस्य ।
1-1-44 न वेति विभाषा ।
1-1-45 इग्यणः सम्प्रसारणम् ।
1-1-46 आद्यन्तौ टकितौ ।
1-1-47 मिदचोऽन्त्यात्परः ।
1-1-48 एच इग्घ्रस्वादेशे ।
1-1-49 षष्ठी स्थानेयोगा ।
1-1-50 स्थानेऽन्तरतमः ।
1-1-51 उरण् रपरः ।
1-1-52 अलोऽन्त्यस्य ।
1-1-53 ङिच्च ।
1-1-54 आदेः परस्य ।
1-1-55 अनेकाल्शित्सर्वस्य ।
1-1-56 स्थानिवदादेशोऽनल्विधौ ।
1-1-57 अचः परस्मिन् पूर्वविधौ ।
1-1-58 न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ- जश्चर्विधिषु ।
1-1-59 द्विर्वचनेऽचि ।
1-1-60 अदर्शनं लोपः ।
1-1-61 प्रत्ययस्य लुक्श्लुलुपः ।
1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् ।
1-1-63 न लुमताऽङ्गस्य ।
1-1-64 अचोऽन्त्यादि टि ।
1-1-65 अलोऽन्त्यात् पूर्व उपधा ।
1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य ।
1-1-67 तस्मादित्युत्तरस्य ।
1-1-68 स्वं रूपं शब्दस्याशब्दसंज्ञा ।
1-1-69 अणुदित् सवर्णस्य चाप्रत्ययः ।
1-1-70 तपरस्तत्कालस्य ।
1-1-71 आदिरन्त्येन सहेता ।
1-1-72 येन विधिस्तदन्तस्य ।
1-1-73 वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।
1-1-74 त्यदादीनि च ।
1-1-75 एङ् प्राचां देशे ।
अथ प्रथमाध्याये प्रथमः पादः
पदमञ्जरी
वृद्धिरादैच् ॥ १।१।१॥
त्रिपदमिदं सूत्रम्–वृद्धिः, आद्, ऐज् इति । अत्र चाकारः प्रयोगस्थैराकारैरर्थवान् । जात्यभिप्रायं चैकवचनम् ।
ऐच्छब्दस्तु ऐकारौकाराभ्याम् । संज्ञिनोर्द्वित्वेऽपि द्विवचनं न भवति; द्वयोरप्येकशब्दरूपरूषितत्वेनैक्यमापन्नयोरिवाभिधानात् । एवं सर्वेष्वेव प्रत्याहारेष्वेकवचनं द्रष्टयम् । समाहारद्वन्द्वो वा–आदैजिति ।
“द्वन्द्वाच्चुदषहान्तात् समाहारे” इति समासान्तस्तु न भवति;
समासान्तविधेरनित्यत्वात् । अनित्यत्वं च “द्वित्रिभ्यां पाद्दन्मूर्द्धसु”
इति मूर्द्धन्शब्दस्य निर्द्देशादवसीयते । अन्यथा “द्वित्रिभ्यां ष
मूर्ध्नः” इति षप्रत्ययान्तत्वान्मूर्धेष्विति निर्द्देश्यं स्यात् ।
आदैच्छब्दात्समासत्वादर्थवत्वाद्वा विभक्त्युत्पतौ “चोः कुः ”
पदस्येति कुत्वं प्राप्तम्, अयस्मयादित्वेन भत्वान्न हि भविष्यति;
छन्दोवत्सूत्राणि भवन्ति । वृद्धिशब्दस्य त्रयीशब्दानां प्रवृत्तिरिति
पक्षे “वृधु वृद्धौ” इत्यस्माद्भावे क्तिनि व्युत्पत्तिः,
अभेदोपचाराच्च वृद्धियुक्तेष्वादैक्षु वृत्तिः । न चैवं
लक्षणयैवादैक्षु वृद्धिशब्दस्य वृत्तिसिद्धेः सूत्रस्यानर्थक्यम्;
नियमार्थत्वात् । अन्यथा वर्द्धनक्रियायोगिष्विकारादिषु प्लुतेषु च
वर्तेत । मा तत्र वर्तिष्ट, आदैक्ष्वेव वर्ततामिति नियमः ।
चतुष्टयीपक्षे तु कथम्, यावतश्च संज्ञात्वेन विनियुक्ते सति
“सिचि वृद्धिः” इत्यादौ प्रदेशान्तर एव वृद्धिशब्दस्यादैक्षु
प्रवृत्तिर्युक्ता, न त्वत्रैव संज्ञाविनियुक्तिकाले ? उच्यते; “नित्यः
शब्दार्थसम्बन्धः” इति दर्शनेन क्वचिदपि पुरुषव्यापारात्प्रअग्
वाचकः सन् पुरुषव्यापारेण वाचकः क्रियते । अतः सर्वे शब्दाः
संज्ञारूपेण सर्वानर्थान् प्रतिपादयितुं समर्थाः । तत्रानियतार्थेन
व्यवहारासिद्धेर्नियमार्थ एव पुरुषव्यापारः–मया प्रयुक्तस्य
वृद्धिशब्दस्यादैजर्थ इति । एवं तावत्पदार्थो व्याख्यातः ।
वाक्यविषयाः पुनरष्टौ विकल्पाः-अनर्थकम्, साध्वनुशासनम्,
प्रयोगनियमार्थम्, आदेशार्थम्, आगमार्थम्, विशेषणार्थम्,
तद्गुणाध्यारोपार्थम्, संज्ञार्थमिति । तत्रानर्थकाभिधानं
प्रमादाश्रयदोषादनवधानादशक्तेर्वा भवति । न चैतच्चतुष्टयं
भगवतः सम्भवति; आचार्यो हि दर्भपवित्रपाणिः शुचाववकाशे
प्राङ्मुख आसीनो मङ्गलपूर्वकं महता प्रणिधानेन सूत्राणि
प्रणीतवान् । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं
पुनरियता सूत्रेण ! साध्वनुशासनमपि न भवति,
सिद्धत्वाद्वृद्धिशब्दस्य क्तिन्नन्तत्वात्, आदैच्छब्दस्य चार्थवत्वात् । ननु
छन्दोवद्भावेन सूत्र एव प्रयोगः सिद्ध्यति, सूत्राद्वहिरपि
कुत्वाभावार्थं निपातनमेतत् स्यात्, उच्यते;
वृद्धिशब्दस्यैवमनन्वयप्रसङ्गः, संभूयकारित्वं च पदानां
व्युत्पत्तिसिद्धम्, अतो नायं पक्षः । नापि प्रयोगनियमार्थम्, यत्र
हि सहप्रयोगप्रसङ्गस्तत्र नियमः कर्तव्यः । न च
वृद्ध्यादैच्छब्दयोः सहप्रयोगप्रसङ्गः,
विनियोगात्प्रागसम्बन्धाद् उतरकालं वृद्धिशब्देनैव गतत्वात् । किं
च नेह प्रयोगनियम आरभ्यते । नन्वारभ्यते,”परश्च” इति ? पदस्य
नारभ्यते । पदस्याप्यारभ्यते “उपसर्जनं पूर्वम् ” इति ?
ययोरैकपद्यं नास्ति तयोर्नारभ्यते । तयोरप्यारभ्यते “ते
प्राग्धातोः” “कृञ्चानुप्रयुज्यते लिटि” इति ?
नैवंविधेनोच्चारणेनारभ्यते । एवमप्यारभ्यते
“विदाङ्कुर्वन्त्वित्यन्यतरस्याम्” इति ? नात्र केवलः प्रयोग एव
नियम्यते, किन्तु आमादिकमपि विधीयते, अतः केवलस्य
प्रयोगनियमस्य साक्षादुच्चारणेन क्वचिदप्यभावान्नायं
प्रयोगनियमः । आदेशार्थमपि न भवति;
स्थान्यर्थाभिधानसमर्थस्यैव ह्यादेशत्वम् । न च वृद्धिशब्द आदैचाम्,
ते वा तस्यार्थमभिधातुं समर्थाः । निर्देशाच्च; यदयं “सिचि
वृद्धिः” “यातिवातिद्राति” “रायः”ङावः” इत्याह, ततो ज्ञायते–न
वृद्धिशब्द आदैचां ते वा तस्यादेशाः इति । अथादैच्शब्दस्य
वृद्धिशब्द आदेशः कस्मान्न भवति, न ह्यत्र किं चिल्लिङ्गमस्ति ?
सत्यम्; अयं तु पक्षो न संभवत्येव, ऐच्छब्दो ह्यादिरन्त्येनेति
संज्ञात्वेन विनियुक्तः कथमस्य स्वरूपस्य ग्रहणम्; अशब्दसंज्ञेति
निषेधात् । एतैरेव लिङ्गैरागमार्थत्वं न भवति । षष्ठ।ल्भावाच्च,
“पूर्वौ तु ताभ्याम्” इति पञ्चम्याः षष्ठ।ल्र्थोऽवगम्यते ।
टित्वादिलिङ्गाभावाच्च, न हि तद्रहितः कश्चिदागमो दृष्टः ।
विशेषणत्वमपि न भवति, असंभवादप्रयोजनत्वाच्च । न ह्यस्ति
संभवो वृद्धशिब्दश्चासावादैच्छब्दश्चेति, नापि वर्द्धनक्रियाऽऽदैज्
इति । एवं विशेषणे च प्रयोजनमपि नास्ति । एतेन
तद्गुणाध्यारोपोऽपि निरस्तः । यथा हि सिंहो माणवक इति
सिंहगुणा माणवके आरोप्यन्ते, नैवमत्र सम्भवः प्रयोजनं वाऽस्ति;
अतः पारिशेष्यात्संज्ञासंज्ञिसम्बन्ध एवेत्यालोच्याह-ऽवृद्धिशब्दऽ
इत्यादि । विपर्ययस्तु न भवति–वृद्धिशब्दः संज्ञी, आदैचः संज्ञेति ।
स हि त्रिधा स्यात्–आदैजित्ययं शब्दः, आ ऐ औ इत्ययं समुदायः,
ते वा प्रत्येकमिति । तत्रादैच्छब्दस्तावन्न सम्भवति; ऐजित्यस्य
संज्ञाशब्दत्वात्, स्वरूपग्रहणासम्भवात्, गौरवाद्, अनावृतेश्च ।
आवर्तिन्यो हि संज्ञा भवन्ति, वृद्धिः शब्दश्चावर्तते; नादैच्छब्दः ।
नापि समुदायः, गौरवादनावृतेश्च । अस्तु तर्हि प्रत्येकम्,
लाघवादावृतेश्च–“अष्टन आ विभक्तौ”, “पूतक्रतोरै च” “मनोरौ
वा ” इति ? न; प्रयोजनमन्तरेणैकस्यानेकसंज्ञाकरणस्यायुक्तत्वात्,
न ह्ययं वृद्धिशब्दः सहस्रेण नामभिः स्तोतव्यः । शब्देनार्थस्य
संज्ञात्वं मा विज्ञायीति शब्दग्रहणम्, एतच्चार्थे
व्यवहारासम्भवाल्लभ्यते । तदिह वृद्धिशब्दः संज्ञात्वेन विधीयत
इति समुदायेनानर्थकादिपक्षनिरासः । वृद्धिशब्द इत्यनेन
विपर्ययनिरासः । वृद्धिशब्दः संज्ञा, न पुनरादैच्छब्द इति
वचनव्यक्त्या शब्दग्रहणेनार्थनिरासः-वृद्धिशब्दः संज्ञा न पुनरर्थ
इति । यत्र समुदायस्य कार्यमिच्छति करोति तत्र प्रयत्नम्–“उभे
अभ्यस्तम्” इति । तत्र ह्युभे ग्रहणं समुदितप्रतिपत्यर्थम् । अन्वर्थां वा
महतीं संज्ञां करोति-“हलोऽनन्तराः संयोगः” इति । इह तु
महासंज्ञाकरणं मङ्गलार्थम् । अत एव प्रथममुच्चारणम्; अन्यथा हि
सतः कार्यिणः कार्येण भवितव्यमिति “अदेङ् गुणः”
इत्यादिवन्निर्दिश्येत । अतो यत्नाभावात्प्रत्येकमेव संज्ञा ।
किञ्च–लौकिकप्रयोगे व्यवस्थितानामादैचां संज्ञया भवितव्यम् ।
न च समुदायस्य क्वचित्प्रयोगः, अतोऽसंभवादपि प्रत्येकमेव संज्ञा
। लिङ्गाच्च-किं लिङ्गम् ? “प्रस्थे वृद्धमकर्क्यादीनाम्”
“मालादीनां च” इति । इदं हि “मालाप्रस्थः” इत्यादाववृद्धमिति
पर्युदासे प्राप्ते वचनम्,अतः प्रत्येकमेव संज्ञा तदाह-प्रत्येकमिति
॥
तत्रापि त्रयः प्रकाराः-लुगादिसंज्ञावतद्भावितानामेव,
टिसंज्ञावद्वाऽतद्भावितानामेव, अनुनासिकादिसंज्ञावदुभयेषां
वेति । तत्र यदि तद्भावितानामेव–ये वृद्धिसंज्ञया भाव्यन्ते,
तेषामेव स्यात्, शालीयो मालीय इति छाए न स्यात्; आम्रमयं
रैकुलमयम्–वृद्धलक्षणो मयण् न स्यात्; आम्रगुप्तायनिः–“उदीचां
वृद्धात्” इति फिञ् न स्यात् । अथातद्भावितानामेव–गार्गीयः,
ऐतिकायनीयः, औपगवीयः-छाए न स्यात् ; अतो
दोषदर्शनादगृह्यमाणविशेषत्वाच्चोभयेषां
संज्ञेत्याह-ऽसामान्येनेऽति । आकारोऽनण्त्वादेव न भिन्नकालानां
ग्राहक इति न तन्निवॄत्यर्थं तपरत्वम्, नापि गुणान्तरयुक्तानां
ग्रहणार्थम् । अभेदकत्वाच्च गुणानाम्, लोके हि मुण्डेनापि चौर्ये
कृते संजातकेशोऽपि प्रत्यभिज्ञाय निगृह्यते । तथा “अडुदातः”
इत्युदातवचनं लिङ्गम्, अन्यथा ह्युदातगुणमेवाटमुच्चारयेत् ।
अतोऽनर्थकं तपरकरणमित्यत आह–ऽतपरकरणमिऽति । तश्चासौ
परश्च तपरः, तस्य करणमुच्चारणम्, आकारात्परस्य
तकारस्योच्चारणमित्यर्थः । अथ वा-तः परो यस्मादिति
तद्गुणसंविज्ञानो बहुव्रीहिः,
तकारसहितस्याकारस्योच्चारणमित्यर्थः । ऽऐजर्थमिऽति । ऐचोरर्थः
प्रयोजनं यस्य ततथोक्तम् । “तपरस्तत्कालस्य” इत्यत्र तः परो
यस्मादिति बहुव्रीहिराश्रितः । तत्कथं
तपरकरणमैजर्थमित्याशङ्क्य पञ्चमीसमासोऽपि तत्राश्रित इति
दर्शयति-ऽतादपि परऽ इति । इतिकरणो हेतौ । यस्मात् तादपि
परस्तस्मादैजर्थ इति । ऐजर्थत्वमेव प्रकटयति–ऽखट्वैलकादिष्विऽति । असति तपरकरणे
त्रिमात्रचतुर्मात्रयोरप्यैचोः सवर्णग्रहणेन ग्रहणाद् वृद्धिसंज्ञा
स्यात्, ततश्च वृक्षैलकः, वृक्षौदनः, खट्वैलका, खट्वौदन इति
त्रिमात्रचतुर्मात्रस्थानिनोस्त्रिमात्रचतुर्मात्रावेवैकारौकारौ
स्यातामिति तन्निवृत्यर्थं तपरकरणम् । आश्वलायन इत्यादीनि
तद्भावितानामाकारादीनां क्रमेण रूपोदाहरणानि ।
अश्वलेतिकशब्दौ नडादी । उपमन्युशब्दो बिदादिः । लक्षणस्य
बहुविषयत्वसूचनार्थं चतुर्थस्योदाहरणस्योपन्यासः ।
आकारस्यातद्भावितस्य कार्योदाहरणमाह–ऽशालीयः, मालीयऽ इति ।
ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं रैकुलमयं नौकुलमयमिति, वृद्धलक्षणो मयड् भवति ॥
अदेङ् गुणः ॥ १।१।२ ॥
पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु
पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन्
दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः
स्यात्, कदाचिदाकारः, रपरत्वे कृत
एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य
वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च
त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः,
वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि
तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति
जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य
“अतो गुणे” इति पररूपं भवति ।
एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न
संभवति ॥
इको गुणवृद्धी ॥ १।१।३ ॥
ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च
। अधिकारे हि “इको गुणवृद्धी न धातुलोपः” इति संयुज्यैव
निर्दिशेत् । नापि विधिः, “इकः स्थाने गुणवृद्धी भवतः” इति
लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा
तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः
स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ?
एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि
प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह
त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । “अदेङ् गुणः” इत्यत्र
चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते,
अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च
न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत
एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां
विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः
परिभाषेयम् ।
योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् “इयम्” इति
स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्,
एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु
परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य
चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य
स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य
स्थानिनियमार्थता विधीयते-“येयं परिभाषा सा
स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते” इत्याह, स
वाच्यः-“असिद्धं परिभाषात्वं कथमनूद्यते” इति । अव्यापकश्चायं
परिहारः शमर्थः पदविधिः” इत्यादौ । तत्र
परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु
ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि
पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा “अणौ यत्कर्म णौ
चेत्स कर्ता” इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य
कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत
इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति ।
ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ
प्रयोजनं यस्याः सा तथोक्ता । “द्वन्द्वे घि” इत वृइद्धिशब्दस्य
पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;”धर्मादिषु
उभयम्” इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि ।
किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य
प्रवृत्तिरिति; यथा “एच इग्घ्रस्वादेशे” ह्रस्व आदिश्यमान एच इगेवेति ।
यद्येवम्, अनियमप्रसङ्गे नियम इति
“सार्वधातुकार्धधातुकयोः”,”सिचि वृद्धिः” इत्यत्रैव स्यात्, अत्र
ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ
वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु
मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि।
अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां
सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते,
न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-“तपस्तपः कर्मकस्यैव” इति ।
अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च
गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा “इद्गोण्याः”
इत्यादेः”अलोऽन्त्यस्य” इत्ययमिति पक्षः । ततो
नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका
स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह
भवति–अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि
प्राप्नोति । “सार्वधातुकार्धधातुकयोः” यथेह भवति चेता
स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति ।
अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र
सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः “जुसि च”
इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति
स्थानषष्ठीनिर्देशात्, “अलोऽन्त्यस्य” इत्येषापि । तत्र च न
समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य
चेकोऽनन्त्यस्यापीति । नापि
विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि,
कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि
सकृच्छ्अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ
अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र
यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन
संबध्येत-“अङ्गस्य य इक्, तस्य गुणः” इति,
ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः
पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते
“अङ्गान्त्यस्येको गुणः” इति । यद्वा-इकाऽङ्गं विशिष्यते,
विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि
स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं
सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे
न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण
द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि
त्यज्येत, उच्येते च वृद्धिगुणौ “मृजेर्वृद्धिः” “मिदेर्गुणः” इति,
तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य
सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते
पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति;
तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । “अलोऽन्त्यस्य”
इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने “सिचि वृद्धिः” इत्यादौ
यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते
तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते
पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं
ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक
इत्यस्योपस्थानवेलायामुपतिष्ठते । “मिदेर्गुणः” इत्यादौ तु
यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको
गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न
प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते,
येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् ।
वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य
प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न
त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने
तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया
शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं
विधीयमानावित्यर्थः ।
ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं
किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु “गापोष्टक्” इति टकः
कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा
ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न
भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् ।
“जनेर्डः” इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति ।
यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं
स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः
सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत
आन्तर्यादोकारो गुणः स्यात्;
रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो
यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ
“क्ङिति च” इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् ।
अथ वृद्धिग्रहणं किमर्थम् ? “मृजेर्वृद्धिः” इको यथा स्यात्,
अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम्–“मृजेर्वृद्धिरचः”,
मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात्
ङ्यमार्ट्” अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्,
अचिकीर्षीत् । अतो लोपो भविष्यति,
“ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?” इति
वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः;
सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् ।
रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य
क्विबन्तस्य “आञ्त इद्धातोः” इत्यतः “धातोः” इत्यनुवृतेः धातुरेव
यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ
“सिचि वृद्धिः” इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना
हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि” इत्ययं च निषेधो यावती
हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याच इति वा, सा सर्वा
न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न
भविष्यति । तदेवम् “इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा
भूद्” इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि
मृज्यते, मृष्ट इत्यादौ “क्ङिति च” इति प्रतिषेधार्थं
मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि
योगविभागात्सिद्धम्–मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति
वेति वक्तव्यम्–परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः
परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-“अजादौ क्ङिति
मृजेरचो वृद्धिर्भवति” । किमर्थमिदम् ? नियमार्थम्–क्ङिति
यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न
भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि
प्रतिषेधार्थमिग्लक्षणत्वम् । “णु स्तुतौ” “धू विधूनने” कुटादी,
न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग
उवङ् सिति हलन्तत्वात् ङेटि” इति निषेधः । यदि सिच्यन्तरङ्गं
भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव
वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः,
अतारीदित्यादौ हलन्तलक्षणायाः ङेटि” इति प्रतिषेधे “अतो
हलादेः ” इति विकल्पं बाधित्वा “अतो लरन्तस्य” इति नित्या वृद्धिः ।
अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद्
गुणावादेशयोः कृतयोरपि “अतो लरन्तस्य” इत्यत्र वकारस्यापि
लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्,
अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् ।
सिच्यन्तरङ्गं भवतीत्युक्ते “ह्म्यन्तक्षण” इत्यत्र णिश्विग्रहणं न
कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद्
गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने
“अविमवीङिवेशयिष्यामः-“अतो लरन्तस्य” इत्यत्र वकारप्रश्लेषेण
प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ?
नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं
प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो
यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि
अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्;
गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् ।
इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्,
न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् ।
यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि
बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति
सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य
प्रयोजनं न दर्शितम् ।
अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते
इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां
गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे
यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा
प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद्–ऽवस्तुतो ये
गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां
प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्,
पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते–गुणवृद्धी
ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य
गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो
लभ्यत इत्यर्थः । अन्यथा “अचश्च” इत्यस्य स्वसंज्ञया विधाने नियमस्य
“दिव उत्” इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न
संभवति “अष्टन आ विभक्तौ” इत्यादौ, तत्र चरितार्थत्वात् “दिव
औत्” इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं
नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्,
न ह्यत्रेगस्ति ।
एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः ।
तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥
न धातुलोप आर्धधातुके ॥ १।१।४ ॥
“दुरीणो लोपश्च” दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति,
धातोश्च लोपः । दुःखेन ईयतेउप्राप्यते दूरमित्यत्र यद्यपि
कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः
प्राप्त्यभावादेकदेशे धातुशब्दो वर्तत इत्याह–धात्वेकदेश इति ।
“धातुलोप” इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्,
गुणवृद्धिविशेषणम्, उभयविषेषणं वा-इति त्रयः कल्पाः । तत्र यदि
लोपविशेषणम्–आर्द्धधातुकनिमिते धातुलोपे सति यत्किञ्चिद्
निमिते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र
प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमिते नलोपे सति प्राप्नुवत
आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि
द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति
स्यादेव । न चेह सूत्रे “इक” इत्यस्य रूपपरत्वे प्रमाणमस्ति ।
उतरसूत्रे तु प्रमाणं वक्ष्यामः । ननु “पूर्वं धातुः साधनेन
युज्यते” इत्यस्मिन् दर्शने
प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः
प्रतिषेधोऽप्यन्तरङ्गः, “पूर्वं धातुरुपसर्गेण युज्यते” इति तु
दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च
“असिद्धं बहिरङ्गमन्तरङ्गे” इति प्रतिषेधो न भविष्यति ?
नैतदस्ति; ङाजानन्तर्ये” इति निषेधात् । अथ
गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः
स्यात्–यत्किञ्चन निमिते धातुलोपे सत्यार्द्धधातुकनिमिते
गुणवृद्धी न भवत इति ; तदा प्रेद्धमित्यत्र दोषो न,
गुणस्यातन्निमितत्वात्; किन्तु क्नोपयतीत्यत्र “क्नूयी शब्दे”
इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः
स्याद् । अत उभयविशेषणम्–आर्द्धधातुकनिमिते धातुलोपे
सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति ।
तत्र सकृच्छ्४%अतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि
स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमितत्वं न लभ्यते
। ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि
भिद् अ इ अ य इति स्थिते नित्यत्वात्पूर्वं णिलोपे कृते यकमपेक्ष्य
प्रवृते? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः
स्याद्, द्वयोरप्यार्द्धधातुकनिमितत्वादिति तत्पुरुषे सति सर्वथा
दोषं दृष्ट्वाऽऽह–ऽतस्य लोपो यस्मिन्निऽति । अस्मिन्पक्षे
धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो
विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति ।
एकार्द्धधातुकनिमितत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद्
दोषः । ऽते न भवतऽ इति । अनेन गुणवृद्ध्योरयं निषेधः, न
पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि
पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः,
“दीधीवेवीटाम्” इति चासम्बद्धं स्यादुपस्थाननिषेधे । ऽलोलुवऽ
इत्यादि । लूपूभ्यां यङ्, द्विर्वचनम्, “गुणो यङ्लुकोः” गुणे
निषिद्धे उवङ् । ऽमरीमृज ऽइति । “रीगृदुपधस्य च” । लोलूयादिभ्य
इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङ्कारस्यातो
लोपे कृते तस्या स्थानिवत्वादेव गुणवृद्धी न भविष्यतः,
यथा–पापचक इति “अत उपधायाः” इति वृद्धिः, न ह्यत्रानेन निषेधः
सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते,
“यङेऽचि च ” इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् ।
योगविभागात्सिद्धम्–अतो लोपो भवत्यार्द्धधातुके, ततो “यस्य”
य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति ।
किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा
बाधीति । तेन स्थानिवत्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि
गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुअवः,
सुश्रुव इतीयणुवङवप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि,
य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते
प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुअव इत्यत्रान्तरङ्गानपि विधीन्
बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव
यङे लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टुअ अ अ इति
स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः
स्यादेव ; न अन्तरङ्गावियणुवङै भविष्यतः, अशिश्रियद्
अदुद्रुवद् इति यथा । अतः स्थानिवत्वादेव सिद्धम्, नार्थोऽनेन ?
उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयणुवङेः कृतयोः
पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि
स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः
क्रियेत, जङ्गम इत्यत्र “गमहन्” इत्युपधालोपः स्यात् ।
अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र “ऋदृशोः” इति गुणः
स्याद्; देद्य इत्यत्र “दीङे युडचि” इति युट् स्यात्; सनीस्रंसः,
दनीध्वंस इत्यत्र “अनिदिताम्” इत्युपधालोपः स्यात्; यायावर
इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा
विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य
स्थानिवत्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य
लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति
सूत्रमपि कर्तव्यम् ॥ ऽलूञ् लवितेऽति । प्रागेव धातुसंज्ञाया
भवन्ननुबन्धलोपो धातुलोपो न भवति । ऽरेडसीऽति । “रुष रिष
हिंसायाम्” । “अन्येभ्योऽपि दृश्यन्ते” इति विच्, वेरपृक्तस्य
लोपः–न धातुलोपो भवति ।
नन्वसत्यपि धातुग्रहणे
लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमितिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । ऽरोरवीतीऽति । “रु शब्दे” यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमितिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्; सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम्–“तुर्वी थुर्वी धुर्वी हिंसार्थाः”, मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छरवोर्लोपस्य गुणस्य चैकनिमितत्वान्निषेधः स्यादेव । ऽइक इत्येवेऽति । इक इत्यस्यानुवृत्तिं प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति “भञ्जेश्च चिणि”, “घञि च भावकरणयोः” इत्युपधालोपः ॥
प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः ।
हरदतहरिः स्वैरं विहरन् केन वार्यते ॥
क्ङिति च ॥ १।१।५ ॥
क्ङिद्ग्रहणं यदि विधीयमानस्य प्रतिषेधस्य विशेषणं
स्याद्–गुणवृद्धी क्ङिति न भवत इति, ततो विधिसंस्पर्शात् ”
तस्मिन्निति निर्दिष्टे पूर्वस्य” इत्यस्योपस्थानात् क्ङित्यनन्तर एव
प्रतिषेधः स्यात् । यद्यपि प्रतिषेधस्य विधानदशायां पौर्वापर्यं न
संभवति, तथा निषेध्यमानयोर्गुणवृद्ध्योरपि; तथापि स्थानिन
इकोऽनन्तरे क्ङिति प्रतिषेधः स्यात् । एवं हि
विधानोतरकालमपि तावद् गुणवृद्ध्यभावरूपस्य प्रतिषेधस्य
क्ङिदनन्तरः सम्भवति, “इको यणचि” इत्यादावप्येतावदेव
पौर्वापर्यं यद्विधानदशायां तु स्थानिनः, उतरकालं तु विधेयस्य ।
यदा त्वनूद्यमानयोर्गुणवृद्ध्योर्विशेषणम्-क्ङिति सति ये
गुणवृद्धी प्राप्नुतस्ते न भवत इति,
तदाऽनुवादकत्वातस्मिन्नित्यादिकायाः परिभाषाया अनुपस्थानम् । न
हि “क्ङिति सति ये गुणवृद्धी” इत्युक्ते विधिव्यापारेण क्ङितः
कश्चित् संस्पर्शः । विध्यङ्गभूताश्च परिभाषास्तत्रैवोपतिष्ठन्ते
नानुवादे, तस्यापि परार्थत्वाद्,द्वयोश्च परार्थयोः परस्परं
सबन्धाभावात्; अन्यथा “वृद्धिर्यस्याचामादिस्तद्वृद्धम्”
इत्यत्रेक्परिभाषोपस्थाने शालीय इति वृद्धसंज्ञाया
अभावातल्लक्षणश्छाए न स्यात् । तथा च “उदीचामातः स्थाने” इति
स्थानेग्रहणं कृतम्-आतः स्थाने योऽकार इत्यनुवादकत्वात् “षष्ठी
स्थानेयोगा” इति स्थानेयोगो न लभ्येतेति । अतोऽस्मिन् पक्षे
क्ङितीति सति सप्तमी “यस्य च भावेन” इति । किङितोर्हि
सतालक्षणेन भावेन गुणवृद्ध्योः प्राप्तलक्षणो भावो लक्ष्यते,
निमितस्य च सतया निमितिनः प्राप्तिर्लक्ष्यत इति “क्ङिति सति ये
गुणवृद्धी प्राप्नुतः ” इत्यस्य “क्ङिन्निमिते ये गुणवृद्धी प्राप्नुतस्ते
न भवत” इत्यर्थो भवति । भिन्नः, मृष्ट इत्यादौ चोपधाया अपि
प्राप्नुवन्त्यौ गुणवृद्धी क्ङितं निमितमाश्रित्य प्राप्नुत
इत्येतत्सर्वमालोच्याह–निमितसप्तम्येषेति । निमितात्सप्तमी
निमितसप्तमी, पञ्चम्यर्थे शेषत्वेन विवक्षिते पष्ठीसमासः ।
क्ङिन्निमिते इति । एतेन गुणवृद्धिविशेषणं क्ङिद्ग्रहणमिति
दर्शयति । ननु च विधीयमानतया प्राधान्यात्
प्रतिषेधस्यैवैतद्विशेषणं युक्तम्, नैतदस्ति; यत्र हि गुणः
कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्रात्मनोऽपि
संस्कारमनुभूय प्रधानेन सम्बध्यते, यथा-पानीयमेलादिसंस्कृतं
पुरुषेण । उक्तं च-
“गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥” इति ।
इह च गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोर्महान्
प्रधानप्रतिषेधस्योपकारो भवति; व्यवहितस्यापि तत्सिद्धेः । ऽभिन्नऽ
इति-“रदाभ्याम्” इति नत्वम् । ऽमृष्टऽ इति – व्रश्चादिना षत्वम् ।
ऽचिन्वन्तीऽति-“सार्वधातुकमपित्” “हुश्नुवोः सार्वधातुके” ।
यद्येषा निमितसप्तमी, शचङन्ते दोषः; “धि धारणे” “रि
गतौ”तुदादी ताभ्यां तिपि “तुदादिभ्यः शः” “णिश्रिद्रुस्रुभ्यः कर्तरि
चङ्” धि अ ति, रि अ ति, श्रि अ त्, द्रु अ त्, इति स्थिते
शचङ्न्तस्याङ्गस्य तिपि लघूपधलक्षणश्च गुणः प्राप्नोति, शचङेः
परतः पूर्वस्य सार्वधातुकलक्षणश्च, तत्र शचङ्निमितस्यैव
प्रतिषेधः स्याद्, न तिङ्निमितस्य । पक्षान्तरे तु
तिङ्निमितस्यापि गुणस्य शचङेः परतः प्रतिषेधो लभ्यते । न
वा बहिरङ्गलक्षणत्वाद्वहिर्भूततिबाश्रयो गुणो
बहिरङ्गोऽन्तर्भूतशचङ्निमिताभ्यामियणुवङ्भ्यां बाधिष्यते ।
“ग्लाजिस्थश्च ग्स्नुः” इत्यत्र वक्ष्यति–“गिच्चायं प्रत्ययो न कित्,
तेन स्थ ईकारो न भवति” इति,”ग्स्नोर्गित्वान्न स्थ ईकारः” इति च ।
ततश्च भूष्णुरित्यत्र प्रतिषेधो न स्यादित्यत
आह–ऽगकारोऽप्यत्रेऽत्यादि । ऽचर्त्वे भूतःऽ-चर्त्वं प्राप्तः । अत
एव गकरप्रश्लेषात् संख्यातानुदेशो न भवति; अन्यथा क्ङितौ
द्वौ, गुणवृद्धी अपि द्वे इति संख्यातानुदेशः प्राप्नोति-किति
गुणस्य, ङिति वृद्धेरिति । ज्ञापकाद्वा, यदयं “मिदेर्गुणः” इति
श्यनि ङिति गुणं शास्ति, तज्ज्ञापयत्याचार्यः-ङात्र संख्यातानुदेशो
भवति” इति । यदि तर्हि क्स्नुप्रत्ययो गिद्, भूष्णुरितीट्
प्राप्नोति, नैष दोषः; “र्श्युकः किति” इत्यत्रापि
गकारश्चर्त्वभूतो निर्दिश्यते, सौत्रत्वाच्च निर्देशस्य
चर्त्वस्यासिद्धत्वात्प्राप्तमपि “हशि च” इत्युत्वं न भवति, “कुप्वोः”
इति विसर्जनीयश्च भवति । ऽकामयतेऽ इति-“कमेर्णिङ्” ।
ऽलैगवायनऽ इति-लिगुशब्दात्ङडादिभ्यः फक्” इति फक् ।
“ओर्गुणः” इति गुणस्य प्रतिषेधः कथं न भवति यावतोकार इगेव ?
नैतदस्ति; अत्र हि चकारः क्रियते, स इत्यर्थो विज्ञायते, तेनेक
इतीमं शब्दमुच्चार्य विधीयमानयोर्गुणवृद्ध्योः प्रतिषेधः, न
चैवमोर्गुणः । मृजेरित्यादि । इह त्रिमुनि व्याकरणम्, यथोतरं
च मुनीनां प्रामाण्यमिति दर्शनस्थितिस्तेन सूत्रकारेणानुक्तं
वार्तिककार आह,तदुक्तं च दूषयति, एवं भाष्यकारो वार्तिककारेण
। व्याख्यातृत्वमपि द्वयोश्चास्तीत्येतावत्,?
“यस्मिन्विधिस्तदादावल्ग्रहण” इत्यनेन तदादिविधौ
सिद्धेऽप्यादिग्रहणं मुख्येऽजादौ यथा स्याद्
व्यपदेशिवद्भावेनाजादौ मा भूत् । तुन्दपरिमृजः, यूयं
ममृज, त्वया ममृजे । ऽसंक्रमो नामेऽत्यादि । संक्रामतोऽपक्रामतो
गुणवृद्धी अस्मादिति कृत्वा । ऽलघूपधगुणस्याप्यत्र प्रतिषेधऽ इति।
अत्र सूत्रे लघूपधगुणस्यापि प्रतिषेधः, न तु
“सार्वधातुकार्द्धधातुकयोः” इत्येतस्यैवेत्यर्थः । अनेन
निमितसप्तम्याः फलं दर्शितम् । अत्र इत्यनेन सूत्रं निर्दिश्यते । इह
अचिनोदिति ङितो लिङस्तिबादेशः, स्थानिवद्भावाद् ङिदिति
गुणप्रतिषेधः प्राप्नोति, इह “अचिनवम्” इति ङितो लिङे मिपि
तस्यापि स्थानिवद्भावपरम्परया ङित्वाद् गुणिप्रतिषेधः
स्यादित्यत आह-ऽअचिनवमिऽत्यादि । यदि ङिति यत्कार्यं तद् इङितो
लकारस्यादेशे स्थानिवद्भावात्स्यात्, यासुटो चनमनर्थकं
स्याद्; लिङे ङित्वादेवि तदादेशेषु ङित्कार्यस्य सिद्धत्वात् ॥
दीधीवेवीटाम् ॥ १।१।६॥
ऽदीधीवेव्योऽरिति । “दीधीङ् दीप्तदेवनयोः” “वेवीङ् वेतिना
तुल्ये” इत्येतयोः । अथ दीङ् क्षये” “धीङ् अनादरे” “वेञ्
तन्तुसन्ताने” वी गत्यादिषु”-एतेषां ग्रहणं कस्मान्न भवति ?
दीङस्तावन्न भवति, “मीनातिमिनोतिदीङं ल्यपि च” इति
चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति,
गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः
स्यात्, दीङेऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र
“ईद्यति” इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां
ग्रहणेऽभिप्रेते, असन्देहार्थं “वीवेधीदीटाम्” इति ब्रूयात् ।
किञ्च-“अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी” । ऽइटश्चेऽति ।
आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् “इट किट गतौ”
इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्; प्रसिद्ध्यतिशयादागमस्य
ग्रहणम्, आगमो हि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन
पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु
धातुत्वात्प्रकृतित्वाद् “अभ्यर्हितं च” इति पूर्वनिपातः । अथ
दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ च्छन्दसि च
दृष्टानुविधिः, दृश्यते च गुणः “होत्राय वृतः कृपयन्नदीधेत्”,
“अधीधयुर्दाशराज्ञः” इति, अतस्तयोरनर्थकः प्रतिषेधः ?
