Chandralok: Jaydeva

चन्द्रालोकः

पीयुषवर्षश्रीजयदेवकविकृतः चन्द्रालोकः

श्रीः

उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरवध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे ।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ 1.1 ॥

हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् रे रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव ।
उल्लासाय विचारवीचिनिचयालङ्कारवारां निधेश्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ 1.2 ॥

युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वतक्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जगज्जाग्रद्भासुरपद्मकेशरयशःशीतांशुरस्माद्बुधाः ॥ 1.3 ॥

तं पूर्वाचार्यसूर्योक्तिज्योतिः स्तोमोद्गमं स्तुमः ।
यं प्रस्तूय प्रकाशन्ते मद्गुणास्त्रसरेणवः ॥ 1.4 ॥

नाशङ्कनीयमेतेषां मतमेतेन दूष्यते ।
किं तु चक्षुर्मृगाक्षीणां कज्जलेनेव भूष्यते ॥ 1.5 ॥

प्रतिभैव श्रुताभ्याससहिता कवितां प्रति ।
हेतुर्मृदम्बुसम्बद्धा बीजमाला लतामिव ॥ 1.6॥

निर्दोषा लक्षणवती सरीतिर्गुणभूषणा ।
सालंकाररसानेकवृत्तिर्वाक्काव्यनामभाक् ॥ 1.7 ॥

अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृती ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ 1.8 ॥

विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते ।
रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा ॥ 1.9 ॥

अव्यक्तयोगनिर्योगयोगाभासैस्त्रिधादिमः ।
ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ 1.10 ॥

शुद्धतन्मूलसंभिन्नप्रभेदैर्यौगिकस्त्रिधा ।
ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ 1.11 ॥

तन्मिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् ।
नीरधिः पङ्कजं सौधः सागरो भूरुहः शशी ॥ 1.12 ॥

क्षीरनीरधिराकाशपङ्कजं तेन सिद्धयति ।
विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः ॥ 1.13 ॥

युक्तार्थतां तां च विना खण्डवाक्यं स इष्यते ।
वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ 1.14 ॥

धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा ।
वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ 1.15 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ 1.16॥


स्याच्चेतो विशता येन सक्षता रमणीयता ।
शब्देऽर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥ 2.1 ॥

भवेच्छ्रुतिकटुर्वर्णः श्रवणोद्वेजने पटुः ।
संविद्रते व्याकरणविरुद्धं च्युतसंस्कृति ॥ 2.2 ॥

अप्रयुक्तं दैवतादिशब्दे पुंल्लिङ्गतादिकम् ।
असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु ॥ 2.3 ॥

स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः ।
निहतार्थं लोहितादौ शोणितादिप्रयोगतः ॥ 2.4 ॥

व्यनक्त्यनुचितार्थं यत्पदमाहुस्तदेव तत् ।
इयमद्भुतशाख्यग्रकेलिकौतुकवानरी ॥ 2.5 ॥

निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ।
अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ॥ 2.6॥

धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ।
एकाक्षरं विना भूभ्रूक्ष्मादिकं खतलादिवत् ॥ 2.7 ॥

अश्लीलं त्रिविधं व्रीडाजुगुप्सामङ्गलात्मना ।
आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ 2.8 ॥

स्याद्द्व्यर्थमिह सन्दिग्धं नद्यां यान्ति पतत्रिणः ।
स्यादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥ 2.9 ॥

शिथिलं शयने लिल्ये मच्चितं ते शशिश्रियि ।
मस्तपिष्टकटीलोष्टगल्लादि ग्राम्यमुच्यते ॥ 2.10 ॥

नेयार्थं लक्षणात्यन्तप्रसरादमनोहरम् ।
हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ॥ 2.11 ॥

क्लिष्टमर्थो यदीयोऽर्थश्रेणिनिःश्रेणिमृच्छति ।
हरिप्रियापितृवधूप्रवाहप्रतिमं वचः ॥ 2.12 ॥
अविमृष्टविधेयांशः समासपिहिते विधौ ।
विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥ 2.13 ॥