केचिदाहुः-“आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य
नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि च्छन्दस्येव
किंचिदुदाहार्यम्” इति, इदं तु वार्तिकविरुद्धम्;
यदाह-“दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च
च्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः” इति । ऽ
आदीध्यनमिऽति । ल्युटि “एरनेकाचः” इति यणादेशः । ऽकणितेऽति ।
“कणिरणी शब्दार्थौ” लुटि तिपौ डादेशस्तासि टिलोपः, कणित् अ
आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य
प्रतिषेधः । ननु च ङेड्वशि कृति” इत्यत इडित्यनुवर्तमाने
“आर्धधातुकस्येट्” इति पुनरिड्ग्रहणम् “इडेव यथा स्याद्,
विकारो मा भूद्” इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्,
पिपठिषतेः क्विपि पिपठी रित्यत्र “अकः सवर्णे दीर्घः”
“र्वोरुपधायाः” इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग
एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः
शिः, अतो लोपस्य स्थानिवत्वान्नुम्न भवतीति शान्तमहतः” इति
दीर्धत्वं न भवतीति पिपठिषि ब्राह्मणकुलानीति भवति ॥
हलोऽनन्तराः संयोगः ॥ १।१।७ ॥
अन्तरमवकाशाविधिपरिधानान्तर्द्धिभेदतादर्थ्ये ।
च्छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥
इत्यन्तरशब्दोऽनेकार्थः । इह च्छिद्रवाचिनो ग्रहणम्;
इतरेषामसम्भवात् । न विद्यतेऽन्तरं येषां तेऽनन्तराःउनिश्च्छिद्राः ।
एतमेवार्थं व्यक्तेन शब्दान्तरेण
दर्शयति-ऽभिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिताऽ इति ।
एवम्भूता हि हलो निश्च्छिद्रा भवन्ति भिन्नजातीयैरिति वचनं तत्रैव
व्यवधानप्रसिद्धेः । श्लिष्टोच्चारिता इति वचनादवग्रहेऽपि संज्ञा न
भवति-अप्स्वित्यप्सु, विद्यते ह्यत्रान्तरमर्द्धमात्राकालः । ऽसंयोगऽ इति ।
यद्येकैकस्य हलः शिलष्टोच्चारितस्यैषा संज्ञा स्याद् ? इह च
निर्यायादित्यत्र प्रत्येकं संज्ञित्वे सति रेफे यकारः संयोग इति
“वान्यस्य संयोगादेः” इत्येत्वं स्यात् । समुदायस्य संज्ञित्वे “अचो
रहाभ्याम्” इति यकारस्य सत्यपि द्विर्वचने
तस्यासिद्धत्वादेत्वाभावः, इह च संस्कृषीष्ट “ऋतश्च संयोगादेः”
इतीट्, संस्क्रियत इति “गुणोऽर्तिसंयोगाद्योः” इति गुणः,
दृषत्करोतीति ककारसंनिधौ दकारस्य संयोगाद्योः”? इति
लोपः स्यात्, निर्यात इति शंयोगादेरातः” निष्ठानत्वं स्यात्;
समुदाये तु संज्ञिनि नैते दोषा इत्यालोच्याह–ऽसमुदायः
संज्ञीऽति ।
महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-शंयुज्यन्तेऽस्मिन्मिथो
हलः” इति । नैरन्तर्यं च श्रुतं संज्ञिरूपेऽनुप्रविशतीति युक्तम् ।
प्रत्येकपक्षे तु तदुपलक्षणं स्याद् । अतः समुदाय एव संज्ञी युक्त
इति भावः । “हलः” इति बहुवचननिर्द्देशाद् द्वयोः संज्ञा न
स्यादित्याशङ्क्याह–ऽजातौ चेऽति । च शब्दो यस्मादर्थे,
यस्माज्जातौ बहुवचनम्, तेन द्वयोर्बहूनां चेति ।
अथ यत्र बहवो हलः संश्लिष्टास्तत्र किं द्वयोर्बहूनां चाविशेषेण
संज्ञा ? आहोस्विद्वहूनामेव ? यदि बहूनामेव, इह
“मस्जिनशोर्झलि” इत्यन्त्यादचः परे नुमि मन्स्ज् इति स्थिते
नसजानामेका संज्ञा, न तु सजयोरिति श्कोः संयोगाद्योः”
इति सलोपो न स्यात्, नैष दोषः; मस्जेरन्त्यात् पूर्वं
नुमेषितव्यः, मग्न इत्युपधालोपो यथा स्यात्; अन्यथा
द्वयोस्संज्ञाश्रयेण सत्यपि संयोगादिलोपे तस्यासिद्धत्वान्नलोपो न
स्याद् । इह तर्हि निर्ग्लेयात्, संस्वरिषीष्ट, संस्वर्यते,
निर्ग्लान इति एत्वेड्गुणनिष्ठानत्वानि न स्युः ? अस्तु
तर्ह्यविशेषेण, कुतः ? निश्च्छिद्रत्वस्याविशेषात् !न च
द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्; यथा द्विर्वचनं
समुदायावयवैकाचोर्युगपत् कर्तुमशक्यम्, नैवमत्राशक्तिः,
यथा च समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति–वृक्षः प्रचलन्
सहावयवैः प्रचलतीति न्यायेन , न च तथेह समुदाये प्रवृतया
संज्ञयाऽवयवानां तत्कार्यसिद्धिः । अतो नायं द्विर्वचनन्यायस्य
विषयः । अतोऽविशेषेण द्वयोर्बहूनां चेति स्थितम् । यद्येवम्,
इन्द्रमिच्छति इन्द्रीयति, ततः सन् इन्दिद्रीयिषतीत्यत्र द्वौ
संयोगौ-नदौ, दरौ च; तत्र ङ न्द्राः” इति प्रतिषेधो
नकारवद्दकारस्यापि स्यात् । न वाज्विधेः, अजादेरिति वर्तते, तत्र
कर्मधारयात् पञ्चमी, आदेरचः परे नदरा न द्विरुच्यन्त इत्यर्थः ।
ऊग्नि?रित्यादीनि रूपोदाहरणानि । ऽतिलान्त्स्त्र्यावपतीऽति ।
“हे मपरे वा” इति वर्तमाने “डः सि धुट्” इति च ङश्च” इति
धुट् चर्त्वम् । तत्र यदा न धुट्, तदा नसतरयाः; यदा धुट्
तदा नतसतरयाः । ऽतितौच्छत्रमिऽति । “तनोतेर्डौः सन्वच्च” इति
डौप्रत्ययः, व्यस्तोच्चारणसामर्थ्याद् गुणाभावः, सन्वद्भावाद्
द्विर्वचनमित्वं च, टिलोपः । ऽसंयोगान्तलोपः स्यादिऽति ।
यद्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यादिति भावः । ननु च “छे च”
इति तुकि कृते तकारः पदान्तो न संयोगः, नैतदस्ति, “छे च”
इत्ययं तुग् ह्रस्वमात्रभक्तो न तदन्तग्रहणेन गृह्यत इति पदं
संयोगान्तमेव । पचतीति रूपप्रत्युदाहरणम् । पनसमिति
कार्यप्रत्युदाहरणम् । ऽस्कोस्संयोगाद्योरिति लोपः स्यादिऽति ।
यदि सकारमकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः
॥
मुखनासिकावचनोऽनुनासिकः ॥ १।१।८ ॥
यद्यत्र “मुखं च नासिका च” इति द्वन्द्वः स्याद्, “द्वन्द्वश्च प्राणितूर्य”
आदिसूत्रेणैकवद्भावः स्यात्, ततश्च श नपुंसकम्” इति
नपुंसकत्वे, “ह्रस्वो नपुंसके” इति ह्रस्वत्वे च ऽमुखनासिकवचनःऽ
इति प्राप्नोतीत्युतरपदलोपिनं तत्पुरुषं दर्शयति-ऽमुखसहिता
नासिकेऽति । ऽतयोच्चार्यतऽ इति । एतेन “कृत्यल्युटो बहुलम्”
इति कर्मणि ल्युट्ंअ दर्शयति । “तया” इति करणे कर्तरि वा तृतीया;
करणस्यैव कर्तृत्वेन विवक्षणात् । सूत्रेऽपि “मुखनासिकावचनः”
इति “कर्तृकरणे कृता बहुलम्” इति तृतीयासमासः, षष्ठीसमासो
वा । ऽअनुस्वारस्यैव हि स्यादिऽति । तस्मिन्नुच्चार्यमाणे नासिकाया
एव व्यापारो न मुखस्य, तेन तस्यैव स्याद्, न तु ञमङणनानाम्,
नाप्यभ्र आÄ अप इत्यस्य; तदुच्चारणे मुखस्यापि
व्यापारादित्येवकारेण दर्शयति । ननु यथा “प्रासादवासिन
आनीयन्ताम्” इत्युक्ते ये प्रासाद एव निवसन्ति, ये च प्रासादे भूमौ
च, ते द्वयेऽप्यानीयन्ते, प्रसादवासान्वय उभयेषामस्तीति,
तथेहापिङासिकावचनः” इत्युक्ते यः केवलनासिकावचनः, यश्च
मुखनासिकावचनः-उभयोरपि ग्रहणं भविष्यति; नासिकान्वयस्य
विवक्षितत्वात् । तत्किमुच्यतेऽनुस्वारस्यैव हि स्यादिति,
अनुस्वारस्यापि हि स्यादिति तु वक्तव्यम् ? उच्यते; इह त्रीणि
दर्शनानि-कृत्स्न एवानुनासिको मुखेन नासिकया चोच्चार्यते,
पूर्वो भागो मुखेन परो नासिकया, विपरीतं वा ।
नासिक्यभागानुरागाच्चेतरोऽपि भागस्तद्वदेव भासते इति ।
तत्रोतरस्मिन्दर्शनद्वये नासिकान्वयस्य
भागविषयत्वान्नासिकावचनग्रहणेनोभयवचनो न गृह्यते इति
सुष्ठूअक्तम्–ऽअनुस्वारस्यैव हि स्यादिऽति । ऽकचटतपानां मा
भूदिऽति । ते हि मुखेनैवोच्चार्यन्ते इत्यसति नासिकाग्रहणे
तेषामेव स्यात्, ततश्च तर्प्तुमिति “अनुदातोपदेश”
इत्यनुनासिकलोपः स्यात्,”ओदनपक्” इति “अनुनासिकस्य क्विझलोः
क्ङिति” इति दीर्घः स्यादिति
महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-“अनु पश्चान्मुखस्य नासिका
व्याप्रियते यस्मिन्”,ङासिकाया वा पश्चान्मुखं व्याप्रियते यस्मिन्”
इति । तेन भागविषयो नासिकाव्यापार इति सूचनात्
प्रासादवासिन्यायस्यायमविषय इत्युक्तं भवति ।
तुल्यास्यप्रयत्नं सवर्णम् ॥ १।१।९ ॥
तुल्यशब्दोऽयं यद्यपि तुलया संमितं तुल्यमिति ङौवयोधर्म” इति
यतमुत्पाद्य व्युत्पाद्यते, तथापि व्युत्पत्यर्थमेव तुलोपादीयते,
रूढशब्दस्त्वयं प्रवीणः, प्रतिलोमादिवदित्याह-ऽतुल्यशब्दः
सदृशपर्यायऽ इति । ननु ङौवयोधर्म” इत्यत्र वक्ष्यति–“यथा तुला
द्रव्यान्तरं परिच्छिनति, तथा तुल्यामपि सादृश्येन
परिच्छिनतीत्येततुलया तुल्यस्य साधर्म्यम्” इति, सत्यम्; न ह्यएवं
लौकिकाः प्रतियन्ति । तथा हि -“तुल्य” इत्युक्ते शदृश” इति प्रत्ययो
भवति, न तु कश्चिदवयवार्थः प्रतीयते । ऽआस्ये भवमास्यमिऽति ।
लोकसिद्धं तावदास्यमोष्ठात्प्रभृति प्राक्काकलकाद्-अस्यन्ते
क्षिप्यन्तेऽनेन वर्णा इति कृत्वा । काकलकं नाम ग्रीवाया उन्नतप्रदेशः
। इह तु तस्मिन्नास्ये भवमास्यमित्यर्थः । “दिगादिभ्यो यत्”
“शरीरावयवाच्च” इति यत्प्रत्ययः । किं
पुनस्तदित्याह–ऽताल्वादिस्थानमिऽति । यस्मिन्वर्णा निष्पद्यन्ते तत्
स्थानम् । आदिश्ब्देन नासिकादीनां ग्रहणम् । नासिकापि न बाह्या
वर्णोत्पतिनिमितम्, किं तर्हि ? अन्तरास्ये चर्मविततमस्ति,
पणवचर्मवत्, तत्संबद्धा रेखा नासिका, तस्यां वायुनाऽभिहतायां
वर्णोत्पतिः । यदि पुनर्लौकिकमास्यं गःह्यएत, तदा
तुल्यास्यप्रयत्नमिति द्वन्द्वगर्भो बहुव्रीहिः स्यात्-आस्यं च प्रयत्नश्च
आस्यप्रयत्नौ, तौ तुल्यौ यस्येति; त्रिपदो वा बहुव्रीहिः – तुल्य
आस्य प्रयत्नो यस्येति । तत्र द्वन्द्वगर्भे आस्यग्रहणं व्यर्थं स्यात्,
सर्वेषां हि ततुल्यम् । विसर्जनीयस्यैकीयमतेनोरस्यत्वात्
सावर्ण्याभावेऽपि न दोषः, त्रिपदे तु बहुव्रीहावास्येन प्रयत्नस्य
विशेषितत्वादास्याद्वाह्याः प्रयत्ना हापिता भवन्ति, किन्तु
ताल्वादिस्थानं तुल्यत्वेनाविशेषितं स्यात् । ततश्च
भिन्नस्थानानामपि जबगडदानां सवर्णसंज्ञा प्राप्नोति । तत
ऊर्ग्ज इति “झरो झरि” इति गकारस्य जकारे लोपः स्याद् ।
अतस्तद्धितान्तस्यैव ग्रहणम् । तत्रापि यदि द्वन्द्वगर्भो बहुव्रीहिः
स्यात्, स्थानेन प्रयत्नो न विशेषितः स्यात्; ततश्च
ककारङ्कारयोर्मिथः सवर्णसंज्ञा न स्यात्; बाह्यप्रयत्नस्य भिन्नत्वात्
। ततश्च शङ्कितेति “अनुस्वारस्य ययि परसवर्णः” इति ङ्कारो न
स्यात् । अथ सत्यपि बाह्यप्रयत्नभेदे आभ्यन्तरस्य
प्रयत्नस्याभेदमाश्रित्य संज्ञा स्यात्, चकारशकारयोरपि
सत्याभ्यन्तरभेदे बाह्याभेदमाश्रित्य सवर्णसंज्ञा प्राप्नोति । ततश्च
अरुश्च्योततीति वक्ष्यमाणप्रत्युदाहरणं नोपपद्यते इतीमं दोषं
दृष्ट्वा त्रिपदोऽयं बहुव्रीहिरिति दर्शयति–ऽतुल्य आस्ये प्रयत्नो
यस्येऽति । तद्धितान्त आस्यशब्दो न
स्वाङ्गवाच्येवेति”अमूर्द्धमस्तकात्” इत्यलुङ्न भवति ।
नन्वस्मिन्नपि पक्षे भिन्नविभक्तिकत्वात् प्राधान्याच्चास्यं
तुल्यत्वेनाविशेषितं स्याद्; नैवात्रास्यं तुल्यतया विशेष्यते,
भेदनिबन्धना हि तुल्यता । न च कखगघङं भिन्नं स्थानम्,
एकत्वात्कण्ठस्य, किन्तु तद्धितान्तस्यास्यशब्दस्याश्रयणसामर्थ्यादस्य
इत्येकत्वं विवक्षितम् । तेनैकस्मिन्नेव ताल्वादिके स्थाने यः
प्रयत्नः, स तुल्यो ययोरित्याश्रयणान्न कश्चिद्दोषः । ऽसमानजातीयं
प्रतीऽति । एतच्च संज्ञाविधानसामर्थ्याल्लभ्यते, अन्यथा
यत्किञ्चनवर्णापेक्षया तुल्यास्याप्रयत्नत्वेन सवर्णत्वे लब्धे
तदाश्रयमन्यस्यापि कार्यं स्यात्, सवर्णसंज्ञाविधानमनर्थकं स्यात् ।
न च रेफोष्मनिवृत्यर्थं वचनम्; रेफस्यापि रेफः सवर्ण एव,
एवमूष्मस्वपि द्रष्टव्यम् । संबन्धिशब्दत्वाद्वा सम्बन्धिशब्दो हि
तुल्यास्यप्रयत्नशब्दः, ततश्च यथा तुल्याय कन्या दातव्येत्युक्ते दात्रा
तुल्यायेति गम्यते, तथेहापि । अथ वा, महती संज्ञा क्रियते;
अन्वर्था यथा विज्ञायेत-समानएऽस्य वर्णः सवर्ण इति । यदि च
समानजातीयमेव प्रति सवर्णसंज्ञा भवति, एवं समानोऽस्य वर्णो
भवति ।
ऽचत्वारऽ इत्यादि । द्विविधाः प्रयत्नाः-बाह्याः, आभ्यन्तराश्च ।
तत्राभ्यन्तराश्चत्वारो वृतौ दर्शिताः । आभ्यन्तरत्वं
पुनरेषाम्-स्थानकरणव्यापारेण; उत्पत्तिकाल एव भावात् । स्थानं
ताल्वादि, करणं जिह्वाया अग्रोपाग्रमध्यमूलानि । बाह्याः
पुनरेकादश-विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः,
अल्पप्राणः, महाप्राणः, उदातः, अनुदातः, स्वरितश्चेति । बाह्यत्वं
पुनरेतेषाम्–वर्णनिष्पतिकालादूर्ध्वं वायुवशेनोत्पतेः । तत्र
स्पृष्टकरणाः स्पर्शाः, कादयो मावसानाः स्पर्शाः । स्पृष्ट्ंअ
स्पृष्टतागुणः, करणं कृतिरुच्चारणप्रकारः, स्पृष्टतानुगतं करणं
येषां ते तथोक्ताः । एवमन्यत्रापि – ईषत्स्पृष्टकरणा अन्तःस्थाः;
यरलवा अन्तःस्थाः । विवृतकरणा ऊष्माणः स्वराश्च; शपसहा
ऊष्माणः, स्वराः सर्व एवाचः । वर्गाणां प्रथमद्वितीयाः;
शषसविसर्जनीयजिह्वामूलीयोपध्मानीयाः; यमौ च प्रथमद्वितीयौ;
विवृतकण्ठाः, श्वासानुप्रदानाः अघोषाः; वर्गयमानां
प्रथमेऽल्पप्राणाः, इतरे महाप्राणाः । वर्गाणां तृतीयचतुर्थाः,
अन्तःस्थाः, हकारानुस्वारौ,यमौ तृतीयचतुर्थौ संवृतकण्ठा
नादानुप्रदाना घोषवन्तश्च । वर्गयमानां तृतीया अन्तःस्था
अल्पप्राणाः, इतरे महाप्राणाः । यथा तृतीयास्तथा पञ्चमाः,
आनुनासिक्यमेषामधिको गुणः । तत्र यमा नाम
वर्गेष्वादितश्चतुर्णां पञ्चमेषु परतः त एव नासिक्या भवन्ति ।
तद्यथा–पलिक्रीरिन्, चख्नतुः, आग्मन्नायः, जघ्नतुः,
अप्नस्वतीमित्यादि? । य एते द्विविधाः प्रयत्नाः, तेषामिह
सवर्णसंज्ञायामाभ्यन्तराः स्पृष्टतादयश्चत्वार एवाश्रीयन्ते, न
विवारादयो बाह्याः; आस्यग्रहणेन तेषां निवर्तितत्वात् । अ अ अ
इत्यादि । अत्र सवर्णसंज्ञो भवतीति प्रकृतं बहुवचनान्तं
विपरिणतमनुषज्यते, त्रयोऽकारा मिथः सवर्णंसंज्ञा भवन्तीत्यर्थः ।
कथं त्रयोऽकाराः, यावता प्रत्युच्चारणं भेदेऽनन्ताः, अभेदे त्वेक
एव ? तत्राह–ऽउदातेऽति । अनेन प्रकारेण त्रय इत्यर्थः । एवं च “त्रयः”
इत्यस्य “त्रिविधा”इत्यर्थो भवति । तत्राकुहविसर्जनीयाः कण्ठयाः,
इचुयशास्तालव्याः, उपूपध्मानीया ओष्ठयाः, ऋटुअरषा मूर्द्धन्याः,
लृतुलसा दन्त्याः, एऐ कण्ठ।ल्तालव्यौ, ओऔ कण्ठ।लेष्ठयौ,
वकारो दन्तोष्ठयः-इत्येवं तुल्यस्थानप्रयत्नाः सर्वेऽकारादयो
मिथः सवर्णसंज्ञा भवन्तीति । ऽअन्तःस्था । द्विप्रभेदाऽ इति । अत्रापि
पूर्ववदनुषङ्गः, अन्तःस्था इत्युक्तेऽपि रेफनिवृत्यर्थं स्वरूपेण
पठति । ऽयवला ऽइति । ऽरेफोष्मणां सवर्णा न सन्तीऽति ।
विजातीयाभिप्रायमेतत् । सजातीयास्तु
रेफोष्माणस्तुल्यस्थानप्रयत्नास्सवर्णा भवन्त्येव । तत्र रेफस्य
तावद्यवला भिन्नस्थाना ऋटुअरषा भिन्नप्रयत्ना अन्ये भिन्नस्थानप्रयत्नाः ।
एवमूष्मणामपि सवर्णाभावो वेदितव्यः ।
ऽवर्ग्यऽ इत्यादि । वर्गे भवो वर्ग्यः, दिगादित्वाद्यत् ।
ऽवर्ग्येणऽ–स्ववर्गान्तःपातिना । तद्यथा ककारः खकारेण ।
ऽतर्प्तेऽति । “तृप् प्रीणने” । ऽइचुयशानामिऽति । एषां मध्ये
येषां प्रसङ्गः, तेषां मा भूदित्यर्थः । ऽअरुश् श्च्योततीऽति ।
“श्च्युतिर् क्षरणे” । अरुःशब्दस्य रुत्वविसर्जनीययोः “वा शरि” इति
सकारः, तस्यापि श्चुत्वे शकारः ।
ऽऋकारलृकारयोरिऽति । स्थानभेदान्न प्राप्नोतीत्यारम्भः ।
श्रुतत्वाच्चानयोरेवमिथः सवर्णसंज्ञा विधीयते, न त्वेतयोरन्येन
सह । ऽहोतृकारऽ इति । कथं पुनरत्र समुदायिनोऽन्तरतमो
भवति न समुदायस्य, तत्रापि ऋकारस्यैव न लृकारस्येत्यत
आह-ऽउभयोरिऽत्यादि । उभयोरन्तरतमो दीर्घो न सम्भवति,
लृकारस्यापि दीर्घो न सम्भवतीत्यत आञ्कार एव भवत्युभयोरित्यर्थः
। ननु च नैतत्सवर्णसंज्ञायाः प्रयोजनम्, कथम् ? “अकः सवर्णे”
इत्यत्र तु वक्ष्यति “ऋति ऋ वा वचनम्, लृति लृ वा वचनम्” इति ।
तत्र चायमर्थः-अकां सवर्णे ऋति परतो वा ऋ भवति; द्विमात्रोऽयम्,
मध्ये द्वौ रेफौ तयोरेका मात्रा,अभितोऽज्भक्तेरपरा,
ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदादृकारेणाग्रहणाद्
अनण्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते । लृति लृ वा
वचनमित्ययमपि द्विमात्र ईषत्स्पृष्टश्च, मध्ये द्वौ लकारौ,
तयोरेका मात्राऽभितोऽज्भक्तेरपरा । पूर्ववदप्राप्तौ विधीयते ।
तत्र ऋति ऋ वा वचनमित्यत्र वाशब्दो दीर्घस्य समुच्चयार्थः,
तेनाप्राप्त एव दीर्घो भविष्यति । ननु यद्यविधायैव सवर्णसंज्ञां
तदुच्यते, ततोऽक इति सम्बन्धादङ्मात्रस्य लृति तत्कार्य स्याद्
दध्य्लृकारो मध्व्लृकार इति, संज्ञाविधाने तु ऋकार
ऋकारस्यैव सवर्ण इति तत्रैव व्यवस्थितं भवति । तस्मादविधेया
सवर्णसंज्ञा ? न विधेया, यदेतद् ऋतीति “एतदृत इति वक्तव्यम्,
सवर्ण इत्येव, ऋकारस्य ऋकार एव सवर्णः” इति ऋत्येव भविष्यति ।
तत लृति, ऋत इत्येव । इदं चासवर्णार्थम्, तेन लृति रूपद्वयं
सिद्धम्-होतृकारः, होत्लृकार इति । तन्न वक्तव्यं भवति । कथम्
? ऋ वा वचनम्, लृ वा वचनमिति ब्रुवतापि तयोरच्त्वं
वक्तव्यम्; अन्यथा विधानमात्रमनयोः स्याद्, न त्वच्कार्यः प्लुतः ।
सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद् ग्रहणे सति
प्लुतसंज्ञा भवतीति प्लुतसिद्धिः । एवं च होतृ ऋकार इति
ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त ऋ
भविष्यति, कदाचिद्विवृतः शुद्धो दीर्घः । लृकारेऽपि
कदाचिदृकारान्तरतम ऋकारः, कदाचिद् लृकारान्तरतम लृकार
इति, सत्यम्; सवर्णसंज्ञायां तन्न वक्तव्यं भवति, तद्वोच्येत, इदं
वा, को न्वत्र विशेषः । इदं वाऽवश्यं वक्तव्यम्, इदमपि सिद्धं भवति
“ऋत्यकः” – खट्वालृकारः, मातृलृकारः । “वा
सुप्यापिशलेः”-उपलृकारीयति, उपाल्कारीयतीति ।
ऋदिताम्लृदितां च धातूनां
पृथगुपदेशसामर्थ्यादनुबन्धकार्याणअमसङ्करः ॥
नाज्झलौ ॥ १।१।१० ॥
अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति;
संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च ।
नाप्यचामज्भिर्हलां हल्भिः सवर्णत्वनिषेधः; अत एव निर्देशात् ।
अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति
पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते ।
तत्र च यद्यपि ङाज्झलौ” इति सामान्येनोक्तम्,
तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः
। यद्येवम्, नाण्शलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः ।
किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । ऽअच्च हल् चेऽति । अनेन
नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु
पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह ।
सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु
दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते
इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ?
वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा,
ततः “आदिरन्त्येन सहेता” इति प्रत्याहारः, ततः ङाज्झलौ” इत्यस्य
निष्पतिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहअरेणेष्टविषये
सवर्णसंज्ञा प्रवर्तते, न त्वेतत्सूत्रनिष्पतिसमये । ततश्च
“अणुदित्सवर्णस्य च” इत्येतत् स्वाङ्गभूतेषु
उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु “अस्य च्वौ”
इत्यादिषु वर्तते, न त्वङ्गेषूपदेशादिष्विति ङाज्झलौ”
इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं
चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण
इकारः शकारस्य? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव
निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य
ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः
सवर्णसंज्ञा न स्यात् । ततश्च “परःशतानि कार्याणि” इत्यत्र
शतात्पराणि, शतादधिकानीति विगृह्य “कर्तृकरणे कृता बहुलम्”
इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते “अनचि च” इति
शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य
“झरो झरि सवर्णे” इति लोपो न स्यादिति सर्वदा
शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां
ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति “कुमारी शेते”
इत्यत्र मा भूदिति दीर्घविधौ “अचि ” इत्यनुवर्त्यं
तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव
दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन
ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्;
अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं
चर्म्मेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो
दधिशीतमित्येतदुभयथापि सिद्ध्यतीति
प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । ऽवैपाशा ऽइति -भवार्थेऽण् ।
ऽआनडुहमिऽति-विकारे “प्राणिरजतादिभ्योऽञ्” ॥
ईदूदेद् द्विवचनं प्रगृह्यम् ॥ १।१।११ ॥
अत्र चत्वारः पक्षाः सम्भवन्ति-ईदादि विशेष्यम्, द्विवचनं
विशेषणम्, तत्र द्विवचनान्तत्वमीदादेर्न सम्भवतीति
द्विवचनसंज्ञकमीदादि प्रगृह्यमिति प्रथमः पक्षः । ईदादि विशेषणम्,
द्विवचनं विशेष्यम्, विशेषणेन तदन्तविधावीदाद्यन्तं द्विवचनमिति
द्वितीयः पक्षः । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति पश्चाद्
द्विवचनान्तस्येदादिभिर्विशेषणादीदाद्यन्तं द्विवचनान्तमिति तृतीयः
। ईदादिविशिष्टेन द्विवचनेन तदन्तविधावीदाद्यन्तं यद्
द्विवचनम्, तदन्तं प्रगृह्यमिति चतुर्थः । तत्राद्ये पक्षे-अग्नी, वायू,
खट्वे इत्यादावेव स्यात्; एकादेशस्य परं प्रत्यादिवद्भावेन
द्विवचनमीदादीति, पचेते पचेथे पचावहे
इत्यादावेकारमात्रस्याद्विवचनत्वान्न स्यात् । तृतीये
तु-कुमार्योरगारं कुमार्यगारम्, वध्वोरगारं वध्वगारम्;
इत्यत्रापि स्यात्-एतद्धि प्रत्ययलक्षणेन द्विवचनान्तमीदाद्यन्तं च श्रूयते
। यथा हि “तावकीनः” इत्यादावादेशेन संख्याविशेषो व्यज्यते,
तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वमभिव्यज्येतेति
स्याद् द्विवचनान्तस्यापि समासः । चतुर्थे
कुमार्यगारमित्यादावप्रसङ्गः; द्विवचनस्यानीदाद्यन्तत्वात्,
किन्त्वशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे-अत्रापि प्राप्नोति,
कथम् ? शुक्लशब्दाद्वस्त्रवृतेर्द्विवचनमौ, ङपुंसकाच्च” इति
शीभावः, ततश्च्विः, शीशब्दस्य शुपो धातु” इति लुक्, “अस्य
च्वौ” तद्धितान्तत्वात्सुः, अव्ययत्वाल्लुक्; अत्र शीशब्द ईकारान्तं
द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा
प्राप्नोति । अयं च तृतीयेऽपि पक्षे समानो दोषः । किं
च-संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात्
तदन्तपक्षोत्थानमेव नास्ति, अतो द्वितीयं पक्षमाश्रित्याह-ऽईद् ऊद्
एद् इत्येवमन्तं द्विवचनमिऽति । नन्वस्मिन्नपि पक्षे ईदूतोः
केवलयोरेव संभव इत्यग्नी इत्यादिकं यद्यपि सिध्यति,
तथाप्येकारान्तस्य तु द्विवचनस्य “पचेते” इत्यादौ सम्भवातत्रैव
स्यात्, न खट्वे इत्यादौ; व्यपदेशिवद्भावेनात्रापि भविष्यति ।
किं पुनरत्र प्रमाणमयमेव पक्ष आश्रीयत इति ?
तृतीयचतुर्थयोस्तावदसम्भव एव; संज्ञाविधौ प्रत्ययग्रहणे
तदन्तविधिप्रतिषेधात् । संज्ञायाश्च संज्ञ्यपेक्षायामनन्तरश्रुतं
द्विवचनमेव संज्ञीत्युक्तमिति प्रथमस्याप्यसम्भवः । अत्र चतुर्थः
पक्षोऽसम्भवादेव निरस्तः; न दोषवत्वात् । शुक्ल्यास्तां वस्त्र इत्यत्र
हि “अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधते” इति
अन्तरङ्गमपि शीभावं बाधित्वा शुपो धातु” इति लुकि
कृतेऽनीकारान्तं द्विवचनं भवति । अग्नी इत्यादौ प्रगृह्यत्वात्
“प्लुतः प्रगृह्या अचि” इति प्रकृतिभावः । प्रत्युदाहरणेषु तदभावात्
स्वरसन्धिः । तपरकरणं गुणान्तरभिन्नानां तत्कालानां
ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां
निवृत्यर्थमिति चेत्, न; ईदूतोरनण्त्वात् ।
स्यादेतत्-जातिपक्षे यद्यपि दीर्घोच्चारणसामर्थ्यात् प्रयत्नाधिक्यात्
अकुर्वह्यत्रेत्यादौ ह्रस्वानां न स्यात्, प्लुतानां तु स्यादेव । एकारस्य
त्वण्त्वादपि प्लुतस्य प्रसङ्गः, अतः प्लुतनिवृत्यर्थं
तपरकरणमिति, तन्न; इष्टत्वात् ।
किमर्थं पुनः प्लुतानां प्रगृह्यसंज्ञेष्यते ? प्रगृह्याः प्रकृत्येति
प्रकृतिभावो यथा स्यात् । मा भूदेवम्, प्लुतः प्रकृत्येत्येव
भविष्यति । यत्र तर्हि प्लुताश्रयः प्रकृतिभावः
प्रतिषिध्यते-“अप्लुतवदुपस्थिते” इति, तत्र प्रगृह्याश्रयः प्रकृतिभावो
यथा स्याद् अग्नी३ इतीति । इह च अग्नी३
अप्रगृह्यस्येत्यनुनासिकपर्युदासो यथा स्यात् । अतः प्लुतानामपि
प्रगृह्यसंज्ञाया इष्टत्वान्न तन्निवृत्यर्थमपि तपरकरणमित्यत
आह-ऽतपरकरणमसन्देहार्थमिऽति । असति हि तस्मिन् समाहारद्वन्द्वे
नपुंसकह्रस्वत्वे च कृते य्वीति निर्देशे सन्देहः स्यात् ।
इतरेतरयोगाद्वन्द्वेऽपि सन्देह एव । तस्मादसन्देहार्थं तपरकरणम्
। यद्यसन्देहार्थमपि तपरत्वं क्रियते, तदेव प्लुतस्येष्टां संज्ञां
व्यावर्तयति,तत् प्लुतस्य कथं संज्ञा ? मा भूत् प्लुतस्य, तस्य
त्वसिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वारसन्धिमनुनासिकं च
प्रतिभन्त्स्यति, सिद्धः प्लुतः स्वरसन्धिषु,प्लुतः प्रकृत्येति
लिङ्गात् । अन्यथा कार्यिणोऽसत्वात्कस्य प्रकृतिभावो विधीयते !
यस्य च विकारप्रसङ्गः, प्लुतप्रकरणे तस्य प्रकृतिभावो विधेयः,
प्लुतस्यासिद्धत्वेन तस्य विकाराप्रसङ्ग इति प्लुतस्यासतः
प्रकृतिभावविधानमनुपपन्नम् । अस्तु, स्वरसन्धिप्रकरणे प्लुतः
सिद्धः, संज्ञाविधावसिद्धः । संज्ञाविधौ च सिद्धः, कथम् ? कार्यकालं
संज्ञापरिभाषम्, ततश्च प्रगृह्याः प्रकृत्येत्यत्रास्योपस्थानात्
संज्ञापि स्वरसन्धिप्रकरणान्तर्गता । एवं तर्हि सिद्धः प्लुतः
स्वरसन्धिष्विति नाश्रीयते, प्लुतभावी प्रकृत्येति स्थानिन एव
प्रकृतिभावो विधास्यते ? एवमप्यनुनासिकपर्युदासो न सिध्यति,
कार्यकालपक्षे संज्ञायामपि प्लुतस्य सिद्धत्वात् । एवं तर्हि
“यथोद्देशं संज्ञापरिभाषम्” ततश्चास्मिन् प्रदेशे संज्ञायां
क्रियमाणायां प्लुतस्यासिद्धत्वात् स्थानिनि प्रवृता संज्ञा
स्वरसन्धिमनुनासिकं च प्रतिभन्त्स्यति । ननु यद्यपि संज्ञायामसिद्धः
प्लुतः, अनुनासिकपर्युदासे तु सिद्धः, ततश्च यस्यानेन संज्ञा कृता
द्विमात्रस्य, न सोऽनुनासिकविधिं प्रति स्थानी, किन्तु त्रिमात्र एव । न
च स्थानिवद्भावातस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । अवश्यं च
“सिद्धः प्लुतः स्वरसन्धिषु” इत्याश्रयणीयम्, दण्ड-आ३ढकमिति
प्लुतस्य सवर्णदीर्घेण निवृत्तिर्यथा स्यात् । तथा च “अङुण्” इत्यत्र
सर्वैरेव ग्रन्थकारैरुक्तम् । तथा सुश्लोका३ इति
सउश्लोकेति–अत्रापि “अप्लुतवदुपस्थिते” इति प्लुताश्रये
प्रकृतिभावे प्रतिषिद्धे गुणो भवन् प्लुतमेव निवर्तयति, न तु
स्थानिनम्; अन्यथा ह्यादेशरूपे प्लुतः श्रूयेत । तदिह यथोद्देशेऽपि
संज्ञापरिभाषे, कथमिवेष्टसिद्धिः ? कथं वा ग्रन्थेषु
पूर्वापरविरोधपरिहारः ? इति विपश्चितः प्रष्टव्याः ।
ऽमणीवादीनामिऽति ।शिद्धये” इति शेषः । न पुनर्मणीवादीनामपरः
प्रतिषेधो विधेयः । न चेदं वचनम्,
भाष्यवार्तिककाराभ्यामपठितत्वात्; किन्तु मणीवादीनां निर्वाहः
कर्तव्य इत्यर्थः । तत्र “मणीवोष्ट्रस्य लम्बेते” इत्यत्र
वाशब्दस्योपमानार्थस्य प्रयोगः । रोथसीवेत्यादौ
थछान्दसत्वादिति निर्वाहः ॥
अदसो मात् ॥ १।१।१२ ॥
“स्वरितेनाधिकारः” इत्यत्र द्वौ पक्षौ-अर्थाधिकारः,
शब्दाधिकारश्चेति । तत्रार्थाधिकारो नाम-यस्य यस्मिन्सूत्रे
स्वरितत्वं प्रतिज्ञातं तत्र तस्य योऽर्थः स उतरत्राधिक्रियत इति ।
शब्दाधिकारस्तु स एव
शब्दोऽविवक्षितार्थोऽधिकृतस्ततत्सूत्रानुगुणमर्थं प्रतिपादयतीति ।
तत्रार्थाधिकारे पूर्वत्रेदादिभिस्तदन्तं प्रत्यायितम्, इहानुवृतम्
“मात्” इत्यनेन विशेष्येतेति “अमुकेऽत्र” इत्यत्रापि प्रसङ्गः,
शब्दाधिकारे त्विदादिमात्रस्येहानुवृतस्यापि विशेष्याभावादसति
तदन्तविधौ “मात्” इत्यनेन विशेषणाददोष इति
तमाश्रित्याह-ऽतस्मात्परे ईदूदेदन्ताऽ इति । ऽप्रगृह्यसं ज्ञाऽ इति ।
प्रगृह्यशब्दः संज्ञा येषां ते तथोक्ताः । यद्यपि पूर्वसूत्र एव
प्रगृह्यशब्दः संज्ञात्वेन विनियुक्तः, तथापीह संज्ञिनो न प्रत्याययति;
स्वरूपपदार्थकस्यैव तस्येहानुवृतेः । किमर्थमिदमुच्यते, यावता
स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात्
पूर्वेणैव सिद्धा संज्ञा; स्वरसन्धिप्रकरणे च
मुत्वस्यासिद्धत्वादेकारस्यैव विकारप्रसङ्गे प्रकृतिभावोऽपि
सिद्धः,अनुनासिकपर्युदासश्च कार्यकालपक्षे लिङ्गत्रयेऽपि द्विवचने
सिद्धः ? “अणोऽप्रगृह्यस्य” इत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां
क्रियमाणायां मुत्वस्य सिद्धत्वात् ।
अतोऽनुनासिकपर्य्युदासेऽद्विवचनार्थोऽयमारम्भः, प्रकृतिभावे तु
पुंसि द्विवचनार्थश्च । नन्वारब्धेऽप्यस्मिन्यथोद्देशपक्षे संज्ञायां
कर्तव्यायां मुत्वमीत्वयोराश्रयात्सिद्धत्वेऽपि स्वरसन्धिप्रकरणे
तयोरसिद्धत्वादयावेकादेशप्रसङ्गः, अमी आसते इत्ययादेशः, अमू
आसाते इति पुंस्यावादेशः, अमी अत्र इति “एङः पदान्तादति”
इत्येकादेशः । न च संज्ञाया वैयर्थ्यम्;
अनुनासिकपर्युदासेनार्थवत्वात् । तत्र हि कर्तव्ये
मुत्वमीत्वयोरसिद्धत्वाभावाद्ययोरनेन संज्ञा कृता तावेव ?न, न
तं प्रति । कार्यकालपक्षे तु संज्ञायामपि कर्तव्यायामाश्रयात्
सिद्धत्वं नाश्रयणीयम्;”अणोऽप्रगृह्यस्य” इत्यत्रोपस्थितेऽस्मिन् कर्तव्ये
मुत्वमीत्वयोः सिद्धत्वात्, तावता चास्य चरितार्थत्वात् ।
तदेवमुभयोरपि पक्षयोः स्वरसन्धिः स्यादेव ? उच्यते;
यद्यनुनासिकपर्युदास एव प्रयोजनमभविष्यद्
“अणोऽप्रगृह्यस्यानुनासिकोऽदसो न ” इत्येवावक्ष्यत् । अमुके,
अमुयेत्यादावनण्त्वादनवसानत्वाच्चाप्रसङ्गः । अतः
संज्ञारम्भसामर्थ्यात् प्रकृतिभावार्थत्वमप्यस्य विज्ञायते, तच्च
स्वरसन्धिप्रकरणे मुत्वमीत्वयोः
सिद्धत्वमन्तरेणानुपपन्नमित्युभयोरपि पक्षयोः
सामर्थ्यादसिद्धत्वबाधः ।
ऽमादिति किमिऽति । “अदस” इति षष्ठी, अमी अमू इत्यत्र च
मूत्वमीत्वयोः स्थानिनावेकादेशावन्तवद्भावाददस्-शब्दग्रहणेन
गृह्यएते इति तदादेशयोरपि तद्ग्रहणेन ग्रहणादस्ति
तावदिष्टसिद्धिः । एदिति च निवर्तिष्यते, न च मात्परावीदूतौ
सम्भवत इत्यतिप्रसङ्गोऽपि नास्तीति प्रश्नः । ऽअमुकेऽत्रेतिऽ ।
एकयोगनिर्द्दिष्टानामेकदेशानुवृत्तिर्दुर्ज्ञानेति भावः । न च
मादित्यस्मिन् सत्यपि एद्ग्रहणसामर्थ्यादत्र प्रसङ्गः; मादित्यस्य
वैयर्थ्यप्रसङ्गात् । न च विकल्पः; अतुल्यबलत्वात् । तद्धि पूर्वत्र
चरितार्थम्, मादिति त्वकृतार्थम् । न चानुवृत्तिसामर्थ्यम्;
अन्यानुरोधेनाप्यनुवृत्तिसम्भवात् ॥
शे ॥ १।१।१३ ॥
“शे” इति श्रुतेरविशेषात् “काशे”,”कुशे” इत्यत्रापि प्रसङ्ग इति
मत्वा पृच्छति–किमिदमिति । सुपामादेश इति । काशे तैत्यत्र तु
लाक्षणिकत्वादग्रहणमिति भावः । युष्म इति । षष्ठीबहुवचनस्य
“सुपां सुलुक्” इत्यादिना शे आदेशः,”शेषे लोपः” । अस्मे इति ।
चतुर्थीबहुवचनस्य शे । त्वे मे इति । सप्तम्येकवचनस्य
त्वमावेकवचने । असमे इन्द्राबृहस्पती इति ।
छान्दसमुदाहरणमित्युक्त्वा, इतरतु लोकिकमनुकरणमित्युक्तेन
युष्मे वाजबन्धवः, त्वे रायः, मे राय इत्येषामप्यनुकरणत्वमुक्तं
स्याद् । अतो यदत्रेतरदिति विवक्षितं तत्स्वरूपेण पठति । युष्मे
इतीत्यादि । लौकिकमनुकरणमित्यनेन च सूत्रस्यावश्यारभ्यात्वं
दर्शंयति । “अस्मे इन्द्राबृहस्पती” इत्यादि छान्दसत्वादपि सिद्ध्येत्
। इदं तु पदकारैरिति परं प्रयुज्यमानं लौकिकम्, अतो न
छान्दसत्वात्सिद्धिरिति ॥
निपात एकाजनाङ् ॥ १।१।१४ ॥
” व्याहरति मृगः”, “व्यवहृपणोः समर्थयोः” इति निर्देशादेकाजिति
कर्मधारयः, न बहुव्रीहिरित्याह-एकश्चासाविति । यद्येवम्,
तएकग्रहणमनर्थकम्, निपातोऽजित्येवास्तु, तत्र निपातेनाज्
विशिष्यते । निपातसंज्ञकोऽजिति विपर्ययस्तु न भवति; “अजन्तो
निपातः” इति व्यावर्त्याभावाद् हलन्तानां सत्यसति वा प्रगृह्यत्वे
विशेषाभावात् । ननु पुरोस्तीति हलन्तस्य प्रकृतिभावाद्रो रुत्वं
न स्यात्,नैतदस्ति; प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात्, सकारस्य च
कार्यान्तराप्रसङ्गात् । ननु चेदमस्ति प्रयोजनमचा निपातस्य
विशेषणे किम् ? अजन्तस्य यथा स्याद्, अज्मात्रस्य मा भूत् इति । एवं
सत्यनाङित्यनर्थकं स्यात्, अतो निपातेनाज् विशेष्यते, नार्थ
एकग्रहणेन, न; अच्समुदायनिवृत्यर्थं तर्ह्येकग्रहणम् ऐउ अपेहीति
समुदायस्यैव स्याद्, नावयवानाम्; एकाज्द्विर्वचनवदजन्तस्यैव
प्रकृतिभावः स्यात्, पूर्वयोस्तु स्वरसन्धिः स्यात् । ननु च
निपातोऽजिति चैकत्वस्य विवक्षितत्वात् समुदायस्य न भविष्यति,
एवं तर्ह्यच्समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन्
ज्ञापयति-“वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव
निर्द्दिश्यते” इति । तेन दम्भेर्हल्ग्रहणस्य
जातिवाचकत्वात्सिद्धमित्युपपन्नं भवति ।
निपात इति किमिति । निपातस्यैवैकाचोऽर्थवत्वसम्भव इति प्रश्नः ।
चकारारात्रेति–कृञो लिटि तिपो णल् । अन्वयव्यतिरेकाभ्यां
प्रत्ययस्याप्यर्थवत्वमिति भावः । आकारोऽत्र ङिद्विशिष्ट उपातः,
प्रयोगे च न क्वचिन् ङ्कारः श्रूयते । अतोऽर्थवशेन इङ्त्वाइङ्त्वे
व्यवस्थापयति ।
ईषदर्थ इत्यादि । ईषदर्थे-आ अ उष्णाः उ ओष्णः । आङीषदर्थ इति
चोक्तम् । क्रियायोगे – आ अ इतः उ एतः । प्रादिषु पठितः ।
मर्यादाभिविधौ चेति । समाहारद्वन्द्व आगमस्यानित्यत्वान्नुमभावः ।
मर्यादासहितो वाऽभिविधिः । मर्यादायाम्- आ अ उदकान्ताद् उ
ओदकान्तात् । अभिविधौ – आ अ अहिच्छत्राद् उआहिच्छत्रात् । आह च
–“विना तेन मर्यादा, सह तेन इत्यभिविधिः” ।
“आङ्मर्यादाभिविध्योः” इति च ङिन्निर्द्दिष्टः पूर्वप्रक्रान्तस्य
वाक्यस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते-आ एवं नु मन्यसे, नैवं
पूर्वममंस्थाः, संप्रति त्वेवं मन्यसे इति । तथा स्मृतेः सूचकः
आकारः प्रयुज्यते, ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति
॥
ओत् ॥ १।१।१५ ॥
ननु चाहोप्रभृतयो निपातसमाहाराः, अह अ उ उ अहो,
उताआहोऊताहो, अथाऊअथो, या अ उ उयो, न अ उ उ नो, मा अ उ उ मो,
च अ उ उचो; यद्यप्यर्थभेदो न प्रतीयते, तथाप्यनर्थकानामपि
निपातानां दर्शनात् समाहारत्वं नानुपपन्नम्,
ततश्चादिवद्भावात् पूर्वेणैव सिद्धा प्रगृह्यसंज्ञा, यथा–“एषो उषा
अपूर्व्या” इति । एषा अ उ उ एषो इत्याशङ्क्य, एकनिपाता इति
दर्शयति–ओदन्तो यो निपात इति । चादिषु तथा पाठादिति भावः
। समाहारपक्षे च आहो इतीत्यादौ “उञः” “Äष्” इत्ययं विधिः
प्राप्नोति । अथापि समाहार, एवमपि सूत्रं कर्तव्यम् “ओ
चित्सखायम्” “ओ षुं वर्तमरुतः” इत्याद्यर्थम् । आ अ उ उ ओ
इत्यत्रान्तवद्भावादनाङिति प्रतिषेधः प्राप्नोति, अत्रापि पर्युदासे
सिद्धम्; आङ्नाङेरेकादेश आदिवद्भावादनाङ्ग्रहणेन गृह्यत इति
। इहानदोऽदोऽभवदिति ? च्व्यन्तत्वान्निपातत्वेऽडपि
प्रतिपदोक्तस्यौकारस्य ग्रहणान्न भवति । एवमप्यगौर्गौः समपद्यत
गोभवदित्यत्र प्राप्नोति; गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययान्न
भविष्यति । अत्र हि जड।लदिधर्मेणारोपितगोत्वे वाहीके गोशब्दो
वर्तते इति गौणार्थत्वमस्य । कथं तर्हि गौर्वाहीकस्तिष्ठति, गां
वाहीकमानयेति वृद्ध्यात्वे भवतोः ? उच्यते; स्वार्थे
प्रवृतात्प्रातिपदिकाद्विभक्तावुत्पन्नायां कार्येषु कृतेषु
शब्दान्तरसन्निधानादत्र गौणत्वं प्रतीयते । कारकाणामपि हि
क्रियया सम्बन्धः, न परस्परेण; गामानय, वाहीकमानय,
गौस्तिष्ठति, वाहीकस्तिष्ठतीति । पश्चातु वाक्योपन्यासात्
सामानाधिकरण्याद्गौणार्थे प्रादुर्भावो भवति । इह तु
गौणार्थप्रादुर्भावादुतरकालं च्व्यन्तत्वे सति
प्रगृह्यसंज्ञाप्राप्तिरिति विशेषः । अतः पदकार्येष्वेवायं न्यायः, न
प्रातिपदिककार्येष्विति सिद्धम् ।
संबुद्धौ शाकल्यस्येतावनार्षे ॥ १।१।१६ ॥
“संबुद्धौ” इत्यनेनाऽनूद्यमान ओकारो विशेष्यते, अतः
क्ङितीतिवन्निमितसप्तमीयमित्याह–संबुद्धिनिमित इति ।
परसप्तम्यां तु त्रपो इतीत्यादौ नपुंसके न स्यादिति भावः ।
अवैदिक इति । अनाष इत्यस्यार्थमाह, ऋषिर्वेदः तदुक्तमृषिणेत्यादौ
दर्शनात् । ननु च
गवित्ययमाहेत्यत्रानुकार्येणार्थवत्वात्प्रातिपदिकत्वे सति विभक्त्या
भाव्यमित्यत ताअह –अत्रेत्यादि । अत एव हि
विभक्त्यभावादपदान्तत्वाच्छाकल्यस्यापि प्रत्युदाहरणे “लोपः
शाकल्यस्य” इति लोपो न भवति ।
भेदस्याविवक्षितत्वादिति । भेदनिबन्धनो हि
प्रतिपाद्यप्रतिपादकभावः, स तस्मिन्नविवक्षिते न भवति । असत्यर्थवत्व
इति । यद्यनर्थकः; कथं तर्हि प्रयुज्यते ? प्रयोजनवत्वात्,
प्रयोजनमनुकार्यप्रतीतिः । यद्यप्यभिधानव्यापारो नास्ति, तथापि
तदानीमुच्चारितं रूपं सादृश्यादनुकार्यप्रतिपतिपरम्, भेदश्च
सन्नेव न विवक्षित इति अनुकार्यस्यापशब्दत्वेऽपि नास्यापश्बदत्वम् ।
शाकल्यग्रहणं विभाषार्थमिति । तत्र बह्वृ चाः प्रगृह्यमेवाधीयते,
तैतिरीयास्त्वप्रगृह्यम् ।
अञः ॥ १।११७ ॥
यद्ययमेको योगः स्याद् “अञ Äष्” इति यथापठितं सूत्रकारेण, ततः
“उञः” इत्यस्य श्रुतेनादेशेन सम्बन्धः स्याद्, न प्रगृह्यसंज्ञया; सा तु
“निपात एकाजनाङ्” इति नित्यैव स्यात्, शाकल्यश्रुत्यनुवृत्या
चादेशे विकल्पिते रूपद्वयमेव स्याद्- उ इति, Äष् इतीति; न तु
वितीति तृतीय । अतो विभज्य व्याचष्टे । तत्र यद्यपि पूर्वसूत्रेषु
सामानाधिकरण्येन निर्देशात्प्रदेशेष्विव प्रगृह्यशब्दो
द्विवचनाद्यभिधेयः, तथापीह षष्ठीनिर्देअषात्स्वरूपपदार्थकः सम्पद्यते ।
अत एवाह–उञः प्रगृह्यसंज्ञा भवतीति । प्रगृह्यमित्येषा संज्ञा
भवतीत्यर्थः । पुर्वत्र तु द्विवचनं प्रगृह्यसंज्ञं भवतीत्युक्तम्, अनेन
च प्रगृह्यसंज्ञाया एव विकल्पनाद्- उ इति, वितीति साधितं रूपद्वयम्
॥
Äष् ॥ १।१।१८ ॥
शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्चेति । अनेनास्मिन्नपि योगे
द्वयमप्येतदनुवर्त्यमिति दर्शयति । यदि “शाकल्यस्य” इति
नापेक्ष्येत तदा प्रगृह्यस्योञो नित्यमादेशः स्यात्, अनुवृतस्य
प्रगृह्यशब्दस्य पष्ठ।ल्न्ततया विपरिणामात्, ततश्च Äष् इति, वितीति
द्वे एव रूपे स्याताम्; उ इतीति न स्यात् । शाकल्यग्रहणेन तु
विकल्पे सति तदपि भवति । तथा प्रगृह्यग्रहणाननुवृतौ
प्रगृह्याप्रगृह्ययोरप्यादेशे विकल्पः स्यात् । तत्र प्रगृह्यस्यादेशेऽपि
सिद्धमिष्टम्, अप्रगृह्यस्य तु यण् सानुनासिको वकारः स्यात् । अतः
प्रगृह्यग्रहणमप्यनुवर्त्यम् । त्रीणि रूपाणीति । त्रीण्येव रूपाणि
भवन्ति । त्रीणि च भवन्तीत्यर्थः । इह यदेतनूÄ पदकारैरुच्यत
इत्यनुकरणे “यरोऽनुनासिकेऽनुनासिको वा ” इत्येष विधिर्भवति
।
ईदूतौ च सप्तम्यर्थे ॥ १।१।१९ ॥
शाकल्यस्येताविति निवृतमिति । अस्वरितत्वात् । इह चश्ब्देन
प्रत्नेन प्रकृतमनुकृष्यते, तत्र संज्ञाया अननुवृतौ विधेयं
नास्तीति सैवानुकृष्यते । मामक्यां तन्वामिति प्राप्त इति ।
सप्तम्यर्थं दर्शयति । मामकीतनूशब्दौ शुपां सुलुक्” इति
लुप्तसप्तमीकौ । मामकी इति, तनू इतीति । कार्योदाहरणे । गौरी
अधिश्रित इति तु संहितापाठेऽपि कार्योदाहरणमिति । स एव तत्र
दर्शतः ।
अग्ना भवातीति । रूपप्रत्युदाहरणम्, कार्यं तु पदकाले ।
धीतीत्यादि । धीति-मति-सुष्टुअतिशब्देभ्यः परस्य तृतीयेकवचनस्य
पूर्वसवर्ण ईकारः, तद्दर्शयतिधीत्या, मत्येत्यादिना । वाप्यश्वः,
नद्यातिरिति । शंज्ञायाम्” इति सप्तमीसमासः । अथ
क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः
? उच्यते; जहत्स्वार्था वृत्तिरिति पक्षे
समासस्यैवार्थवत्वात्पूर्वोतरपदयोर्वर्णवदानर्थक्यमिति
सप्तम्यर्थो नास्ति । अजहत्स्वार्थायामपि वृतावुपसर्जनपदं न
स्वार्थमात्रे पर्यवस्याति; किन्तु तत्संसृष्टे प्रधानार्थे ।
तत्रार्थग्रहणसामर्थ्याद्यावानर्थो वाक्ये सप्तम्यन्तेनाभिधीयते
केवलोऽसंसृष्टरूपस्तसयैव ग्रहणमिति संसृष्टे न भविष्यति ।
तपरकरणं गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्,
न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां प्लुतानां
निवृत्यर्थमिति चेत्, न; अनण्त्वादसंभावाच्च । न हि
सप्तम्यर्थवृत्ति प्लुतान्तं सम्भवतीत्यत आह-तपरकरणमित्यादि ।
ईदूतावित्यादि । “ईदूतौ सप्तमी” इत्येवास्तु, ङार्थोऽर्थग्रहणेन ।
लुप्तेऽर्थग्रहणाद्भवेदिति । असत्यर्थग्रहणे संज्ञाविधौ
प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् सप्तम्या एव संज्ञा स्यात्,
ततश्च शोमो गौरी अधिश्रितः” इत्यत्र न स्याल्लुप्तत्वात् ।
अर्थग्रहणे त्वर्थनिमितेयं संज्ञा, न तु प्रत्ययश्रवणनिमिता । अतः
“लुप्तेऽर्थग्रहणाद्भवेत्”। नात्र सप्तमी लुप्यते, पूर्वसवर्णोऽत्र
भवति-सुपां सुलुगिति । ततोऽकः सवर्णे दीर्घत्वेन
तस्यादिवत्वात् सप्तमीग्रहणेन ग्रहणाद् अस्त्येव सप्तमीति
शङ्कतेपूर्वस्य चेदिति । दूषयति-आडाम्भाव इति । यदि ह्यत्र
पूर्वसवर्णः स्यात्, दीर्घा देशं बाधित्वाऽऽडामौ स्याताम्, अतो
लुगेव युक्तः । तस्मादर्थग्रहणं कर्तव्यम् ? न कर्तव्यम्,
यस्मात्सर्वत्रैव लुका भाव्यमिति न क्वचित्सप्तम्यस्ति । उच्यते
चेदम्-“तत्र वचनसामर्थ्यात्संज्ञाविधावपि तदन्तविधिर्भविष्यति ।
नेदं वचनाल्लभ्यम्,यतो वचनाद्यत्र दीर्घत्वं तत्रैव स्याद्-दृतिं न
शुष्कं सरसीशयानम् ” इति । अत्र हि सरः शब्दात्परस्य ङिशब्दस्य
“इयाडियाजीकाराणामुपसङ्ख्यानम्” इतीकारे कृते सप्तम्येव
श्रूयते इति तत्रैव स्याद्, न गौरी इत्यादौ । तत्रापि सरसी यदि ।
तत्रापि सिद्धम्, कथम् ? यदि सरसीशब्दो विद्यते । असंदिग्धे
संदिग्धाभधानमेतद्, शास्त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति च
सरसीशब्दः, दक्षिणापथे महान्ति सरांसि शरस्यः” उच्यन्ते । ततश्च
सरसीशब्दोऽपि लुप्तसप्तमीक एवेति वचनातदन्तविधिरित्येतदेव
स्थितम् । एवं तर्हि-ज्ञापकं स्यातदन्तत्वे । “ईदूदेद्” इत्यत्र
चत्वारः पक्षा उपन्यस्ताः, तत्र तदन्तत्वे इत्यनेन
तृतीयचतुर्थपक्षावुपलक्षयति । तत्र ज्ञापकं स्याद्-इह प्रगृह्यप्रकरणे
प्रत्यलक्षणं न भवतीति; यदि स्यात्, पूर्वोक्तन्यायेन संज्ञाविधौ
प्रत्ययग्रहणे तदन्तविधेराश्रयणात् लुप्तायामपि सप्तम्यां
प्रत्ययलक्षणेन सप्तम्यन्तमिति संज्ञा भविष्यति, किमर्थग्रणेन ? तेन
तदन्तत्वे यो दोष उक्तः-प्रत्ययलक्षणेन संज्ञा प्राप्नोति, स न
भवतीति संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव
तदन्तपक्षस्तत्र नैव स्थित इत्याह–मा वेति ॥
दाधा घ्वदाप् ॥ १।१।२० ॥
किमिदं प्रयोगस्थानामनुकरणम्-प्रयोगे ये दाधारूपाः श्रूयन्ते,
ते घुसंज्ञा भवन्तीति ? आहोस्वित् उपदेशे धातुपाठेऽपस्थितानां
यावतामनुकरणं दाधारूपं संभवति तेषामिति ? किं चातः ? यदि
प्रयोगस्थानामनुकरणम्, शिति न प्राप्नोति, दो-प्रणिद्यति,
देङ्-प्रणिदयते, दाण्-प्रणियच्छति, धेट्-प्रणिधयति; किं कारणम्
? अदाधारूपत्वात् । प्रणिदाता प्रकणिधाता इत्यादावेव तु स्यात् ।
किमुच्यते शिति न प्राप्नोतीति, यावता
दोदेङ्धेटामशित्यप्यात्वे कृतेऽपि लाक्षणिकत्वान्न प्राप्नोति ?
नैष दोषः; “गामादाग्रहणेष्वविशेषः” इति दोदेङे
तावद्गृह्यएते । अस्याश्च परिभाषाया दैपः पित्वं लिङ्गम्; अन्यथा
हि लाक्षणिक्त्वादेवास्य ग्रहणं न भविष्यति । “दो दद् घोः” इत्यत्र
च “दः” इत्येतद्धेण्निवृत्यर्थं सतस्य घुसंज्ञां ज्ञापयति,
दधातेस्तु “दधातेर्हिः” इति ह्यादेशाविधानादेव
दद्भावाप्रसङ्गः । यदि “गामादाग्रहणेष्वविशेषः” तर्हि
अर्थवत्परिभाषापि निवर्तेत, तत्र को दोषः ? प्रनिदारयति-अत्रापि
प्राप्नोति । अस्तु, णत्वं कस्मान्न भवति ? “उपसर्गात्” इत्यनुवर्तते,
सम्बन्धिशब्दश्चायमुपसर्ग इति, तस्मादेवं विज्ञास्यामः-गदादीनां य
उपसर्गस्तत्रस्थान्निमितादुतरस्य तानेव गदादीन्प्रत्युपसर्गस्य
नेरिति । प्रनिदारयतीत्यत्र च यं प्रत्युपसर्गो नासौ दारूपः, यश्च
दारूपः न तं प्रत्युपसर्गः, तस्यानर्थकत्वाद् । अतः शित्येव दोषः ।
उपदेशस्थानां त्वनुकरणे दोदेङ्धेडनुकरणानामपि “आदेच
उपदेशेशिति” इत्यात्वसद्भावातेषां दाण्दाञ्धाञां च सर्वेषां
सिद्ध्यति । आत्वधिषयेऽप्येकदेशविकृतस्यानन्यत्वात् सिद्धम् ।
सर्वेषां च स्वरूपेणानुक्रियमाणत्वात्
लक्षणप्रतिपदोक्तयोर्निरनुबन्धकेति च परिभाषयोरनुपस्थानम्,
नापि प्रनिदारयतीत्यत्र प्रसङ्गः, न हि “दीङ्”
इत्येतदनुकरणस्यात्वमस्ति । कृतात्वमपि
किञ्चिन्मात्रसाधर्म्यादनुकरणं न विरुध्यते, यथा गवित्ययमाहेति
कृतावादेशमपि गोशब्दस्येति निर्दोषं द्वितीयं
पक्षमाश्रित्याह-दारूपाश्चत्वार इत्यादि । एवं च
दीङेऽनुकरणस्यात्वाभावात् तृजादिषु “मीनातिमिनोतिदीङम्”
इत्यात्वे दारूपस्यापि घुसंज्ञा न भवति, प्रनिदाता-णत्वं न भवति ।
उपादास्तास्य स्वरः शिक्षकस्य-श्थाध्वोरिच्च” इतीत्वं न भवति ।
केचितु संज्ञामिच्छन्ति । तेषामप्युपादास्तेत्यत्र न भवति, ”
सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य” इति ।
ठ्प्रणिददातीत्यादौ नेर्गदेति णत्वम् । प्रणिद्यतीति-“ओतः श्यनि” ।
दातं बर्हिरति । लूनमित्यर्थः । घुसंज्ञाया अभावाद् “दो दद् घोः
” इति न भवति । अवदातमित्यत्र च “अच उपसर्गातः” इति न भवति ।
ननु दाब्दैपोरननुकरणादेव न भविष्यति, अस्मदायतं
खल्वनुकरणं दाप्दैपोर्न करिष्यामः, तन्न; असति
तस्मिन्प्रतिपदोक्तमेव दाधारूपमनुकरणं गृह्यते । सति तु तस्मिन्
यावतामनुकरणं दाधारूपं सम्भवति लाक्षणिकं प्रतिपदोक्तं वा,
तावतां सर्वेषामनुकरणं भवति । “उदीचां माङे व्यतीहारे” इति
च मेङः कृतात्वास्य निर्द्देशो
ज्ञापयति-ङानुबन्धकृतमनेजन्तत्वम्” इति । न हि “माङ् माने”
इत्यस्य व्यतीहारे वृत्तिः सम्भवति, तेन दैपः पकारे श्रूयमाण
एवात्वं भवतीति अदाबिति प्रतिषेधो भवति । संज्ञाप्रवृत्तिसमये च
यद्दाब्रूपम्, तस्य प्रतिषेध इति प्रणिदापयतीत्यत्र प्रगेव पुकः
प्रवृतां घुसंज्ञामाश्रित्य णत्वं भवति । “दाधा घ्वपित्” इति
वक्तव्यम्, पित् घुसंज्ञो न भवतीति । बकारो वा द्वयोरनुबन्धः,
सूत्रमपि बकारान्तमेव पठितव्यम् । भाष्यवार्तिकविरोधस्तु
महापदमञ्जर्यामस्माभिः प्रपञ्चितः ॥
आद्यन्तवदेकस्मिन् ॥ १।१।२१ ॥
“द्वन्द्वे घि” इत्येतद्वाधित्वा “अजाद्यदन्तम् ” इत्यन्तशब्दस्य पूर्वनिपातः
प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः,
अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य
प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च
पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न
सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि
तान्यसहायस्यापि यथा स्युरित्ययमारम्भः ।
असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति
। बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति “एकस्मिन्” इति व्यर्थं
स्यादिति भावः । “एकस्मिन्” इत्युपमेये सप्तमीश्रवणादुपमानस्यापि
सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः ।
“तत्र तस्येव” इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः
सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां
प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । ।
आद्यन्तवद्व्यपदेशो निमितम् । “पूर्ववत्सनः” इति तु निर्मूलम्,
व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि
अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया
अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य
टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे
अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति ।
सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति
मध्येऽसहाये च सोऽतिदेशस्य विषयः ।
“वृद्धिर्यस्याचामादिस्तद्वृद्धम्” इत्यत्रादिग्रहणस्याप्येतदेव
व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति ।
तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥
तरप्तमपौ घः ॥ १।१।२२ ॥
तरप्तमपौ घः ॥ १।१।२२ ॥
तरतेः “ऋदोप्” इत्यपि गुणे भूतपूर्वेण पकारेण यद्यपि तरबिति
रूपं भवति, तथापि तमपा साहचर्यात् प्रत्ययस्यैव ग्रहणमित्याह
–तरपतपौ प्रत्ययाविति । तेन नद्यास्तरो नदीतर इति ह्रस्वो न
भवति । अथ वा तरबिति रूपाश्रय संज्ञा, रूपनिर्ग्रहश्च प्रयोगे
उपदेशे वा । तत्र न क्वचित्प्रयोगे तरबिति रूपमस्तीत्युपदेशगतं
गृह्यते । न चात्रौपदेशिकं तरब्रूपमस्ति, सत्यामपि वा घसंज्ञायां
न दोषः, ह्रस्वत्वं हि समानाधिकरणे स्त्रीलिङ्गे विधीयते ।
आतिशायनिकप्रकरण एव तादी घः, पितौ घ इति वा कर्तव्ये
प्रकरणोत्कर्षेण संज्ञाकरणमन्योऽपि तरबस्तीति सूचनार्थम्, तेन
“अल्पाच्तरम्” “लोपश्च बलवतरः” इत्यादौ स्वार्थे तरप् सिद्धो
भवति ॥
बहुगणवतुडति संख्या ॥ १।१।२३ ॥
यद्यपि “वतुडती” इति संज्ञाविधौ प्रत्ययग्रहणम्, तथापि केवलयोः
प्रत्यययोः संज्ञायां प्रयोजनाभावात् तदन्तयोरेव ग्रहणम् ।
वहुकृत्व इत्यादि-शंख्यायाः क्रयाभ्यावृत्तिगणने
कृत्वसुच्,”शंख्याया विधार्थे धा” “बह्वल्पार्थात्” इति वर्तमाने
“संख्यैकवचनात्” इति शस् । शंख्याया अतिशदन्तायाः कन्” ।
तावत्कृत्व इति-“यतदेतेभ्यः परिमाणे वतुप्”, “आ सर्वनाम्नः” ।
कतिकृत्व इति–“किमः संख्यापरिमाणे डति च” ।
बहुगणशब्दयोरित्यादि । कथं पुनर्गहणं नास्ति ?
संख्येत्यन्वर्थसंज्ञेयम् संख्यायतेऽनयेति संख्येति । न च यो
वैपुल्ये बहुशब्दः–बहुरोदन इति, संख्येये वा गणशब्दः-इक्षूणां
गण इति, नाभ्यां संख्यायते । यदि तर्हि संख्यावाचिनोरेव ग्रहणं
किमर्थं तयोरिह संज्ञा विधीयते ! यावता संख्याप्रदेशेषु
लौकिक्यपि संख्या गृह्यते; अन्यथा पञ्चकः, सप्तक इत्यादौ शंख्याया
अतिशदन्तायाः” इति कन् न स्यात्,”अतिशदन्तायाः” इति च
प्रतिषेधोऽनर्थकः स्यात्, शास्त्रीयायाः संख्यायास्तिशदन्ताया
अभावादित्यत आह–भूर्यादीनामित्यादि । एतेन
नियमार्थमेतयोर्ग्रहणमिति दर्शयति । तुल्यजातीयापेक्षत्वाच्च
नियमस्य; भूर्यादीनामेवानियतबहुत्वाचिनां निवृत्तिः,
नाबहुत्वविषययोर्द्व्येकशब्दयोः, नापि नियतबहुत्ववाचिनां
त्र्यादीनाम्, तदाह–भूर्यादीनामिति ।
अघपूर्वपदश्चेति । अर्धशब्दः पूर्वपदं यस्य, स च पूरणप्रत्यान्तः;
पूरणप्रत्ययान्तस्यार्धशब्दः पूर्वपदं सम्भवति, समास एव हि
पूर्वपदं सम्भवति । अर्घपञ्चमशूप इति । अर्ध पञ्चमं येषामिति
वहुव्रीहिः । अर्धपञ्चमैरर्धाधिकैश्चतुर्भिः शूर्पैः क्रीत इति
“तद्धितार्थ” इति समासः । “शूर्पादञन्यतरस्याम्” इति विहित
स्याञष्ठञो वा “अध्यर्धपूर्वद्विगोः” इति लुक् । कथं पुनर्लुक्,
यावता नायं समासः नापि कन् ? समासकन्विध्यर्थमिति
सम्बन्धसामान्ये षष्ठी, तेन समासे विधीयमाने समासनिमिते
वान्यस्मिन्विधीयमान इत्यर्थः ।
ष्णान्ता षट् ॥ १।१।२४ ॥
इह कस्मान्न भवति-विप्रुषः, पामान इति ? सङ्ख्येति वर्तते । ननु
च तत्सङ्ख्याग्रहणं संज्ञाप्रधानम्, इहानुवृतमपि ष्णान्तानां
संज्ञामेव विदध्याद्, न तु ष्णान्तेत्यस्य विशेष्यं समर्पभेद्; अत
आह–स्त्रीलिङ्गनिर्देशादिति । “ष्णान्ता” इत्यत्र स्त्रीलिङ्गस्य
विशेष्यापेक्षायां सम्बध्यमानं प्रदेशेष्विव संज्ञिप्रधाने
भविष्यतीत्यर्थः । अत एवात्रान्तग्रहणम् । इतरथा वर्णग्रहणे सर्वत्र
तदन्तविधिरित्येव सिद्धम् ।
इह कस्मान्न भवति-शतानि, सहस्राणि ? नुमि कृते तस्य
पूर्वभक्तत्वान्नान्ता सङ्ख्या भवति । अस्तु, लुक्कस्मान्न भवति ?
सर्वनामस्थानसन्निपातकृतो नुम् न तद् विहन्ति । अथेह कथं
संज्ञा-अष्टानामिति ? कथं च न स्यात् ? अष्टन् अ आम् इति स्थिते
परत्वान्नित्यत्वाच्च “अष्टन आ विभक्तौ” इत्यात्वे
कृतेऽनान्तत्वादसत्यां संमज्ञायां नुड् न स्यात्, अष्टनो
दीर्घग्रहणं ज्ञापकम्-कृतात्वस्याप्यष्टनः संज्ञा भवतीति । एतच्च
तत्रैवोपपादयिष्यामः । यद्वा, प्रागेव विभक्त्युत्पतेरनुद्दिश्य
प्रयोजनविशेषं षट्संज्ञा भविष्यति । सा च कृतेऽप्यात्वे न
निवर्तते ॥
डति च ॥ १।१।२५ ॥
डत्यन्ता च या संख्येति । अनेन संख्याग्रहणानुवृत्तिं दर्शयति ।
असत्यां ह्यनुवृतौ पातेर्डतिः पतयः-अत्रापि स्यात् । अथेह
संख्याग्रहणानुवृतावपि कस्मादेवात्र न भवति, सामान्येन हि डतेः
संख्यासंज्ञा विहिता ? उच्यते; संख्यासंज्ञायां हि वतुना
साहचर्यातद्धितस्य डतेर्ग्रहणम्, न त्वौणादिकस्य ॥
क्तक्तवतू निष्ठा ॥ १।१।२६ ॥
इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा
भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् ।
तत्र ङपुंसके भावे क्तः” “ञीतः” इति क्तस्य क्वचिदुपदेशोऽस्ति ।
यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात्
। क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा
संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति–निष्ठेति । यद्येवम्,
इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति,
नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् ।
तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स
पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको
वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक
इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः,
ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥
सर्वादीनि सर्वनामानि ॥ १।१।२७ ॥
द्वन्द्वतत्पुरुषयोरुतरपदलिङ्गत्वेन नपुंसकत्वायोगाद्
बहुवचनासंभवाच्च सर्वादीनीति बहुव्रीहिरित्याह-सर्वशब्द
इत्यादि । आदिर्येषामिति । यद्येवं
बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वशब्दोपलक्षितानां
विश्वादीनामेव संज्ञा स्याद्, नोपलक्षणस्य सर्वशब्दस्य । यथा
चित्रगुरानीयतामित्युक्ते अस्य ता गावः स एवानीयते, न चित्रा गाव
इत्याशङ्क्याह-तानीमार्नति । अत्र “तानि” इत्येव सिद्धे इमानीति
प्रत्यक्षविषयेणेदंशब्देन गणपठितेषु सर्वशब्दस्यान्तर्भावं
सूचयन् तद्गुणसंविज्ञानं बहुव्रीहिं दर्शयति । तस्य उ
अन्यपदार्थस्य, गुणःउवर्तिपदार्थः, सोऽपि कार्यी संविज्ञायते
यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानः । मत्वर्थे हि बहुव्रीहिः ।
भूमादिषु च मतुब् विधीयते । तद्यत्र स्वस्वामिभावादिसम्बन्धः
प्रवृत्तिनिमितम्, न तत्रोपसर्जनस्य कार्ययोगः ।
यथा-गोमन्तमानयेति, संभवति ह्यरण्यावस्थिताभिरपि गोभिः
स्वस्वामिभावः । यत्र तु संयोगसमवाययो रन्यतरत्
प्रवृत्तिनिमितम्, तत्र स्वभावादेवोपसर्जनस्यापि कार्योयोगः,
यथा-दण्डिनमानय, विषाणिनमानयेति , नो खलु गृहावस्थितेन
दण्डेन दण्डसंयुक्तः पुरुषो भवति । एवं बहुव्रीहावपि-चित्रगुः,
शुक्लवासा इति । इहाप्यादिशब्दोऽवयववचन उद्भूतावयवभेदः
समुदायः समासार्थः, तत्र समुदायस्य युगपल्लक्ष्ये
प्रयोगाभावतदन्तर्भूतानां संज्ञा भवन्ती विश्वादीनामिव
सर्वशब्दस्यापि भविष्यति । अत्र च लिङ्गम्-“अदः सर्वेषाम्” इति
निर्देशः, “आमि सर्वनाम्नः सुट्” । सर्वे इति–“जसः शीः ।
पूर्वयोस्तूपन्यासो जसन्ततामस्य दर्शयितुम् । सर्वस्मै
इत्यादि–शर्वनाम्नः स्मे” “ङसिङ्योः स्मात्सिनौ” ।
उभशब्दो द्विवचनविषये एव प्रयुज्यते, असति द्विवचने नैव
प्रयुज्यते, न हि भवति उभौ पुत्रावस्य उभपुत्र इति उभयशब्दोऽत्र
तत्स्थाने भवति उभयपुत्र इत्यादि । न च द्विवचने
किञ्चित्सर्वनामकार्यमस्ति;
स्मैप्रभृतीनामेकवचनबहुवचनविषयत्वात्, काकचोश्च नास्ति
विशेष इति तस्येह पाठे प्रयोजनमाह-उभशब्दस्येत्यादि । उभाभ्यां
हेतुभ्याम्,उभयोर्हेत्वोरिति तृतीयाषष्ठयौ भवतः ।
उभयेषाम्, उभयस्मिन्निति । उभाववयवावस्येति व्युत्पाद्यमान
उभयशब्दो यदा तिरोहितावयवभेदं समुदायमाचष्टे तदैकवचनं
भवति-उभयो मणिरिति । यदा तु वर्गद्वयारब्धे समुदायिनि
वर्तमानो वर्ग्यभेदानुगतं समुदायमाचष्टे तदा
बहुवचनम्-उभये देवमनुष्या इति ।
डतर-डतमेति । संज्ञाविधौ प्रत्ययग्रहणेऽपि तदन्तयोर्ग्रहणम्;
केवलयोः प्रयोजनाभावात् ।
वक्ष्यमाणेनेति । “प्रथमचरम्” इत्यादिना । सर्वशब्दपर्यायस्येति ।
अस्ति च सर्वशब्दपर्यासः समशब्दः ङभन्तामन्यके समे”,”मा नो
वृकाय वृक्ये समस्मै”,”उरुष्याणोऽघायतः समस्मात्”, “उतो
समस्मिन्नाशिशी हि नो वसो,” “मा नः समस्य दूढयः” इति यथा ।
एतच्च शर्वेषां नामानि” इत्यन्वर्थसंज्ञाकरणाल्लभ्यते । स एव हि
समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः । यद्यन्वर्थसंज्ञा,
“पूर्वपदात् संज्ञायाम्” इति णत्वं कस्मान्न भवति ? अस्मादेव
निपातनात् । यदि शर्वादोति सर्वनामानि”,तर्हीहापि
प्राप्नोति-सर्वो नाम कश्चित् तस्मै सर्वाय देहीति, इह चातिक्रान्तः
सर्वस्मै अतिसर्वाय देहीति; तस्मात्संज्ञानामुपसर्जनानां च
सर्वादीनां संज्ञाप्रतिषेधो वक्तव्यः । न केवलं संज्ञायाः, पाठोऽपि
तेषां गणे नास्तीति वक्तव्यम्; संज्ञामात्रप्रतिषेधे हि
सर्वनामप्रयुक्तमेव कार्यं तेषां न स्यात् । पाठाश्रयं तु
स्यादेव–“त्यदादीनामः” तन्नामकः कश्चित्,तत्स,तदौ, तदः;
अतिक्रान्तस्तमतितत्, अतितदौ, अतितदः; “अदड्डतरादिभ्यः
पञ्चभ्यः”, कतरमतिक्रान्तं ब्राह्मणकुलमतिकतरमिति ।
संज्ञाप्रतिषेधस्तावन्न वक्तव्यः ।
अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः ।
शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥
तत्र यथा बाहुर्नाम कश्चितस्यापत्यं बाहवः, “बाह्वादिभ्यश्च” इतीञ्
न भवति संज्ञा, श्वशुरस्यापत्यम् “राजश्वशुराद्यत्” न भवति,
धान्यमातुः स्वसा, “मातुपितृभ्यां स्वासा” इति षत्वं न भवति;
एवमिहापि संज्ञाभूतानां सर्वादीनां संज्ञा, तन्निबन्धनं च कार्यम्,
अन्तर्गणकार्यं च न भविष्यति ।
यद्वा-“व्यवस्थायाम्” इत्यत्र “असंज्ञायाम्” इति विभज्यते, तेन च
गणपाठो विशेष्यते-यान्येतान्यनुक्रान्तानि सर्वादीनि
तान्यसंज्ञायां द्रष्टव्यानीति । उपसंर्जनप्रतिषेधोऽपि न कर्तव्यः,
सर्वादीनां संज्ञा विधीयते, तत्र कः प्रसङ्गो यत् सर्वाद्यन्तस्य
स्यात् ? सर्वशब्दस्य तु सत्यामपि संज्ञायामङ्गस्यासर्वनामत्वात्
स्मायाद्यप्रसङ्गः । यद्येवम्, परमसर्वस्मै इत्यादावपि न स्याद्;
यतो यदङ्गं न तत्सर्वनाम, यच्च सर्वनाम न तदङ्गमिति । मा
भूदङ्गं सर्वनाम, तावयवस्यैव तु स्रवनामत्वे “अङ्गाधिकारे
तस्य च तदुतरपदस्य च” इति समुदायस्य च कार्यं भविष्यति;
यथा–अस्थ्यादीनामनङ् परमास्थ्नेति । न
चैवमत्यस्थ्नेत्यादिवदतिसर्वायेत्यादावुपसर्जनेऽपि
प्रसङ्गोऽर्थद्वारकस्य सम्बन्धस्याश्रयणात्सर्वनामार्थगतमेकत्वादिकं
या विमक्तिराहेति; यथा-“अष्टाभ्य औश्” “षड्भ्यो लुक्” इति
परमाष्टौ परमपञ्चेत्यादौ भवति, प्रियाष्टानः प्रियपञ्चान
इत्यादौ न भवति; तद्वदत्रापि । “त्यदादीनामः”
इत्याद्यन्तर्गणकार्यमप्येवमेव द्रष्टव्यम् । यतु रूपाश्रयं कार्यम्
“युष्मदस्मदोरनादेशे” इति, न पाठाश्रयम्, नापि संज्ञाश्रयं
तदस्थ्याद्यनङ्वदुपसर्जनएऽपि भवति । यतूपसर्जनदशायाः प्रागेव
प्राप्तं तदपि भवति अतिक्रान्तो भवकन्तमतिभवकानिति,
तस्मान्नार्थस्तदन्तस्य संज्ञया, उच्यते; अव्ययसर्वनाम्नामित्यकच्
परमभवकानिति तदन्तान्न स्यात् । “पञ्चम्यास्तसिल्” परमसर्वतः,
“सप्तम्यास्त्रल्” परमसर्वत्र,”आ सर्वनाम्नः” “विष्वग्देवयोश्च
टेरद्र।ल्ञ्चतौ वप्रत्यये” परमतद्र।ल्ङ् परमयद्र।ल्ङ्त्यादिउ न
स्यादिति तदन्तस्य संज्ञेषितव्या । कथं पुनरिष्यमणापि लभ्यते ?
ज्ञापकादिति वक्ष्यामः । ततदन्तस्य च भवन्ती परमसर्वादिवद्
अतिसर्वादेरपि स्यादिति उपसर्जनप्रतिषेधोऽपि वक्तव्यः ? न
वक्तव्यः, अन्वर्थसंज्ञाविज्ञानादेव सिद्धम् । वृतौ हि
प्रधानार्थसंसर्गादुपसर्जनानि न सर्वार्थानि, यथासम्भवं च
सार्वार्थ्यामिति प्रत्यक्षपरोक्षतादिविषेषवाचित्वेऽपि
तदिदमादीनां भवत्येव । अन्वर्थत्वादेव च संज्ञाभूतानामपि
संज्ञाभावः । एवं तावत्संज्ञानिबन्धनं स्मायाद्यौपसर्जनानां
निबारितम् । त्यदाद्यन्तर्गणकार्यं तु स्यादेव; पाठस्य स्थितत्वात् ।
एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणाद् द्वितीयोऽपि
सर्वनामशब्द उपातः, तेन पाठो विशेष्यते-यानि सर्वेषां नामानि
तानि सर्वादीनीति, तेन सर्वादिपाठोपजीवनेन
प्रवर्तमानमन्तर्गणकार्यमपि व्यवस्थास्यते । यद्वा-संज्ञाया
अन्वर्थत्वाततत्संबन्धयोग्यानां सर्वार्थानां
तावत्पाठोऽवश्याभ्युपगन्तव्यः । ततश्च प्रकारान्तरजुषां पाठे
प्रमाणाभावादेव सिद्धः पाठात्पर्युदासः ॥
विभाषा दिक्समासे बहुव्रीहौ ॥ १।१।२८ ॥
अत्र समासावयवानां सर्वादीनां संज्ञा विकल्प्यत इत वृतौ लक्ष्यते,
यथाह- दिगुपदिष्ट इत्यादि । दिशामुपदिष्ट उक्ते
“दिङ्नामान्यतराले” इत्यस्मिन्समासेऽवयवत्वेन वर्तमानानीत्यर्थः
। न चावयवानां संज्ञाविकल्पे किञ्चित्प्रयोजनमस्ति, स्मायादिकं
तावदङ्गाश्रयम्, काकचोश्च नास्ति विशेषः,
दिग्वाचिनामकारान्तत्वात् । शर्वनाम्नो वृत्तिमात्रे” इति
पूर्वपदस्य पुंवद्भावोषऽपि न प्रयोजनम्, तत्र हि मात्रग्रहणं
क्वचित्सर्वनामत्वेन दृष्टानां संप्रत्यसर्वनामत्वेऽपि यथा स्यात्,
तथा च दक्षिणपूर्वाया इति संज्ञाभावपक्षेऽपि भवति ।
स्यादेतत्–अवयवानामेव संज्ञा, कार्यं तु “अङ्गाधिकारे तस्य च
तदुतरपदस्य च” इति । एवमपि दक्षिणपूर्वतः, दक्षिणपूर्वत्रत्यत्र
तसिलादयो न स्युः; तस्मात्सर्वाद्यन्ते बहुव्रीहौ संज्ञा विकल्प्यते ।
“सर्वादीनि” इत्ययं तु वृत्तिग्रन्थः शर्वाद्यन्ते प्रवर्तमाना संज्ञा
सर्वादीन्यपि गोचरयति” इत्येवंपरो व्याख्येयः । यद्वा–अवयवानां
संज्ञाविधानेन तदन्तस्यापि सिद्ध्यति, तदन्तविधेरभ्युपगमादिति
।
समासग्रहणं किमिति । न बहुव्रीहिः समासत्वं व्यभिचरतीति प्रश्नः
। दक्षिणदक्षिणस्यै इति । “एकं बहुव्रीहिवत्” इत्यनुवृतौ “आबाधे
च” इति दक्षिणशब्दस्य द्विर्वचनम् ङ बहुव्रीहौ” इत्ययमपि निषेधो
न भवति, तत्रापि समासाधिकारात् । दक्षिणोतरपूर्वाकणामिति ।
असति बहुव्रीहिग्रहणे यथा ङ बहुव्रीहौ” इति प्रतिषेधं बाधते,
एवं “द्वन्द्वे च” इत्येतमपि बाधेत । अथ क्रियमाणऽपि बहुव्रीहिग्रहणे
या पूर्वा सोतरा यस्योन्मुग्धस्य तस्मै पूर्वोतराय देहीत्यत्र
कस्मान्न भवति ? प्रतिपदोक्तो यो
दिक्समासः-“दिङ्नामान्यन्तराले” इति, तस्य ग्रहणम् । यद्येवम्,
तत एव हेतोर्द्वन्द्वे न भविष्यति ? सत्यम्; उतरार्थमवश्यं कर्तव्यं
बहुव्रीहिग्रहणमिहापि विस्पष्टार्थं भविष्यतीति मन्यते ॥
न बहुव्रीहौ ॥ १।१।२९ ॥
अत्र वृतौ द्विधा सूत्रार्थो लक्ष्यते–बहुव्रीहाविति
निषेधाधिकरणम्-बहुव्रीहि संज्ञा न भवति, बहुव्रीह्याधारा संज्ञा न
भवतीति; बहुव्रीहेः संज्ञा न भवतीति । सर्वाद्यधिकरणं
वा–बहुव्रीहौ यानि सर्वादीनि तानि सर्वनामसंज्ञानि न भवन्तीति
। तत्र सर्वनामसंज्ञायाम् इत्यादिनाऽऽद्यं पक्षं द्वितीयं सूत्रार्थं
दर्शयति । कथं पुनर्ज्ञायतेऽभ्युपगतस्तदन्तविधिरिति ? अत एव
निषेधात् । द्वितीयं सूत्रार्थं दर्शयति–बहुव्रीहावित्यादि ।
प्रथमस्योदाहरणमाह–प्रियविश्वायेति ।
“सर्वनामसंख्ययोरुपसंख्यानम्” इति सर्वनाम्नः पूर्वनिपाते
प्राप्ते “वा प्रिययस्य” इति प्रियशब्दस्य पूर्वनिपातः । द्व्यन्यायेति
। शर्वनामसंख्ययोः” इति द्व्यन्ययोः पूर्वनिपाते प्राप्ते
परत्वात् सङ्ख्यायाः पूर्वनिपातः । द्वितीयस्योदहरणमाह–इह
चेति । अत्र च प्रतिषेधोऽयमारभ्यत इत्यनुषङ्गः; अत्रासति
निषेधेऽकचि सति त्वकत्पितृको मकत्पितृक इति प्राप्नोति, सति
तु “प्रागिवात्कः” इति के सति “प्रत्ययोतरपदयोश्च” इति
त्वमादेशयोस्त्वत्कपितृको मत्कपितृक इति सिद्ध्यति ङद्यःतश्च”
इति समासान्ते कपि । ननु च बहुव्रीहावयं निषेधः, इह च प्रागेव;
ततस्त्वकं पताऽस्यि अहकं पिताऽस्येति वाक्यावस्थायामेवाकच्
प्राप्नोति ? एवं तर्हि प्रतिषेधसामर्थ्यात् यद्वाक्योपमर्देअन
बहुव्रीहिर्भवति तस्यामेवावस्थायां निषेधो भविष्यति । अत्र च
प्रथमः सूत्रार्थस्तदन्तविविज्ञापनायैवोपन्यस्तः, न तु
प्रियविश्वायेत्यादौ समुदायस्य संज्ञाप्रसङ्गः; असर्वार्थत्वात्, यथा
अतिसर्वायेत्यादौ ।
बहुव्रीहाविति वर्तमाने पुनर्बुहुव्रीहिग्रहणं
किमर्थमित्याह–बहुव्रीहावित्यादि वस्त्रान्तरवसनान्तरा इति ।
वसनमन्तरं येषामिति बहुव्रीहौ द्वन्द्वः । अत्रासति
बहुव्रीहिग्रहणे वर्तमानद्वन्द्वाश्रयो निषेधः स्यात्, ततश्च जसि
विभाषा स्यात् । पुनर्बहुव्रीहिग्रहकणातु यदन्तो द्वन्द्वः,
सोऽन्तरशब्दो बहुव्रीहेः पूर्वमत्रासीद् इति बहुव्रीह्याश्रयो नित्य
एव निषेधो भवति । इदं तु “तदन्तस्य संज्ञानिषेध” इति
प्रथमपक्षानुरोधेन प्रत्युदाहरणम् । न त्वत्र प्रसङ्गः;
असर्वार्थत्वात् । वसन्त्यस्मिन्निति वसनं गृहम्, तेन
“विरूपाणामपि समानार्थानाम्” इत्येकशेषाभावः ॥
तृतीयासमासे ॥ १।१।३० ॥
समासे इति, वर्तमाने इत्यादि । मुख्यस्यैव ग्रहणे प्राप्ते
गौणस्यापि ग्रहणार्थं पुनः समासग्रहणमित्यर्थः । न च
तृतीयासमासमात्रार्थे वाक्ये प्रसङ्ग इत्याह–पूर्वसदृशेत्यादि ।
एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका, मयकेति ।
“युष्मदस्मदोस्तृतीयैकवचने”,”त्वमावेकवचने”, “योऽचि”
सुबन्तयोः प्राक् टेरकच् ॥
द्वन्द्वे च ॥ १।१।३१ ॥
अयं समुदायस्यैव निषेधो नावयवानाम्, कुतः ? त्यादादीनां
तावत् “त्यदादीनि सर्वैर्नित्यम्” इति एकशेषेण भाव्यम्, प्राक् च
त्यादादिभ्योऽकारान्ताः,तत्र न काकचोर्विशेषः; शर्वनाम्नो
वृत्तिमात्रे पुंवद्भावः” त्विष्यत एव-दक्षिणोतरपूर्वाणामिति,
सोऽयं प्रतिषेधो ज्ञापयति-“अस्ति सर्वनामसंज्ञायां तदन्तविधिः”
इति ॥
विभाषा जसि ॥ १।१।३२ ॥
जसः कार्य प्रति विभाषेति । तत् कथम् ? व्यवस्थितविभाषेयम् ।
यद्वा, जसीति कार्यापेक्षयाधिकरणसप्तमी–जसाधारं यत्कार्यं
शीभावाख्यं तत्र कर्तव्य इति । अन्ये त्वाहुः- जस ई जसी
शब्दरूपापेक्षया नपुंसकह्रस्वत्वे सप्तम्या लुका निर्देशः-जस ईकारे
कर्तव्य इति । किं पुनः कारकणमेवं व्याख्यायते ?