अपराधीन इत्यादि विरुद्धमतिकृन्मतम् ।
अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरौ ॥ 2.14 ॥

रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः ।
न मामङ्गद जानासि रावणं रणदारुणम् ॥ 2.15 ॥

यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा ।
कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ ॥ 2.16॥

हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् ।
विशाललोचने! पश्याम्बरं तारातरङ्गितम् ॥ 2.17 ॥

न्यूनं त्वत्खड्गसंभूतयशःपुष्पं नभस्तटम् ।
अधिकं भवतः शत्रून् दशत्यसिलताफणी ॥ 2.18 ॥

कथितं पुनरुक्ता वाक्श्यामाब्जश्यामलोचना ।
विकृतं दूरविवृतैरैयरुः कुञ्जराः पुरम् ॥ 2.19 ॥

पतत्प्रकर्षं हीनानुप्रासादित्वे यथोत्तरम् ।
गम्भीरारम्भदम्भोलिपाणिरेषः समागतः ॥ 2.20 ॥

समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् ।
नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ॥ 2.21 ॥

अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् ।
मोघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ 2.22 ॥

अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः ।
येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ 2.23 ॥

द्विषां सम्पदमाच्छिद्य यः शत्रून् समपूरयत् ।
अस्थानस्थसमासं न विद्वज्जनमनोरमम् ॥ 2.24 ॥

मिथः पृथग्वाक्यपदैः संकीर्णं यत्तदेव तत् ।
वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥ 2.25 ॥
ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूमिभूषण ।
आकर्णय पयःपूर्णसुवर्णकलशायते ॥ 2.26॥

भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ।
अक्रमः कृष्ण पूज्यन्ते त्वामनभ्यर्च्य देवताः ॥ 2.27 ॥

अमतार्थान्तरं मुख्येऽमुख्येनार्थे विरोधकृत् ।
त्यक्तहारमुरःकृत्वा शोकेनालिङ्गिताङ्गना ॥ 2.28 ॥

अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ।
विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः ॥ 2.29 ॥

कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः ।
व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः ॥ 2.30 ॥

सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते ।
कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ॥ 2.31 ॥

दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी ।
त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गमेव वा ॥ 2.32 ॥

एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् ।
ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः ॥ 2.33 ॥

अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ।
प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ॥ 2.34 ॥

न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः ।
केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ॥ 2.35 ॥

सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ।
विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ॥ 2.36॥

तथा सहचराचारुविरुद्धान्योन्यसंगती ।
ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं च न जानते ॥ 2.37 ॥

सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय ।
पालयिष्यति ते गोत्रमसौ नरपुरन्दरः ॥ 2.38 ॥
पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ।
यथानुसारमभ्यूहेद्दोषान् शब्दार्थसंभवान् ॥ 2.39 ॥

दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् ।
निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् ॥ 2.40 ॥

दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति ।
भवन्तमथवा दोषं नयत्यत्याज्यतामसौ ॥ 2.41 ॥

मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः ।
अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥ 2.42 ॥

तव दुग्धाब्धिसंभूतेः कथं जाता कलाङ्किता ।
कवीनां समयाद्विद्याविरुद्धोऽदोषतां गतः ॥ 2.43 ॥

दधार गौरी हृदये देवं हिमकराङ्कितम् ।
अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम् ॥ 2.44 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ 2.45 ॥


अल्पाक्षरा विचित्रार्थख्यातिरक्षरसंहतिः ।
उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥ 3.1 ॥

शोभा ख्यातापि यद्दोषो गुणकीर्त्या निषिध्यते ।
मुधा निन्दन्ति संसारं कंसारिर्यत्र पूज्यते ॥ 3.2 ॥

अभिमानो विचारश्चेदूहितार्थनिषेधकृत् ।
इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ 3.3 ॥

हेतुस्त्यक्त्वा बहून् पक्षान् युक्त्यैकस्यावधारणम् ।
नेन्दुर्नार्कोऽयमौर्वाग्निः सागरादुत्थितो दहन् ॥ 3.4 ॥