तत्राह–अकझीति । हि शब्दो यस्मादर्थे । यद्यविशेषेण विकल्पः
स्यात्, कतर कतम अस् इति स्थिते कुत्साद्यर्थविवक्षायां
यस्यामवस्थायामकज्विधिं प्रति संज्ञा स्यात्, ततश्च
तन्मध्यपतितत्वातद्ग्रहणे शीभावः स्यात्; के तु सति न भवति ॥
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ॥ १।१।३३ ॥
उभयशब्दस्येत्यादि । उभाववयवावस्य “उभादुदातो नित्यम्” इति
तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि
गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे
पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य
द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव
विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा
विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते ।
काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु
कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः
कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके,
नेमकाः”-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे
सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न
भवतीत्येवम्परो ग्रन्थः ॥
पूर्वपरावरदक्षिणोतरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ १।१।३४
॥
असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न
भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष
इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो
दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स
स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं
तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं
दिक्कालयोरपि द्रष्टव्यम् ।
तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र
योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां
गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं
संज्ञा भवति, न तु वाच्यायाम् ।
प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द
सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां
दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः
कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥
स्वमज्ञातिधनाख्यायाम् ॥ १।१।३५ ॥
अज्ञातिधनाख्यायामित्यस्यार्थमाह-न चेदित्यादि । यत्र
शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे तत्रासौ
संज्ञारूपेण प्रवर्तते । आत्माया इत्यर्थ इति । पुत्राणां गवां सत्यपि
ज्ञातिधनत्वे न तेनाकारेण तत्र वर्तते, किन्त्वात्मीयाकारेणेत्यर्थः
। आख्याग्रहणे त्वसति ज्ञातिधनयोः पर्यवसानादत्रापि प्राप्नोति ।
धूमायन्त इत्यादि । यथोल्मुकान्यश्लिष्टानि असंहतानि धूमायन्ते,
संहतानि प्रज्वलन्ति; तद्वत् ज्ञातयोऽपीत्यर्थः । स्वा ज्ञातय इति ।
स्वशब्दस्यानेकार्थस्य व्यक्तीकरणाय पर्यायस्यापि ज्ञातिशब्दस्य
प्रयोगः, स एव तु न प्रयुक्तः; निरङ्कुशाः कविवाच इति ॥
अन्तरं बहिर्योगोपसंव्यानयोः ॥ १।१।३६ ॥
बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग
इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य
वस्तुनो भवति । उपसंवीयते विधीयते
वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति ।
बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः
। अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । “जसि” इति
वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत
आह–गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते ।
कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ?
“अपुरीति वक्तव्यम्” इति वक्ष्यति, तद् गणसूत्रविषयं यथा
स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं
गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति ।
प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते,
तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन
गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा
टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि ।
यथायमर्थः सिद्ध्यति, तथा “विभाषा द्वितीयातृतीयाभ्याम्” इत्यत्र
वक्ष्यामः ॥
स्वरादिनिपातमव्ययम् ॥ १।१।३७ ॥
तसिलादिरिति । “पञ्चम्यास्तसिल्” इत्यारभ्य “एधाच्च” इत्येतदन्तः ।
शस्तसी — “बह्वल्पार्थाच्छस्”, प्रतियोगे “पञ्चम्यास्तसिः” ।
संख्यायाः “क्रियाभ्यावृत्तिगणने कृत्वसुच्”,”द्वित्रिचतुर्भ्यः सुच्” ।
आस्थालाविति । “इण आसिः” अयाः,”प्रत्नपूर्व”-त्वं प्रत्नथाः ।
च्व्यर्थाः-शंपद्यकर्तरि च्विः””विभाषासातिः कार्त्स्ये”,”देये त्रा
च”, अमु चच्छन्दसि”,”किमेतिङ्व्ययघादामु” । निपाता वक्ष्यन्त इति ।
अथ किमर्थं स्वरादीनां पृथग्ग्रहणं क्रियते, ते चादिष्वेव
पठ।लेरम् ? न; चादीनामसत्ववचनानां निपातसंज्ञा, स्वरादीनां
पुनः सत्ववचनानामसत्ववचनानां चाव्ययसंज्ञा-स्वस्ति वाचयति,
स्वः प्रश्येति । क्रियासम्बन्धेऽनेकशक्तिदर्शनात् सत्ववाचित्वम् । अथ
“प्राग्रीश्वरान्निपाताः स्वरादीनि चादयोऽसत्वे” इत्येवं सूत्रन्यासः
क्रियेत, कः पुनरत्र विशेषस्तत्र वा स्वरादिग्रहणं क्रियेत ? अत्र वा ?
किं च ङिपात एकाजनाङ्” इति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां
प्रसज्येत-“किमोऽत्”,”दक्षिणादाच्”, “एकाच्च तद्धितः”;
केन्प्रभृतयस्तु कृत एकाचस्सन्ति । अथ “चादिरेकाजनाङ्” इति
क्रियते तदा चादीनामसत्ववचनत्वं विशेषणं न लभ्यते ? नैष
दोषः; “चादयोऽसत्वे” इत्यत्रासत्वाग्रहणं चादीनां पाठविशेषणम्,
यथा-“तिङे गोत्रादीनि” इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनाम्,
तेन यत्र यत्र चादिग्रहणं तत्र सर्वत्र विशिष्टनामेव ग्रहणम्,
तत्रायमप्यर्थः–“उभे संज्ञे न कर्तवंये भवतः-अव्ययम्, निपातः”
इति । कथम् ? “प्राग्रीश्वरान्निपाताः” इति वा “अव्ययानि” इति वा सूत्रं
कर्तव्यम्, ततः स्वरादीनि “तद्धितश्चासर्वविभक्तिः” यावद्
“अव्ययीभावश्च” इति, ततः “चादयोऽसत्वे” इत्यारभ्य यावद्
“अधिरीश्वरे”, विभाषा कृञि” इति; तत्र यस्मिन् प्रदेशे निपातग्रहणं
तत्र चादिग्रहणमस्तु, अव्ययप्रदेशेष्वव्ययग्रहणं निपातग्रहणं चेति,
ततु तथा न कृतमित्येव ।
अव्ययमित्यन्वर्थसंज्ञति । सदृशम् इत्यादि । श्रुतिश्चेयमाथर्वणी
प्रणवविद्यायां त्रिषु लिङ्गेषु स्त्रीपुन्नपुंसकेषु सदृशम्,
लिङ्गविशेषप्रतिपादनेऽसामर्थ्यात् । विभक्तिष्वति । कारकेषु
वचनेष्विति । एकत्वादिसंख्यासु, अव्ययीभावस्य
शक्तिलिर्ङ्गविशेषयोगेऽपि वचनादव्ययत्वम्”यस्मान्न व्येति नाना
न गच्छति यत्वधर्मान्न गृह्णातीत्यर्थस्ततस्मादव्ययम्” इति ।
यच्छब्दरूपं न व्येति तदव्ययमिति वा । किं पुनः
प्रयोजनमन्वर्थसंज्ञाकरणे ? उपसर्ज्जनप्रतिषेधः-अत्युच्चैसौ,
अत्युच्चैस इति । अतिक्रान्तप्रधानस्यात्र सत्वधर्मपरिग्रहात् उच्चैःशब्दः
पठ।ल्ते, कः प्रसङ्गस्तदन्तस्य ? एतज्
ज्ञापयत्याचार्यः–“अस्त्यव्ययसंज्ञायां तदन्तविधिः” इति । तेन
परमस्वः, परमोच्चैरिति स्वरादिप्राधान्ये तदन्तस्यापि भवति ।
कुशब्दः स्वरादिषु पठितव्योऽव्ययसंज्ञार्थः ॥
तद्धितश्चासर्वविभक्तिः ॥ १।१।३८ ॥
इह यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधस्तथापि
केवलस्य तद्धितस्य संज्ञायाः प्रयोजनाभावात् तदन्तविधिर्विज्ञायत
इत्याह-तद्धितान्तः शब्द इति । अकच् तावत्प्रातिपदिकस्य सुबन्तस्य वा
विधीयते । “अव्ययादाप्सुपः” इत्यत्राप्यव्ययाद्विहितस्य सुपो लुक्,
न तु परस्य; अत्युच्चैसावित्यादावपि प्रसङ्गात् । “तत्पुरुषे
तुल्यार्थ”,ङाव्ययदिक्च्छब्द”,”खित्यनव्ययस्य” इत्यत्रापि
पूर्वपदस्याव्ययस्य ग्रहणम् । सर्वा विभक्तिर्यस्य सम्बन्धिनी न
भवति सोऽसर्वविभक्तिः ।
किं पुनरिदं तद्धितस्य वशेषणम् ? आहोस्वितदान्तस्य ? कथञ्चेदं
तद्धितस्य विशेषणम्, कथं वा तदन्तस्य ? यदि सर्वा विभक्तिर्यस्य
सम्बन्धिनी न भवति–कारणत्वेन यस्योत्पतौ सर्वा विभक्तिः कारणं
न भवति, यथा “पञ्चम्यास्तसिल्” इत्यादाविति कार्यमन्यपदार्थः,
तदा तद्धितस्य विशेषणं भवति–तद्धितस्यैव ह्युत्पत्तिर्न तदन्तस्य ।
एवंविशिष्टेन तद्धितेन तदन्तविधौ-तादृशतद्धितान्तोऽव्ययमित्यर्थो
भवति । अथ तु सर्वा विभक्तिर्यस्य कार्यत्वेन सम्बन्धिनी न
भवति-यस्मात्सर्वा विभक्तिर्नोत्पद्यत इति कारणमन्यपदार्थः, तदा
तदन्तसाय विशेषणं भवति । न हि
तद्धितमात्राद्विभक्तियुत्पत्तिप्रसङ्गः । तत्र पूर्वस्मिन् पक्षे विना,
नानेत्यत्र न स्याद्; न हि विनञ्भ्यमामित्यत्र प्रतिनियता
काचिद्विभक्तिराश्रीयत इति सर्वविभक्त्यन्ताभ्यां विनञ्भ्यां नानाञौ
भवतः । अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो
विद्यन्त एवेति पक्षे येऽपि भवदादिप्रयोगे तसिलादयो
विधीयन्त–“इतराभ्योषऽपि दृश्यन्त” इति, तेऽपि स भवाÄस्ततो
भवांस्तं भवन्तं ततो भवन्तमित्यादिसर्वविभक्त्यन्तेभ्य उत्पद्यन्त इति
तत्रापि न स्यात् । “तस्यापत्यम्””तत्र भवः” इत्यादौ च
षष्ठ।लदिकैकैव विभक्तिर्निमितम्, न तु
सर्वेतत्यौपगवादावतिप्रसङ्गश्चेति द्वितीयं
पक्षमाश्रित्याह–यस्मादित्यादि । तत इत्यादौ “प्राग्दिशो विभक्तिः”
इति तसिलादीनां विभक्तित्वात्यदाद्यत्वम् ।
कथं पुनरेतेऽसर्वविभक्तयः; यावता यत्र च सङ्ख्या सम्भवति
तत्रायमुपदेशाः, अव्ययेभ्यस्तु निःसङ्ख्येभ्य इत्यस्मिन्पक्षे
“अव्ययादाप्सुपः” इति ज्ञापकाश्रयणे च सर्वविभक्तयः; अथ
सङ्ख्याकर्मादयश्च स्वादीनामर्थास्तेन सहास्यैकवाक्यतेति पक्षः,
ततोऽविभक्तित्वमेवासत्वभूतार्थानामापद्येत ? उच्यते;
“द्व्येकयोर्द्विवचनैकवचने” इत्यत्रैकस्मिन्नित्यपनीय “एकवचनम्”
इति पृथक् सूत्रं कर्तव्यम्, ततः “द्विबह्वोर्द्विवचनबहुवचने” इति,
ततश्चैकवचनमेकस्मिन्नपि भविष्यति, सङ्ख्याकर्माद्यभावे
चाप्राप्तप्रापणार्थत्वादेकवचनमित्यस्य सूत्रस्य, द्वित्वबहुत्वयोस्तु
प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते, ततश्चासत्ववचनेभ्योऽपि
सप्तानां विभक्तीनां सप्ताप्येकवचनानि भवन्ति ।
अव्ययीभावादप्येवमेव, तावतापि नाव्ययीभावात्
“तृतीयासप्तम्योः” इत्यस्योपपतेः,
तदिदमुच्यते-“एकवचनमुत्सर्गतः करिष्यते” इति । एवं स्थिते
यस्मात्सर्वा विभक्तिर्नोत्पद्यत इत्येकवचनेन
विग्रहोऽवयवकार्त्स्न्यवृत्तिः सर्वशब्दो यस्य त्रिकस्य विभक्तिशंज्ञा
विहिता तन्निरवशेषं यस्मान्नोत्पद्यते, किन्तु तदेकदेश
एवत्यर्थस्तदाह–यस्मान् सर्वा विभक्तिरिति । यदि तु सर्वा
विभक्तय इति बहुवचनेन विगृह्यएत ततः सर्वान्नीन इतिवत् प्रकार
कार्त्स्न्यऽपि सर्वशब्दस्य संभवाद् एकवचनमात्रोत्पतावपि सर्वा
विभक्तयः, सप्ताप्येकवचनान्यसत्ववचनेभ्य उत्पद्यन्त इति न
स्यादसर्वविभक्तित्वमिति भावः । इह “तेनैक दिक्””तसिश्च”
इत्येकस्मिन्नर्थे विधीयमानयोरप्यण्तसोरण् द्रव्यप्रधानः, तसिस्तु
द्रव्योपसर्जनतृतीयार्थप्रधान इति तस्यासत्ववचनता ।
तद्धित इति किमिति । असर्वविभक्तिरव्ययमित्येवास्तु, मा
भूत्सर्वमेय प्रकरणं ये हि स्वरादयः, ये च निपाताः, ये च
कृन्मेजन्ताः, ये च क्त्वादयः, यश्चाव्ययीभावः, सर्वे तेऽसर्वविभक्तय
इति प्रश्नः । एकः द्वौ, बहव इति । एतेभ्योऽपि सप्तस्वपि
विभक्तिष्वेकैकमेव वचनमुत्पद्यत इति स्यादतिप्रसङ्ग इति कर्तव्यं
तद्धितग्रहणम् । तस्मिंश्च कृते प्रकरणमपि कर्तव्यमिति भावः ।
विशत्यादयस्तु कृतैकशेषा द्विवचनबहुवचनान्ता अपि भवन्तीति
नासर्वविभक्तयाः । एवं द्वयत्रयोभयशब्दा अयजन्ताः । एवमपि
गोदयोरदूरभवो ग्रामः “अदूरभवश्च” इत्यणः “वरणादिभ्यश्च” इति
लुपि युक्तवद्भावात् सर्वासु विभक्तिषु
द्विवचनस्योत्पतेरस्त्यतिप्रसङ्गः । स्यादयं पर्यनुयोगः–यदि
तद्धितान्तो गोदशब्दः,वयं तु “लुब्योगाप्रख्यानाद्” “योगप्रमाणे
च तदभावे दर्शनं स्याद” इत्यधीयाना नैवं पर्यनुयोज्याः; एवमपि
शङ्खायास्संज्ञासङ्घसूत्राध्ययनेषु” संज्ञायां स्वार्थ उत्पाद्यः,
पञ्चैव पञ्चकाः शकुनयः–अत्र प्राप्नोति, पचतिरूपं
पचतिकल्पमित्यादौ च एकवचनमेवोत्पद्यत इति स्यादेवातिप्रसङ्गः
। तस्मातद्धितानां पाठ एवाश्रयणीयः, तदाह–शिद्धं तु
पाठातसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभयः,
मान्तः कृत्वोर्थाः, तसिवती नानाञाविति” ॥
कृन्मेजन्तः ॥ १।१।३९ ॥
अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य
विशेषणम्–“कृदन्तम्मेजन्तमब्ययम्” इति । कृत एव वा-कृद्यो
मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे
इति णिचि क्विपि णिलोपे ऊठि “एत्येधत्यूठ्सु” इति वृद्धौ
लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्,
मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह–कृद्य
इति । नन्वत्रापि कारयाञ्चकार–आमन्तस्य न प्राप्नोति, पूर्वत्र तु
लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् ।
अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम्
“आमः” इति लुग्भविष्यति, “लेः” इति हि तत्र नानुवर्तते ।
स्वादुङ्कारमिति । श्वादुमि णमुल्”
स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति ।
निपातनात्पूर्वपदस्य मान्तत्वम् । “येन विधिस्तदन्तस्य” इत्येव
सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे
बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति ।
आङ्पूर्वाद्धाञः “उपसर्गे घोः किः”,चतुर्थ्येकवचने “घेर्ङिति”
आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं
चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः “, कुम्भकारशब्दः
कर्मण्यणन्तः “बहुवचने झल्येत्”, अत्राव्ययसंज्ञायाम् “अव्ययात्”
इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं
द्रष्टव्यम् ॥
अव्ययीभावश्च ॥ १।१।४१ ॥
लुङ्मुखस्वरोपचारा इति । अत्र मखस्वरोपचारौ निवर्त्यपानतया
प्रयोजनम्, मशकार्थो धूम इतिवत् । लुक् प्रवर्त्यमानतया ।
उपाग्नीति । अव्ययादिति लुक् । पूर्वपदप्रकृतित्वर एवेति ।
समासस्वरेणान्तोदातत्वम् । उपपयः काम इति ।
“शीलिकामिभिक्षाचरिभ्यो णः” कर्मणि घञन्तेन वा बहुव्रीहिः, अत्र
मुखस्वरनिवृत्तिरेव साक्षात्प्रयोजनम्, लुक् तु
“नाव्ययीभावादतोऽम्” इति विशेषप्रतिषेधात् सिद्धः, “अतः
कृकमिकंस” इत्यत्र च “अनुतरपदस्थस्य” इति वर्तते ।
नन्वन्यदप्यव्ययकार्यं सम्भवति-उपाग्निकमित्यकच्, उपकुम्भमन्य इति
मुम्प्रतिषेधः, उपकुम्भीभूत इति “अस्य च्वौ”
इतीत्वस्योपसङ्ख्यानिकः प्रतिषेधः, उपाग्न्यधीयानेति
“सुबामन्त्रिते” इत्यस्यौपसंख्यानिकः प्रतिषेधः, तत्कुतोऽयं
कार्यनियम इत्यत आह – सर्वमिदमित्यादि । इह चेत्यादिना ङ
लोकाव्यय” इत्यत्र यद्वक्ष्यति –“अव्ययप्रतिषेधे
तोसुन्कसुनोरप्रतिषेधः” इति, तस्यावक्तव्यतां दर्शयति ॥
शि सर्वनामस्थानम् ॥ १।१।४२ ॥
कुण्डानीति । “जश्शसोझ शिः” शर्वनामस्थाने” इति वर्तमाने
“नपुंसकस्य झलचः” इति नुम् । शर्वनामस्थाने चासम्बुद्धौ” इति
दीर्घो यद्यपि “जसः शीः” ङपुंसकाच्च” इति विहितस्य शीशब्दस्य
शब्दलूपापेक्षया नपुंसक ह्रस्वत्वे “शि” इति रूपं सम्भवति, तथापि
लाक्षणिकत्वान्न तस्य ग्रहणम्, सर्वनामस्थानप्रदेशेषु शिग्रहणे
सुटो ग्रहणं न स्यात् । शिसुटोरिति वचने नपुंसकसुटोऽपि
ग्रहणं प्राप्नोति, अतः संज्ञा तावत्कर्तव्या । किमर्थं तु महती
क्रियते ? के चिदाहुः-सर्वनाम तिष्ठत्यस्मिन्नति
सर्वनामसोथानम्, नाम प्रतिपदिकम्,
सर्वशब्दोऽवयवकार्त्स्यवचनः सर्वावयवयुक्तं यत्र नाम
तिष्ठतीत्यर्थः, तेनान्यत्र न्यूनं नाम तिष्ठतीत्यर्थो गम्यते, किं
सिद्धं भवति ? “उपेयुषः” इत्यादौ सम्प्रसारणे कृते
पूर्वकृतस्येटो निवृत्तिः सिद्धा भवति; अन्यथा
निवृत्तिकारणाभावात् अवतिष्ठेतेति । एवं तु कस्मिन् प्रातिपदिके
किं न्यूनमिति न ज्ञायेत ! तस्मात्पूर्वाचार्यानुपालब्धुमेषा महती
संज्ञा प्रणीता ॥
सुडनपुंसकस्य ॥ १।१।४३ ॥
सुडिति पञ्च वचनानीति । अनेनौटष्टकारेण प्रत्याहारः, न
टाशब्दस्येति दर्शयति । आदिरन्त्येनेत्यत्रान्त्यत्वप्रयुक्ता यस्येत्संज्ञा
तेन प्रत्याहारः । लकारे त्वकारस्येत्संज्ञाविधानसामर्थ्यात्
प्रत्याहार इति भावः । नपुंसकादन्यत्रेति । अनेन पूर्युदासतां
दर्शयति । प्रज्यप्रतिषेधे हि कुण्डानि तिष्ठन्तीति जसः शौ, पूर्वेण
या प्राप्तिस्तस्या अपि प्रतिषेधशङ्कायाम् “अनन्तरस्य विधिर्वा
भवति प्रतिषेधो वा” इति परिहर्तव्यं स्याद्,
असमर्थसमासश्चाश्रयणीयः स्यात् । नपुंसके न विधिरिति ।
स्त्रीपुंससम्बन्धिनः सुट उपादानाद् । न प्रतिषेध इति ।
विधिप्रधानत्वात् पर्युदासस्य । तेनेत्यादि । यत एवं
नपुंसकेनास्य व्यापारः तेन जसो यः शिस्तस्य पूर्वेण संज्ञा
भवतीति । सामनी इति । नपुंसकाच्चेति शीभावः । “विभाषा
ङिश्योः” इत्यिल्लोपाभावे दीर्घो न भवति ॥
न-वेति विभाषा ॥ १।१।४४ ॥
नवाशब्दोऽयमेकनिपातोऽप्यस्ति प्रतिषेधवावी, नवोक्तार्थत्वादिति
यता, तस्य ग्रहणे “विभाषादिक्समासे” इति प्रकृते ” न बहुव्रीहौ”
इति प्रतिषेधोऽनर्थकः स्याद् । विभाषाप्रदेशेषु च न शब्द
एवोपादेयः स्याद् । अत एव संख्यावाचिनो नकारान्तस्याप्यग्रहणम्
। प्रत्यग्रस्त्रीलिङ्गवचनोऽपि न गृह्यते; प्रदेशेष्वसम्भवात् । न हि
“विभाषा श्वेः” इत्यादौ विधेयस्य नवपुराण्त्वं स्त्रीलिङ्गता वा
सम्भवति । तस्मान्निपातसमुदायोऽयमित्याह-नेति । प्रतिषेध
इत्यादि । तयोः प्रतिषेधविकल्पयोरित्यनेनार्थयोरेषा संज्ञेति
दर्शतम् । ननु च श्व रूपं शब्दस्य” इति वचनान्नवाशब्दयोरेव
ग्रहणं युक्तम्, तत्राह-इतिकरण इत्यादि । कर्माणि ल्युट्,
इतिश्चासौ करणश्च सोऽर्थस्य संज्ञिनो निर्देशो यथा
स्यादित्येवमर्थः । इतिशब्दो हि पदार्थविपर्यासकृत् । तत्र लोके
बाह्यार्थप्रधानेषु शब्देष्वितिशब्दः प्रयुक्तः, अर्थपदार्थकत्वात्
प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति गौरित्ययमाहेति । इह तु
व्याकरणे श्वं रूपम्” इति वचनात् स्वरूपपदार्थः । ततश्च
नवाशब्दाभ्यां परत्र प्रयुक्त इति शब्दस्तौ
स्वरूपपदार्थकत्वात्प्रच्याव्यार्थपदार्थकत्वे व्यावस्थापयति ।
तस्मादर्थयोरेव संज्ञा ।
विभाषाप्रदेशेषु इत्यादिना प्रतिषेधविकल्पयोरेकस्मिन्नेव योगे
सहोपस्थापनं विषयभेदेनेति तं दर्शयति । तथा सति
विषयभेदो दुर्ज्ञानः स्यादिति भावः । तत्रेत्यादिना पूर्वं
प्रतिषेधः प्रवर्तते, पञ्चाद्विकल्प इति दर्शयति । यदि तु पूर्वं
विकल्पः प्रवर्तेत पश्चात्प्रतिषेधः, ततो विकल्पप्रवृत्तिरनर्थिकैव
स्यात् । आनुपूर्वी च संज्ञाविधिवाक्ये श्रुतैव
प्रदेशवाक्येष्वप्याश्रयितुं युक्ता । उभयत्रविभाषाः प्रयोजयन्तीति ।
प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् ।
तथा हि–प्राप्तविभाषायां तावद् “विभाषोपपदेन प्रतीयमाने”
इति श्वरितञितः” इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषा
विधीयते । विभाषाशब्दश्चायं “वा” “अन्यतरस्याम्”
इत्यादिवद्विकल्पवाचित्वेन प्रसिद्धः । तेन भावाभावयोः
प्रतिपादितयोर्भावांशस्य प्राप्तत्वादभावांशपरता विज्ञायते,
भावांशः स्थित एव । अप्राप्तविभाषायामपि “विभाषोर्णोः”
इत्यभावांशस्य प्राप्तत्वाद् भावांशपरता विज्ञायते “विभाषा श्वेः”
इत्यत्र तु यदि विधिमुखेन विभाषा श्रुतिः प्रवर्तते, पित्स्वेव
संप्रसारणं विभाषा स्यात्, कित्सु तु यजादित्वान्नित्यमेव स्यात् ।
अथ प्रतिषेधमुखेन प्रवृत्तिस्तदा कित्स्वेन विकल्पः स्यान्न पित्सु ।
न च शक्यं वक्तुम्–पित्सु विधिमुखेन प्रवर्तते, कित्सु
प्रतिषेधमुखेनेति; एकत्वाद्वाक्यस्य तस्य चान्यतरविकल्प
एवोपक्षीणत्वात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृते
किदकिदाख्यो लिट् सर्व एव समीकृतो भवति;
सर्वस्यासम्प्रसारणनिमितत्वात् । ततो विकल्पः सर्वत्र विधिमुखेन
पक्षे सम्प्रसारणं सम्पादयति । एतच्च–“आकृतौ पदार्थे समुदाये
सकृल्लक्षणं प्रवर्तते” इति दर्शने
प्रयोजनम् । यदा तु प्रतिलक्ष्यं
“विभाषा श्वेः” इत्यस्य व्यापारः, तदा क्वचिद्विधिमुखेन
क्विचितप्रतिषेधमुखेन प्रवर्तत इति संज्ञाकरणमन्तरेणापीष्ट्ंअ
सिद्ध्यति । तता च “हृक्रोरन्यतरस्याम्” इत्यादावन्यतरस्यांग्रहणे
वा ग्रहणे चोभयत्रविभाषास्विष्टसिद्धः । सूत्रारम्भे तु संज्ञाप्यर्थः,
विभाषेत्यर्थः । संज्ञा नवार्थयोरिति व्याख्येयम् । शुशावेति ।
श्वयतेर्लिटि तिपो णलि सम्प्रसारणे वृद्ध्यावादेशौ ॥
इग्यणः सम्प्रसारणम् ॥ १।१।४५ ॥
यणः स्थान इति । कथं पुनरनुवादे स्थानसम्बन्धो लभ्यते ? “षष्ठी
स्थानेयोगा” इत्यत्राधिकारात् । भूत इति ।
कार्यान्तरार्थमनूद्यमानो भूतः, विधेयस्तु भावती, तत्र च संज्ञिनो
भावित्वात् संज्ञापि भविन्येव । यथा-अस्य सूत्रस्य शाटकं वयेति ।
“वचिस्वपियजादीनां किति” तद्भवति यस्य भूतस्य सम्प्रसारणसंज्ञा
भवतीति । इष्टम्, उप्तमिति । “वचिस्वपि” इत्यादिना सम्प्रसारणम् ।
गृहीतमिति । “ग्रहिज्या” इत्यादिना । “ग्रहोऽलिटि दीर्घः” ।
केचिदित्यादि । एवंवदतां भाविनी संज्ञा नाश्रयणीया,
स्थानेयोगश्च लभ्यते । “इग्यणः” इत्यत्र
भवतीत्यध्याहारात्पूर्वसूत्राच्चेतिकरणानुवृतेर्यणः, स्थाने
इग्भवतीति योऽयं वाक्यार्थ इत्यर्थो लभ्यते । कथं
पुनरर्थद्वयमेकस्य सूत्रस्य भवति ? तन्त्रेण,आवृत्या वा । अस्य च
लिङ्गं विभक्तिविशेषनिर्देशः । यदयं “ष्यङः सम्प्रसारणम्”
इत्यादौ भाव्यमानविभक्त्या निर्देशां करोति, ततो
ज्ञापयति–वाक्यार्थः संज्ञेति । न हि तत्र वर्णस्य सम्भवः ।
“सम्प्रसारणस्य” इत्यादौ तु भूतविभक्त्या निर्देशात् ज्ञायते –वर्णः
संज्ञीति । न हि तत्र वाक्यार्थः सम्भवति । तत्रेत्यादिना
द्वयोरर्थयोर्विषयविभागेनोपस्थानं दर्शयति । अदुहितरामिति ।
दुहेर्लङ् किर्मकर्तरि उतमैकवचने इटि ङ दुहस्नुनमाम्” इति
यकि प्रतिषिद्धे शब्लुकि अदुहि इति स्थिते “तिङ्श्च” इति तरपि
“किमेतिङ्व्ययघाद्” इत्याम् । तत्र लकारस्य यणः स्थाने इङ्विहित
इति संप्रसारणसंज्ञायाम् “हलः” इति दीर्घत्वं प्राप्नोतीति
चोद्यमपाकरोति । सङ्ख्यातानुदेशादिति । तरप
उपन्यासोऽङ्गसंज्ञार्थः । सङ्ख्यासाम्यात् संख्यातानुदेशे सति
यकारस्थानिकस्येकारस्य संज्ञया भाव्यम्, अयं तु लकारस्थानिकः ।
द्यौभ्यामित्यत्र “दिव उत्” इत्युत्वे यणादेशे “हलः” इति दीर्घत्वं
प्राप्तंतपरकरणान्न भवति । अक्षद्यूः, अक्षद्यौवौ, अक्षद्यौव इत्यादावूठः
संप्रसारणसंज्ञायाम् शंप्रसारणाच्च” इति पूर्वरूपत्वं प्राप्तम्
“वार्णादाङ्गं बलीयः” इति उवङ बाध्यते ॥
आद्यन्तौ टकितो ॥ १।१।४६ ॥
अत्र द्वौ पक्षौ सम्भवतः-संज्ञा स्यात्, परिभाषा वेति । तत्र
संज्ञापक्षेऽयमर्थः-टकिताविति कर्मधारयः, इत्संज्ञकौ टकारककारौ
आद्यन्तयौः संज्ञेति । तत्रेडित्यत्राद्यर्थेन टकारेण बहुव्रीहौ
इकारादिः शब्दो गृहीत आदेशो विधीयमानस्तव्यस्य स्थानेऽन्तरतम
इतव्यो भवतीति सिद्धमिष्टम् । एवं षुक्यन्तवचनेन ककारेण
बहुव्रीहौ षकारान्तो गृहीत आदेशो भियो भीष् भवतीति
सिद्धम् ।
नन्वस्मिन्पक्षे संज्ञा संज्ञिप्रत्यायनार्था, संज्ञिनं प्रत्याय्य स्वयमेव
निवर्तिष्यत इति किमिद्ग्रहणेन, टकावित्येवास्तु ? उच्यते;
इत्संज्ञकत्वेन देशविशेषो लक्ष्यते, तेनेत्संज्ञकस्य यो
देशस्तद्देशावस्थितौ टकौ संज्ञे भवत इति आलजाटचौ “ठस्येकः”
इत्यादौ टकौ संज्ञे न भवतः । अस्मिन्पक्षे दोषः,
“लुङ्लङ्लृङ्क्ष्वडुदातः” इत्यडित्यकारादेरादेशस्य
विधानातस्यैवोदातत्वमलोऽन्त्यस्य स्याद्, नाकारस्य ? नैष दोषः;
“अडुदातः” इति त्रिपदो बहुव्रीहिः-उदातोऽकार आदिरस्येति ।
विशेषणस्याप्युदातस्य सौत्रः परिनिपातः । एवमपि
–“आडजादीनाम्” इत्यत्रोदातग्रहणमेवानुवर्तत इति
बहुव्रीहेरसम्भवाद्दोषः,
तस्मात्परिभाषापक्षमाश्रित्याह-“आदिष्टिद्भवतीति । परेण
परिभाषाप्रकरणेन साहचर्यादिति भावः । यद्वा-“षष्ठी स्थानेयोगा”
इत्यत्रेदमनुवर्त्यम्, अत एवाह-षष्ठीनिर्द्दिष्टस्येति । तेन
“चरेष्टः”,”आतोऽनुपसर्गे कः” इत्यादयः प्रत्यया आद्यन्तभूता न
भवन्ति । एवमपि “गापोष्टक्” “व्रीहिशाल्योर्ढक्” इत्यत्र प्रसङ्गः,
तत्र टकष्टित्वकित्वयोगे परत्वादन्त्यः स्यात्, नैष दोषः;
“पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते न परान्” इति । एवमयं
स्थानेयोगं बाधते, न प्रत्ययपरत्वम् । भीषयत इति । “ञिभी
भये”, णिच् । “भियो हेतुभये षुक्” “भीस्म्योर्हेतुभये” ॥
मिदचोऽन्त्यात् परः ॥ १।१।४७ ॥
“अचः” इति निर्धारणे षष्ठी, जातावेकवचनमित्याह–अचामित्यादि ।
अत्रापि जातौ बहुवचनम् । यदि पुनरन्त्यादित्यानया
समानाधिकरणा पञ्चमी स्यात्, ततो हरन्तेष्वस्याः प्रवृत्तिर्न
स्यात् । ततश्च ङुपंसकस्य झलचः” इति नुमिहैवान्त्यात्परः स्यात्
कुण्डानीति, यशांसीत्यत्र त्वलोऽन्त्यस्य स्यात्; एवं “शे
मुचादीनाम्” इत्यादौ । ततश्च तेषु मित्वमनर्थकं स्यादिति भावः
। समानजातीयस्यैव निर्द्धारणं भवतीत्यन्त्योऽप्यजेव विज्ञायत
इत्याह-अन्त्यादचः पर इति । पुरस्तादपवादन्यायेन
स्थानेयोगत्वस्यैवायमपवादो युक्त इत्या
शङ्क्याह–रथानेयोगप्रत्ययपरत्वस्यापवाद इति । स्थानेयोगश्च
प्रत्ययपरत्वं चेति समाहारे द्वन्द्वः । “तृणहः “इति निर्देशात्
श्नमो मकारो न श्रवणार्थः, अतो मित्करणसामर्थ्यात्
प्रत्ययपरत्वस्याप्ययमपवादौ युक्त इति भावः । मस्जेरित्यादि ।
“मस्जिनशोर्झलि” तैति नुम् यद्यन्त्यादचः परः स्यात् ततो
निष्ठायां मन्स्ज इति स्थिते श्कोस्संयोगाद्योरन्ते च ” इति
सलोपो न स्यात् । वहूनां समुदाये समुदायस्यैका संयोगसंज्ञा
न द्वयोर्द्वयोरित्यस्मिन् पक्षे सत्यपि वा सलोपे
तस्यासिद्धत्वादनुपधानकार इति “अनिदिताम्” इत्यनुषङ्गलोपए
न स्यात् । नकारस्योपधायाः ” अनुषङ्गः” इति पूर्वाचार्याणां
संज्ञा । तस्माज्जकारात्पूर्वो नुम् कर्तव्य इत्यर्थः ।
मग्न इति । “ओदितश्च” इति निष्ठानत्वम्, तस्यासिद्धत्वात्कुत्वम् ।
अत्र “आद्यन्तौ टकितौ” इत्यतः “अन्त” इत्यनुवृतौ पूर्वस्य सङ्घातस्य
मिदन्तावयवो भवति । “आदि” इत्यनुवृतौ तत्र सन्निहितस्य
परस्यादिर्भवति । अथोभयं निवृतं ततोऽभक्त इति त्रयः पक्षाः ।
तत्राभक्ते–ताता पिण्डानामिति नलोपो न स्यात् । तच्छब्दात्
“जश्शसोः शिः” तानि “शेश्च्छन्दसि बहुलम्” इति शेर्लुक् ।
वहंलिहः, अर्भ्रलिहः-“वहाभ्रे लिहः” इति खशि “अरुर्द्विषदजन्तस्य मुम”
इति मुम् । अस्यापदान्तत्वादनुस्वारो न स्यात् । त्रपुणी इत्यत्र
परत्वान्नित्यत्वाच्च नुमि कृते तेन व्यवधानादौङः शीभावो न
स्यात् । अथ परादिः-त्रपुणे, “घेर्ङिति” इति गुणः प्राप्नोति,
अतिसखीनि-शख्युरसम्बुद्धौ” इति णिद्वद्भावे “अचो ञ्णिति” इति
वृद्धिः प्राप्नोति । त्रपुणि, “अच्च घेः”, शुचीनि, ङोपधायाः” इति
दीर्घत्वं न प्राप्नोति । ताता पिण्डानामिति नलोपः वहंलिह
इत्यनुस्वारः । तस्मात्पूर्वान्त एवायं मिदेषितव्यः ॥
एच इग्घ्रस्वादेशे ॥ १।१।४८ ॥
परिभाषेयं स्थानिनियमार्था । “ह्रस्वो नपुंसके”
इत्यादाववुपतिष्ठते । इहैचां पूर्वो भागो मात्रात्मकः
कण्ठ।लेऽकारसदृशाः । एदैतोरुतरस्तालब्य इकारसदृशः ।
ओदौतोरोष्ठ।ल् उकारसदृशः । एवमवयवसमाहारात्मनामेचां
ह्रस्वशासनेषु समुदायान्तरतमस्याभावाद् अवयवान्तरतमो ह्रस्वो
भवन् कदाचिदकारः स्यात्, कदाचिदिकारोकारौ; मा
कदाचिदकारो भूदित्येवमर्थमिदमारभ्यते, तदाह–इगेव ह्रस्वो
भवतीति । यदि त्वयं विधिः स्यात्, तदा ह्रस्वादेश इति
विषयोपलक्षणमेतत्स्याद्–यस्मिन्विषय एचो ह्रस्वादेशप्रसङ्गस्त
त्रेग्भवतीति । ततश्च दीर्घाणां स्थाने दीर्धा एवकः स्युः
सवर्णग्रहणात्, नैषदोषः;”भाव्यमानोऽण् सर्वर्णान्न गृह्णाति”
“भाव्यमानोऽप्यकारः सवर्णान् गृह्णाति” “दिव उत्”
इतितपरकरणाद् अमूभ्यामितिवत्; तथैचामिकां च साम्यात्
संख्यातानुदेशोऽपि स्याद्, आदेशग्रहणं चानर्थकं स्यात् । तत
आदेशग्रहणसामर्थ्याद् ह्रस्वादेशे ह्रस्वदेशनकाल इक्कर्तव्यः,
ह्रस्वादेशं कुर्वन्निकं कुर्यादित्यर्थः । यद्वा -आदिश्यत इत्यादेशः,
ह्रक्वश्चासावादेशश्च ह्रस्वादेशः । निर्द्धारणे सप्तमी,
जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये इगेव ह्रस्वो
भवतीति सर्वथा नियमरूपेणास्य प्रवृत्तिः । प्राप्तिपूर्वकश्च नियम
इति ये प्राप्ता अन्तरतमास्तेष्वेव नियमः । न च ऋकारलृकारौ
प्राप्ताविति कुतो यथासङ्ख्यम् ? कुतो दीर्घप्रसङ्गः ? एवं
चेणित्येव सिद्धे इग्ग्रहणं परेण मा भूदिति । अतिरि । अतिनु ।
रायमतिक्रान्तं नावमतिक्रान्तं ब्राह्मणकुलमिति प्रदिसमासे
नपुंसकह्रस्वत्वम् । उपग्विति । अव्ययीभावः । रैशब्दश्च्छन्दस्येवेति
भाष्यम् । एकारस्याप्रसिद्धत्वादुदाहरणं न प्रदर्शितम् ।
हेशब्दमतिक्रान्तं ब्राह्मणकुलमतिहि । अतिखट्व इति । उपसर्जनह्रस्वः ।
देश्वदेतेति । आमन्त्रिताद्यौदातत्वम् । देवद३त । “गुरोरनृत”
इत्यादिना प्लुतः ॥
षष्ठी स्थानेयोगा । योगनियमार्थेति । यद्यपि षष्ठी
स्थानेयोगैवेत्यस्यां वचनव्यक्तौ यत
एवकारस्ततोऽन्यत्रावधारणमिति षष्ठीनियमः श्रुत्या प्रतीयते
तथापि स्थाननिमितक एव सम्बन्धः षष्ठ।ल वाच्य
इत्यर्थात्सम्बन्धनियमोऽपि भवतीति भावः । योगे वा नियमो
योगनियमः । यदि योगनियमः क्रियते लोकेऽपि नियमः
प्राप्नोति, अवयवषष्ठ।लदयश्च न सिद्ध्यन्ति; ततश्च “शास
इदङ्हलोः” शासेश्चान्त्यस्य स्यादुपधामात्रस्य च, “ऊदुपधाया
गोहः” गोहेश्चान्त्यस्य स्याद् उपधामात्रस्य च, तत्राह-इह शास्त्रे या
षष्ठ।ल्नियतयोगेति । एतेन शास्त्रेऽयं नियमः,
शास्त्राङ्गत्वात्परिभाषाणाम्; तत्राप्यनियमप्रसङ्ग इति दर्शयति ।
अनियमप्रसङ्गे नियमः कर्तव्यो लोकवत्, तद्यथा-लोके ग्रामान्तरं
जिगमिषुः कश्चित्कञ्चिदाह-“पन्थानं मे भवानुपदिशतु” इति, स
यत्र संदेहः, पथि द्वैविध्यात्,
तत्रैवोपदिशति-“अमुष्मिन्नवकाशेऽनेन पथा गच्छ” इति; एवमिहापि
“अस्तेर्भूः” अस्तेः स्थानेऽनन्तरो वेति संदेहे नियमः क्रियते –
स्थानेयोगैवेति । एतदेव स्पष्टयति-स्थानेयोगस्य निमितभूत इति
। निमितभूते, निमितत्वं प्राप्ते । निमितग्रहणं कुर्वन् श्थाने”
इति निमितसप्तमीति दर्शयति ।
स्थानशब्दोऽयमस्त्यपकर्षवचनः-गोस्थानेऽश्वो बध्यतामिति, अस्ति च
निवृत्तिवचनः-श्लेष्मणः स्थाने कटुअकमौषधमिति, अस्ति च
प्रसङ्गवचनः–दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति, तदिह
चरमस्य ग्रहणमित्याह–स्थानशब्दश्चेति । चशब्दोऽवधारणे
भिन्नक्रमश्च वाचीत्यस्यानन्तरं द्रष्टव्यः । प्रसङ्गवाच्येवेति
कथमिवेत्याह–यथेति । निवृत्तिवाची न गृह्यते,
अस्तेरुपदेशसामर्थ्यात् । न ह्यार्धधातुके निवर्तितस्य सार्वधातुके
श्रवणमुपपद्यते, न हि मथुरायां व्यापादितः स्रुघ्ने जीवति ।
नाप्यपकर्षवचनः, न ह्यर्थेन नित्यसम्बद्धस्य ततोऽपकर्षः सम्भवति ।
नाप्यार्द्धधातुकादपकर्षः, न हि नित्ये प्रकृतिप्रत्ययसमुदाये
प्रकृतेरपकर्षः सम्भवति । स्वाभाविक एव ह्यस्तेरप्रयोग आर्द्धधातुके
भूशब्द स्य च प्रयोगोऽनेन प्रकारेणान्वाख्यायते, अतः प्रसङ्गः एव
स्थानम् । प्रसङ्गः प्राप्तिः, अस्तेः प्राप्तौ भूः प्रयोक्तव्य इत्यर्थः ।
अस्तिनार्थं प्रतिपादयितुमुद्यौक्त आर्द्धधातुके विषये भवतिना
प्रतिपादयेदिति यावत् । प्रसङ्गसम्बन्धस्येत्यादिना
सूत्रार्थमुद्राहरणे दर्शयति । ब्रुव इत्युपलक्षणम् ।
किं पुनर्बहवः षष्ठ।ल्र्था यत इदमुच्यत इत्यत आह –बहवो हीति ।
एकशतं षष्ठ।ल्र्थाः तत्र स्वस्वामिभावादयः शब्दे न सम्भवन्ति,
समीपादय एव तु सम्भवन्तीत्यतो यावन्तः शब्दे सम्भवन्तीत्युक्तम् ।
व्यवहितमपि समीपं भवतीत्यनन्तराद्भेदेनोपादानम् ।
स्थानेयोगेत्यसमासश्चेद् योगेति स्त्रीलिंगं षष्ठीशब्देन च
सामानाधिकरण्यमनुपपन्नम् । समासेऽपि तत्पुरुषश्चेत् तौ च
पूर्वोक्तदोषौ, सप्तम्या लुक्प्रसङ्गश्च, बहुव्रीहावपि
लुक्प्रसङ्गोऽनिवार्य एवेत्यत आह–षष्ठी स्थानेयोगेत्यादि ।
यद्वा–अयोगेति पदच्छेदः । न विद्यते योगो यस्याः साऽयोगा । तत्र
योगः मन्तरेण षष्ठ।ल एवाभावाद् विशिष्टो योगो यस्या
नास्तीत्यर्थः । एवं च कृत्वासंदेह एवोपस्थानमित्येवं सर्वत्र सिद्धं
भवति । अथ वा – योगवती योगा, षष्ठ।लश्चावश्यम्भावी योग इति
सामर्थ्याद् भूम्नि मत्वर्थीयोऽकारः, बहवो योगा यस्याः सन्तीति ।
अस्मिन्नपि पक्षे सन्देहविषय उपस्थानमिति सिद्धम् ।
भाष्ये सूत्रं प्रत्याख्यातम्, कथम् ? “अस्तेर्भूः” इत्यत्र सन्देहः
–स्थानेऽनन्तरः, समीप इति ? लक्ष्यानुरोधात् स्थान इति
व्याख्यास्यामः । इदं तु षष्ठ।ल्न्तं यथा स्थानेन युज्येत; अतः
षष्ठयुच्चारिता । तेन ङिर्द्दिश्यमानस्यादेशा भवन्ति” इति
सिद्धं भवतीति । तत्र सूत्रे षष्ठ।ल्न्तं गृह्यते–षष्ठ।ल्न्तमेव
निर्द्दिश्यमानं स्थानेन युज्यते, न तु प्रतीयमानमिति । तेन
“पादः पत्” इत्यस्यायमर्थः–पादन्तस्याङ्गस्य यो।वयवः पाच्छब्दः
सूत्रे षष्ठ।ल निर्दिष्टः, तस्य पच्छब्द आदेशः, न तु प्रतीयमानस्य
तदन्तस्येति ॥
स्थानेऽन्तरतमः ॥ १।१।५० ॥
यद्ययं स्वतन्त्रो विधिः स्याद्, अत्रापि प्राप्नोति – दघि, मघु । अस्तु;
न कश्चिदन्य आदेशः प्रतिनिर्द्दिश्यते, तत्रान्तर्यतः स एव तस्य
भविष्यति, न; तस्याप्यन्य इत्यनवस्थाप्रसङ्गात् । प्रयोजनमन्तरेण
हि प्रवर्तमानमसकृदपि प्रवर्तते । ततश्च सर्वस्य
निवृत्युन्मुखत्वादर्थप्रत्यायनाय प्रयोगो न स्यात् । अपि च बिसं
मुसलमित्यादौ यदा समुदायस्य समुदायस्तदा
सकारमात्रस्यानादेशत्वात् षत्वाप्रसङ्गेऽपि सकारमात्रस्य सकार
इति षत्वं प्राप्नोति । अतः परिभाषाप्रकरणात् परिभाषेयं यत्र
स्थानषष्ठी तत्रोपतिष्ठते । तेन विधिवाक्यानामनेन
सूत्रेणैकवाक्यत्वाद् विधानकाल एवान्तरतम आदेशो विधीयत
इत्याह–स्थाने प्राप्यमाणानामिति । अत्रैवशब्दाप्रयोगात्
प्राप्यमाणानामिति वचनच्च विशिष्टविधिरेवायम्, न नियमः ।
अर्थात्वनन्तरतमव्युदास इति दर्शितं भवति । अन्तरतम
इत्यस्यार्थमाह–सदृशतम इति । कुतश्चेति । शब्दत्वस्य
साधारणत्वात् प्रापतिस्विकविशेषस्य चासाधारणत्वात् प्रश्नः ।
वतण्डी चासौ युवतिरिति । विग्रहवाक्यम्, इतरदुदाहरणम् । अत्र
वतण्डस्यापत्यं स्त्री “वतण्डाच्च” “लुक् स्त्रियाम्” इति यञो लुक्,
शार्ङ्गरवादिपाठान्ङीन् । “पएटायुवति” इति समासे सति
पुंवत्कर्मधारयेति पुंशब्दो निर्द्दिश्यमानो वतण्डापत्यवाचिनो
वतण्डशब्दस्यतदपत्यवाची वातण्ड।ल्शब्दो भवति । चकारस्येत्यादि ।
अल्पप्राणत्वादिकं सवर्णसंज्ञायामुक्तम् । अमुष्मै, अमूभ्यामिति ।
अदसश्चतुर्थ्येकवचने त्यदाद्यत्वम्, शर्वनाम्नः स्मै”, भ्यामिशुपि
च” इति दीर्घत्वम् ।
स्थान इति वर्तमान इति । पूर्वसूत्राद् । यद्यपि तत्र समस्तम्,
तथापि स्वरितत्वानुषङ्गादनुवृत्तिरिविरुद्धा । पुनः
स्थानेग्रहणमिति । प्रकृतेन हि स्थानशब्देन स्थाने
प्राप्यमाणानामित्ययमर्थो लभ्यते, अयं तु ताल्वादिस्थानवचनो
वाक्यभेदेन सम्बध्यते, स्थानैऽन्तरतमो भवति । यत्रानेकमान्तर्थं
तत्र स्थानकृतान्तर्थमाश्रीयत इति वाक्यभेदस्य च तमब्ग्रहणं
लिङ्गम् । स्थानकृत एव हि सादृश्ये गृह्यमाणे
सादृश्यान्तरपरित्यागात् तमब्ग्रहणं व्यर्थमेव स्यात् ।
तमब्ग्रहणं किमिति । सुमदृश्यव्यवहारदर्शनात् तमब्ग्रहणमिति
भावः । सोष्मणः, सोष्माण इत्यादि । ऊष्मशब्दोऽत्र गुणमात्रवचनः ।
इतिकरणो हेतौ । यस्मादूष्मगुणयुक्ताः, तस्मादूष्मगुणयुक्तस्य
हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः । “शादय ऊष्माणः सस्थानेन
द्वितीया हकारेण चतुर्थाः” इति शिक्षा । अत्रोष्मशब्दो गुणवचनः,
सस्थानेनेति इत्थंभूतलक्षणे तृतीया । हशषसाः खच्छादीनां
द्वितीयानां स्थाना यथा ते ऊष्माण एवं द्वितीया अपीत्यर्थः ।
फकारस्य सस्थान ऊष्मा नास्ति, तस्मातस्य विशेषत ऊष्मत्वं वक्तव्यम्
। हकारेण चतुर्था इति, यथाहकार ऊष्मा एवं तेऽपीत्यर्थः । एवं
नादवतो नादवन्त इतीत्यत्रापि हेत्वर्थो योज्यः । इह इष्टम्,
उप्तम्–आन्तर्यतोऽर्द्धमात्रस्य व्यञ्जनस्यार्द्धमात्रेक् संप्रसारणं
प्राप्नोति; इह च दध्यत्र, कुमार्यत्र,
ब्रह्मबन्ध्वर्थम्–मात्रिकद्विमात्रिकत्रिमात्रिकाणामिकां
मात्रिकद्विमात्रिकत्रिमात्रिका यणः प्राप्नुवन्त्यान्तर्यतः । नैव लोके
वेदेऽर्द्धमात्र इगस्ति, नापि मात्रिको द्विमात्रिको वा यण्, योऽस्ति
स भविष्यति । इहान्तरतमशब्दः सप्तम्यन्तोऽपि पठितो भाष्ये ।
“स्थानेऽन्तरतम उरण् रपरः” इति संहितापाठोऽनित्यः” तत्र
पदच्छेदे सप्तम्यन्तमपि सम्भवति । तत्र चायमर्थः-षष्ठीति
वर्तते,अन्तरतमो य आदेशस्य स्थानी, तत्र षष्ठी, तस्यादेश इति
“अकः सवर्णे दीर्घः” इत्यादौ विधीयमानस्य दीर्घस्यान्तरतमे
स्थानिन्यक इति षष्ठ।लेपसंहारात् सिद्धमिष्ठम् । तथा “वान्तो यि
प्रत्यये” इत्यत्रैव इत्यनुवृतायाः षष्ठ।ल
वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात् सिद्धम्,
इतरथैज्मात्रस्य वान्तादेशः स्यात् । अत्र यक्षे दोषः -“इको यणचि”
इति यणो येऽन्तरमा इकस्तत्र षष्ठीति दध्यत्रेत्यादावेव स्यात्,
कुमार्थत्रेत्यादौ न स्यात् । तथा “इको गुणवृद्धी”
गुणवृद्ध्योर्येऽन्तरतमा इकस्तत्र षष्ठीति इहैव स्याद्-नेता,
लविता, नायकः, लावकः; चेता, स्तोता, चायकः, तावक इत्यत्र न
स्यात् । एवं दोषवत्वादस्य पक्षस्य यथाव्याख्यातमेव साधीयः ।
“वान्तो यि प्रत्यये” इत्यत्र परिहारं वक्ष्यति ॥
उरण् रपरः ॥ १।१।५१ ॥
अत्र चत्वारः पक्षाः सम्भवन्ति–“उः स्थाने रपरोऽण् भवतीत्यनेन
रपरत्वविशिष्टोऽण् भाव्यते” इति प्रथमः पक्षः । “उः स्थानेऽणेव
भवति,स च रपर इति अणनण्प्रसङ्गेऽण् नियम्यते, तस्य च रपत्वं
विधीयते” इति द्वितीयः पक्षः । “य उः स्थानेऽण्विधीयते इत्यनूद्य तस्य
प्रसङ्गावस्थायामेव रपत्वमात्रं विधीयते” इति चतुर्थः पक्षः । तत्र
प्रथमपक्षे–नाप्राप्तेषूदातादिषु विधीयमानोऽण् तेषां बाधकः
स्यात्, तैरनवरुद्धस्य विषयस्याभावात् । एवं हि तदा वचनव्यक्तिः,
षष्ठीनिर्द्दिष्टमात्रस्याभावान्नादेशोऽन्तरतमो भवति, ऋवर्णस्य
त्वण् रपर इति, ततश्च कृतिरित्यत्र “ञ्नित्यादिर्नित्यम्” इति
प्राप्तमृकारं बाधित्वाण् रपरः स्यात्; प्रकृतमिति शेषनिघातः
स्वरितश्च, नृÄः पाहीति पूर्वसवर्णदीर्घत्वमनुनासिकं च
बाधित्वाण् रपरः स्यात्, कर्ता, कारक इति च गुणवृद्धी
बाधित्वाऽण् भवन्नकार एवेति नियमाभावादिकारोकारावपि रपरौ
स्याताम्; ये चामी प्रातिपदमुः स्थान आदेशाः “आञ्त इद्धातोः”
इत्यादयः-तेषु रपरत्वं न स्यात् ।
द्वितीये तु कामं गुणवृद्ध्योर्दोषो न स्यात् । तथा हि —
“सर्वेषु गुणवृद्धिसंज्ञकेषु प्राप्तेषु अणेव भवति” इति
नियमादकाराकारावेव गुणवृद्धी रपरे भवत इति सिद्धं
कर्तेत्यादि, शास्त्रान्तरेण योऽण् प्रसक्तः स एव नियमादपि
भवतीतीकारोकारावपि न प्राप्नुतः । ननु “अनुयमप्रसङ्गे
नियमः” इति वृद्धावेव स्याद्, अस्ति तत्रानियमप्रसङ्ग इति कृत्वा;
गुणस्तु कर्तेत्यादौ मात्रिकस्य मात्रिकोऽकार एव
प्राप्नोति;तरितेत्यादौ द्विमात्रस्य द्विमात्र एव भवेद्, अणेवेति त्र
नियमाभावात् तरितेत्यादावेणेóव गुणः स्यात्; कर्तेत्यादौ तु
यद्यप्यकार एव गुणो लभ्यते, तस्य रपत्वं तु न लभ्यते, यो
ह्यणनण्प्रसङ्गेऽणेवेति भवतीति नियमतो योऽण् तस्यैव रपरत्वं
विहितम्; अतो निमयमपक्षेऽपि गुणविषये दोषस्तदवस्थ एव ?
उच्यते, द्वे एते परिभाषे आदेशनियमार्थे–श्थानेऽन्तरमः” इति च
“उरण् रपरः” इति च । तत्र पूर्वस्या अवकाशः “चजोः
कुघिण्ण्यतोः” इत्यादि, अस्या अवकाशो यत्रान्तरतम्ये विशेषो
नास्ति, यथा तारक इत्यादौ, वृद्धीनां कर्ता तारितेत्यादौ । गुणो
भवतीत्युक्ते सर्वेषु गुणेषु प्राप्तेषु श्थानेऽन्तरतमः” इति
नियमोऽस्तु, “उरण् रपरः” इति वा परत्वात् “उरण्रपरः”
इत्ययमेव भविष्यति । अतः सुष्ठूअक्तम्-ङियमपक्षे गुणविषये न
कश्चिद्दोषः” इति । किन्तूदातादिषु दोषस्तदवस्थ एव स्यात्,तथा
हि-कृतिरित्यादावुदातो भवतीत्युक्ते सर्वेषदातसंज्ञकेषु
प्राप्तेषु परत्वादनेनाण एवोदाताः स्युः ते च रपराः ।
एवमनुदातादिष्वपि द्रष्टव्यम् । ये च प्रतिपदामादेशाः “ऋत
इद्धातोः” इत्येवमादयः, तेष्वनियमप्रसङ्गाभावादस्ति नियमे
रपत्वं न स्यात्, तदाह–“उरण् रपरवचनमन्यनिवृत्यर्थं
चेदुदातादिषु दोषः” इति ।
तृतीय पक्षे उदातादिषु न दोषः; ञ्नित्यादिभिरन्तरतमस्यैव
विधानात् । किरतीत्यादौ च न दौषः । गुणवृद्ध्योरुक्तदोषः
स्यादेव, तथा हि–विहितस्य पश्चादनेन रपरत्वं विधीयते,
विधानकाले त्वान्तर्यतो मात्रिकस्य; मात्रिके गुणे रपरे
कर्तेत्यादि यद्यपि सिध्यति, तरितेत्यादौ त्वेणेóव गुणः स्याद्;
वृद्धिषु च विधानसमये कस्याश्चिदान्तर्याभावात् तिसृषु
प्रवृतास्वाकारस्याण्त्वात् रपरत्वे कारकस्तारक इति यद्यपि
सिद्धति, वायकस्तावक इत्यद्यनिष्टमनुसज्यत एव । अत एवमेतेषु
पक्षेषु दोषसद्भावाच्चतुर्थं पक्षमाश्रित्याह–
उः स्थानेऽण्प्रसज्यमान एवेत्यादि । एतच्च
स्थानद्वयग्रहणानुवृतेर्लभ्यते । तत्रैकमुः स्थाने योऽण् विधीयत
इत्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु सोऽण् प्रसङ्ग एव
प्रसज्यमानावस्थायामेव रपरो भवतीति रपरत्वस्य
कालविधानार्थम् । श्थानेऽन्तरतमः” इत्यत्र हि यद्यपि ताल्वादिवचनः
स्थानशब्दः, तथापि न तेनात्र कश्चिदर्थोऽस्तीति प्रसङ्गवचन एवेह
सम्पद्यते । एवं च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो परपाः
सम्पन्ना इति प्रमाणतोऽन्तरतमावेण्èóचौ बाधित्वा स्थानतोऽन्तरतम
एव भविष्यतीति न कश्चिद्दोषः । न
चानेकाल्त्वात्सर्वादेशप्रसङ्गः; आनुपूर्व्या सिद्धेः ।
यदाङ्गस्येति षष्ठी अन्त्येऽल्यनुसंहृता तदायमुः स्थाने, यदायमुः
स्थाने तदा रपरः, यदा रपरस्तदानेकालिति न पुनः परावृत्य
सर्वादेशो युज्यते ।
द्वैमातुर इति । “मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः” । खेयमिति । “ई
च खनः” । सौधातकिरिति । शुधातुरकङ् च ” ।
अत्रायमकङदेशोऽनण्त्वाद्रपरो न भवति । अथ योऽत्राण् स परः
कस्मान्न भवति ? अनादेशत्वात्, समुदायो ह्यत्रादेशः । यद्येवम्,
खट्वर्श्य इत्यादावपि रपरत्वं न स्यात्, पूर्वपरयोर्हि
समुदायोऽत्र स्थानी नावयव ऋकारः, उच्यते; पूर्वपरयोरिति
द्विवचननिर्द्दिशातयोरेव स्थानित्वं न समुदायस्य, अनुर्देअशात् ।
अत एव द्वयोः स्थानिनोर्भिन्नादिषु नत्ववत् द्वावादेशौ सायाताम्
इति तत्रैकग्रहणं क्रियते । तत ऋकारस्यापि स्थानित्वमस्त्येव ।
तदिदमुच्यते-“यो ह्युभयोः स्थाने भवति लभते
सोऽन्यतरब्यपदेशम्” इति । अतस्तत्रापि रपरत्वं भविष्यति ॥
अलोऽन्त्यस्य ॥ १।१।५२ ॥
“अलः” इति जसन्तं चेदयमर्थः स्यात्-अलात्मका आदेशा अन्त्यस्येति ।
तत्र रहोरजसां लोपः सर्वादेशः स्याद्–नीरजीकरोतीति ।
अन्त्यस्य चविशेषितत्वात् “वसुस्रंसुध्वंस्वनडुहां दः” इति दत्वं
पदस्याप्यन्त्यस्य स्यात्–परमानडुद्भ्यामिति । असन्देहार्थं
चालोऽन्त्यस्येति वाच्यं स्याद् । अतोऽलोन्त्यस्येत्यनेन
सामानाधिकरण्यात् षष्ठ।ल्न्तमिति स्थितम् । यदि “षष्ठी
स्थानेयोगा” इत्येनैकवाक्यताऽस्य स्यात्, ततोऽयमर्थः स्यात्–“इह
शास्त्रे या काचन षष्ठी सान्त्यस्यालो भवति सा स्थानेयोगा इति ।
ततश्च “आर्द्धधातुकस्येड्वलादेः”
इत्यस्याप्यन्तेऽल्यनुसंहारादार्द्धधातुकान्त्यस्यैवेट् स्यात्, स च
भवन् “आद्यन्तौ टकितौ” इत्यन्त्यात्प्राक् स्यात् । “आद्यन्तौ टकितौ”
इत्यनेन हि स्थानेयोगात्वमेव षष्ठ।ल बाध्यते, न
पुनरन्त्येऽल्यनुसंहारोऽपि । अतो भिन्नं वाक्यम्,
तदाह–षष्ठीनिर्दिष्टस्येत्यादि । सामान्यवचनेऽपि “षष्ठी
स्थानेयोगा” इत्याधिकारात् स्थान षष्ठीनिर्दिष्टस्येति वेदितव्यम्;
अन्यथा षष्ठीमात्रस्याधिकारे यस्य षष्ठोनिर्दिष्टस्य यत्कार्यं
यथाभूतमुच्यते–आदेशरूपम्, ताअथगमरूपं वा, ततथाभूतमेव
तदन्तस्य भवतीत्यर्थः स्यात् । ततश्च स एव दोषो य
एकवाक्यतायाम् । अतः “षष्ठी स्थानेयोगा” इति सर्वमनुवर्त्यम् ।
अयञ्चार्थो भवति–श्थानषष्ठीनिर्दिष्टस्य यदुच्यते ततदन्त्यस्यालो
भवति, न तस्य कृत्स्नस्य” इति । सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो
वृत्तिकारेण दर्शितः ।
यद्वा-“या स्थानेयोगा षष्ठी साऽन्त्यस्यालः” इति षष्ठ।ल
एवानुसंहारो वेदितव्यः । अत्र पक्षे “डिच्च” इत्यस्यायमर्थः -“यत्र
ङिदादेशो इविधीयते तत्र या षष्ठी सान्त्यस्यालः” इति । एवं सर्वत्र ।
कार्यानुसंहारे तु यताश्रुतमेव षष्ठयाः स्याद्, अनुसंहारे
“डिच्च” इत्यादावसङ्गतिः । अतः कार्यानुसंहारो वृत्तिकारेण
दर्शितः ॥
ङ्च्चि ॥ १।१।५३ ॥
होतापोताराविति । “ऋतो ङिसर्वानामस्थानोयः”इति गुणः ।
“अप्तृन्” इत्यादिना दीर्घः । मातापितराविति । “पितामात्रा”
इत्येकशेषाभावपक्षेऽभ्यर्हितत्वान्मातुः पूर्वनिपातः;
“पितुर्दशगुणं माता गौरवेणातिरिच्यते”। अथ तातङ्न्त्यस्य
कस्मान्न भवति ? तत्राह–तातङीत्यादि । अनन्यार्थङ्त्वेष्विनङदिषु
चरितार्थमेतद् गुणवृद्धिप्रतिषेधार्थतया चरितार्थङ्त्वे तातीङ्
परेण “अनेकाल्शित्सर्वस्य” इत्यनेन बाध्यत इत्यर्थः ।
ननूत्सर्गापवादयोरयुक्तो विप्रतिषेधः, अतुल्यकक्षत्वात्, न
चान्तरेण सर्वादेशतां गुणवृद्धिप्रतिषेधार्थत्वस्योन्मेष एति
चरितार्थत्वमपि ङ्त्विस्य चिन्त्यम् ? न ब्रूमो
गुणवृद्धिप्रतिषेधार्थस्य निश्चितत्वाद् दुर्बलं ङ्त्विमिति; कि तु
सर्वादेशेऽपि तातङ् गुणिवृद्धिप्रतिषेधः प्रयोजनं सम्भाव्यते ।
तावता च कियानपि विलम्बो भवति । अनङदिषु सर्वादेशत्वे न
किञ्चिन् ङ्त्विस्य प्रयोजनमिति सर्वादेशार्थतासम्भावनापि
नास्तीति । तेष्वेव सहसा प्रवर्तते । ततश्च त्रिप्रतिषेधोपपतिः ।
अथ वा – “एरुः” इत्यस्यानन्तरम् “तुह्यएस्तातङशिषि” इति वक्तव्यम्,
एरित्येव । एवं वक्तव्ये ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमेवेति
निश्चितमिति विप्रतिषेधोपपतिस्तदाह–तातङ् इङ्त्किरणस्य
सावकाशत्वाद्विप्रतिषेधात्सर्वादेश इति ।
अथ वा – यथोपदर्शितं गुणवृद्धिप्रतिषेधार्थत्वं
सर्वादेशतामन्तरेण नोपपद्यत इति अन्तरेणैव विप्रतिषेधं
सर्वादेशस्तातङ् भवति ॥
आदेः परस्य ॥ १।१।५४ ॥
शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति
निर्विषयमेतदित्यभिप्रायेणाह–क्व चेति । यत्रेत्यादि ।
पञ्चमीनिर्देशेषु “तस्मादित्युतरस्य” इति परस्य कार्यं विधीयत
इत्यर्थः । आसीन इति । “आस उपवेशने” अनुदातेत् । द्वीपमिति ।
द्विधागता आपो।स्मिन्निति “ऋक्पूरब्धूःपथामानक्षे” इति अकारः
समासान्तः ॥
अनेकाल्शित्सर्वस्य ॥ १।१।५५ ॥
अनेकालग्रहणं किमर्थम् ? “अस्तेर्भूः” सर्वस्य यथा स्यात्,
अलोऽन्त्यस्य मा भूत्; नैतदस्ति प्रयोजनम्; “ङ्च्चि”
इत्येतन्नियमार्थं भविष्यति–“यद्यनेकालन्त्यस्य भवति, ङ्देवि” इति ।
एवमप्यसत्यनेकाल्ग्रहणे “अतो भिस ऐस्” इत्यादिषु
पञ्चमीनिर्देशेष्वनेकालप्यादेश आदेः परस्य स्यात्, सति तु
तस्मिन् द्वावेतौ “अलोऽन्त्यस्य” इत्यस्यापवादौ–“आदेः
परस्य”,”अनेकाल्शित्सर्वस्य” इति; तत्र “आदेः परस्य”
इत्यस्यायमवकाशो य एकालदेशो लोपो वा–“ई दासः”
“बहोर्लोपो भू च वहोः” आसीनः, भूयान् ; “अनेकाल्शित्सर्वस्य”
इत्यस्यावकाशो यत्र पञ्चमीनिर्देशो नास्ति-“अस्तेर्भूः” । इहोभयं
प्राप्नोति-“अतो भिस ऐस्”,
अपवादविप्रतिषेधादनेकाल्शित्सर्वस्येत्ययमेव भवतीति
सिद्धमिष्टम् ।
शिद्ग्रहणं किमर्थम् ? “जसः शी” सर्वस्य यथा स्यात्,
अनेकालित्येव भविष्यति, शकारे लुप्ते नानेकाल्,
आनुपूर्व्यात्सिद्धम् । यदायं सर्वादेशस्तदा प्रत्ययः, यदा
प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदालोपः, यदालोपस्तदैकाल्
तदिह सर्वादेशत्वमन्तरेण नैकाल्त्वमुपपद्यते । इह तर्हि “इदम
इश्” “इदं किमोरीश्कीः” ? अत्र ह्यन्तरेणापि सर्वादेशतां
प्रगेवेत्संज्ञा भवति । नन्वत्रापि शकारः प्रयोजनान्तराभावाद्
अनेकाल्त्वमादेशस्य संपाद्य निवर्तिष्यते । इह तर्हि
“घ्वसोरेद्धावभ्यासलोपश्च” इति ? लोपः शित्सर्वस्य यथा स्यात् ।
“इदम् इश्” इत्यादावपि प्रयोजनाभावदित्संज्ञैव शकारस्य न
स्यादिति श्रवणप्रसङ्गः ॥
स्थानिवदादेशोऽनल्विधौ ॥ १।१।५६ ॥
ननु तत्स्थानापन्नस्य तद्धर्मलाभो लोकवेदयोः सिद्ध एव । लोके
तावदेकस्मिन्नुपाध्याये मृते
तत्स्थाननिविष्टस्याप्यबिवादनाद्यौपाध्यायधर्मलाभो भवति, एकस्मिंश्च
राजनि प्रोषिते तत्स्थानेऽभिषिक्तस्य तत्पुत्रादेरपि तद्धर्मलाभो
भवति । वेदेऽपि व्रीहिस्थानपतिता वीवारादयोऽवघातादीन्
व्रीहिधर्मान् लभन्ते । तद्वदत्राप्यस्तिस्थानापन्नो भूरस्तिधर्मान्
धातुत्वादीन् लप्स्यते,
नार्थोऽनेनेत्याशङ्क्याह–स्थान्यादेशयोरित्यादि ।
अयमभिप्रायः–उपाध्यायत्वप्रयुक्ता उपाद्यायधर्मा
राजधर्माश्चाभिषिक्तत्वप्रयुक्ता व्रीहिधर्माचापूर्वसाधनत्वनिबन्धनाः,
न ततत्स्वरूपनिबन्धना इति युक्तं तत्प्रकारजुषो भवन्तीति । इह तु
स्वं रूपमितिवचनादस्त्यादिस्वरूपनिबन्धना धातुत्वादयो धर्मा न
भवनाद्यर्थाभिधानलक्षणकार्यप्रयुक्ताः, तच्च स्वरूपमादेशानां
नास्तीति तत्स्थानापन्नानामपि न स्युरिति तदाह–पृथक्त्वादिति ।
रूपभेदादित्यर्थः ।
नन्वेतत्प्रकारजुषोऽपि तत्स्थानापन्नस्य तद्धर्मलाभो दृष्टते, यदा
ह्युपाध्यायः शिष्येण यज्ञार्थमुपनिमन्त्रितः कार्यव्यासङ्गात्
स्वशिष्यमन्यं प्रेरयति तदा स तत्र
गत्वाऽग्रासनादीनुपाध्यायधर्मान् लभते,
अत्राप्युपाध्यायप्रतिनिधित्वात् तद्बुद्ध्यैव तद्धर्मा अनुष्ठीयन्ते;
एवं कृते तु सत्युपाध्याय इति न तत्स्थानापन्नतया, न चैवमत्र
संभवतीत्यारब्धव्यमेव सूत्रम् ।
युष्मदस्मदोरादेशनिषेधात्सिद्धम् । यदयं
“युष्मदस्मदोरनादेशे” इत्याह, तज् ज्ञापयति-“भवति
स्थानिकृतमादेशः” इति; अलाश्रये चाप्रसङ्गः, “अदो जग्धिः”
ल्यब्ग्रहणात् । यदि हि स्थान्यलाश्रयमप्यादेशे स्यात् कितीत्येव
सिद्धे ल्यब्ग्रहणनर्थकं स्यात्, सत्यम्; “उतरार्थं तावत्
स्थानिवदादेश इति वक्तव्यम् । अजादेशस्य विषयविशेषे स्थानिवत्वं
वक्ष्यामि, पदान्तादिविधिषु प्रतिषेधं वक्ष्यामि” इति । सोऽन्यार्थः
सन्निहैव क्रियते लिङ्गानाश्रयणाय ।
षोढातिदेशः-निमितातिदेशः, व्यपदेशातिदेशः, शास्त्रातिदेशः,
रूपातिदेशः, तादात्म्यातिदेशः, कार्यातिदेश इति । तत्र
निमितमशक्यमतिदेष्टुंअ ब्राह्मण्यवत्, न हि
ब्राह्मणस्याग्रभोजनादिनिमितं ब्राह्मण्यं वचनशतेनापि
क्षत्रियेऽतिदेष्टुंअ शक्यते । “पूर्ववत्सनः” इत्यत्रापि न प्रकृतिगतं
निमितं ङ्त्वाइदि सनन्तेऽतिदिश्यते, किन्तु प्रकृतिगतमेव तत्
सना व्यवधानेऽप्यात्मनेपदनिमितमिति । एतावता
निमितातिदेशवाचोऽयुक्तिः ।
व्यपदेशातिदेशः संज्ञापक्षान्न भिद्यते, तत्र च वतेरानर्थक्यं वक्ष्यते,
कः पुनरायुष्मतो व्यपदेशोऽभिप्रेतः ? किं स्थानीति व्यपदेशः,
यथा “आद्यन्तवदेकस्मिन्”इत्यत्र व्यपदेशातिदेशपक्षः ? उत स्थानिनो
ये व्यपदेशा धातुरङ्गमित्यादयः, त आदेशस्य भवन्ति ? इति ।
पूर्वः पक्षो भवतोऽप्यनभिप्रेतः, द्वितीयस्य तु संज्ञापक्षान्महान्
भेदः । तथाहि –संज्ञापक्षे यत्र स्थानिरूपमुच्चार्य्यते “आङे
यमहनः ” इत्यादौ, तत्रैव कार्यं स्याद्, न
धातोस्तव्यादयोऽह्गस्येनादय इत्यादौ; न ह्यत्र संज्ञात्वेन
विनियुक्तमस्त्यादि स्थानिरूपमुच्चारितम्; यच्चोच्चारितं न सा
संज्ञा, ताअदेशस्यैव कार्यं स्याद् न स्थानिनः, न हि संज्ञोच्चारिता
स्वयं कार्येण युज्यते, स्थानिनस्तु व्यपदेश
आदेशस्तयातिदिश्यमाने धातोस्तव्यादयोऽङ्गस्येनादय इत्यादौ
स्थान्यादेशयोरुभयोरपि कार्यं सिद्ध्यति; उभयोरपि
व्यपदेशसद्भावात् । “आङे यमहनः” इत्यादिकं तु
स्थानिस्वरूपनिबन्धनं कार्यमादेशस्य न स्यात्,न ह्यत्र
काश्चिद्व्यपदेशो य आदेशस्यातिदिश्येत । अथापि श्वं रूपम्”
इति वचनाद्धन्नित्यपि हन्तेर्व्यपदेश इति तस्मिन्नतिदिष्टे कार्यं
सिध्यतीत्युच्यते; एवमपि पूर्वोक्तस्तावद्विशेषो विद्यत
इत्यास्तामेतत् ।
अप्रधानत्वातु व्यपदेशो न भवति । अत एव शास्त्रातिदेशोऽपि न
भवति । स्थानिरूपे चाऽतिदिश्यमान आदेशविधानं व्यर्थं स्यात् । न
च वचनद्वयप्रामाण्याद्विकल्पः, “वा लिटि” इति विकल्पारंभात् ।
तादात्म्यातिदेशोऽसंभवान्न भवति, द्वयोर्हि
सहावस्थितयोरन्योऽन्यतादात्म्यमतिदिश्यते, सुबामन्त्रितयोरिव,
इह त्वादेशेन स्थानी निवर्तित इत्यसंभवः । अतः
पारिशेष्यात्प्राधान्याच्च कार्यातिदेशोऽयम्,
तदाह-स्थान्याश्रयकार्यमिति, स्थान्याश्रयेषु कार्येष्विति च ।
तात्पर्यतश्चायं कार्यातिदेशो वर्ण्यते । अक्षराणि त्वादेशः
स्थानिना तुल्यं वर्तत इत्येतावत्येव पर्यवसितानि । केन तु
प्रकारेण तुल्यत्वमित्यपेक्षायां तत्कार्यापत्येति तदाह–स्थानिना
तुल्य वर्तत इति । स्थानिवदिति । स्थान्याश्रयेष्विति । बहुव्रीहिः ।
अनल्विधावित्यस्यार्थमाह–अनलाश्रयेष्विति । एतेन विधीयते इति
विधःउ कार्यम्, अलाश्रयो विधिरल्विधिरित्युतरपदलोपी समास
इति दर्शयति । किमर्थं पुनरुतरपदलोपाश्रयणम् ? स्यादेतत्-सति
तस्मिन्, यश्चालि विधिः, यश्चालो विधिः,यश्चालः परस्य
विधिः-यजेः क्तः, इष्टः, क इष्ट इत्यत्र संप्रसारणस्य स्थानिवत्वात् को
यष्टेत्यादिवत् “हशि च”इत्युत्वं प्राप्तं न भवति, स इष्ट इत्यत्र
“एततदौः” सुलोपो न भवति । अलो विधिः – द्यौकामः, उकारस्य
“लोपो व्योर्वलि” इति न भवति । उत्वं तु “अहर्विमलद्यौ” इत्यत्र
चरितार्थम् । अलः परस्य विधिः-द्यौः, पन्थाः, सः-हल्ङ्याबिति
लोपो न भवति । अला विधिः-व्यूढोरस्केन । अत्र शोऽपदादौ” इति
वसर्जनीयस्य स्थाने विहितस्य स्थानिवत्वात्
विसर्जनीयस्याटसूपदेशाद् “अड्व्यवाये” इति णत्वं प्राप्तं न
भवति । अतः सर्वविभक्त्यर्थसंग्रहाथंमुतरपदलोपाश्रयणम् ।
अन्यथा हि षष्ठीसमास एवाश्रीयतेऽल्स्थानिक एव विधिराश्रितः
स्यादिति, तन्न; सम्बन्धसामान्ये षष्ठ
ईविज्ञानादपि सर्वविभक्त्यर्थसंग्रहस्य सिद्धत्वात् । अनुवादे हि
स्थानेयोगाभावात् सर्वोऽल्सम्बन्धी विधिः प्रतिपत्स्यते । एवं
तर्हि यत्र गुणभावेनाप्यलाश्रीयते, तत्रापि निषेधो यथा
स्यात्-प्रपठ।लेति, अत्र हि वलादेरिति प्रत्ययः प्राधान्यनाश्रितः, वल्
तु गुणभावेनेति अप्राधान्यान्न स्यात् । उतरपदलोपे तु भवति;
अलाश्रयत्वादिड्विधेः । यद्यलाश्रयेषु स्थानिवत्वं न भवति,
वृक्षाय–शुपि च” इति दीर्घो न स्यात्; यञादौ
सुपीत्यलाश्रयत्वात् । अरुदितामित्यत्र सार्वाधातुकस्य
तसस्तामादेशे
“रुदादिभ्यः सार्वधातुके ” इति वलाश्रय इण् न स्यात्, अत
आह-स्थान्यलाश्रयाणीति । स्थानिनोऽल् स्थान्यल्, स आश्रयो येषां
तानि तथोक्तानि ।
अयमभिप्रायः-यथा गुरुपद्गुरुपुत्रे
वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादेपसंग्रहणाच्चेति अतिदेशे
प्रवृते, यदा गुरुपुत्रः स्वयं गुरुर्भवति तदोच्छिष्ट्ंअ भुज्यते
पादौ चोपसंगृह्यएते, तत्कस्य हेतोः ? अतिदेशेनैक्वाक्यतामापन्नः
प्रतिषेध आतिदेशिकीमेव प्राप्तिं प्रतिषेधतीति,
तथेहाप्यातिदेशिक एवाल्विधिः प्रतिषिध्यते । न च वृक्षाय,
अरुदितामित्यत्रातिदेशापेक्षा; स्वयमेव यञादित्वाद्वलादित्वाच्च ।
ततश्च यत्र स्थानिन एवालाश्रीयते स एव निषिध्यते, यथा-प्रपठ।लेत्यत्र
। न ह्यत्र ल्यप् स्वयं वलादिरिति । ननु च गुरुपुत्रस्य स्वयं गुरुत्व
उच्छिष्टभोजनादौ न मात्रयाप्यतिदेशापेक्षा, इह तु सत्यपि स्यमेव
यञादित्वे नान्तरेणातिदेशं दिर्घः सिद्ध्यति; असुप्त्वात् ।
अरुदितामित्यत्रापि सत्यपि स्वयं
वलादित्वेऽसार्वधातुकत्वादतिदेशेनैव वेट् प्रार्थनीयः, सत्यम्;
द्वे कार्ये-सुप्संज्ञा च, दीर्घत्वं च । न हि “प्रयोगसमवाय्येव
कार्यमतिदेश्यम् ” इति नियमोऽस्ति, यतु शास्त्रीयं
तदेवातिदिश्यते । न च सुप्संज्ञाऽलाश्रयेति; तस्यामतिदिष्टायां
स्वाश्रयं यञादित्वमाश्रित्य दीर्घत्वं भविष्यति ।
अरुदितामित्यत्राप्यातिदेशिकं सार्वधअतुकत्वं स्वाश्रयं च
वलादित्वमाश्रित्येड् भविष्यति ।
ननु च वृक्षायेत्यत्र स्थानिन एकारस्याल्त्वातदाश्रयं
सुप्त्वमलाश्रयमेव, उच्यते; कार्यापेक्षमल्विधित्वं
नोदाहरणापेक्षम् । एतदुक्तं भवति–यस्मिन् कार्ये विधीयमानेऽल
एवासाधारणं किञ्चिद्रूपं निमितादिरूपेणाश्रीयते–“हशि” “हलि”
“व्योर्वलि””हल्ङ्याब्भ्यः””अड्व्यवाये” इति – स एवाल्विधिः;
“सुपि च” इत्यत्र तु नैवंविधं किञ्चिदस्ति, केवलं
वृक्षायेत्यत्रोदाहारणेऽलात्मकः स्थानीतेयतावत्
किमुदाहरणमिति प्रश्नः । धात्वाद्यादेशाः प्रयोजनमित्युतरम् । तत्र
“प्रयुज्यतेऽनेनेति प्रयोजनम्” उदाहरणं न प्रयुज्यत
इत्यर्थात्प्रश्नानुरूपं प्रतिवचनम् ।
ननु चास्तिब्रुवोरार्द्धधातुके परत आदेशाभ्यां भाव्यम्, तत्
किमतिदेशेनेत्यत आह–आर्द्धधातुके विषय इत्यादि ।
दाधिकम् । दध्नि संस्कृतम् “दध्नष्टक्” । अव्ययादेश इति ।
क्त्वामात्रस्य ल्यबादेशः, क्त्वान्तस्याव्ययसंज्ञा, स कथमव्ययादेशः,
तस्मात् क्त्वाग्रहणेन ल्यपो ग्रहणातदन्तस्यापि संज्ञा
भवतीत्येवम्परमेतत् । तत्रापि “कृद्ग्रहणे गतिकारकपूर्वस्यापि
ग्रहणम्” इति प्रस्तुत्येति संघातस्य भवति ।
वक्करणं किमिति । विनापि तेन तदर्थो गम्यते, यथा
ङ्त्किदित्यादाविति प्रिश्नः ।
स्थानीत्यादि । असति वत्करणे संज्ञाप्रकरणत्वात् स्थान्यादेशस्य
संज्ञा विज्ञायेत, मैवं विज्ञायीति वत्करणमित्यर्थः । किमर्थं पुनः
स्थान्यादेशस्य संज्ञा नेष्यत इत्याह–स्वाश्रयमपीति । संज्ञायां हि
स्थानिस्वरूपनिबन्धनम् “आङेयमहनः” इत्यादि कार्यमादेश एव
स्याद्, न स्थानिनि; न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते ।
“आत्मनेपदेष्वन्यतरस्याम्” इति च विषयसप्तमी विज्ञायते ।
स्वाश्रयमपीति । कोऽर्थः ? स्थानिन्यपीत्यर्थः । तथा चोतरग्रन्थे
“उभयत्र” इति सप्तमीनिर्द्देशः ।
आदेशग्रहणं किमिति । यथा “पितृवत्स्थूलः” इत्युक्ते
सम्बन्धिशब्दात्पुत्र इति मम्यते, तथेहापि स्थानिवदित्युक्ते क
इत्यपेक्षायाम् “यदपेक्षं स्थानित्वं स एवा देशः” इति गम्यत प्रश्नः ।
आनुमानिकस्येत्यादि । द्विविधो हि आदेशः–प्रत्यक्षश्च “अस्तेर्भूः”
इत्यादिः, आनुमानिकश्च “एरुः” इत्यादिः । अत्रेकारेणेकारान्तः
स्थान्यनुमीयते, विषणेनेव गौः । उकारेण चोकारान्त आदेशः
ततस्तेस्तुरिति सम्पद्यते । तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं
स्यान्नानुमानिकस्य, पुनःश्रतेस्तु व्याप्त्यर्थत्वात् आदेशमात्रं
स्थानिवद्भवति । तेन पचत्वित्यत्र “तिङ्न्तं पदम्” इति पदसंज्ञा
सिद्धा भवति । ननु चेकारमात्रस्योकारमात्रमादेशोऽस्तु, किं
तदन्तानुमानन ? एवं हि “एरुः” इत्येतच्च यथाश्रुतमेव व्याख्यातं
भवति; आदेशग्रहणं च न कर्तव्यं भवति,
“एकदेशविकृतिस्यानन्यत्वात् पदसंज्ञा भविष्यति । एवं तर्हि
पुनःश्रुतिरेव लिङ्गम्, एकदेशविकारः शास्त्रे नाश्रीयत इति,
तेन–
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः ।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥
इति सिद्धं भवति ।
द्यौपिथित्यदादेशा इति । “दिव औत्”,
“पथिमथ्युभुक्षामात्”,”त्यदादीनामः-इत्येते । ननु सामान्यातिदेशे
विशेषानतिदेशः, ततश्च यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति
ब्राह्मणमात्रकार्यमेव भवति, न माठरादिविषेषकार्यम्; तथा
“स्थानिवदादेशः” इत्युक्ते यः स्थानी यदाकारविशिष्टः सूत्रे
श्रूतस्तदादेशस्य तदाकारप्रयुक्तेनैव कार्येण भवितव्यम् । “क्त्वो
ल्यप्” इत्यत्र च वस्तुस्थित्या सन्निहितमपि वलादित्वं स्थानिरूपेण
नाश्रितम् । तथा हि-इडादिरपि क्त्वा भवत्येव,क्त्वा केवलोऽपि
दत्वायेति यगन्तोऽपि, इष्ट्वीनमिति मान्तोऽपि; तत्र
क्त्वामात्रप्रतिबद्धं यत्कार्यं कृत्वप्रत्ययत्वादि,
तदादेशेऽतिदिश्यताम्, वलादित्वस्य तु कुतोऽतिदेशः ? एवं क
इष्ट इत्यादावपि च यण इक् भवति, दिवोऽलोऽन्त्यस्योत्वौत्वे
भवतः, पथ्यादीनामन्त्यस्याद्भवति, त्यदादीनामन्त्यस्याकारः,
विसर्ज्जनीयस्य सत्वमित्येवं यणादिरूपेण स्थानिन आश्रयणम् ।
ततश्च ततदाकारप्रयुक्तस्यैव कार्यस्यापि अतिदेशः, न
हल्त्वादिविशेषनिबन्धनस्येति नार्थोऽनल्विधावित्यनैन । यत्र तर्हि
विशेषरूपमेव स्थानित्वेनाश्रीयते, यथा-“च्छ्वोः शूठ” इति
वकारः, तत्र तत्कार्यमादेशस्य मा भूद्-अक्षद्यौउभ्याम् । वलि लोपो
न भवति ।
अथात्रापि वकारान्तस्याङ्गस्यालोऽन्त्यस्योडिति रूपेण स्थानिन
आश्रयणम्, एवमपि विशेषातिदेशज्ञापनार्थमिदमुच्यते; अन्यथा
ल्यपो वलादित्ववत् कित्वस्याप्यतिदेशो न स्यात्,
देवित्वेत्यादावकितोऽपि क्त्वः सम्भवात् । अनुबन्धाश्च
स्थानिन्यसन्त एव कार्येषु युज्यन्त इति तत्कार्येष्वनल्विधाविति
निषेधो न भवति । लिङ्गाच्च । यदयं शेर्ह्यपिच्च” इत्याह,
तज्ज्ञापयति-भवत्यनुबन्धकार्याणामतिदेश इति ॥
अचः परस्मिन् पूर्वविधौ । अच इति स्थानिनिर्देश इति ।
यद्यप्यनूद्यमानादेशविशेषणत्वात् स्थानषष्ठी न लभ्यते, तथाप्यचो
य आदेश इत्युक्ते तत्स्थानिक एव प्रतीयत इति । परस्मिन्निति
निमितभावे सप्तमी, न परसप्तमी; परशब्देनैव
परत्वस्योक्तत्वात्, परस्मिन्य आदेश इति अनुवादत्वाच्च, किति ये
गुणवृद्धी इतिवत्; पूर्वविधाविति विषय इति प्रकृतत्वात्
स्थानिवत्वस्य ।
पूर्वविधौ कर्तव्ये स्थानिवदिति । एवं पदतात्पर्यं दर्शयित्वा
वाक्यार्थमाह–अजादेश इतायदि । किमर्थमिदमुच्यते, पूर्वत्र
स्थानिकार्यमादेशेऽतिदिष्टम्, इह तु स्थानिनि सति पूर्वस्य
यत्कार्यं तदादेशेऽपि सति पुर्वस्य भवतीत्यतिदिश्यते । ननु
तत्रापि स्थानिनिमितमन्यस्य तदप्यतिदिश्यते, यथा वृक्षायेति
“सुपि च” इति दीर्घत्वम् ? एवं तर्ह्याल्विध्यर्थमिदम् । तथा
हि-वव्रश्चेत्युदत्वे ङ संप्रसारणे संप्रसारणम्” इति वकारस्य
संप्रसारणप्रतिषेधः स्थान्यलाश्रयोऽस्माद्वचनाद्भवति । इदं च
शंप्रसारणे परः प्रतिषेधः” इति पक्षे प्रयोजनम्,
शंप्रसारणभाविनि यण्येव प्रतिषेधः” इति तु पक्षे न प्रयोजनम् ।
इहाचितीकः, बहुचितीक इति चितेः कपि दीर्घत्वे कृते
“ह्रस्वान्तेऽन्त्यात्पूर्वम्” इति स्थान्यलाश्रयः स्वरो भवति । एवं
यातेर्यङ्न्तात् क्तिचि अतो लोपे यलोपविधिं प्रति
स्थानिवत्वनिषेधाद् यलोपे च या या ति इति स्थिते
यङ्कारलोपस्य स्थानिवत्वात् “आतो लोप इटि च” इत्याकारलोपे
पुनर्यलोपे यातिरिति भवति । न च पुनराकारलोपः, पुनश्च
यलोप इति प्रत्ययमात्रस्य श्रवणप्रसङ्गः, आल्लोपस्य
स्थानिवत्वाच्चिणोलुङ्न्यायेनासिद्धत्वाद्वा । तथा च वरेविधौ
स्थानिवत्वं निषिध्यते-यायावर इति । स्थानिवद्भावादातो लोपो
मा भूदिति । तथा तिष्ठ
तेर्यङ्न्तात् क्तिच्, अल्लोपयलोपयोस्तेष्ठीति स्थिते अल्लोपस्य
स्थानिवत्वादियङ् भवति, तथा चोतरसूत्रेकण्डूअतिरित्यत्र
उपङ्प्रसङ्गं चोदयित्वा “अस्तु तस्यैव च्छ्रवोः शूडित्यूठ
करिष्यते” इत्युक्तम्, इयङ् चि कृते यलोपे च तेष्ठितिरिति भवति
। न च पुनरियङ्, आदिष्टादचः पूर्वत्वात् । तथा पेपीयतेः क्तिचि
अल्लोपयलोपयोः “एरनेकाचः” इति यणि यलोपे पेप्तिरिति भवति
। “शो तनूकरणे” यङ्न्तात् क्तिचि अल्लोपयलोपाल्लोपेषु
पूर्वत्राद्धीये न स्थानिवदिति स्थानिवत्वनिषेधाच्छशां ष इति षत्वे
शाष्टिरिति भवति । एवं चिचीयतेश्चेक्तिरित्येषा दिक् ।
तथा तितौमाचष्ट इति णिचि टिलोपस्य स्थानिवत्वादयो
ञ्णितीत्यस्याभावे “अतः उपधायाः” इति स्थान्यलाश्रया वृद्धिर्भवति ।
न चात्र क्विलुगुपधात्वेत्युपधाविधि प्रति स्थानिवत्वनिषेधः, तस्य
प्रत्ययविधिविषयत्वात्, सत्यां च वृद्धौ पुकि सति तितापयतीति
भवति । न च पुक्यपि स्थानिवत्वम्; आदिष्टादचः पूर्वत्वात् । ननु
पूर्वस्य कार्ये कर्तव्ये सति स्थानिवत्वेन भवितव्यम्, अत्र च सर्वत्र
स्थानिवत्वे सति पूर्वस्य कार्यप्राप्तिरिति इतरेतराश्रयम् । नात्र
स्थानिवत्वात् प्रगेव पूर्वस्य कार्ये प्राप्ते स्थानिवत्वम्, किं तर्हि ?