प्रतिषेधः प्रसिद्धानां कारणानामनादरः ।
न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः ॥ 3.5 ॥
निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् ।
ईदृशैश्चरितै राजन् सत्यं दोषाकरो भवान् ॥ 3.6॥

स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने ।
चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह ॥ 3.7 ॥

सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।
युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥ 3.8 ॥

युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।
नवस्त्वं नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः ॥ 3.9 ॥

कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा ।
असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ 3.10 ॥

इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः ।
स्वर्णभ्राजिष्णुभालत्वप्रभृतीव महीभुजः ॥ 3.11 ॥


महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
तृतीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ 3.12 ॥

श्लेषो विघटमानार्थघटमानत्ववर्णनम् ।
स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ 4.1 ॥

उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।
भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ॥ 4.2 ॥

यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते ।
सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ 4.3 ॥

समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा ।
श्यामला कोमला बाला रमणं शरणं गता ॥ 4.4 ॥

समाधिरर्थमहिमा लसद्घनरसात्मना ।
स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ 4.5 ॥

माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।
वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥ 4.6॥

ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः ।
रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥ 4.7 ॥

सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् ।
स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥ 4.8 ॥

उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङ्मता ।
मानं मुञ्च प्रिये किंचिल्लोचनान्तमुदञ्चय ॥ 4.9 ॥

शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः ।
अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ 4.10 ॥

तिलकाद्यमिव स्त्रीणां विदग्धहृदयङ्गमम् ।
व्यतिरिक्तमलङ्कारं प्रकृतेर्भूषणं गिराम् ॥ 4.11 ॥

विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती ।
शास्त्रान्तररहस्योक्तिः संग्रहो दिक्प्रदर्शिता ॥ 4.12 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ 4.13 ॥


शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।
हारादिवदलङ्कारः सन्निवेशो मनोहरः ॥ 5.1 ॥

स्वरव्यञ्जनसंदोहव्यूहामन्दोहदोहदा ।
गौर्जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा ॥ 5.2 ॥

आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद्वचः ।
अमन्दानन्दसन्दोहस्वच्छन्दास्पदमन्दिरम् ॥ 5.3 ॥

लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता ।
यत्र स्यान्न पुनः शत्रोर्गर्जितं तज्जितं जितम् ॥ 5.4 ॥

श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ 5.5 ॥

उपमेयोपमानादावर्थानुप्रास इष्यते ।
चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ 5.6॥

पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् ।
अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ 5.7 ॥

आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः ।
यमकं प्रथमा धुर्यमाधुर्यवचसो विदुः ॥ 5.8 ॥

काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते ।
तेष्वाद्यमुच्यते श्लोकद्वयीसज्जनरञ्जिका ॥ 5.9 ॥

कामिनीव भवेत्खड्गलेखा चारुकरालिका ।
काश्मीरसेका रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ॥ 5.10 ॥

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हृदये खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव ॥ 5.11 ॥

उपमानोपमेयत्वे यत्रैकस्यैव जागृतः ।
इन्दुरिन्दुरिवेत्यादौ भवेदेवमनन्वयः ॥ 5.12 ॥

पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता ।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ 5.13 ॥

विख्यातस्योपमानस्य यत्र स्यादुपमेयता ।
इन्दुर्मुखमिवेत्यादौ स्यात्प्रतीपोपमा तदा ॥ 5.14 ॥

उपमाने तु लीलादिपदाढ्ये ललितोपमा ।
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ 5.15 ॥

अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा ।
श्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसं यथा ॥ 5.16॥

स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता ।
पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥ 5.17 ॥
यत्रोपमानचित्रेण सर्वथाप्युपरज्यते ।
उपमेयमयी भित्तिस्तत्र रूपकमिष्यते ॥ 5.18 ॥

समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् ।
उत्सिक्तक्षितिभृल्लक्ष्यपक्षच्छेदपुरन्दरः ॥ 5.19 ॥

पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम् ।
उल्लसत्पञ्चशाखस्ते राजते भुजभूरुहः ॥ 5.20 ॥