प्राग्वा पश्चाद्वा पूर्वस्य कार्ये पूर्वस्य कार्ये चिकीषिते । अत एव
वरेविधौ स्थानिवत्वनिषेधः । तदेवमल्विध्यर्थमिदम् ।
किञ्च–ब्राह्मणवदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र ब्राह्मणाश्रयं कार्यं
प्राप्यते, न तु स्वाश्रयं युद्धादिकं व्यावर्त्यते । पूर्वसूत्रेऽपि
स्थान्याश्रयं प्राप्यते, न स्वाश्रयं व्यावर्त्यते, यथा–वृक्षायेति
दीर्घत्वमादेशाश्रयं भवति; भविता, भवितुम्, भवितव्यमिति गुणः
। इह तु स्थान्यलाश्रयमेवेष्यते, स्वाश्रयं नेष्यते । तथा च
पटयतीति टिलोपे कृते प्राप्ता उपधावृद्धिर्न भवति, अवधीदिति
हलन्तलक्षणा, बहुखट्वक इति “ह्रस्वान्तेऽन्त्यात्पूर्वम्” इतिस्वरो न
भवति, वाय्वोर्यलोपो न भवति, तन्वन्तीतीण् न भवति । एवं
बहूनि स्वाश्रयनिवृत्तिरुदाहरणानि । अत एव द्वर्वचनादिविधौ
स्थानिवत्वनिषेधः । अतोऽजादेशः परनिमितकः पूर्वस्य विधौ
स्थानिवदेव यथा स्यात्, मा भूत्स्वयं निमितमिति
नियमार्थमपीदमारब्धव्यम् ।
कथं पुनरेकेन यत्नेनोभयं लभ्यम्, विधिश्च, नियमश्च ?
विधिग्रहणसामर्थ्यादिति तन्निरूपणे वक्ष्यामः । अथ वा – विधिग्रहणं
विधिमात्रे स्थानिवद्भावा यथा स्यादशास्त्रीयो च विपरीते च ।
तेन पटयतीत्यादौ स्थानिनि दृष्टो
वृद्ध्यभावादिरशास्त्रीयोऽप्यतिदिश्यते । तत्र वृत्तिकारेण
यत्नसाध्यत्वादशास्त्रीयोदाहरणनि दर्शितानि । विधिशब्दः
कर्मसाधनः, पूर्वस्येति शेषलक्षणषष्ठी; पूर्वस्य व्यवस्थितस्य सतः
सम्बन्धिनि कार्ये कर्तव्ये इति । पूर्वत्वं त्वत्राजपेक्षमाश्रीयते;
नादेशापेक्षम्, निमितापेक्षं वा । न चाजपेक्षे पूर्वत्व विधिशब्दो
भावसाधनः सम्भवति । बावसाधने हि तस्मिन्, पूर्वस्येति कर्मणि
षष्ठीविज्ञानात् पूर्वस्मिन्विधात्व्ये स्थानिवदित्यर्थः स्याद् ।
अवस्थिते चाचि ततः पूर्वं किञ्चि द्विधेयं भवति, इह चादेशाः
स्थानिवदिति वचनात् आदेशेन स्थानी निवर्तित इति नायमर्थः
सम्भवति । अत्रादेशः परनिमितकः, तस्यैवादेशस्य स्थानिभूतो
योऽच्, ततः पूर्वस्मिन् विधातव्य इति । तथा हि-“अचो य आदेशः”
इत्यादेशात्प्रागवस्थानूद्यते, ततश्च संनिधानात्
प्रतीयमानमवधित्वमपि तदवस्थस्यैवाचो युक्तम् । अत
एवोच्यते-“योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः”
इति । आदेशनमादिष्ट्ंअ तदकृतं यस्य सोऽनादिष्टः, अकृतादेशादचः
पूर्वस्येत्यर्थः । आदेशात्प्रागवस्थायामिति यावत् । न चास्या
अवस्थायाः पूर्वस्मिन् विधातव्ये तदादेशः स्थानिवदिति सम्भवति
। ननु कर्मसाधनेऽप्यजादेशः स्थानिवद्भवति-अकृतादेशाचः
पूर्वस्य विधाविति नायमर्थः सम्भवति, स्थानिवद्भावदशायामच
आदेशेन निवर्तितत्वात् । नात्र सम्प्रत्यचः पूर्वस्येत्ययमर्थः, किं
तर्हि ? अचोऽवस्थानदशायां पूर्वत्वेन
दृष्टस्याजवस्थाप्रभृतिपूर्वस्येत्यर्थः । तदेवमजपेक्षस्य
पूर्वत्वस्याश्रयणात् कर्मसाधन एव विधिशब्दः । कि पुनः
कारणमजपेक्षमेव पूर्वत्वमाश्रीयते, न पुनरादेशापेक्षं
निमितापेक्षं वा ? उच्यते; तदपेक्षे पूर्वत्वे वैयाकरणः, सौवश्व
इत्यत्र स्थानिवद्भावादैचोरायावौ प्राप्नुतः, तावपि हि
यणादेशातन्निमिताच्च परस्मादचः पूर्वस्य कार्यम् । न च
वाच्यम्–शत्यपि
स्थानिवत्वेऽन्तर्भूताज्निमिततयाऽन्तरङ्गयोरायावोः
कर्तव्ययोर्बहिभूततद्धितापेक्षतया
बहिरङ्गावैचावसिद्धावित्यायावौ न भविष्यतः” इति; ङाजान्तर्ये
बहिरङ्गप्रक्लृप्तिः” इतिवचनात् । यथा-अक्षद्यौउरिति
बहिर्भूतक्विबवेक्षोऽप्यूडन्तर्भूताजपेक्षेयणि नासिद्धो भवति ।
अजपेक्षे तु पूर्वत्वे वि अ आकरणः, सु अ अश्व इत्यजवस्थायां
य्वोरभावेनैचोरदर्शनादप्रसङ्गस्तदाह-“अचः
पूर्वत्वविज्ञानादैचौः सिद्धम्” इति । किं च –निमितापेक्षे पूर्वत्वे
द्वाभ्याम्, देयम्, लवनमित्यत्रात्वेत्वगुणाः स्वनिमितात्पूर्वेषां
स्वेषामेव कार्येषु दीर्घगुणावादेशेषु स्थानिवत्स्युः ।
तथोभयोरपि पक्षयोरपीपचदित्यादौ शन्वल्लघुनि” इति
सन्वद्भावो न स्यात्; उपधाह्रस्वस्य स्थानिवत्वादलघूपधत्वात् ।
अजपेक्षे तु पूर्वत्वे पाचि अ अत् इति स्थिते द्विर्वचनमुपधाह्रस्वत्वं
णिलोपः-इत्येतेषु प्राप्तेषु परत्वादन्तरङ्गत्वाच्च णिलोपे कृते
पर वान्नित्यत्वाच्च ह्रस्वत्वे च पश्चाद् द्विर्वचनेऽभ्यासस्य
स्थानिनोऽचः पूर्वत्वेनादृष्टत्वान्नास्ति स्थानिवद्भावः । तथा च
तत्र तत्रोच्यते-“योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति
स्थानिवद्भाव आदिष्टाच्चैषोऽचः पूर्वः” इति । तस्मादजपेक्षमेव
पूर्वत्वम् । यद्येवम्, तन्वन्तीत्यत्रेटि कर्तव्ये यणः स्थानिवत्वं न
स्यात्, तन् उ अन्तीत्यजवस्थायां यत्पूर्वमङ्गं न तस्येट्, किं तर्हि
? ततः परस्यादेशस्यैव । निमितापेक्षे तु यणो
निमितादन्त्यकारात्पूर्वस्य तस्यैव यण इड् विधेय इति कर्मसाधने
भावसाधने च विधिशब्दे स्थानिवत्वं लभ्यते । आदेशापेक्षेऽपि
भावसाधने यणः पूर्वत्वेनेटो विधेयत्वात्सिध्यति, नैष दोषः,
“आर्द्धधातुकस्येड्” इत्यत्र “एकाच उपदेशे” इत्यतः “उपदेशे”
इत्यनुवृतेरुपदेशे वलादेरिड् भविष्यति; तत्राप्युपदेश
इत्यनुवृतेः । एवमपि चोरिष्यत इत्यादौ वलादिलक्षणे चिण्वदिटि
च प्राप्ते नित्यत्वाच्चिण्वदिडिति । वक्ष्यति-ङित्यश्चायं
वल्निमितविघाती” इति,तन्नोपपद्यते; उक्तेन प्रकारेण
वलादिलक्षणस्यापीटो नित्यत्वात् । एवं तर्हि अहिरङ्गस्य
यणोऽसिद्धत्वादिडभावः ।
यद्वा-पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽप्याश्रीयते,
तेन पूर्वस्मादङ्गादिटो निमितत्वेननाश्रितात्परस्य यण इति
कर्तव्ये स्थानिवद्भविष्यति ॥ कानि पुनः
पञ्चमीसमासप्रयोजनानि ? इदं तावत्प्रयोजनम्-तन्वन्तीति । किञ्च
बेभिदिता, मार्थितिकः, अपीपचन् । बेभिद्यतेर्यङ्न्तातृचि अल्लोपस्य
स्थानिवत्वान्न भवति, नैतदस्ति; बेभिद्य तृ इति स्थितेल्लोपश्च
पाप्नोति इट् च; परत्वादिट् । नित्योऽल्लोपः-कृतोऽपीटि
प्राप्नोति; इट् पुनरनित्यः, न हि कृतेऽल्लोपे प्राप्नोति,
नित्येनाल्लोपेन बाध्यते । यस्य च निमितं लक्षणान्तरेण न
विहन्यते तद् नित्यम्, अत उभयोर्नित्ययोः परत्वादिडेव
भविष्यति । इदं तर्हि मथितं पण्यमस्य माथितिक इति ठस्येकादेशे
कृते, यस्येति लोपे चेकस्य स्थानिवद्भावेन ठग्रहणेन ग्रहणात्
“इसुसुक्तान्तात्कः” इति कादेशः प्राप्नोति, यस्येति लोपस्य
स्थानिवद्भावान्न भवति । एतदपि सन्निपातपरिभाषया ठस्येति
वर्णग्रहणेनाल्विधित्वेन स्थानिवद्भावाभावाद्वा सिद्धम् । इदं तर्हि
अपीपचन्, अपीपचाअन् इति स्थितेऽन्त्याकारस्य चङ्कारस्य च “अतो
गुणे” इति पररूपत्वे तस्य परं प्रत्यादिवद्भावाज् झिग्रहणेन
ग्रहणे सति सिजभ्यस्तविदिभ्यश्च” इति जुस् प्राप्नोति,
णिलोपस्यैकादेशस्य वा स्थानिवद्भावान्न भवति ।
तदेवमजपेक्षमेव पूर्वत्वमाश्रीयते; विधिशब्दश्च कर्मसाधनः,
शेषषष्ठ।ल च समास इति न कश्चिद् दोष इति स्थितम् ।
पट।ल्तीति । णाविष्ठवदिति टिलोपः । अवधीदिति । “हनो वध
लिङ्” “लुङि चि” इति वधादेशः । हलन्तलक्षणेति । “वदव्रज” इत्यत्र
हलन्तस्येत्यनुवृतेर्हलन्तलक्षणा । बहुखट्वक इत्यत्र
“स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्” इति वचनात्
स्वरविधावप्यत्र स्थानिवत्वं भवत्येव ।
प्रश्न इति । “यजयाचयत” इत्यादिना नङ्, “च्छ्रवोः शूठ” इति च्छस्य
शः । तुकि न स्थानिवद्भवतीति । तुकि कर्तव्ये न
स्थानिवद्भवतीत्यर्थः । नन्वन्तरङ्गत्वात् पूर्वं तुका भाव्यम्,
तत्र चैकं निमितीकृत्य युगपदाङ्गवार्णयोः प्रसङ्गः, तत्र
वार्णादाङ्गं बलीयः, यथा-करोतेर्लिटि णलि कृ अ इति स्थिते,
गौरित्यत्र सावकाशाम् “अचो ञ्णिति” इति वृद्धिं
बाधित्वाऽन्तरङ्गत्वात्प्राप्तं यणं वृद्धिरेव बाधते, प्रश्न इत्यत्र तु
शस्य नङ् निमितं तुकस्तु च्छः, भिन्नकाला चानयोः प्राप्तिरिति
नायमस्या विषय इति तुकि सति “च्छ्वोः शूठ” इत्यत्र
सतुक्कच्छकारनिर्देशेन तस्यैवादेशः एवं च सत्यापि स्थानिवत्वे
सतुक्तच्छग्रहणेन शो गृह्यते, न केवलं च्छग्रहणेनेति कुतस्तुकः
प्रसङ्गः ! अत एव नङे ङ्त्विमपि विश्न इति गुणो मा भूदिति,
तस्मादप्रत्युदाहरणमेतदिति प्रत्युदाहरणान्तरमाह-आक्राष्टामिति ।
श्पृशमृशकृषतृप्दृषां सिज् वा वक्त्व्यः” इति क्सापवादः पक्षे
सिच् । अनुदातस्येत्यम्, यणि “वदव्रज” इति वृद्धिः । “पूर्वत्रासिद्धे
न स्थानिवद्” इति वचनादत्राप्यतृप्यन्नाह–आगत्येति । “वा ल्यपि” ।
युवजानिरिति । बहुव्रीहौ पुंवद्भावः, युवतिशब्दस्य
वयोवचनत्वेनाजातिवाचित्वात् “जातेश्च” इति प्रतिषेधो न भवति
। यलोपे न स्थानिवदिति । ननु योऽत्रादेशो नासौ लोपस्य
निमितम्, तस्य वल्मात्रनिमितत्वात्; यश्च निमितं नकारः
नासावादेश इति स्थानिवत्वं न भविष्यति । न च जायाशब्दस्य
जनेरौणादिके यङ्प्रत्यये “ये विभाषा” इत्यात्वे च
व्युत्पादितत्वाद् निङ्ः स्थानिवत्वे सत्यातो लोपप्रसङ्गः, न
ह्युणादिषु व्युत्पत्तिकार्यमवश्यं भवति, अत
उदाहरणानतरोपन्यासः–वैयाघ्रपद्य इति । व्याघ्रस्येव पादावस्येति
“पादस्य लोपोऽहस्त्यादिभ्यः” इत्यपरनिमितः “गर्गादिभ्यो यञ्” ।
ननु सत्यपि स्थानिवत्वे वचनात् पद्भावो भविष्यति; यद्येवम्,
पादे इत्यत्रापि प्राप्नोति; सति तु परस्मिन्नत्यस्मिन्वैयाघ्रपद्य इत्यत्र
पद्भावस्य चरितार्थत्वाद् पादे इत्येकादेशस्य स्थानिवत्वात्
पद्भावाभावः । कथं पुनरेकादेशस्य स्थानिवत्वम्, न ह्ययमच
आदेशः, किं तर्हि ? अचोः उच्यते; वर्णनिर्देशेषु जातिग्रहणाद्, “अच”
इत्येकत्वास्याविवक्षितत्वाद् अचोरप्यादेशः स्थानिवत् । द्वयोरपि
वा स्थानित्वे यदेकस्य स्थानित्वं तदाश्रयं तस्य स्थानिवत्वं
भविष्यति । अत एव श्रायसौ, गौमतौ, चातुरौ, आनुडुहाविति
श्रायसादिभ्योऽणन्तेभय औप्रत्यय एकादेशस्यादिवत्वात् प्राप्तौ
नुमामौ न भवतः; उदकं वहति, “कर्मण्यण्” संज्ञायामुदभावः,
सप्तम्येकवचन एकादेशस्यादिवत्वाद्भत्वे सति प्राप्तः “वाह ऊठ”
न भवति उदवाहे इति । आदीघ्य इति । अदादित्वाच्छपो लुक् ।
परस्मिन्नत्युच्यमाने स्यानिवद्भावाभावात् कृते टेरेत्वे लोपो
न प्राप्नोति । टेरेत्वं तु कृताकृतप्रसङ्गित्वान्नित्यमिति तदेव
भवति । ननु च परस्मिन्नत्यसति शब्लुकोऽपि स्थानिवत्वात्
तद्व्यवधानादेव लोपो न भविष्यति, न;
“क्विलुगुपधात्वचङ्पनिह्रनिर्ह्रासकुत्वेषु” इति लुका लुप्तस्य
स्थामिवत्वप्रतिषेधात् ।
हे गौरिति । “गोतो णित्” । बाभ्रवीया इति । बभ्रोरपत्यमिति
“मधुबभ्व्रोर्ब्राह्मणकौशिकयोः” इति यञ्, “ओर्गुणः”,”वान्तो यि
प्रत्यये” इत्यवादेशः । अवादेशो न स्थानिवद्भवतीति । ननु
चासत्यपि स्थानिवद्भावे संनिपातपरिभाषया न भवितव्यमेवात्र
यलोपेन, नैतदस्ति; “अचः” इत्ययं संघातो यादिसन्निपातकृतः; न
च स लोपस्य निमितम्, किं तर्हि ? वकारमात्रम् । यद्येवम्,
स्थानिवद्भावस्याप्यप्रसङ्गः, योऽत्रादेशो नासावाश्रीयते,
यश्चाश्रीयते नासावादेशः । नैवेय इति । निपूर्वाद्धाञः “उपसर्गे
घोः किः”,”आतो लोपः”,”द्व्यचः” “इतश्चानिञः” इति ढक् । ननु च
पूर्वस्मादपि विधौ स्थानिवत्वमुक्तम्, तत् कथमेतानि
प्रत्युदाहरणानि ? नैष दोषः; अत्राप्यजपेक्षस्य पूर्वस्याश्रयणाद्
योऽनादिष्टादचः पूर्वस्ततः परस्येति । एवमपि हे गौरित्यत्र
प्राप्नोति व्यवहितेऽपि परशब्दवृतेर्गकारात्परस्य सोर्लोपः,
एवमितरयोरपि, नैतदेवम्; पूर्वस्य विधिरिति षष्ठीसमास
एवायम्, तत्रानुवादत्वात् स्थानषष्ठ।ल्भावात् सम्भन्धसामान्ये
षष्ठी-पूर्वसम्बन्धिनि विधाविति । सम्बन्धश्च द्विविधः-कार्यित्वेन,
निमितत्वेन वा । यत्र कार्यित्वेन स पूर्वस्य विधिः, यत्र
निमित्तत्वेन स पूर्वस्मात्; ततश्च योऽनादिष्टादच
पूर्वस्तन्निमितत्वेनाश्रित्य यत्कार्यं प्राप्तं स एव पूर्वस्माद्विधिः,
यथा-अपीपचन्निति । अत्र हि योऽनादिष्टो णिच् चङ् वा, ततः
पूर्वमपीपच् इत्येवाभ्यस्तं परस्य झेर्जुसो निमितम् ।
तन्वन्तीत्यत्र योऽनादिष्टोऽच् उप्रत्ययस्ततः पूर्वं यत्
तन्निमितत्वेनाश्रीयते तद्विधावङ्गस्येत्यनुवृतेः । एतदेव
तत्राङ्गाधिकारस्य प्रयोजनम् । हे गौरित्यादौ तु
योऽनादिष्टादचः पूर्वो गकारादिर्न तत्सम्बुद्धिलोपादेर्निमितम्,
यच्च निमितमोकारादिर्नासावनादिष्टादचः पूर्व इति न दोषः ।
इह तर्हि वेतस्वानिति, टिलोपस्य पूर्वविधौ स्थानिवत्वात्
सकारात्पूर्वस्यानुपधात्वाद् “मादुपधायाः” इति वत्वं न स्यात् ।
न च स्थानिवद्भावेन सन्निहितमकारमपेक्ष्याकारान्तादिति लभ्यते,
तस्यानादिष्टादचः पूर्वत्वाभावात् तदपेक्षत्वे स्थानिवद्भावात्,
नैष दोषः; “पूर्वत्रासिद्धे न स्थानिवतद्” ।
विधिग्रहणं किम्, ननु पूर्वसूत्रादेवानुवर्तते ?
समासद्वयपरिग्रहार्थम् । असति हि तस्मिन् पूर्वस्येत्युक्ते
पूर्वस्माद्विधौ न स्यात्, पूर्वस्मादित्युक्ते पूर्वस्य विधौ न
स्यात्, नैतदस्ति; पूर्वस्येत्युक्तेऽपि अनुवादत्वात्
स्थानषष्ठ।ल्भावात् सर्वः पूर्वसम्बन्धी विधिः प्रतिपत्स्यते । एवं
तर्हि विधिमात्रे स्थानिवद्यथा स्यात् शास्त्रीये विपरीते च ।
यद्वा-विधिग्रहणं द्वितीयो यत्नः, तत्राचः परिस्मिन्पूर्वस्येत्येको
योगः, विधावित्येव । तेन वव्रश्चेत्यादौ स्थान्यलाश्रयमतिदिश्यते
। ततो विधौ, अचः परस्मिन्पूर्वस्येत्येव,
नियमार्थमेतत्-अजादेशः परनिमितकः पूर्वविधौ स्थानिवदेव, न
तु स्वयं निमितमिति । तेन पटयतीत्यादि सिद्धं भवतीति ।
नन्वसत्यपि द्वितीययत्ने यथा चोलवत् काश्मीरेषु व्रीहयः,
मरुभूमिवदस्मिन्प्रदेशेजलमित्यादौ दृष्टान्ते प्रसिद्धस्य
भावस्याभावस्य वा यथादर्शनमतिदेशः, एवमत्रापि भविष्यति ?
विषम उपन्यासः; युक्तं तत्र भावस्यैवाभावस्यैव च प्रसिद्धत्वाद्, इह
तूदाहरणभेदेन भावाभावयोः प्रसिद्धावपि श्थानिवदादेशः”
इत्युक्तेऽश्रुतक्रियापदेषु वाक्येषु भावतीत्येवाध्याहारस्य
प्रसिद्धत्वाद् भावातिदेशः स्याद् इत्यलमितप्रबन्धेन ॥
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ॥
१।१।५८ ॥
द्विर्वचने यलोपादौ च तावत् तदेव विधेयम्, न तु तस्य
व्यवस्थितस्य किञ्चित् । कौ स्त इत्यादौ तु पदान्तस्य सतः
कार्यमावादि पदान्तस्य वाऽऽवादेर्विधानमित्युभयथा सम्भवः । एवं
वरेविधावपि । तथापि सर्वग्रहाय भावसाधन एव विधिशब्दः ।
एतेष्विति । पदान्तादिविधेयभेदेन भिन्नानि यानि विधानानि
एतेष्वित्यर्थः । पूर्वविधावित्यादि । यद्यपि व्याकरणे न पदानि
संस्क्रियन्ते, न वाक्यम्, तथापि वाक्यगते स्त इत्यादिके पदे
व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमितत्वे
सन्निधानमविरुद्धम् । ततश्चानादिष्टादचः पूर्वत्वसम्भवादस्ति
स्थानिवत्वप्रसङ्ग इति भावः ।
दध्यत्रेति । स्थानिवद्भावप्रतिषेधसामर्थ्याद् “असिद्धं
बहिरङ्गमन्तरङ्गे” इत्येतदपि न प्रवर्तते । शच्यावित्यादावपि
बहिर्भूताजपेक्षत्वाद्यण् बहिरङ्ग एव “वर” इति निपातनादलुक् ।
यायावर इति । ङित्यं कौटिल्ये गतौ” इति यङ् । अतो लोपः
परनिमितक इति । ” आर्द्धधातुके” इति परसप्तमीपक्ष इति भावः ।
तथा च “अनुदातेतश्च हलादेः” इत्यत्रादिग्रहणम् । असति हि तस्मिन्
हलन्तादिति विज्ञायेत, ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न
स्यादिति । यदि च सा विषयसप्तमी स्यात्, प्रगेव
प्रत्ययोत्पतेरतो लोपे सति हलन्तत्वादत्रापि युच् सिद्धः स्यात् ।
यतु “अचो यत्” इत्यत्र वक्ष्यति–“अज्ग्रहणं किम्, यावता
हलन्ताण्ण्यं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्याद्-दित्स्यम्,
धित्स्यमिति । तद्विपयसप्समीपक्ष इति वेदितव्यम् । परसप्तमीपक्षे
हि प्राक्प्रत्ययोत्पतेरतो लोपाभावादनुपपन्नं तत्स्यात् ।
कण्डूअयतेः क्तिनि कृत इति । “क्तिन्नावादिभ्यो वक्तव्यः” इत्यनेनेति
भावः । “क्तिचि” इति तु युक्तः पाठः । कण्डूअतिरित्यत्राल्लोपस्य
स्थानिवत्वादुवङ् प्राप्नोति, अस्तु; च्छवोः शूठ” इत्यूट्
भविष्यति । न चोठ।ल्पि स्थानिवत्वम्, आदिष्टादचः पूर्वत्वात् । अत
एवोठः पुनरुवङ् न भवति ।
परसवर्णे न स्थानिवद्भवतीति । ननु श्नसोरल्लोपे कृते
पश्चादनुस्वारो भवन्नादिष्टादचः पूर्व इति कथमस्य परसवर्णे
कर्तव्ये स्थानिवत्वप्रसङ्गः ? स्यादेतत्स्थानिनो
नकारस्यानादिष्टादचः पूर्वत्वादादेशोऽनुस्वारोऽपि
स्थानिवद्भावादनादिष्टादचः पूर्व इति, तन्न; न ह्यनादिष्टादचः
पूर्वत्वं नाम शास्त्रीयं यदतिदिश्येत । एवं तर्ह्यनादिष्टादचः
पूर्वत्वापेक्षेऽचः परस्मिन्नत्यतिदेशे कर्तव्ये स्थानिवदादेश
इत्येतत् प्रवर्तते, अतः सवर्णग्रहणं कृतम् ।
शिषन्तीति । यद्यपि शिण्ढैइत्येवानुस्वारविधेरप्युदाहरणम्,
तथापि तस्मिन्नेवोदाहृते परसवर्णविधौ स्थानिवत्वनिषेधः, तस्य
स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्वप्रतिषेधमन्तरेणानुपपन्न
इति पृथगनुस्वारग्रहणं न कर्तव्यमित्याशङ्का निराकरणाय
केवलानुस्वारोदाहरणं दर्शितम् ।
प्रतिदीव्नेति । प्रतिपूर्वाद्दिवेः
“कनिन्युवृषितक्षिराजिधन्विद्यौप्रतिदिवः” इति कनिन्प्रत्ययः
भस्येत्यधिकृत्येति । परनिमितकत्वोपपादनार्थः ।
किमिदमुक्तम्हलि चोपधायां चेति दीर्घत्वं न स्यादिति,
उपधायाञ्चेत्येतल्लेखकैः प्रमादाल्लिखितम्, तथा चोपधायाञ्चेत्यत्र
वक्ष्यति-प्रतिदीव्नेत्यत्र “हलि च” इति दीर्घत्वमिति ।
अस्माद्वचनाद्भवतीति । ङ भकुर्छुअराम्” इति तु प्रतिषेधो
रेफवकारान्तस्य भस्येत्यत्र न प्रवर्तते ।
झलो झलीति सलोप इति । सकारे सिचो लोप इत्येततु नाश्रीयते,
तस्मिंस्त्वाश्रिते छान्दसत्वाद्वर्णलोपः ।
बहुखट्वक इति । अत्र स्थानिवद्भावद् “ह्रस्वान्तेऽन्त्यात्पूर्वम्”
इति खकारा कारस्योदातत्वं न भवति,”कपि पूर्वम्” इत्येतदेव तु
भवति । किर्योः, गिर्योरिति । “कृग्रोरिच्च” इति व्युत्पत्तिपक्ष
एतदुदाहृतम् । “उपाधायाञ्च” (८।२।७८) इत्यत्रत्वव्युत्पत्तिपक्षमाश्रित्य
वक्ष्यति–“उणादयोऽव्युत्पन्नानि प्रातिपदिकानि, इति
किर्योगिर्योरित्यादिषु दीर्घो न भवति” इति ।
“क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्वजादेशो न
स्थानिवद्भवति” इति वक्तव्यम् । क्वि-क्वौ यद्विधीयते तत्र कर्तव्ये
यत्र कुत्रचित् कृतोऽजादेशो न स्थानिवद्भवतीति; लवमाचक्षाणो
लौः, अत्र णिचि यष्टिलोपः, यश्च क्वौ णिलोपस्तदुभयमपि
“च्छवोः शूठ” इति वकारस्य क्विनिमिते ऊठि कर्तव्ये न
स्थानिवद्भवतीति “एत्येधत्यूठसु” इति वृद्धिः । ये तु “क्वौ
लुप्तं न स्थानिवत्” इति पठन्ति तेषामेतन्न स्यात् । तथा
पिपठिषतेः क्वौ, अतो लोपे नपुंसके बहुवचने जसिझल्लक्षणे
नुमि जस्निमितेऽपि कर्तव्येऽयो लोपस्य स्थानिवत्वनिषेधः स्यात्,
क्वौ कृतत्वात् । क्वौ विधिं प्रतीत्यत्र तु पक्षे प्रतिषेधो न भवति,
पिपठीषि ब्राह्मणकुलानि, नुम्यसति शान्तमहतः” इति दीर्घत्वं न
भवति । देवयतेद्यौउÇरित्यत्रोभयथापि सिध्यति । लुक्-लुका लुप्ते
न स्थानिवत्, आमलक्या विकारफलम् ङित्यं वृद्धशरादिभ्यः” इति
मयटः “फले लुक्” “लुक्तद्धितलुकि” इति ङीपो लुक् परिनिमितकः
यस्येति लोपे न स्थानिवद् भवति । केचित्वेतदर्थं सूत्रे वराई उ
वरे इति ईकारप्रश्लेषं वर्णयन्ति, ईविधिं प्रति न स्थानिवदिति ।
उपधात्वेउपधात्वे कर्तव्ये न स्थानिवत् । परिखअशब्दाच्चातुरर्थिके
णिकृते पारिखे भवः पारिखीय इति “वृद्धादकेकान्तखोपधात्” इति
छाए न स्यात्, आकारलोपस्य स्थानिवत्वादनुपधाखकार इति ।
प्रत्ययविधिविषयं चैतत्, यत्रोपधासंज्ञानिबन्धन प्रत्ययो
विधातुमिष्यते तत्रैवेत्यर्थः, घटयतीत्यादौ तु तन्न भवति ।
चङ्परो ये निर्हासो ह्रस्वस्तत्र न स्थानिवद्भवति–वादितवन्तं
प्रयोजितवान् अवीवदद् वीणां परिवादकेन, योऽसौ णौ
णिर्लुप्यते तस्य स्थानिवद्भावाद् णौ चङ्युपधाया ह्रस्वो न
स्यात्, यश्चङ्परो णिर्न तस्मिन्नङ्गस्योपधा,
यस्मिंश्चाङ्गस्योपधा न चङ्पर इति । कुत्वम्–पाचयतेः क्तिचि
पाक्तिः । कुत्वमुपलक्षणम् । लेहयतेर्लेढिः, दोहयतेर्दोग्धिः,
याचयतेर्याक्तिः, वेशयतेर्वेष्टिरित्यादि ॥
द्विर्वचनेऽचि ॥ १।१।५९ ॥
“अचः परस्मिन्” इत्यत्र “योऽनादिष्टादचः पूर्वः” इति स्थितम् ।
साच्कस्य द्विर्वचनं न त्वचः पूर्वस्येत्यप्राप्तं स्थानिवत्वं विधीयते,
रूपातिदेशार्थ च ।
अत्र षट् पक्षाः सम्भवन्ति । अचीत्यादेशोपलक्षणम्, द्विर्वचन इति
विषयनिर्देशः, अचि योऽजादेशः स द्विर्वचने स्थानिवद्भवतीति
प्रथमः पक्षः । अचीत्येतदपि स्थानिवद्भावेनैव सम्बध्यते, द्विर्वचन
इति विषयनिर्देशाद्, द्विर्वचने कर्तव्येऽजादेशः
स्थानिवद्भवत्यचि पर इति द्वितीयः । द्विर्वचननिमितत्वादजेव
द्विर्वचनग्रहणेन विषेष्यते,
द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्प्रत्ययान्तेन वा, अधिकरणसाधनेन वा,
आदेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेश- स स्थानिवदिति
तृतीयः । एवं विशेषितं वाज्ग्रहणं स्थानिवद्भावस्य विशेषणम्,
अजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति चतुर्थः ।
द्विर्वचनग्रहणमा वर्तते, तत्रैकेनाज्विशेष्यते, परेण विषयी
निर्दिश्यत इति स्थिते तद्विशेषितमज्ग्रहणं स्थानिवद्भावस्य
विशेषतणम्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवति
द्विर्वचननिमितेऽचि परत इति पञ्चमः । एवमेव
स्थितेऽज्ग्रहणमादेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेशः
स द्विर्वचने कर्तव्ये स्थानिवद्भवतीति षष्ठः ।
अत्राद्ये पक्षेऽचो द्विर्वचनेनाविशेषितत्वाद् द्विर्वचननिमितेऽप्यचि
आदेशः स्यानिवत्स्यात्, ततश्चाचिकीर्तद् इत्यत्र णिचि “उपधायाश्च”
इतीत्वस्य “चङ्” ईति द्विर्वचने स्थानिवद्भावादचकीर्तदिति स्यात्
। दुद्यौउषति–ऊठि यणादेशः स्थानिवत्स्यात् । भवनमिच्छति,
भवनीयतेः सन्, बिभवनीयिषति-ल्युटि कृतयोर्गुणावादेशायोः
स्थानिवत्वे बुभवनीयिषतीत्यनिष्ट्ंअ रूपं प्राप्नोति । द्वितीये तु
अचिकीर्तदित्यत्र न दोषः, इत्वस्य तकारेण व्यवहितत्वात्
स्थानिवद्भावभाजो ह्यादेशस्य
स्थानिवत्वविधानवेलायामच्यचनन्तरे स्थानिवत्वेन भवितव्यम् ।
एवं ह्यचि परतः स्थानिवद्भावः कृतो भवति । दुद्यौउषतीत्यादौ तु
स्यादेव । ययावित्यत्र “आत औ णलः” इत्यौकारेण वृद्धौ कृतायां
संप्रत्यादेशात्परोऽज्नास्तीति स्थानिवत्वं न स्यात् ।
जग्मतुरित्यादौ च “गमहन” इत्युपधालोपस्य व्यवहितत्वान्न स्यात्
। तृतीये तु कालावधारणं कर्तव्यम्, अन्यथा
द्विर्वचनादुतरकालमपि स्थानिरूपमेवावतिष्ठेत । चतुर्थे तु
ययौ, जग्मतुरित्यादौ पूर्वोक्तन्यायेन स्थानिवद्भावो न
प्राप्नोति, कालावधारणं च कर्तव्यम् । पञ्चमेऽपि ययौ,
जग्मतुरित्यादौ न स्यात्, अत एतेषु पक्षेष्वेवं दोषसम्भवात्
षष्ठ्ंअ पक्षमाश्रित्याह-द्विर्वचननिमितेःऽचीत्यादि । अत्र हि पक्षे
द्विर्वचनेनाचो विशेषणादचिकीर्तत्, दुद्यौउषति,
बिभवनीयिषतीत्यादौ न दोषः । आदेशोपलक्षणत्वाच्च
ययावित्यादावपि न दोषः पुनश्च द्विर्वचनग्रहणात्
कालावधारणमपि लभ्यते । ननु “द्विर्वचननिमितेऽचि योऽजादेशः”
इत्युच्यमाने नुनावयिषति, चक्षावयिषति, पुस्फारयिषतीत्यादौ
णेरद्विर्वचननिमितत्वातन्निमितावादेशः, आकारश्च न
स्थानिवत्स्यात्; ततश्चाभ्यास उकारो न श्रूयेत, नैष
दोषः;”पुयण्जि” इति ज्ञापकाद् द्वित्वनिमितेऽपि णौ
स्थानिवत्वापायात् । तथा हि- न हि णौ कृतस्य
स्थानिवद्भावमन्तरेण ओः पराः पुयण्ज्योऽवर्णपराः सम्भवन्ति;
पिपविषति, यियविषति-इत्यत्र सम्भव इति चेत्, किमेतावता
पुग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवतीति ?