स्यादङ्गयष्टिरित्येवंविधमाभासरूपकम् ।
अङ्गयष्टिधनुर्वल्लीत्यादि रूपितरूपकम् ॥ 5.21 ॥

परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति ।
कान्तेन पृष्टा रहसि मौनमेवोत्तरं ददौ ॥ 5.22 ॥

बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता मता ।
स्त्रीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ॥ 5.23 ॥

अतथ्यमारोपयितुं तथ्यापास्तिरपह्नुतिः ।
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ 5.24 ॥

पर्यस्तापह्नुतिर्यत्र धर्ममात्रं निषिध्यते ।
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ 5.25 ॥

भ्रान्तापह्नुतिरन्यस्य शङ्कया तथ्यनिर्णये ।
तापं तनोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥ 5.26॥

छेकापह्नुतिरन्यस्य शङ्कया तथ्यनिह्नवे ।
प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ 5.27 ॥

कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः ।
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ 5.28 ॥

उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना ।
त्वन्मुखश्रीकृते नूनं पद्मैर्वैरायते शशी ॥ 5.29 ॥

इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते ।
यत्कीर्तिर्विभ्रमश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ 5.30 ॥
स्यात्स्मृतिभ्रान्तिसंदेहैस्तदेवालंकृतित्रयम् ।
पङ्कजं पश्यतस्तस्या मुखं मे गाहते मनः ॥ 5.31 ॥

अयं प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् ।
पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥ 5.32 ॥

मीलितं बहुसादृश्याद्भेदवच्चेन्न लक्ष्यते ।
रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ 5.33 ॥

सामान्यं यदि सादृश्याद्भेद एव न लक्ष्यते ।
पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ 5.34 ॥

हेतोः कुतोऽपि वैशिष्ट्यात्स्फूर्तिरुन्मीलितं मतम् ।
लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ 5.35 ॥

अनुमानं च कार्यादेः कारणाद्यवधारणम् ।
अस्ति किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् ॥ 5.36॥

अर्थापत्तिः स्वयं सिध्येत्पदार्थान्तरवर्णनम् ।
स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥ 5.37 ॥

स्यात्काव्यलिङ्गं वागर्थो नूतनार्थसमर्थकः ।
जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥ 5.38 ॥

अलङ्कारः परिकरः साभिप्राये विशेषणे ।
सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ 5.39 ॥

साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ 5.40 ॥

अक्रमातिशयोक्तिश्चेद्युगपत्कार्यकारणे ।
आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥ 5.41 ॥

अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिक्रमे ।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ 5.42 ॥

चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यामीति प्रियपृष्टाया वलयोऽभवदूर्मिका ॥ 5.43 ॥
सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वचः ।
पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् ॥ 5.44 ॥

भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते ।
अहो अन्यैव लावण्यलीला बालाकुचस्थले ॥ 5.45 ॥

रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम् ।
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥ 5.46॥

प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वावकल्पनम् ।
कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः ॥ 5.47 ॥

सम्भावनं यदीत्थं स्यादित्यूहोन्यप्रसिद्धये ।
सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतैर्जलैः ।
मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥ 5.48 ॥

वाञ्छितादधिकप्राप्तिरयत्नेन प्रहर्षणम् ।
दीपमुद्द्योतयेद्यावत्तावदभ्युदितो रविः ॥ 5.49 ॥

इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् ।
दीपमुद्द्योतयेद्यावत्तावन्निर्वाण एव सः ॥ 5.50 ॥

क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता ।
सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च ।
प्राचीनाचलचूडाग्रचुम्बिबिम्बे सुधाकरे ॥ 5.51 ॥

प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम् ।
मेधां बुधः सुधामिन्दुर्बिभर्ति वसुधां भवान् ॥ 5.52 ॥

आवृत्ते दीपकपदे भवेदावृत्तिदीपकम् ।
दीप्त्याग्निर्भाति भातीन्दुः कान्त्या भाति रविस्त्विषा ॥ 5.53 ॥

वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मता ।
तापेन भ्राजते सूरः शूरश्चापेन राजते ॥ 5.54 ॥

चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः ।
स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्धामहुंकृतिः ॥ 5.55 ॥

दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा दैवदुर्लिपिः ।
जाता चेत्प्राक्प्रभा भानोस्तर्हि याता विभावरी ॥ 5.56॥

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
या दातुः सौम्यता सेयं सुधांशोरकलङ्कता ॥ 5.57 ॥

व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥ 5.58 ॥

सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।
दिगन्तमगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह ॥ 5.59 ॥

विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते ।
विद्या हृद्यापि सावद्या बिना विनयसम्पदम् ॥ 5.60 ॥

समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ 5.61 ॥

खण्डश्लेषः पदानां चेदेकैकं पृथगर्थता ।
उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ 5.62 ॥

भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता ।
अजरामरता कस्य नायोध्येव पुरी प्रिया ॥ 5.63 ॥

अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थसंश्रयः ।
कुटिलाः श्यामला दीर्घा कटाक्षाः कुन्तलाश्च ते ॥ 5.64 ॥

अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा ।
कार्यकारणसामान्यविशेषादेरसौ मता ॥ 5.65 ॥

कमलैः कमलावासैः किं किं नासादि सुन्दरम् ।
अप्यम्बुधेः परं पारं प्रयान्ति व्यवसायिनः ॥ 5.66॥

भवेदर्थान्तरन्यसोऽनुषक्तार्थान्तराभिधा ।
हनूमानब्धिमतरद्दुष्करं किं महात्मनाम् ॥ 5.67 ॥

यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः ।
स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव ॥ 5.68 ॥

कार्याद्यैः प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते ।
तृणान्यङ्कुरयामास विपक्षनृपसद्मसु ॥ 5.69 ॥

उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः ।
कस्ते विवेको नयसि स्वर्गं पातकिनोऽपि यत् ॥ 5.70 ॥

आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् ।
चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ 5.71 ॥

गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति ।
हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ॥ 5.72 ॥

विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु ।
अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥ 5.73 ॥

श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता ।
अप्यन्धकारिणानेन जगदेतत्प्रकाशते ॥ 5.74 ॥

असंभवोऽर्थनिष्पत्तावसंभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलमुत्पाटयिष्यति ॥ 5.75 ॥

विभावना विनापि स्यात्कारणं कार्यजन्म चेत् ।
पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥ 5.76॥

विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे ।
नमन्तमपि धीमन्तं न लङ्घयति कश्चन ॥ 5.77 ॥

आख्याते भिन्नदेशत्वे कार्यहेत्वोरसंगतिः ।
त्वद्भक्तानां नमत्यङ्गं भङ्गमेति भवक्लमः ॥ 5.78 ॥

विषमं यद्यनौचित्यादनेकान्वयकल्पनम् ।
क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः ॥ 5.79 ॥

सममौचित्यतोऽनेकवस्तुसम्बन्धवर्णनम् ।
अनुरूपं कृतं सद्म हारेण कुचमण्डलम् ॥ 5.80 ॥

विचित्रं चेत्प्रयत्नः स्याद्विपरीतफलप्रदः ।
नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ॥ 5.81 ॥
अधिकं बोध्यमाधारादाधेयाधिकवर्णनम् ।
यया व्याप्तं जगत्तस्यां वाचि मान्ति न ते गुणाः ॥ 5.82 ॥

अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् ।
त्रियामा शशिना भाति शशी भाति त्रियामया ॥ 5.83 ॥

विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ।
गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ 5.84 ॥

स्याद्व्याघातोऽन्यथाकारि वस्त्वन्यक्रियमुच्यते ।
यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ 5.85 ॥

गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः ।
नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥ 5.86॥

गृहीतमुक्तरीत्यर्थश्रेणिरेकावली मता ।
नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ॥ 5.87 ॥

दीपकैकावलीयोगान्मालादीपकमुच्यते ।
स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ 5.88 ॥

सारो नाम पदोत्कर्षः सारताया यथोत्तरम् ।
सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥ 5.89 ॥

उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः ।
मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ॥ 5.90 ॥

यथासंख्यं द्विधार्थाश्चेत्क्रमादेकैकमन्विताः ।
शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय ॥ 5.91 ॥

पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः ।
पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ 5.92 ॥

परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः ।
जग्राहैकं शरं मुक्त्वा कटाक्षान् शत्रुयोषिताम् ॥ 5.93 ॥

परिसंख्या निषिध्यैकमन्यस्मिन् वस्तुयन्त्रणम् ।
स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ॥ 5.94 ॥

विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः ।
कान्ताचित्तेऽधरे वापि कुरु त्वं वीतरागताम् ॥ 5.95 ॥

भूयसामेकसम्बन्धभाजां गुम्फः समुच्चयः ।
नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥ 5.96॥

समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः ।
उत्कण्ठितां च कलयन् जगामास्तं च भानुमान् ॥ 5.97 ॥

प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ।
जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ ॥ 5.98 ॥

प्रतीपमुपमानस्य हीनत्वमुपमेयतः ।
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ 5.99 ॥

उल्लासोऽन्यमहिम्ना चेद्दोषो ह्यन्यत्र वर्ण्यते ।
तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ॥ 5.100 ॥

तद्गुणः स्वगुणत्यागादन्यतः स्वगुणोदयः ।
पद्मरागारुणं नासामौक्तिकं तेऽधरश्रितम् ॥ 5.101 ॥

पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता ।
हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ 5.102 ॥

यद्वस्तुनोऽन्यथा रूपं तथा स्यात्पूर्वरूपता ।
दीपे निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः ॥ 5.103 ॥

सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम् ।
विशन्नपि रवेर्मध्यं शीत एव सदा शशी ॥ 5.104 ॥

प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः ।
कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥ 5.105 ॥

अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि ।
म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ 5.106॥

प्रश्नोत्तरं क्रमेणोक्तौ स्यूतमुत्तरमुत्तरम् ।
यत्रासौ वेतसी पान्थ तत्रासौ सुतरा सरित् ॥ 5.107 ॥
पिहितं परवृत्तान्तज्ञातुरन्यस्य चेष्टितम् ।
प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ 5.108 ॥

व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम् ।
सखि पश्य गृहारामपरागैरस्मि धूसरा ॥ 5.109 ॥

वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ॥ 5.110 ॥

स्वाभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् ।
कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते ॥ 5.111 ॥

भाविकं भूतभाव्यर्थसाक्षाद्दर्शनवर्णनम् ।
अलं विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः ॥ 5.112 ॥

देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः ।
त्वं वसन् हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे ॥ 5.113 ॥

उदात्तमृद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् ।
सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ॥ 5.114 ॥

अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् ।
त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥ 5.115 ॥

रसभावतदाभासभावशान्तिनिबन्धनाः ।
रसवत्प्रेयऊर्जस्विसमाहितमयाभिधाः ॥ 5.116॥

भावानामुदयः सन्धिः शबलत्वमिति त्रयः ।
अलङ्कारानिमान् सप्त केचिदाहुर्मनीषिणः ॥ 5.117 ॥

शुद्धिरेकप्रधानत्वं तथा संसृष्टिसंकरौ ।
एतेषामेव विन्यासान्नालङ्कारान्तराण्यमी ॥ 5.118 ॥

सर्वेषां च प्रतिद्वन्द्वप्रतिच्छन्दभिदाभृताम् ।
उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि संभवात् ॥ 5.119 ॥

माला परंपरा चैषां भूयसामनुकूलके ।
मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ॥ 5.120 ॥

शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा ।
एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः ॥ 5.121 ॥

कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात् ।
प्रायेणामी ह्यलंकारा भिन्ना नातिशयोक्तितः ॥ 5.122 ॥

अलंकारप्रधानेषु दधानेष्वपि साम्यताम् ।
वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव ॥ 5.123 ॥

अलंकारेषु तथ्येषु यद्यनास्था मनीषिणाम् ।
तदर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् ॥ 5.124 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थः सैकोयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ 5.125 ॥


आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा ।
कार्योऽनुभावो भावश्च सहायो व्यभिचार्यपि ॥ 6.1 ॥

गलद्वेद्यान्तरोद्भेदो हृदयेष्वजडात्मनाम् ।
मिलन्मलयजालेप इवाह्लादं विकासयन् ॥ 6.2 ॥

काव्ये नाट्ये च कार्ये च विभावाद्यैर्विभावितः ।
आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ॥ 6.3 ॥

रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः ।
आलस्येर्ष्याजुगुप्साभ्यो विना संचारिभिर्युतः ॥ 6.4 ॥

अनुभावैः कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् ।
सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ 6.5 ॥

हासस्थायी रसो हास्यो विभावद्यैर्यथाक्रमम् ।
वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः समन्वितः ॥ 6.6॥

अभीष्टविप्रयोगाश्रुपातग्लान्यादिभिः क्रमात् ।
विभावाद्यैर्युतः शोकस्थायी स्यात्करुणो रसः ॥ 6.7 ॥

क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः ।
मात्सर्यहस्तनिष्पेषसंमोहाद्यैर्यथाक्रमम् ॥ 6.8 ॥

उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः ।
वीरोऽनुभावैः स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः ॥ 6.9 ॥

व्याघ्रादिभिर्विभावैस्तु वेपिताद्यनुभावभृत् ।
भावैर्मोहादिभिर्युक्तो भयस्थायी भयानकः ॥ 6.10 ॥

स्थायी जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम् ।
अनिष्टेक्षणनिष्ठीवमोहाद्या यत्र संमताः ॥ 6.11 ॥

अद्भुतो विस्मयस्थायी मायादिकविभावभूः ।
रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ 6.12 ॥

निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः ।
क्षमादिकानुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ 6.13 ॥

रतिर्देवादिविषया सन्ति च व्यभिचारिणः ।
वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥ 6.14 ॥

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ 6.15 ॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ 6.16॥

सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ 6.17 ॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः ॥ 6.18 ॥

सर्वसाधारणप्रेमप्रश्रयादिस्वरूपया ।
अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ॥ 6.19 ॥

भावस्य शान्तिरुदयः सन्धिः शबलता तथा ।
काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसंपदे ॥ 6.20 ॥

आतुर्यमासप्तमं च यथेष्टैरष्टमादिभिः ।
समासः स्यात्पदैर्न स्यात्समासः सर्वथापि च ॥ 6.21 ॥

पाञ्चालिकी च लाटीया गौडीया च यथारसम् ।
वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः ॥ 6.22 ॥

मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः ।
लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ ॥ 6.23 ॥

रेफाक्रान्ता वर्ग्ययणाष्टवर्गात्पञ्चमादृते ।
कपाक्रान्तस्तवर्गः स्यात्प्रौढायां च कमूर्धता ॥ 6.24 ॥

सर्वैरूर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा ।
रहोर्द्वेधा तु संयोगः परुषायां शषौ स्वतः ॥ 6.25 ॥

लकारोऽन्यैरसंयुक्तो लघवो घभधा रसौ ।
ललितायां तथा शेषा भद्रायामिति वृत्तयः ॥ 6.26॥

अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम् ।
तर्ककर्कशपूर्णोक्तिप्राप्तोत्कटधियां वृथा ॥ 6.27 ॥

वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस्तृषम् ।
ललना रभसं धत्ते घनाटोपे महीयसि ॥ 6.28 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ॥ 6.29 ॥


वृत्तिभेदैस्त्रिभिर्युक्ता स्रोतोभिरिव जाह्नवी ।
भारती भाति गम्भीरा कुटिला सरला क्वचित् ॥ 7.1 ॥

सांमुख्यं विदधानायाः स्फुटमर्थान्तरे गिरः ।
कटाक्ष इव लोलाक्ष्या व्यापारो व्यञ्जनात्मकः ॥ 7.2 ॥

अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यमेव चेत् ।
अर्थान्तिरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥ 7.3 ॥