ज्ञापकमुक्तार्थस्य यद्येवम्; अचिकीर्तदित्यत्रेत्वस्य
स्थानिवत्वादचकीर्तदिति स्यात्, नैष दोषः; ज्ञापकस्य
तुल्यजातीयापेक्षत्वात् यत्रोतरभागस्याद्योऽवर्णपरो भावस्तत्रैव
स्थानिवत्वज्ञापनात् । नन्वेवमपि “ओः पुयण्” इत्यत्र
णेरित्यश्रवणात्सामान्येन द्वित्वनिमितं स्थानित्वं विज्ञायेत,
ततश्च विभवनीयिषतीत्यत्रापि स्यात्, न ह्यत्राजमात्रं
द्विर्वचननिमितम्, क्व तर्हि स्यात् ? चकार, चक्रे इत्यादौ ह्यज्मात्रं
प्रत्ययः । स्यादेतत्-परस्मिन्नित्यनुव-तमचीत्यनेन विशेष्यते, तत्र
यस्मिन्विधिस्तदादावल्ग्रहणमिति तदादिविधिर्भवति । अजादौ
परस्मिन्निति द्विर्वचननिमितत्वेनापि अजाद्येव विशेष्यत इति ।
एवमपि चक्रतुरित्यत्र स्यात्, यद् द्विर्वचननिमितमजादि न
तदादेशस्य निमितम्; अच्येव यणो विधानात् । यच्चादेशस्य
निमितं न तद् द्विर्वचनस्य निमितम्; पपतः चख्नतुरित्यादावेन
तु स्यात् । किञ्च “यस्मिन्विधिः” इति वचनाद्यत्र किञ्चिद्विधीयते
तत्रैव तदादिविधिः, इह तु अचि योऽजादेश
इत्यनुवादत्वातदादिविधेरेवासम्भवस्तस्यमादजेव गृह्यते, न
तदादिः, उच्यते; चक्रतुरित्यादावतुसोद्विर्वचनं प्रति
निमितत्वेनाश्रयणेऽप्यचि परत्रावस्थिते द्विर्वचनं
दृष्टमित्येतावताजेव द्विर्वचननिमितमित्युच्यते । समुदायेऽप्ययं
द्विर्वचनशब्द उपचारेण प्रवर्तते । एवमपि पपतुरित्यत्र न स्यात्,
आल्लोपस्याजादिनिमितं नाज्मात्रम्, नैष दोषः; “अचि योऽजादेशः”
इति कोऽर्थः ? अचि यो दृष्ट इत्यर्थः । यश्चाचि विधीयते,
यश्चाजादौ-द्वावपि अचि दृष्टावेवेति सर्वत्र सिध्यति । अथ
वा-अजादावाल्लोपो न हलादौ, तत्र प्राप्ताप्राप्तविवेकेनाच एव
मिमितत्वम् । द्विर्वचन एव कर्तव्य इति
एवकारेणैतद्दर्शयति–द्विर्वचनग्रहणमचं विशिनष्टि,कालं
चावधारयतीति । एकस्योभयसम्बन्धे हि भवति एवकारः-देवदतो
ग्रामं गच्छतु स एव गामानयत्विति । यद्यत्रापि पूर्ववत्कार्यातिदेशः
स्यात्; चक्रतुरित्यादावनच्कत्वादप्राप्तं द्विर्वचनं
स्थानिवद्भावाद् भवदपि यणाद्यादेशयुक्तस्यैव स्यादित्यभयासे
स्थानिरूपं न श्रूयेत, तदर्थमाह-रूपातिदेशश्चायमिति । “च”
शब्दोऽवधारणे । कथं पुनरवगम्यते रूपातिदेशोऽयमिति ?
अज्ग्रहणात् । तद्धिजेघ्रीयत इत्यत्र “ई घ्राध्मोः” इति हलादौ
विहितस्येत्वस्य स्थानिवत्वं मा भूदित्येवमर्थं क्रियते । यदि च
रूपं स्थानिवत्, ततोऽसत्यज्ग्रहणे घ्राय्घ्रीय्ध्माय्ध्मीय्
इति द्विर्वचनं स्यादिति तन्नवृतयेऽजग्रहणमर्थवद् भवति । अथ
हि–कार्यं स्थानिवद् भवति, तस्य सत्यपि स्थानिवत्वे
ईकारयुक्तस्यैव द्विर्वचनमिति नार्थोऽज्ग्रहणेन । भसेस्तु क्वसौ
“घसिभसोर्हलि” इत्युपधालोपे कृते सत्यसति वा
द्विर्वचनेभ्स्वानिति श्रुतौ विशेषाभावः । छान्दसच क्वसुः,
च्छन्दसिदृष्टानुविधानमतो ज्ञापकमेवाज्ग्रहणम् । तत्र यद्यपि
स्थान्येव स्वरूपमापद्यते,
तथाप्यातिदेशिकानातिदेशिकरूपभेदाश्रयस्तु वतिर्द्विर्वचन एव
कर्तव्य इत्येतदेव स्पष्टयति । नियतकाल इति । कृते द्विर्वचने
इत्यादिना नियतकालत्वमेव दर्शयति । यदि कृते द्विर्वचने
पुनरादेशरूपमेवावतिष्ठते, यथा–चक्रतुरित्यादौ
द्विर्वचनादूर्ध्वं पूर्वं कृतो यणादेश एव श्रूयते तथा
निन्यतुरित्यादावपि द्विर्वचनात्पूर्वमेकाच्त्वादि, यङदेशे कृते
स्थानिवद्भावाद् द्विर्वचनेऽपि पूर्वप्रवृत इयणेóव स्यात् । अस्तुः
तस्य “असिद्धवदत्राभात्” इत्यसिद्धत्वाद् “एरनेकाचः” इति यणि सति
श्रवणं न भविष्यति । यद्वा-पूर्वप्रवृतोऽपीयङ् द्विर्वचनकालेऽपहृत
इति पुनः प्रवर्तयितव्यः, तस्यां च दशायाम नेकाच्त्वाद्यणा बाध्यते
। यद्येवम्, इयेष उवोषेति इषेरुषेश्च लिटि तिपि णलि
प्रवृत्त्स्यापि गुणस्य द्विर्वचनकालेऽपहृतत्वात्कृते द्विर्वचने पुनः
प्रवृत्तिः, ततश्चानादिष्टादचः पूर्वत्वेनाभ्यासो दृष्ट इति
तस्याभ्यासस्य उवङ् किर्तव्ये गुणस्य स्थानिवद्भावादसवर्णं इति
प्रतिषेधः स्यात् । असवर्णग्रहणसामर्थ्यात्स्थानिवत्वं न भविष्यति ।
अस्त विचनस्यावकाशः-इयर्ति, इयृतः । ह्यएकमुदाहरणमसवर्णेग्रहणं
प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्, अर्तावित्येव ब्रूयात् । कि
तर्ह्युच्यते–द्विर्वचने पुनरादेशरूपमेवावतिष्ठत इति, अत्र हि
“पुनः” शब्दाद्, “अवतिष्ठते” इति वचनाच्च
पूर्वकृतस्यैवादेशस्योन्मज्जनमेवोक्तं प्रतीयत इति ? नायमर्थः;
अपि तु कृते द्विर्वचने स्थानिरूपं नावतिष्ठते यत्प्राप्तं
तद्भवतीत्येवंपरमेतत् ।
अल्लोपेत्यादि । उपलक्षणमेतत् । ततुरिः, पपुरिरित्यदौ “आञ्त
ईद्धातोः” “उदोष्ठ।ल्पूर्वस्य” “बहुलं च्छन्दसि” इति इत्वोत्वयरपि
स्थानिवत्वं भवति ।
आटिटदिति । अटतेर्ण्यन्ताल्लुङ् चिङ् “इजादेर्द्वितीयस्य” इति
टिशब्दस्य द्विर्वचनम्, “आडजादीनाम्” । निनायेत्यादि । “णलुतमो
वा” इति यदा णित्वं नास्ति तदा गुणः, णित्वपक्षे वृद्धिः ।
नेनैलोलाइति द्विर्वचनमिति । गृणवृद्ध्योस्तु स्थानिवद्भावे
विशेषाभावान्नोक्तः ।
जग्ले, मम्ल इति । भावे लिट्, अनैमितिकमात्वम्, शिति तु
प्रतिषेध इत्यात्वस्य स्थानिवत्वं न भवति । श्रवणमित्यादि । यदि
कालो नावधार्येत, तदोतरकालमपि स्थानिरूपं प्रसज्येत,
ततश्चाकारस्य श्रवणे सति परेण सह “वृद्धिरेचि” इति वृद्धिः स्यात्
। इहाधिजगे इति “गाङ्लिटि” इति द्विलकारनिर्देशेन लकारादौ
लिटि गाङदेशविधानादज्निमितत्वाभावात् स्थानिवत्वाभावः ॥
अदर्शनं लोपः ॥ १।१।६० ॥
इह दर्शनं ज्ञानमुपलब्धिः । तच्च
शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति
। श्रवणं च श्रोतृव्यापारः, तन्निषेधे “लोपो व्योर्वलि” इत्यस्य
वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च
प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे
उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन
तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति ।
“लोपो व्योर्वलि” इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ
नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव
एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत
इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति ।
कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो
न भिद्यत इत्यर्थः । श्वं रूपम्” इति वचनाद् अदर्शनशब्दस्यैव
संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह–एतैः
शब्दैरिति । एतच्च ङवेति विभाषा” इत्यत इतिकरणानुवृतेर्लभ्यते
। अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप
इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्,
प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे
श्वं रूपम्” इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् ।
सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति ।
अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु
विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा,
संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि
लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते,
अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं
साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र
स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति
णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् ।
अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य
लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं
मन्यते-श्थाने” इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे
यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः
केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र
कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य
संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते ।
सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं
जनयति । तेन शत्सूद्विष” इत्यस्य सन्निधौ “कर्मण्यण्” इत्यनेन
नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥
प्रत्ययस्य लुक्शलुलुपः ॥ १।१।६१ ॥
“अदर्शनम्” इति सम्बन्धात् “प्रत्ययस्य” इति कर्मणि षष्ठी । यदि
प्रत्ययादर्शनस्य लुगदिसंज्ञासङ्करः प्राप्नोति, विधानदशायां
यया कयाचन संज्ञया भावितस्य प्रत्ययादर्शनस्यानुवादप्रदेशेषु
यत्किञ्चनसंज्ञोच्चारणेऽपि ग्रहणप्रसङ्गः, ततश्च-अतीति लुक्संज्ञाया
भावितस्यापि शपोऽदर्शनस्य “श्लौ” इत्यत्र ग्रहणाद् द्विर्वचनं
स्यात्; जुहोतीति-“उतो वृद्धिर्लुकि हलि” इति वृद्धिः स्यात्;
हरीतक्या फलानि-“लुक्तद्धितलुकि” इति ङीषो लुक् स्यात्;
“लवणाल् लुक्” लवणस्सूपः, युक्तवद्भावः स्यात्; तथा
लोपसंज्ञया भावितस्यापि लुक्संज्ञाया अगोमति गोमती सम्पन्ना
गोमतीभूता ब्राह्मणीति च्वेर्लोपे “लुक् तद्धितलुकि” इति लुक्
स्यादित्यत आह-अनेकसंज्ञाविधानाच्चेत्यादि ।
यद्यतद्भावितस्याप्येताः संज्ञाः स्युः, नेकसंज्ञाकरणमनर्थकं स्यात्
। एकामेव संज्ञां कृत्वा तयैव सर्वाणि कार्याणि विधीयेरन् !
तस्मादनेकसंज्ञाविधानाद्यया संज्ञया यददर्शनं भवतितं तस्यैव सा
संज्ञेति संज्ञानां सङ्करो न भवति । यद्येवम्,
विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति । न चात्र नित्यतया
परिहारः सम्भवाति; अदर्शनमेव हि नित्यम्; न
पुनर्लुगादिसंज्ञया भावितम् । तत्र यदि तया संज्ञया
भावितस्यादर्शनस्य सा संज्ञेति, व्यक्तमितरेतराश्रयो भवति,
तत्राह-विधिप्रदेशेषु चेति । अदिप्रभृतिभ्यः परस्य शपस्तद्भवति,
यस्य भूतस्य लुक्संज्ञा भविष्यतीत्येवं भाविन्याः संज्ञाया विज्ञानान्न
भवतीतरेतराश्रयत्वदोषः । लोपसंज्ञात्वदर्शनमात्रस्य विधीयत
इति लुगादिसंज्ञाविषयेऽपि भवत्येव । न च लुगादिसंज्ञाभिबधिः;
एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात् । अत एव ” न
लुमताङ्गस्य” इति निषेधः । वरणा इति । “अदूरभवश्च” इत्यणः
“वरणादिभ्यश्च” इति लुप् ।
प्रत्ययग्रहणं किमति । न तावदप्रत्ययनिवृत्यर्थम्; लुग्, अणिञोः,
तद्राजस्य यञञोश्च, शपः, यङः, सिचः, लेः, सुपः इति सर्वत्र
प्रत्ययस्यैव निर्देशाद्, अनुवादेषु च तद्भावितस्यैव तस्य
संप्रत्ययात् । “गोस्त्रियोरुपसर्जनस्य” इत्यत्र योगो
विभज्यते–“गोरुपसर्जनस्य स्त्रियाः” इति, “लुक् तद्धितलुकि” इति
स्त्रिया इत्येव;गोरिति निवृतम्; इतरथा कृतेऽपि प्रत्ययग्रहणे
गमेर्डो लुक् स्यात्, “कंसीयपरशब्ययोर्यञञौ लुक् च” इत्यत्र
ङ्याप्प्रातिपदिकाधिकारात् कंसीयपरशव्ययोः
प्रतिपदिकात्परस्य भागस्य लुग्विज्ञास्यते, न प्रकृतिभागस्य; अन्यथा
कृतेऽपि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति
उकारसकारयोर्लुक् स्यात्, अतोऽप्रत्ययनिवृत्यर्थ तावत्प्रत्यग्रहणं
न कर्तव्यम् । यत्र तर्हि न
कश्चिन्निर्दिश्यते–“अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च” इति,
अत्र प्रत्ययप्रतिपत्यर्थं प्रत्ययग्रहणं भविष्यति ? नैवम्; तत्रापि
“यस्कादिभ्यो गोत्रे” इत्ययो गोत्रग्रहणानुवृतेरत्र्यादिभ्यो गोत्रे
यो विहितस्तस्य लुक्, तथा “जनपदे लुप्” इत्यत्र
“ङ्याप्प्रातिपदिकातप्रत्ययः ” इत्यनुवृतेः जनपदे विहितस्य
चातुरर्थिकप्रत्ययस्यैव लुप् । “लवणाल्लुक्” इत्यदिष्वपि
प्रकृतस्य, अतः प्रत्ययस्य प्रतिपत्यर्थमपि न कर्तव्यं भवति । सर्वत्र
चात्र्यादिभ्यः प्रतिपदिकाल्लवणादिति पञ्चम्यधिकारेण सन्निहितस्य
षष्ठआआ प्रकल्पयिष्यति, सा चानियतयोगत्वात् स्थानषष्ठी
भविष्यतीति स्थानषष्ठीप्रतिपत्यर्थमपि प्रत्ययग्रहणं न कर्तव्यं
भवति ।
एवं तर्हि सर्वादेशार्थं प्रत्ययग्रहणम्; असति तस्मिन्
“यञञोश्च”,शुपो धातु प्रातिपदिकयोः” इत्यादिषु यत्रानेकाल्
प्रत्ययः, तत्रालोऽन्त्यस्य स्यात्, “लवणाल्लुक्” इत्यादौ तु आदेः
स्यात्; सति तु प्रत्ययग्रहणे तत्सामर्थ्यात् सर्वादेशो
लुगादिर्भवति ? ज्ञापकात्सिद्धम्, यदयम् “घोर्लोपो लेटि वा” इति
लोपे प्रकृते “लुग्वा दुहदिह” इति लुकं
शास्ति,तज्ज्ञापयति–“लुगादयः सर्वादेशाः” इति । “अलोऽन्त्यस्य”
ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । विपर्ययस्तु न भवति,
“घोर्लोपः” इत्यत्र तावदसंजातविरोधित्वाद् “अलोऽन्त्यस्य” इति
प्रवर्तते, पश्चाल्लुग्ग्रहणं तस्यैव सर्वादेशतां गमयति ।
सामान्येन च ज्ञापकं समर्थयिष्यते–“लोपव्यतिरिक्तमदर्शनं
सर्वादेशः” इति । अतः सर्वादेशार्थमपि प्रत्यग्रहणं न कर्तव्यमिति
प्रश्नः ।
इतरोऽपि विदिताभिप्रायः परिहरति । आगस्तयः कुण्डिना इति ।
असति प्रत्ययग्रहणे आगस्त्यकौण्डिन्ययोरित्यत्र “लुगणिञोः” इत्यतो
लुग्ग्रहणमनुवर्तते वा ? न वा ?
अनुवृतौ–स्थानिनौ द्वौ, लुका सह त्रय आदेशा इति वैषम्यादसति
यथासङ्ख्ये एकैकस्य त्रय आदेशाः पर्यायेण स्युः ।
ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयः स्युः । लुक्
च क्रियमाणो यदि ज्ञापकात्सर्वादेशः, तत उभयत्रापि
विभक्तिमात्रश्रवणप्रसङ्गः ।
अथ निवृतम्–ततोऽगस्तयः, कुण्डिना इत्यत्र न कश्चिद्दोषः ।
अगस्तीनां छात्रा आगस्तीया इत्यत्र तु प्राग्दीव्यतीयेऽजादौ प्रत्यये
विवक्षितेऽप्यगस्त्यादेशस्य नि,एधाभावात् प्रवृताववृद्धत्वाच्छाए न
स्यात्; प्रत्ययग्रहणे तु सति
लुग्ग्रहणानुवृत्याऽऽगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्न भवति ।
परिशिष्टयोर्भागयोर्यथासंख्यमगस्तिकुण्डिनचावित्यर्थः सम्पद्यते;
तेनगस्तयः, कुण्डिना इति च सिद्ध्यति । प्राग्दीव्यतीये च
विवक्षिते “गोत्रे लुगचि” इति लुकि प्रतिषिद्धे
तत्सन्नियोगशिष्टत्वादगस्त्यादेशेऽपि निवृते आगस्त्यशब्दस्य
वृद्धत्वाच्छे कृते शूर्यतिष्यागस्त्य” इति यलोपे चगस्तीया इति
सिद्ध्यति । कौण्डिन्ये च नास्ति विशेषः, निवृतेऽपि
कुण्डिनजादेशे कौण्डिन्यशब्दादपि “कण्वादिभ्यो गोत्रे” इति अणि
कृते “आपत्यस्य” इति यलोपे कौण्डिना इत्येव भवितव्यम् । अत
आगस्त्यकौण्डिन्ययोरित्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम् । ततश्च
पूर्वोक्तदोषपरिहाराय प्रत्ययग्रहणमपि कर्तव्यम् ।
वयन्तु ब्रूमः-शर्वादेशार्थमपि प्रत्ययग्रहणं सामान्येन
ज्ञापकमगतिकगति” इत ॥
प्रत्ययलोपे प्रत्ययलक्षणमिति ॥ १।१।६२ ॥
सूत्रारम्भस्य प्रयोजनमाह–प्रत्ययनिमितमित्यादि ।
लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः, अस्ति च
करणसाधनो निमितवचनः । तत्राद्यस्य ग्रहणे प्रत्ययलोपे सति
प्रत्ययस्य प्रादुर्भावो भवतीत्यर्थः स्यात् । तत्र लुप्तस्यैव प्रत्ययस्य
पुनः प्रादुर्भावविधौ लोपविधिर्व्यर्थः स्यात् । ननु च यः
प्रत्यस्यैव लोपः “णेरनिटि” इत्यादि, तस्य वैयर्थ्यं नामास्तु; यस्तु
“टेः” इत्यादिना सामान्येन विहितः, स यदा प्रत्ययस्य
भवति–भिक्षुमाचष्टे भिक्षयतीति, तदा तस्य पुनः प्रादुर्भावेऽपि न
तस्य वैयर्थ्यम्; उप्रत्यये चरितार्थत्वात् । एवं तर्हि लुप्तस्यैव
प्रत्ययस्य पुनः प्रादुर्भाव इष्टे, न प्रत्ययस्य लोप इति
वक्तव्यम्–सामान्यविहितो लोपः प्रत्ययस्य न भवतीति ।
अथ प्रत्ययान्तरस्य लुप्तप्रत्ययनिमितकस्य पादुर्भावो विधीयते,
यथा–ग्रामणीरिति क्विपो लोपे तन्निमितस्य सोर्विधिः । एवमपि
“प्रत्ययलोपे प्रत्यय” इत्येव वक्तव्यम्–प्रत्ययस्य लोपे न
तन्निमितकः प्रत्ययो भवतीति । अतो निमितपर्यायेण लक्षणशब्देन
बहुव्रीहिः, कार्यं चान्यपदार्थं इत्याह–प्रत्ययहेतुकं कार्यमिति ।
प्रत्यासतेश्च यः प्रत्ययो यस्य कार्यस्य निमितं तस्य लोपेऽपि
तद्भवतीत्यर्थः ।
पदसंज्ञा भवतीति । ननु च स्थानिवद्भावेनापि सिद्धा पदसंज्ञा,
इह तर्हि ता ता पिणाडानामिति-तच्छब्दात्परस्य जसः शिः,
“शेश्च्छन्दसि बहुलम्” इति लोपे ङपुंसकस्य झलचः” इति नुम्,
“सर्वनामस्थाने” इति दीर्घश्च भवति; अनड्वान्– सोर्लोपे
नुम्भवति; अधोक्–अड्गुणौ भवतः; न्यमार्ट्-मृजेर्वृद्धिः;
उन्देर्लङ् इतिलोपे श्नमाटौ भवतः; “श्नान्नलोपः”–औनत्;
अग्निचित्-क्विपो लोपे तुग्भवति ? एतान्यपि स्थानिवद्भावेनैव
सिद्ध्यन्ति; अल्विधित्वात् । सर्वत्रैवाल्मत्रप्रत्ययः, तदाश्रयो
विधिरल्विधिरिति । नैतत्सुष्ठूअच्यते, उक्तं हि कार्यापेक्षमल्विधित्वं
नोदाहरणापेक्षमिति । नुमादिविधौ च सर्वत्र शास्त्रे
यद्रूपमाश्रीयते–सर्वनामस्थाने सार्वधातुके पिति कृति
सुप्तिङ्न्तमिति, साधारणं तदलश्चानलश्च । केवलं ताता
पिण्डानामित्याद्यौदाहरणेऽर्थादलात्मकं तदित्येतावत् ।
इह तर्हि अतृणेट्-“तृहि हिसायाम्”, लङ्, तिप्, श्नम्,”इतश्च”
इतीकारलोपः, तकारस्य हल्ङ्यादिलोपे हलादौ पिति
सार्वधातुके विधीयमानोऽल्विधिः “तृणहैम्” अस्माद्भवति;
तथा आशीरित्यत्र “शास ईदङ्हलोः” इतीत्वं लुप्तेऽपि क्विपि भवति
। ननु च “वर्णाश्रये नास्ति प्रत्ययलक्षणम्”; नैवंविधं वचनमस्ति ।
द्वितीयस्य प्रत्ययग्रहणस्य प्रयोजनमिदं पठ।ल्ते – अत्र हि ”
प्रत्ययलोपे तल्लक्षणम्” इत्येव सिद्धे पुनः प्रत्ययग्रहणाद्यत्र
प्रत्ययस्यैवासाधारणं रूपं निमितत्वेनाश्रीयते सुपि सार्वधातुके
कृति सुप्तिङ्न्तमिति तदेव यथा स्यात् । तेन
गोहितमित्यवादेशो न भवति । न हि “एचोऽयवायावः” इत्यत्र
प्रत्ययस्यासाधारणं किञ्चिद्रूपमुपातम्, किन्त्वचीति यदुपातं
तद्गवे हितमित्यस्मिन्नुदाहरणे अर्थात्प्रत्ययात्मकमित्येतावत् ।
इत्वेमागमयोस्तु हलादौ क्ङिति हलादौ पिति सार्वधातुक इति
प्रत्यय एव प्राधान्येन निमितम्, हल् तु तद्विशेषणमिति नेमौ
वर्णाश्रयौ । तस्मादल्विध्यर्थमिदमारब्धव्यम् ।
यद्येवम्, भसंज्ञाङीप्ष्फेषु दोषः । भसंज्ञायां तावद्-राज्ञः
पुरुषो राजपुरुष इति श्रूयमाणे प्रत्यये यथा संज्ञा भवति, एवं
लुप्तेऽपि स्यात् । ततश्च तया पदसंज्ञाया बाधितत्वाद् लनोपो न
स्यात् । ननु च द्वे अत्र पदसंज्ञे–स्वादाविति च, सुप्तिङ्न्तमिति च
। तत्र या स्वादौ पदमिति पदसंज्ञा, साऽपवादभूतया बाध्यते; या
तु शुप्तिङ्न्तम्” इति पदसंज्ञा, सा न बाधनीया, यथा–श्रूयमाणे
प्रत्यये “राज्ञः” इति समुदायस्य ? नैतदेवम्; श्रूयमाणे प्रत्यये
ततः पूर्वस्य भागस्य भसंज्ञा, समुदायस्य तु विसर्जनीयान्तस्य
पदसंज्ञेति युक्तम्-विभिन्नावधिकया भसंज्ञया पदसंज्ञा न बाध्यत
इति । लुप्ते तु प्रत्यये यस्यैवावधेः स्वादौ पदमिति
पदसंज्ञा,सुबन्तं पदमित्यपि तस्यैवावधेः पदसंज्ञा । तत्रैवावधौ
भसंज्ञा भवन्ती यथाऽयवदत्वात् स्वादिलक्षणां पदसंज्ञां बाधते,
तथा सुबन्तलक्षणामपि परत्वाद्वाधते ।
एवं तर्हि ङ लुमताङ्गस्य” इति प्रतिषेधाद् भसंज्ञा न भविष्यति,
यचीति सप्तमीनिर्देअषात् । ततः पूर्वस्य भागस्य वस्तुतोऽस्य
प्रवर्तमाना भसंज्ञाप्यङ्गकार्यमेव । एवं च बुध्वा ङ
ङिसंबुद्ध्योः” इत्यत्र ङै नलोपः प्रतिषिध्यते, यदि
प्रत्ययलक्षणेन भसंज्ञा स्याद्, अपवादत्वादेवार्द्रेअ चर्मन्निति नलोपो
न भविष्यतीति किं तेन प्रतिषेधेन ? इह तर्हि चित्रायां जाता
“चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्” इत्यणो लुकि
“लुक्तद्धितलुकि” इति टापि लुप्ते, चित्र इति स्थिते
प्रत्ययलक्षणेनाणन्तत्वात् ङीप् प्राप्नोति, नैष दोषः;
“टिड्ढाणञ्” इत्यत्र “अतः” इत्यनुवर्तते, तत्र चाणाकारो
विशेष्यते–अणोऽकार इति, ततश्चाकार एव ङीपो निमितम्; अण् तु
तद्विशेषणमिति प्रत्ययलक्षणत्वाभावाद् ङीबभावः ।
इह तर्हि वतण्डस्यात्यं स्त्री “वतण्डाच्च” इत्यञः “लुक् स्त्रियाम्” इति
लुकि वतण्डी-शार्ङ्गरवादिलक्षणं ङीनं बाधित्वा “प्राचां
ष्फस्तद्धितः सर्वत्र” इति सर्वत्रग्रहणस्य पूर्वत्रापकर्षात्प्राचां मतेन
यञन्तलक्षणः ष्फः प्राप्नोति, यथा आवट।लच्चापं वा बाधित्वा ष्फ एव
भवतीति ? नैष दोषः; अत्रापि यञाकारो विशेष्यते-यञोऽकार
इति, यञवयवो योऽकारस्तदन्तादिति । तेनात्राप्यकार एव
निमितम्, तद्विशेषणन्तु यञिति ष्फो न भवति । अयं तर्हि
दोषः-परिवीरिति, परिपूर्वाद्ध्येञः क्विपो लोपे यजादित्वात्
संप्रसारणे पूर्वत्वे च तुक् प्राप्नोति, “हलः” इति दीर्घश्च; तत्र
विप्रतिषेधेन दीर्घ इष्यते, स विप्रतिषेधो न सिद्ध्यति ।
किङ्कारणम् ? इह प्रत्ययलोपे सर्वाणि प्रत्ययाश्रयाणि कार्याणि
पर्यवसन्नानि, तान्यनेन प्रत्युत्थाप्यन्ते, अनेनैव तुक्, अनेनैव
दीर्घः-तदेकयोगलक्षणयोरयुक्तो विप्रतिषेधः ? नैष दोषः;
अवस्थिते प्रत्यये, तन्निबन्धनं यत्कार्यं भवत्येव तदेवानेन लुप्ते
तस्मिन् प्रत्युत्थाप्यते, न तु यस्य प्राप्तिमात्रं तदपि ।
परिवीयेत्यादौ श्रूयमाणे प्रत्यये दीर्घ एव परत्वाद् भवति, न
तुक्; ततश्चात्रापि यदि क्विबेवास्थास्यद्, दीर्घ एवाभविष्यदिति स
एवानेन प्रत्युत्थाप्यते । तदेवमारब्धव्यं सूत्रं न कश्चिद्दोष इति
स्थितम् ।
अत्रोच्यते–यदुक्तं “तृणह इम्” हलाश्रय इति; नायं हलाश्रयः,
हलीति निवर्तिष्यते । यदि निवर्तते, तृणहानि–अत्रापि प्राप्नोति ?
नाभ्यस्तस्याचीत्यतो नाचीत्यनुवर्तते, ततश्चानल्विधित्वात्
स्थानिवद्भावेनैव सिद्ध इमागमः । आशीरित्यत्रापि “आसासः
क्वावुपसंख्यानम्” इत्यस्माद् वचनात्सिद्धमित्वम् । आरब्धेऽपि
खल्वस्मिंस्तदवश्यं वक्तव्यम् । यदि तावत् “शास इदङ्हलोः” इत्यत्र
शासिमात्रस्य ग्रहणम्, ततो नियमार्थम् “आशासः क्वावेव यथा
स्याद्, आशास्त इत्यादा मा भूत्” इति । अथ यस्माच्छासेरङ्
विहितस्तस्य ग्रहणम्, ततो यथाऽऽशास्त इत्यादौ न भवति तथा
क्विप्यपि न स्यादिति विध्यर्थमिदम् । इह तर्हि बिदस्यापत्यानि
बहूनि “अनुष्यानन्तर्ये बिदादिभ्योऽञ्” बिदाः, बिदानामपत्यं
युवा, “अत इञ्”, तस्य ण्यक्षत्रियार्षञितः” इति लुकि कृते, अञो
गोत्रबहुत्व उत्पन्नस्य लुकि प्राप्ते”गोत्रेऽलुगचि” इति प्रतिषेध
इष्यते, सोऽजादाविति लुप्तेऽप्यस्माद्वचनाद्भवति ? एतदपि नास्ति
प्रयोजनम्; अचीति विषयसप्तमी, तेन गोत्र इति विवक्षितेऽनुत्पन्न
एव लुकि प्रतिषिद्धे पश्चादिञो लुगिति सिद्धमिष्टम् ।
तदेवमल्विधेः कस्यचिद् दर्शनात् स्थानिवद्भअवेनैव सिद्धमिति
नार्थोऽनेन ।
एवं तर्हि नियमार्तमिदम्-“प्रत्ययलोपे प्रत्ययलक्षणमेव यथा स्यात्
प्रत्ययाप्रत्यलक्षणं मा भूत्” इति । एतदुक्तं भवति–यस्मिन्कार्ये
विधीयमाने प्रत्ययस्यैवासाधारणं किञ्चिद्रूपं निमितत्वेनाश्रीयते,
तदेव प्रत्ययलोपेऽपि भवति, न पुनः प्रत्ययाप्रत्यसाधारणं
रूपमाश्रित्य यद्विधीयते तदिति । तेन शोभना दृषदो यस्य
सुदृषदिति शोर्मनसी अलोमोषसी” इत्युतरपदाद्यौदातत्वं न
भवति । अन्यथा लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुतरपदमिति
स्यात्प्रसङ्गः । प्रत्ययलक्षणं तु न भवति, “अनिनस्मन्ग्रहणान्यर्थवता
चानर्थकेन तदन्तविधिं प्रयोजयन्ति” इत्यस्मातस्य ग्रहणात् ।
वृत्तिकारेण तु ” नियमार्थमप्येतत् प्रत्ययलोपे सर्वत्र प्रवर्तते”
इति मत्वोक्तं पदसंज्ञा भवतीति । आघ्नयेति । “आङे यमहनः” ।
संग्मीयेति । शमो गम्यच्छि” इत्यात्मनेपदम्, “इटोऽत्”, बहुलं
च्छन्दसि” इति शपो लुक्, उभयत्र “गमहन” इत्युपधालोपः ॥
न लुमताङ्गस्य ॥ १।१।६३ ॥
“लुमता” इति लुशब्दो यस्मिन्नस्ति स लुमानुलुगादिः संज्ञाशब्दः ।
करणे च तृतीया, लोपे च करणत्वम् । “प्रत्ययलोपे” इत्यनुवृतेः
लुमता शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं कार्यं न
भवति । तत्र च प्रत्यासतेर्लुप्तप्रत्ययापेक्षया येनाङ्गसंज्ञा
प्रतिलब्धा तस्य तन्निमितं कार्यं न भवतीस्यर्थः । एतदेव वस्तुतो
दर्शयति –लुमता लुप्ते प्रत्यये यदङ्गमिति । तेनोत्क्रामेत्यत्र
“अतो हेः” इति लुकि कृते परस्मैपदापेक्षया ययङ्गंशबन्तं न
तस्य दीर्घत्वम्, यस्य च दीर्घत्वं न तत्परस्मैपदापेक्षयाङ्गम् ।
किं तर्हि ? शबपेक्षयेति निषेधाभावात् प्रत्ययलक्षणेन “क्रमः
परस्मैपदेषु” इति दीर्घो भवति, तथा “गमेरिट् परस्मैपदेषु”
ङ वृद्भ्यश्चतुर्भ्यः” इटो विधिप्रतिप्रेधौ जिगमिष विवृत्सेति
परस्मैपदलुक्यपि भवतः । लुमता लुप्ते परस्मैपदे यदङ्गं
सनन्तं न तस्येटो विधिनिषेधौ, किं तर्हि ? सकारादेः
प्रत्ययस्येति । इदं चान्यदस्मिन् ग्रन्थे
दर्शितम्-नाङ्गस्येत्यनेनाङ्गाधिकारः प्रतिनिर्दिश्यते ङ लुमता
लुप्ते प्रत्यये आङ्गं भवति” इति, किं तर्हि ? लुमता लुप्ते प्रत्यये
यद्ङ्गं तस्याङ्गमनाङ्गं च सर्वं प्रतिषिध्यते इति । तेन
गर्गाः, बिदाः-यञञोर्लुक्, उष्ट्रग्रीवः-“इवे प्रतिकृतौ” इति कनः
“देवपथादिभ्यश्च” इति लुप्, पन्थाः प्रियोऽस्य
पथिप्रियः–शुपोधातु” इति सर्वनामस्थानस्य लुक् । अत्र
“ञ्नित्यादिर्नित्यम्”,”पथिमथोः सर्वनामस्थाने” इति
चाद्यौदातस्यानाङ्गस्यापि निषेधो भवति ।
सप्तमीनिर्द्देशाद्ध्येतद्वस्तुतोऽङ्गस्य कार्यम् । तथाऽहर्ददाति
– “रोः सुपि” इति रत्वप्रतिषेधो न भवति । यद्यनाङ्गमपि
प्रतिषिध्यते, अवधि भवता दस्युः, आगायि भवता ग्रामः, अध्यगायि
भवताऽनुवाकः; लुङ् पिरतोऽङ्गस्य विधीयमाना हनिणिङदेशाः
“चिणो लुक्” इति लुङे लुकि न स्युः । न लुङ् हिनिणिङदेशा
विधीयन्ते, किं तर्हि ? लुङ् यिदार्धधातुकं तत्र । ततश्च लुङि
यदङ्गं चिणन्तं न तस्य हनिणिङदेशाः, यस्य च ते न
तल्लुक्यङ्गमिति निषेधाभावः ।
इह तर्हि “मा हि दातां सर्पिरागच्छेत्” इति सिजामन्त्रितयोर्लुकि
सति “आदिः सिचोऽन्यतरस्याम्””आमन्त्रितस्य च” इति आद्यौदातत्वं न
स्यात् ? नैतदङ्गस्य चिणन्तं कार्यम्, किं तर्हि ? तदन्तस्य;
षष्ठीनिर्देशात् । तेन पयः सामेत्यादौ पदसंज्ञा च भविष्यति ।
ननु यद्यपि तदन्तस्याद्यौदातत्वम्, पदसंज्ञाऽपि, तथा लुप्ते इदानीं
प्रत्यये वस्तुतोऽङ्गस्य प्राप्नुत इति भवितव्यं निषेधेन ? नात्र
लुप्ते प्रत्यये यदङ्गस्य प्राप्तं तन्निषिध्यते, किं तर्हि ?
अवस्थितेऽपि प्रत्यये यततः पूर्वस्याङ्गस्य कार्यं तन्निषिध्यते ।
वृक्षा मा हि लाबिष्टामित्यादौ च श्रूयमाणो प्रत्यये तदन्तस्यैव
पदसंज्ञा स्वरश्चेति लुप्तेऽपि भविष्यतः । एवं च राज्ञः पुरुष इति
श्रूयमाणे ङसि, ततः पूर्वस्य भसंज्ञा न तदन्तस्येति
अङ्गकार्यत्वात् लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेन प्राप्ताऽनेन
निषिध्यते ॥
इह तर्हि अत्रेरपत्यानि “इतश्चानिञः” इति ठकः “अत्रिभृगु” इति लुकि
कृते अत्रय इति तद्धितस्य “कितः” इत्यन्तोदातत्वं स्यात्,
तदन्तकार्यत्वात्, नैषदोषा; तद्धितस्यैवान्तोदातत्वम्, न
तदन्तस्य ।
इह तर्हि सर्वः स्तोमो यस्य सर्वस्तोमः-शर्वस्य सुपि”
इत्याद्यौदातत्वं न स्यात्, सुपीति सप्तमीनिर्द्देशात् ? कर्तव्योऽत्र
यत्नः । यत्नश्च-सर्वस्य सुप इति षष्ठीनिर्द्देशः षष्ठीनिर्दशे तु
तदन्तकार्यत्वात् सिच्स्वरवत् सिध्यति । ननु द्वयोरिप
पक्षयोः-अभूवन्, प्रत्ययलक्षणेन जुस्प्राप्नोति, “आतः” इति नियमान्न
भविष्यति ।
इह तर्हि देवदतं याजयाञ्चकार–“आमः” इति लुकं बाधित्वा
परित्वातिबाधिषु कृतेषु तेषां च लुकि प्रत्ययलक्षणेन
तिङ्न्तत्वादामन्तस्य च विधातः, ततः परस्यानिघातश्च प्राप्नोति,
लेरित्यनुवृतेर्लावस्थायामेव लुग्भविष्यति । इह च देवदतो
युष्मत्पुत्र इति षष्ठन्तस्य विधीयमानौ वांनानौ “द्वितीयास्थायोः
इति स्थग्रहणान्न भवतः । षष्ठीचतुर्थीद्वितीयास्ववस्थानं
श्रूयमाणस्यैव सम्भवति ।
इह तर्हि परमवाचा, परमगौदुहा, परमलिहा, परमदण्डिना,
परमदिवापरमकुमार्येति समासार्था या विभक्तिः,
तामाश्रित्योतरपदस्य पदसंज्ञायां प्राप्तयाम्, “चोः कुः”,
“दादेर्धातोर्घः”,”हो ढः “, नलोपः प्रतिपदिकान्तस्य” “दिव
उत्”,”इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च” इति -एते विधयः प्राप्नुवन्ति
नैष दोषः; भसंज्ञाविषये तावत्सैव पदसंज्ञां बाधिष्यते । ननु च
समुदायस्य पदसंज्ञा स्वादिष्वति प्राप्ता सा तुल्याविधिकया
भसंज्ञया बाध्यताम्, या तुतरपदस्य सुबन्तमिति प्राप्त सा कथं
बाध्यते, भिन्नावधित्वात् ? एवं तर्हि शुप्तिङ्न्तम्” इत्यतः
सुबन्तमित्यनुवर्तनीयम्, ततश्चायमर्थो
भवति-“यजादावसर्वनामस्थाने परतः पूर्वस्समुदायो भसंज्ञो
भवति । तत्र च समुदाये यत्सुबन्तं वर्तते तदपि भसंज्ञं भवति
यजादावनन्तरे” इति । तत्र च समुदायस्य भसंज्ञा प्रधानशिष्टा,
अवयवस्य त्वन्वायशिष्टा । यत्र च सुबन्तं पश्यति तत्र तस्यापीति,
तेन राज्ञ इत्यादौ सुबन्ताभावेऽपि भवति । सुबन्तसद्भावे तु
तस्य समुदायस्य चेति विवेक्तव्यम् । सर्वनामस्थानेऽपि
“असर्वनामस्थाने” इति प्रतिषेधात् पदसंज्ञा न भविष्यति । ननु
“स्वादिषु” इति या प्राप्तिः समुदायस्य, तस्या एव स प्रतिषेधः,
नेत्याह; तत्रापि सुबन्तमित्यनुवर्तते, प्रसज्यप्रतिषेधश्चाश्रीयते,
तत्सामर्थ्यात् “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा” इति
नाश्रीयते; ततश्चायमर्थो भवति–शर्वनामस्थाने परतः पूर्वसय्
समुदायसंय स्वादिष्विति प्राप्ता पदसंज्ञा न भवति । तत्र च
यत्सुबन्तमवयवत्वेन वर्तते, तस्य सुबन्तस्य पदसंज्ञा न भवति”
इति । यद्येवम्; सुवाक्, सुराजेति सावपि समुदायस्यावयवस्य च
स्वादिष्विति वा सुबन्तमिति वा पदसंज्ञाया अभावात् कुत्वादि न
स्यात् । एवं तर्हि “असर्वनामस्थाने” इत्यत्र उतरसूत्राद्यचीत्यपकृष्यते,
ततो यजादौ सर्वनामस्थाने या च यावती च पदसंज्ञा, सा सर्वा
प्रतिषिध्यते; सौ तु स्वादिष्विति च सुबन्तमिति च भवत्येव ।
यद्येवम्, श्रूयमाणएऽपि सौ पूर्वस्य पदसंज्ञा प्राप्नोति, तत्र को
दोषः ? “एचोऽप्रगृह्यस्य” इत्यत्र पदान्तग्रहणं चोदयिष्यति-भद्रं
करोषि गौरित्यत्र मा भूदिति । तत्र क्रियमाणेऽपि पदान्तग्रहणे
प्लुतविकारः प्राप्नोति, नैष दोषः;
वाक्यपदयोरन्त्यस्येत्येवमेतद्विज्ञायते, तदेवं समासेषूतरपदस्य
पदत्वं नास्तीति स्थितम् । यद्येवम्, दधिसेचौ, दधिसेचः
शात्पदाद्योः” इति षत्वनिषेधो न प्राप्नोति, नैवं
विज्ञायते-पदस्यादिः पदादिः, पदादेर्नेति, कथं तर्हि ? पदादादिः
पदादिः, दादेर्नेति । कथमग्निषु, वाक्षु, त्वक्षु ? सात्प्रतिषेधो
ज्ञापयतिस्वादौ यत्पदं ततः परस्य नेति । अवश्यं च
पदादादिरित्येवं विज्ञेयम्, अन्यथा “गतिकारकोपपदानां
कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः” इति यत्र
सुबन्तमुतरपदं तत्र प्रतिषेधो न स्यात् ।
इह तर्हि बहुसेचौ, बहुसेचम्, बहुचोऽपदत्वात्, प्रतिषेधो न
प्राप्नोति, वक्तव्यमेवैतत् “बहुच्पूर्वस्य न” इति, तत्रायं
सूत्रन्यासः-साते सः षत्वं न भवति, ततो “बहुचः”,बहुचः परस्य
षत्वं न भवति; आदिग्रहणं न कर्तव्यम्, “आदेः परस्य” इत्येव
सिद्धम् । तदिदं बहुज्ग्रहणेन निमातव्यम् ।
कार्यते, हार्यते इति । ण्यन्तात्कर्मणि लकारः, यक्, णिलोपः ।
ननु चात्रान्तरङ्गा वृद्धिरुत्पन्नमात्र एव णौ भवति, लोपस्तु यकि
भवन् बहिरङ्गः । एवं तर्हि विभज्यान्वाख्यानपक्षे
एतत्प्रत्युदाहृतम् ॥
अचोऽन्त्यादि टि ॥ १।१।६४ ॥
अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः ।
यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन
नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं
निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्,
तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य
सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् ।
कार्यं त्वग्निचि तमाचष्टे णिचि “णाविष्ठवत्” इति टिलोपः ।
पचेते इत्यादि कार्योदाहरणम् ॥
अलोऽन्त्यात्पूर्व उपधा ॥ १।१।६५ ॥
समुदाय एवान्त्यो भवतीत्याह–धात्वादाविति । “अलः” इति जसन्तं
चेद् अन्त्यस्याविशेषितत्वात् समुदायादपि पूर्वस्य संज्ञायां शिष्ट
इति शकारस्येत्वं स्याद्, असन्देहार्थमलित्येव च ब्रूयाद्;
अतोऽन्त्यादित्यानया समानाधिकरणा पञ्चमीत्याह–अन्त्यादल इति ।
यद्येवम्, पूर्वस्याविशेषितत्वात् समुदायस्यापि संज्ञायां शिष्ट
इति ” शा” इति समुदायस्येत्वं प्राप्नोति, “अलोऽत्यस्य” इत्यन्त्यस्य
भविष्यति । ङानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु”, तत्र
यथा-आभ्यामित्यत्र “हलि लोपः” इद्रूपस्य विधीयमानो लोपोऽन्त्यस्य
न भवति, तथात्रापि न स्याद्; अतोऽलोऽन्त्यात्पूर्वोऽलिति
आह-अलेवेति । एवकारः पौनर्वचनिकः, यथान्त्योऽल्, एवं
पूर्वोऽप्यलेवेति । कथं पुनर्द्धितीयसल्ग्रहणमन्तरेणायमर्थो
लभ्यते ? लोकतः । लोके ह्यमीषां ब्राह्मणानामन्त्यात्पूर्व
आनयतामित्युक्ते एक एवान्त्यात्पूर्वोऽनन्तर आनीयते, न समुदायः ।
संयोगोपधग्रहणं कृञर्थमित्यत्रावयवधर्मेण समुदायस्य
संयोगस्योपधाव्यपदेशः । अकार इत्यादीनि रूपोदाहरणानि ।
कार्यं तु पाचक इत्यादौ “अत उपधायाः” इति वृद्धिः । भेदक इत्यादौ
“पुनगन्तलघूपधस्य च” इति गुणः । शिष्ट इति । शासेर्निष्ठा,
“शास इदङ्हलोः” इतीत्वम्, “शासिवसिघसीनां च” इति षत्वम् ॥
तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ १।१।६६ ॥
इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन
व्यवस्थापकत्वादर्शनात् “तस्मिन्नणि च”
इत्यत्रोपातस्यैदमनुकरणम्, ततश्च तत्रैवास्य प्रवृत्तिः स्याद् ।
अस्ति च तत्र व्यवच्छेद्यं हे यौष्माकीणमस्मभ्यं देहि, आस्माकीनं
युष्मभ्यं ददामीति परनिवृत्तिः, तामिनां
भ्रान्तिमपाकरोति–तस्मिन्निति सप्तम्यर्थनिर्देश इति । एतेन
“तस्यापत्यम्” “तत्र भवः” इत्यादिवत् स्वतन्त्रस्य सर्वनाम्नोऽयं
निर्देशः, तद्वदेव तस्मिन्निति सामान्यविशेषणमचि,
हलीत्यादीनामुपलक्षणम्; न त्वनुकरणमिति दर्शयति ।
एतच्चेतिकरणाल्लभ्यते । स हि पदार्थविपर्यासकृत् । शास्त्रे च
स्वारुपपादर्थः, तस्य विपर्यासोऽर्थपदार्थकता । यदि च “तस्मिन्नणि
च” इत्यत्रैवैतदुपास्थास्यत तत्रैव पूर्वग्रहणमकरिष्यतेति भावः ।
किमर्थं पुनरिदमारभ्यते ? “इको यणचि” इत्यादौ सन्देहः-किं
सत्सप्तमी ? किं वा गङ्गायां घोष इति वदौपश्लेषिकाधिकरणे
सप्तमी ? इति । तत्र सत्वं परस्य च पूर्वस्य च सम्भवति,
एवमुपश्लेषोऽपि । तत्र पूर्वस्य परस्य च व्यवहितानन्तरस्य यण्
प्राप्तः, दध्युदकादिषु तु युगपदेकस्य
कार्यित्वनिमितत्वायोगात्पर्यायेण यण् प्राप्तः; इष्यते च पूर्वस्यैव
स्यादनन्तरस्यैवेति, तत्र निमार्थमिदम्–सप्तमीनिर्देशे पूर्वस्य
भवति अनन्तरस्यैवेति । “इको यणचि” इत्यादेश्च सकृत्प्रवृत्तिः, सा
चेवं विशोषितेति न क्वाप्यनिष्टशङ्का । तत्राद्यं नियमं
दर्शयति-पूर्वस्यैवेति । व्यावत्यं दर्शयति-नोतरस्येति ।
पचत्योदनमिति । यद्यप्यत्रानियमप्रसङ्गो नास्ति, तथापि “इको
यणचि” इत्यस्मिन्सूत्रेऽनियमप्रसङ्गे नियमः क्रियत इत्येतदपि
भवत्येवोदाहरणम् । द्वितीयं नियमं दर्शयति-निर्दिष्टग्रहणमिति
। दिशिरुच्चारणक्रियः, निःशब्दो नैरन्तर्ये, निरन्तरं दिष्टो
निर्दिष्ट इत्येवमानन्तर्यमर्थो भवति, तत्रैवं वचनव्यक्तिः-अचि
हलीत्यादौ पूर्वस्यैव कार्यं भवति, तत्र निर्दिष्टे उ निरन्तर
एवोच्चारित इति तत्रार्थात्पूर्वस्यानन्तरस्येत्यर्थो भवति ।
तदाह-व्यवहितस्य मा भूदिति । अन्यथा व्यवहिते मा भूदिति
वक्तव्यम्; पूर्वपदस्य व्यवहितेऽपि वृतेस्तस्य प्रसङ्गात् ॥
तस्मादित्युतरस्य ॥ १।१।६७ ॥
निर्दिष्टग्रहथणमनुवर्तत इति । तेनात्रापि व्यवहिते कार्यं न
भवतीति भावः । अत्रापि इतिपरत्वादनुकरणमिति कस्याचिद् भ्रान्ति
स्यात्; “तस्मान्नुड् द्विहलः” इत्यत्र “अत आदेः” इति
दीर्घत्पूर्वस्याङ्गस्यासम्भवात् प्रयोजनाभावात् यद्यपि
तस्यानुकरणं न भवति; “तस्माच्छसो नः पुंसि” “तस्मान्नु डचि”
इत्यत्र तु व्यवच्छेद्यमस्ति, उच्चारितोऽनुपलभ्यते, गौरनश्व इति
पूर्वस्य मा भूदिति, अतस्तयोरेवेदमनुकरणमिति तामिमा
भ्रान्तिपाकरोति-तस्मादिति पञ्चम्यर्थनिर्देश इति । एतेन
पूर्वससूत्रवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः । तद्वदेव च
तस्मादिति सामान्यमतिङ् इत्यादीनां विशेषाणामुपलक्षणम्, न
त्वनुकरणमिति दर्शयति । एतच्छेतिकरणाल्लभ्यत इत्युक्तम् ।
किमर्थंम पुनरिदमारभ्यते ? “तिङ्ङतिङः” इत्यादौ
कारकविभाक्तेरसम्भावद्दिग्योगलक्षणा पञ्चमीति,
दिक्च्छब्दस्त्वध्याहार्यः; तत्र पूर्वोतरशब्दयोरध्याहारः
सम्भवतीति नियमार्था परिभाषेयम् । तदाह–उतरस्यैव कार्यमिति
। तदेवं पूर्वस्य चास्य च वृत्तिकारेण नियमार्थत्वं दर्शितम् ।
षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये प्रदर्शितः । कथम् ? “षष्ठी” इति
वर्तते, सप्तम्यर्थनिर्देशे पूर्वस्यानन्तरस्य षष्ठी ।
पञ्चम्यर्थनिर्देशे, उतरस्यानन्तरस्य षष्ठीति; तत्र “इको यणचि”
इत्यादौ यत्र पूर्वमेव षष्ठी विद्यते तत्र पूर्वस्यानन्तरस्य,
नोतरस्यानन्तरस्य सा षष्ठीत्युच्यते । “आने मुक्” “ईदासः”
इत्यादौ तु यत्र षष्ठी नास्ति, तत्र षठ।ल्पि प्रकल्प्यते सा
चानियतयोगत्वात् स्थानषष्ठी भवति । यस्य च स्थानषष्ठी स्यैव
कार्यमिति सर्वत्र कार्यनियमोऽपि सिध्यति । यत्र तूभयनिर्देश स्तत्र
याऽनवकाशा सा इतरस्याः षष्ठआआ प्रकल्पयति, यथा-“आने मुक्” इति
सप्तमी ङिरवकाशा “अतो येयः” इति पञ्चम्याः पूर्वसूत्रे
सावकाशायाः । एवम् ” ई दासः” इति पञ्चमी “आने मुक्” थैति
सप्तम्याः,उभयोस्त्वनवकाशयोः परत्वात्पञ्चमी सप्तम्याः षष्ठी
प्रकल्पयति, यथा-“आमि सर्वनाम्नः सुट्” इति सर्वनाम्न इति
पञ्चम्यनवकाशामीति सप्तम्या अनवकाशायाः । अथ सप्तम्युतरार्था
तथाप्यादित्यनुवृतया पञ्चम्या समानाधिकरणा शर्वानाम्नः” इति
पञ्चम्यपि सावकाशा षष्ठआआ प्रकल्पयति । एवं नियमपक्षेऽपि
परत्वानवकाशत्वाभ्यां व्यवस्थां द्रष्टव्य । “दीर्घाच्छे तुग्भवति”
इत्यत्र षष्ठयाः स्थाने पञ्चमीव्याख्यानाद् दीर्घस्यैव तुक् भवति,
न तु च्छस्य; तथा च शुराच्छाया” इति निर्देश उपपद्यते ॥
स्वं रूपं शब्दस्याश्बदसंज्ञा ॥ १।१।६८ ॥
स्वरूपस्य पर्यायाणां च ग्रहणे प्राप्ते नियमार्था परिभाषेयम् ।
शास्त्राङ्गत्वाच्च परिभाषाणां शास्त्र एव नियमः, न लोक
इत्याह–शास्त्रे स्वमेवेत्यादि, ग्राह्यमिति । “ग्राह्मम्” इति णिजन्ताद्
यत्, एतच्चाध्याहारेण लब्धम् । शब्दस्येति “कृत्यानां कर्तरि वा”
इति षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयतीत्यर्थः । संज्ञापक्षे
तु वृतावेव शब्दः संज्ञानुच्चारणं च नोपपद्येत । सूत्रे
षष्ठीनिर्देशोऽपि नातीव युक्तः स्यात्; संज्ञासंज्ञिसम्बन्धे प्रायेण
सामानाधिकरण्यदर्शनात् । रूपशब्देन चेहाग्निशब्दत्वादिकं
शुकसारिकापुरुषादिभिरुदीरिता सुभिन्नासु शब्दव्यक्तिषु समवेतं
सामान्यमिभिधीयते । “अग्नेर्ढक्” इति सूत्रकारेण या
व्यक्तिरुच्चारिता, तस्याः सर्वोच्चारणेष्वनुगतं सामान्यं
वाच्यमित्यर्थः । सामान्यस्य कार्ययोगो व्यक्तिद्वारक इति तेन
तेनोच्चारिताया स्तस्यास्तस्या व्यक्तेर्ढग् भवतीत्यर्थः सम्पद्यते ।
एवकारस्य व्यच्छेद्यं दर्शयति–न बाह्यएऽर्थ इति । शब्दसंज्ञां
वर्जयित्वेति । शब्दसंज्ञासु स्वरूपं ग्राह्यं नभवतीत्यर्थः ।
अनियमप्रसङ्गे नियमः कर्तव्यस्तं दर्शयति-शब्देनेत्यादि । लोके
गौरुपलभ्यतामित्युक्तेऽर्थ एव कार्ययोगो गम्यते, न हि
शब्दरूमुपलभ्य कृती भवति; व्याकरणे तु
प्रत्ययविधानादिकार्यमर्थे न सम्भवति, तेन सह
पौर्वापर्यायोगात् । तेन “अग्नेर्ढक्” इत्युक्ते लोकवदर्थ एव
तावत्प्रतीयते, तत्र सम्भवो नास्ति; अतस्तद्वाचिनां सर्वेषां
सम्प्रत्ययः स्याद्, यथा-आकृतियोदनायां व्यक्तीनाम्, मा भूदेष
दोषः; उपातादेव यथा स्यादिति नियमार्थमिदमारभ्यत इत्यर्थः ।
औदश्वित्कमिति । उदश्विति संस्कृतमिति सप्तमीसमर्थाट्टक्,
“इसुसुक्तान्तात्कः” ।
घुग्रहणेष्वित्यादि । अन्यथा “उपसर्गे घोः किः” इति किप्रत्ययो
धातोरेव घोः शब्दार्थत्स्यात्, न तु दाधाभ्यः । “ई हल्यघोः”
इत्यत्र तु घुशब्दस्यानाकारान्तत्वाद्दाधानामेव ग्रहणं सिध्यति ।
कुमारीघ इत्यत्र “घरूप” इति ह्रस्वप्रसङ्गः ।
ननु च प्रदेशेषु संज्ञिसम्प्रत्यायनार्थं संज्ञाकरणमिति सामर्थ्यात्
स्वरूपग्रहणं न भविष्यति, नैतदस्ति; उभयगतिरिह शास्त्रे
सम्भवतीति सङ्ख्याकर्मकरणादिष्विव स्वरूपस्य संज्ञिनश्च प्रदेशेषु
ग्रहणं स्यात् । ज्ञापकात्सिद्धम्; यदयं “ष्णान्ता षट्” इति
षकारान्तायाः सङ्ख्यायाः षट्संज्ञां विदधाति,
तज्ज्ञापयति-संज्ञाशब्दो न स्वरूपग्राहक इति । अन्यथा “षड्भ्यो
लुक्””षट्चतुर्भ्यश्च” इत्यादौ स्वरूपस्यापि षडित्यस्य ग्रहणात्
षकारान्तायाः सङ्ख्यायाः षट्संज्ञां न विदध्यात् ।
ननु च षकारान्ता संज्ञा षकारान्तस्य कार्यमिष्यते, संज्ञापि
षकारान्तैव; अतो नार्थोऽशब्दसंज्ञेत्यनेन ? सत्यम्;
प्रतिपतिगौरवपरिहारार्थः प्रतिषेधः । शब्दशब्देन
चाभेदीपचारात् व्याकरणमुच्यते, शब्दे संज्ञा शब्दसंज्ञा; एवं च
कर्मकरणमित्यादिष्वर्थसंज्ञास्वपि शास्त्रीयासु स्वरूपग्रहणं न भवति
।
अथ रूपग्रहणं किमर्थम्, इह यावता
प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वान्नित्यसम्बन्धित्वाच्च तदेव
शब्दस्य स्वार्थो हि स्वप्रतीतौ सम्बन्धग्रहणमपेक्षते, पर्यायैरपि
प्रत्यायनात्साधारणश्चानित्यसंबन्धश्चानुकरणदशायामभावात्, न
चार्थो ग्राहकः शक्यते कर्तुम्, ग्राह्यत्वे च सूत्रमनर्थकं स्यादिति
नार्थो रूपग्रहणेन ? एवं तर्ह्योतज् ज्ञापयति–शास्त्रे स्वरूपेण
समानकक्ष्योऽर्थः” इति । तेनार्थवद्ग्रहणेनानर्थकस्येत्युपपन्नं
भवति । तत्र ज्ञापकादर्थोऽपि ग्राह्यः; स्वं रूपमिति वचनाद् । रूपं
चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र
“शे” प्रगृह्यसंज्ञाभावः सिद्धः ।
सितद्विशेषाणामिति वार्तिकं व्याचष्टे-सिन्निर्देशः कर्तव्य इति ।
वृक्षस् इत्येवम् । ततो वक्तव्यमिति । स्वं रूपमित्यस्यानन्तरम् ।
ननु किं प्रयोजनमित्युक्ते वृक्षादीतिवक्तव्यम्,
किमुच्यते-वृक्षाद्यर्थमिति ? वृक्षादिषु प्रयोजनमस्येत्युक्ते वृक्षाद्यस्य
प्रयोजनमित्यर्थादुक्तं भवतीत्यदोषः । अस्यार्थस्य न्यायतः सिद्धिं
विभाषेत्यत्र वक्ष्यामः ।
पित्पर्यायवचनस्य चेति । चकारात्स्वस्वरूवस्य विशेषाणां च । इदं
वाचनिकमेव । जित्पर्यायस्येत्यास्यापि न्यायतः सिद्धिं वक्ष्यामः ।
झितस्य चेति । इदं वाचनिकमेव । मृगपक्षिणस्तु पिन्निर्देशः कर्तव्य
इत्याहुः । अथैकस्येति । इयमिष्टिरेव ॥
अणुदित्सवर्णस्य चाप्रत्ययः ॥ १।१।६९ ॥
संज्ञासूत्रमेतत् न परिभाषा; प्रसिद्धार्थविनियोगात् । परेण
णकारेणेति । एतच्च “लण्” इत्यत्र प्रतिपादितम् । स्वस्य च रूपस्येति
यद्यपि प्रथमान्तं प्रकृतम्, तथापि सवर्णस्य चेति षष्ठ।ल्न्तस्यानन्तरं
श्रूयमाणश्चशब्दोऽन्यस्य षष्ठन्तस्याभावात् तस्यैव षष्ठ।ल्न्ततां
प्रकल्पयतीति भावः । प्रत्ययं वर्जयित्वेति । तेन तत्रोच्चारितमेव
रूपं गृह्यते । “आद् गुणः” इत्यादि । यथेह भवति देवेन्द्र इति, एवं
खट्वेन्द्र इत्यादावपि भवति । अस्य च्वो । यथेह भवति
शुक्लीभवतीति, एवं मालीभवतीत्यादावपि भवति । यस्येति च ।
यथेह भवति दाक्षिः प्लाक्षिरिति, एवं चौडिर्बालाकिरित्यादावपि
भवति । जूडाबलाकाशब्दौ बाह्वादी ।
ननु च “अकः” “अचि” इत्यादौ प्रत्याहारग्रहणे कथं
मध्यवर्तिरिकारादिभिस्सवर्णग्रहणम्, उच्चारितो हि संज्ञाशब्दः
संज्ञिनं प्रत्याययति, न च मध्यवर्तिनामुच्चारणमस्ति । ते
ह्यगादिसंज्ञाभिः संज्ञित्वेन प्रत्याय्यन्ते, क्व तर्हि स्यात् ? “अस्य
च्वौ” “यस्येति” यत्र संज्ञाया उच्चारणमस्ति । प्रत्याहारे चाद्यो वर्ण
उच्चारितत्वात्सवर्णग्रहाहकः । स्यादेतत्-अक्षरसमाम्नाय उच्चारिता
इकारादयः सवर्णानां ग्राहका इति । अगादिचोदनासु
ईकारादयोऽपि ह्रस्ववत्संज्ञित्वेनैव प्रतीयन्ते त्विकारादिभिः
प्रतीतैः प्रत्याय्यन्त इति, न; अपरकालत्वात् । इह
वर्णानामुपदेशस्तावद्, उपदेशोतरकाला इत्संज्ञा,
इत्संज्ञोतरकालमादिरन्त्येनैतत्प्रवर्तते, ततोऽण् सवर्णस्येति ।
तदनेनोपदेशादिष्वङ्गेषु निष्पन्नेषु अन्यत्र “अस्य च्वौ” इत्यादौ
सवर्णानां ग्रहणं भवति, नाङ्गेषु, नापि स्वात्मनि; अनिष्पन्नत्वात्
। यदि त्वस्मिन्नपि सूत्रे सवर्णग्रहणं
स्यात्,”आदृगमहनः”,”आञ्दोरप्” इत्यादौ अकारादयोऽपि सवर्णान्
गृह्णीयुः । अतोऽस्मिन् सूत्रेऽक्षरसमाम्नोये चागृहीतसवर्णानां
ग्रहणम् । ततश्च तदेव स्थितम् प्रत्याहारेषु मध्यवर्तिभिः
सवर्णग्रहणं न स्यादिति, नैष दोषः; उच्चार्यमाणैरेव
प्रत्यायकैर्भवितव्यमिति नास्ति नियमः, बुद्ध्युपारूढास्तु
प्रत्यायकाः । अस्ति च मध्यवर्तिनां बुद्ध्युपारोहः, ततश्च
संज्ञित्वेन प्रत्याय्यमानस्यापि प्रत्यायकत्वं भविष्यति । अत्र
ज्ञापकम्–“दीर्घाज्जासि च” इति प्रतिषेधः । स हि कुमार्यावित्यादौ
“प्रथमयोः पूर्वसवर्णः” इति दीर्घो मा भूदिति । तत्र चाक इति
वर्तते । खट्वे इत्यादौ तु ङादिचि” इत्येव सिद्धः प्रतिषेधः ।
“दीधीवेवीटाम्””ल्वादिभ्यः” इत्यादयश्च निर्द्देशा
एवमेवोपपद्यन्ते,यदि मध्यवर्तिभिरपि सवर्णग्रहणं भवति ।
स्वरानुनासिकेत्यादिरुदातः सूत्रे गृहीतः स्वरान्तरभिन्नमपि
गृह्णाति, एवमनुदातस्वरितौ च । तथा सानुनासिको
निरनुनासिकम्, सोऽपि तम् ।
दीर्घो न भवतीति । असति त्वप्रत्यय इत्यस्मिन् प्रत्ययेनापि
सवर्णग्रहणात् दीर्घोऽपि स्यात् । अत्यल्पमिदमुच्यते-“अप्रत्ययः” इति,
“अप्रत्ययादेशटित्किंन्मित इति वक्तव्यम्” । प्रत्यये प्रत्युदाहृतं तत्र ।
आदेशे-“इदम् इश्”,इतः; इह विशेष विहितत्वात्त्यदाद्यत्वं
बाधित्वा त्रिमात्रिक आदेशः प्राप्नोति । टिति–“आर्द्धधातु कस्येड्
वलादेः”, पठितेति दीर्घोऽपि स्यात् । “ग्रहोऽलिटि दीर्घः”
इत्येततु ग्रहेर्दीर्घ एव, न ह्रस्व इति नियमार्थं स्यात् । “वृतो वा”
इत्येतदपि ववरिथेति लिटि दीर्घो मा भूदित्येवमर्थं स्यात् ।
किति-“भुवो वुग्लुङ्लिटोः” बभूव, अनुनासिकोऽपि स्यात् ।
मिति-“अम् सम्बुद्धो” हे अनड्वन्, आमपि स्यात्, एवं तर्ह्यप्रत्यय
इति नेह संज्ञाग्रहणम्, किं तर्हि ? अन्वर्थग्रहणम्-प्रतीयते विधीयत
इति प्रत्ययः, भाव्यमानः सवर्णान्न गृह्णातीत्यर्थः । इशादयोपि
भाव्यन्ते । संज्ञाप्रत्ययस्य तु नावश्यकः प्रतिषेधः ।
येनार्थम्प्रतियन्ति स प्रत्ययः, न हि
दीर्घप्लुतयोरर्थस्याभिधानमस्ति । “कुहोः श्चुः” इत्यादौ
भाव्यमानस्याप्युदित्वासामर्थ्यादप्रत्यय इति निषेधाभावः । तथा च
पठ।ल्ते-“भाव्यमानोऽण् सवर्णान्न गृह्णाति” इति ॥
तपरस्तत्कालस्य ॥ १।१।७० ॥
तः परो यस्मादिति बहुव्रीहिं दर्शयति । तादपि परस्तपर इति
पञ्चमीतत्पुरुषम् ॥ स पुनरस्मादेव निपातनाद्वेदितव्यः ।
एकस्यापि तपरशब्दस्य तन्त्रावृत्योरन्यतराश्रयणादर्थभेदो न
विरुद्धः । तत्र बहुव्रीहेर्लिङ्गम्–“अतो भिस ऐस्” इति
तपरकरणम् । तत्पुरुषस्य लिङ्गम्-वृद्धिरादैच्” इत्यैजर्थं हि
तदित्युक्तम् ।
तपरो वर्ण इति । वर्णस्यैव सवर्णंसम्भवाद्वर्ण इत्युक्तम् ।
तत्कालस्येति बहुव्रीहिः-स कालोऽस्येति । अयुक्तोऽयं निर्देशः ।
तदित्यनेन तपरो वर्णः परामृश्यते, प्रसिद्धपरिमाणा च क्रिया
प्रसिद्धपरिमाणस्य क्रियान्तरस्य परिच्छेदिका । कालो
यथा–दिवसमधीत इति, दिवसशब्देनोदयादिरस्तमयान्त
आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात् कालः;
वर्णस्तु क्रियात्मको न भवतीत्ययुक्तं वर्णवाचिनस्तच्छब्दस्य
कालशब्देन सामानाधिकरण्यम् ? एवं तर्ह्युतरपदलोपी समासो
द्रष्टव्यः, उष्ट्रमुखवत् । गम्यमानार्थत्वाच्च प्रयोग एव लोपः,
यथा-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्रणी प्रण्यन्तरस्य
मुखमिति सामर्थ्यात् सादृश्यप्रतीतिः । उष्ट्र इव मुखमस्येति
मुखेनैव मुखस्य सादडश्यं प्रसिद्धम्, न कृत्स्नेनोष्ट्रेणेति
सामर्थ्यादयमर्थो भवति-उष्ट्रमुखमिव मुखमस्येति । एवमिहापि
वर्णः कालो न भवतीति सामर्थ्यातदीया क्रियान्तरेण निमेषादिना
परिच्छिन्ना सती वर्णान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक
इत्युच्यते । स कालोऽस्येत्यस्य कोऽर्थः ? तत्कालसंबन्धिनी क्रिया
परिच्छेदिका अस्येत्यर्थः । एतदेव दर्शयति–आत्मनेत्यादिना ॥
तपरवर्णसन्नधावुच्चारितोऽप्ययमात्मशब्दस्तत्सहचरितायामुच्चारणक्रियायां वर्तते, वर्णेन क्रियायास्तुल्यत्वानुपपतेः । यादृशी तपरस्य वर्णस्योच्चारणक्रिया निमेषादिपरिच्छिन्ना, तादृश्युच्चारणक्रियाऽस्येत्यर्थः ।
गुणान्तरयुक्तस्येति । यद्ग्रणक उपातस्ततो
गुणान्तरयुक्तस्येत्यर्थः । किं पुनरिदं नियमार्थम् ?
अहोस्विद्विध्यर्थम् ? तत्राणित्यनुवृतौ नियमार्थम्-तपरो
वर्णस्तत्कालस्यैवेति । निवृतौ विध्यर्थम् । तत्राद्ये पक्षे “आतो
धातोः”, “आतां पुङ्णौ” “यस्येति च”
“विड्वनोरनुवासिकस्यात्” इत्यादौ “भेदका गुणाः” “इत्यस्मिन्
दर्शने यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्य ग्रहणं न स्यादिति
द्वितीयं पक्षमाश्रित्याह-विध्यर्थमिति । अत्र हेतुमाह-अणिति
नानुवर्तत इति । यदि विध्यर्थमिदम्, ततोऽस्यानण्सु
चरितार्थत्वादण्सु पूर्वमेव प्रवर्तेत, तत्राह-अणामन्येषांचेति ।
एतदेव विशदयति-अतो भिस ऐसित्येवमादिष्विति । न प्रवर्तत
एवेति । परेणानेन बाधितत्वादिति भावः । विरोधो ह्यत्र
वर्तते-पूर्वसूत्रेण ह्यष्टादशानां ग्रहणम्, अनेन तु षण्णामिति ।
किमुदाहरणमिति । अभेदकत्वात् गुणानामनण्सु सिद्धमिति प्रश्नः,
अण्सु भिन्नकालनिवृत्यर्थं तावदारब्धव्यं सूत्रम् । तदेवानण्स्वपि
विधिमुखेन प्रवर्तमानमिष्ट्ंअ साधयतीत्युतरम् ।
विड्वनोरनुनासिकस्यादिति । कस्य पुनरत्र सवर्णस्य
ग्रहणमिष्यत इति चिन्त्यम् । तस्मादुपलक्षणमेतत् । “आतो धातोः”
“यस्येति च” इत्यादावेव प्रयोजनम् ।
तत्कालस्येति किमिति । प्रधानावयवद्वारेण सूत्रमेवाक्षिप्यते ।
खट्वामिरिति । वर्णाश्रयविधावन्तादिवद्भावो न भवति ॥
आदिरन्त्येन सहेता ॥ १।१।७१ ॥
इदमपि संज्ञासूत्रम्, आद्यन्तयोर्मध्यापेक्षत्वान्मध्यवर्तिनां संज्ञित्वं
विज्ञायते, श्वं रूपम्” इत्यनुवृतेः स्वरूपस्य
चेत्याह-मध्यवर्तिनामिति । यद्यप्याद्यन्ताववयवा अवयविनः
समुदायरूपस्य सम्बन्धिनौ तथापि तस्य युगपल्लक्ष्ये
प्रयोगाभावात्समुदायिनां संज्ञेति दर्शयति-वर्णानामिति । स्वस्य
च रूपस्येति । स्वरूपमादेरेव गृह्यन्ते, नान्त्यस्य; अप्राधान्यादिति
दध्यत्रेति केवल एव यकारः प्रवर्तते, न णकारेण सहितः ।
सहग्रहणादाद्यन्तौ समुदितौ संज्ञेति समुदायादेव विभक्तिर्भवति
“इको यण्” इति, नादिमात्रात् । टा इत्यनेन ग्रहणं मा भूदिति ।
तावतोऽवधेरविवक्षितत्वान्नायमन्त्यः “टाङसिङसामिनात्स्यः”
“द्वितीयाटौस्वेनः” इति तृतीयैकवचनस्यासौ विशेषणार्थः ॥
येन विधिस्तदन्तस्य ॥ १।१।७२ ॥
स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति
करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः ।
विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य
सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन
करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति
निर्दिष्टः शब्दो निर्दिश्यते, तदाह–आत्मान्तस्येति ।
अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह
–समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति ।
मयूरव्यंसकादित्वात्समासः, “लुम्पेदवश्यमः कृत्ये” इति मलोपः ।
अथेह कस्मादेजन्तस्य संज्ञा न भवति “एचोऽयवायावः” इति, किं
स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च
चयनलवनादिष्वयनमिति प्राप्नोति,
प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः;
“निर्दिश्यमानस्यादेशा भवन्ति” इत्येवं भविष्यन्ति । अथ वा-यथा एचा
तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि”आद् गुणः” इत्यत्र
आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र
इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः ।
षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य
विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्;
कर्त्रधिष्ठितस्यैव करणत्वात् । न च “एरच्” इत्यादाविकारादीनां
पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते ।
वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति ।
विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं
स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं
सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च
कुत्रचित्साक्षान्निर्देशेन, यथा-“ईदूदेद्द्विवचनम्” इति द्विवचनस्य ।
क्वचिदधिकारद्यथा-“एरच्” इति धातोः । क्वचिदाक्षेपाद्, यथा-“इको
झल्” इति सना धातोः । “एचोऽयवायावः” इत्यादौ न
कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं
तदन्तस्य संज्ञा, ततः “उदोष्ठ।ल्पूर्वस्य” इत्यत्र ऋकारस्तदन्तस्य
धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न
ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह
स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् “उतश्च
प्रत्ययादसंयोगपूर्वाद् ” इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य
विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा
गुणप्रधानभावापेक्षा ततश्च “उतश्च प्रत्ययाद्” इत्यादौ
विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात्
विशेष्येण सम्बन्धे संज्ञा भवति ।
समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च
सुप् । एवं ङडादिभ्यः फक्” इत्यादौ नडादिविशेष्यं प्रातिपदिकं
विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न
भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं
भवति श्रितान्तं च श्रूयते ।
नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा ।
उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः ।
यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो
विशेषणेनैव भवति ॥
वृद्धिर्यस्याचामादिस्तद् वृद्धम् ॥ १।१।७३ ॥
समुदायस्यैवाचामादिः सम्भवतीति स एव यस्येत्यनेनोच्यत
इत्याह–यस्येति समुदाय उच्यत इति । संज्ञिनिर्देशार्थं चेदम्;
अन्यथा तच्छब्देन किं परामृश्यते, तदित्यस्यानुपादाने वृद्धेरेव
सा वृद्धसंज्ञा स्यात् । अचां मध्य इत्यादि । अत्र
यस्येत्यस्याचामित्यनेन सम्बन्धः, आदिश्च निर्धार्यते, वृद्धिर्विधेयो
धर्मः । आदिशब्दश्चोपक्रमवचनः-उपक्रम्यत इत्युपक्रमः, प्रथम
उच्चार्यत इत्यर्थः । यस्य समुदायस्य सम्बन्धिनामचां मध्ये प्रथमत
उच्चार्यमाणो वृद्धिसंज्ञक इत्यर्थः । अचामिति जातौ बहुवचनमिति ।
तेन द्वयोरपि भवतीति भावः । एकस्यापि व्यपदेशिवद्भावाद्
भवति । शालीय इति । अत्र समुदायस्य हलादित्वेऽप्यजपेक्षया
प्रथमोऽच् वृद्धिरिति संज्
ञा भवति । ननु च निर्द्धारणस्य
तुल्यजातीयविषयत्वान्निर्द्धार्यमाण आदिरप्यजेव प्रतीयते, न वा
आकारोऽच्; अक्षरसमाम्नायेऽनुपदेशात् । कथं तर्हि सोमपं
ब्राह्मणकुलमिति अच्कार्यं ह्रस्वत्वं भवति; सवर्कणग्रहणात्, न
त्वच्त्वात् । इहापि तर्हि सवर्णग्रहणाभावात्प्रतीयते । अस्तु,
तथाप्रतीयमान एव सवर्णं ग्रहीष्यति यथाज्ग्रहणे मघ्यवर्तीकारादिः
। किञ्च-अचामिति निर्द्धारणाअश्रये तावदकारस्योच्चारितत्वाद्
आकारोऽपि प्रतीयते । तेन
निर्द्धार्यमाणस्याप्याकारादेस्तथाभूतमेवाच्त्वं प्रतीयत इति
यत्किञ्चिदेतच्चोद्यम् ।
वा नामधेयस्येति । नामधेयशब्दः साङ्केतिकेषु रुढः ।
देवदतीया इति । काश्यादिषु देशवाची देवदतशब्दः पठ।ल्ते ।
“एङ् प्राचां देशे” इति वृद्धसंज्ञकः काश्यादिभिः
साहचर्यादित्यदेशवाचिनश्च्छ एव भवति । वाहीकग्रामवाचिनो।षपि
देवदकतशब्दसर्यानादित्वेनासाङ्केतिकत्वाद् अप्राचां
देशवाचित्वाच्च वृद्धसंथज्ञाया अभावात् काश्यादिलक्षणौ ठञ्ञिठौ
न भवतः ।
गोत्रान्तादित्यादि । गोत्रशब्देन गोत्रप्रत्ययान्तं गृह्यते,
तदन्तादसमस्तवत् केवलात् गोत्रान्ताद्यः प्रत्ययो भवति स एव
तदन्तादपि भवतीत्यर्थः ।
घृतरौढैइया इति । रूढऋस्यापत्यम् “अत इञ्”
शौषिकेष्वर्थेष्विञश्चेत्यणः ङ द्व्यचः प्राच्यभरतेषु” इति
निषेधाद् “वृद्धाच्छः” । एवं वृद्धाम्भीयाः-अम्भसोऽपत्यम्
शम्भूयोऽम्भसोः सलोपश्च” इति बाह्वादिषु पाठादिञ्, सलोपश्च
। ओदनपाणिनीया इति । पणिनोऽपत्यमित्यण् “गाथिविदथि” इति
प्रकृतिभावात् “टेः”च इति टिलोपाभावः, पाणिनस्यापत्यं पणिनो
युवेति इञ्, तस्य छात्रा इति विवक्षिते “यूनि लुग्” इति इञो लुकि
कृतेऽपि प्रत्ययलक्षणेन “इञश्च” इत्यण् प्राप्तो गोत्राधिकारान्न
भवति । “कण्वादिभ्यो गोत्रे ” इत्यत्र तावत् पारिभाषिकं गोत्रं
गृह्यते तदेव “इतश्च” इत्यत्राप्यनुवर्तते, तेन यूनीञ् न भवति ।
कश्यपशब्दो बिदादिः, कतशब्दो गर्गादिः, जिह्वाचपलो
हरितभक्षश्च कात्यस्ततोऽणेन भवति । कः पुनरत्र
प्रत्ययातिदेशप्रस्तावः, यावता शेषाधिकारे प्राग्दीव्यतोऽणेत्र
चैतद्वक्तव्यम् ? सत्यम्; कैश्चितु गौत्रान्तस्य वृद्धसंज्ञा विहिता,
एवमपि वृद्धाम्भीया इति सिद्धेः । वार्तिककारस्तु–“वृद्धसंज्ञायां
सत्यां पिङ्गलकाणवस्य छात्राः पैङ्गलकाण्वा इति “वृद्धाच्छः”
स्यात् । प्रत्ययातिदेशे तु “कण्वादिभ्यो गोत्रे” इत्यण् लभ्यते” इति
मन्यमानः पूर्ववाक्येन परमतमुपन्यस्यानेन वाक्येन निरस्यति
स्म; तदेव पठितं वृत्तिकारेण ॥
त्यदादीनि च ॥ १।१।७४ ॥
उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता;
उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् – उतरार्थमनुवर्तत इति ।
त्यादायनिरति । “उदीचां वृद्धादगोत्राद्” इति फञ्, “प्रत्ययोतरपदयोश्च” ॥
एङ्प्राचां देशे ॥ १।१।७५ ॥
प्राचां देशाभिधान इति । प्राचि देशे ये वसन्ति ते प्राचः
पुरुषास्तेषां सम्बन्धी यो देशस्तदबिधान इत्यर्थः । एतेन श्रुतस्य
विशेषणं प्राचां ग्रहणं नाचार्याणामिति दर्शयति । तथा हि सति
मतेनेत्यध्याहार्यं स्यादिति भावः । एणीपचनीय इत्यादि ।
एणीपचनादिभ्यश्च्छः । दैवदता इति । “वाहीकग्रामेभ्यश्च” इति
वृद्धादिति विहितौ ठञ्ञिठौ न भवतः । काश्यादिपाठादपि न
भवतः; तत्रापि वृद्धाधिकारात् । एवं क्रोडो नाम ग्रामस्तत्र भवः
क्रौड इत्यणेव भवति । कुणिना तु प्राचांग्रहणमाचार्यनिर्देशार्थं
व्याख्यातम्, बाष्यकारोऽपि तथैवाशिश्रियत् । तेन सेपुरं
स्कोनगरं च वाहीकग्रामौ, तत्र “वाहीकग्रामेभ्यश्च” इति ठञ्ञिठौ
भवतः–सैपुरिकी, सौपुरिका; स्कौनागरिकी, स्कौनगरिका । अस्य
व्यवस्थितविभाषाविज्ञानाच्च क्रोडदेवदतशब्दयोरप्राग्देशवाचिनोष्ठञ्ञिठौ न भवतः ।
शैषिकेष्वेवार्थेष्वियं वृद्धिसंज्ञेष्यते । तेनापत्यविकारयोः
“उदीचां वयवस्थितविभाषयैव सिद्धम् । वृत्तिकारपक्षे त्वेत्सर्वं
वचनात्साध्यम् । गौमता इति ।
गोमती प्रग्देशे नदी देशग्रहणेन न गृह्यते, ङदीदेशोऽग्रामाः”
इति नद्याः पृथग्ग्रहणात् “एड् प्राचां देशे” “उदीचां
वृद्धादगोत्राद्” इत्यादिषु प्रागुदञ्चौ श्रुतौ,
तयोर्विभागज्ञानार्थमाह-प्रागुदञ्चाविति । शरावती नाम नदी
उतरपूर्वाभिमुखी, तस्या दक्षिणपूर्वंस्यां दिशि व्यवस्थितो देशः
प्राग्देश; उतरपरस्यामुदग्देशः, तौ शरावती विभजते; तया
मर्यादया तयो र्विभागो ज्ञायते । क्षीरोदकमिति ।
“जातिरप्राणिनाम्” इत्येकवद्भावः । क्वचित् “क्षीरोदके” इति
पाठातत्र नियतव्यक्तिविवक्षया जातिपरत्वाभावाद् द्विवचनम् ।
किमर्थं विभजते ? विदुषां शब्दसिद्ध्यर्थम् । यद्यपि नद्या
एवमुद्देशो न भवति –विदुषां शब्दा व्यवस्थिताः सिद्ध्यन्ति;
तथापि तया हेतुभूतया व्यवस्थितं शब्दसाधुत्वमिति
उद्देशोऽध्यारोप्यते । सैवंभूता सा नोऽस्मान् पातु । क्वचित्
प्रागुदीचाविति पाठः, तत्र “अच्प्रत्यन्ववपूर्वात्”
इत्यत्राजितियोगविभागादच्प्रत्ययः । “उद ईत्” इतीत्वम् ।
प्रगुदीचमिति पाठे समाहारद्वन्द्वः ।
“द्वन्द्वाच्चुदषहान्तात्समाहारे” इति टच् । क्वचित् प्रागुदीच इति
पाठः, तत्रावयवबहुत्वस्य समुदाय आरोपः प्राग्देशान्नुदग्देशाश्चेत्यर्थः ॥
इति हरदतमिश्रविरचितायां पदमञ्जर्या प्रथमध्यायस्य
प्रथमः पादः समाप्तः