द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ ।
चत्वारिंशद्युतैकेन भेदाः षट्चानयोः क्रमात् ॥ 7.4 ॥

त्रिधा शब्दार्थतद्युग्मशक्तिजन्मा स्फुटक्रमात् ।
रसभावतदाभासप्रमुखस्त्वस्फुटक्रमात् ॥ 7.5 ॥

वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ द्वौ शब्दशक्तिजौ ।
अर्थशक्तिसमुत्थस्य भेदा द्वादश तद्यथा ॥ 7.6॥

चत्वारो वस्त्वलंकारमलंकारस्तु वस्तु यत् ।
अलंकारमलंकारो वस्तु वस्तु व्यनक्ति तत् ॥ 7.7 ॥

वक्तुः कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः ।
स्वसिद्धो वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ॥ 7.8 ॥

शब्दार्थोभयभूरेकः स च वाक्यैकसंश्रयः ।
पदैकदेशे रचनावर्णवाक्यपदेष्वपि ॥ 7.9 ॥

प्रबन्धे चेति षोढासौ रसाद्याख्योऽस्फुटक्रमः ।
एषु सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् ॥ 7.10 ॥

ये षोडशाद्या द्विगुणास्ते स्युर्वाक्यपदाश्रयात् ।
प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ॥ 7.11 ॥

द्वात्रिंशद्द्वादशैकः षट्सर्वसंकलितध्वनेः ।
भेदाः स्युरेकपञ्चाशत्संभिन्नास्तु सहस्रशः ॥ 7.12 ॥

वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् ।
स्वाङ्कुरितमतद्रूपं स्वयमुल्लसितं गिरः ॥ 7.13 ॥

कश्चित्साधारणः कश्चिदामन्त्र्य प्रतिबोधितः ।
कश्चित्तटस्थः कश्चिच्च बोधितप्रतिबोधितः ॥ 7.14 ॥

इत्येवं बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् ।
उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् ॥ 7.15 ॥

भूतादिकालभेदेन निह्नवः स्यादनेकधा ।
अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते ॥ 7.16॥

नानाप्रभेदा नियता क्वचित्प्रकरणादिना ।
अर्थेऽर्थमन्यं यं वक्ति तद्वाच्यव्यङ्ग्यमिष्यते ॥ 7.17 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ॥ 7.18 ॥


यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः ।
अन्यथा तु गुणीभूतव्यङ्ग्यमापतितं त्रिधा ॥ 8.1 ॥

व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः ।
क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥ 8.2 ॥

अगूढं कलयेदर्थान्तरसंक्रमितादिकम् ।
विस्मृतः किमपांनाथ स त्वया कुम्भसंभवः ॥ 8.3 ॥

अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् ।
हा हा! मत्कुचकाश्मीरलिप्तं भिन्नमुरः शरैः ॥ 8.4 ॥

तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा ।
संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ॥ 8.5 ॥

अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् ।
कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥ 8.6॥

संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव ।
संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥ 8.7 ॥

तुल्यप्राधान्यमिन्दुत्वमिव वाच्येन साम्यभृत् ।
कान्ते त्वदाननरुचा ग्लानिमेति सरोरुहम् ॥ 8.8 ॥

असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् ।
सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥ 8.9 ॥

काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।
इत्यष्टधा गुणीभूतव्यङ्ग्यमङ्गीकृतं बुधैः ॥ 8.10 ॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥ 8.11 ॥


मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः ।
प्रयोजनाच्च संबद्धं वदन्ती लक्षणा मता ॥ 9.1 ॥

लक्षणीयस्वशब्दस्य मीलनामीलनाद्द्विधा ।
लक्षणा सा त्रिधा सिद्धसाध्यसाध्याङ्गभेदतः ॥ 9.2 ॥

स्फुटास्फुटप्रभेदेन प्रयोजनमपि द्विधा ।
विदुः स्फुटं तटस्थत्वादर्थगत्वाद्द्विधा बुधाः ॥ 9.3 ॥

अस्फुटं चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा ।
लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थमपि द्विधा ॥ 9.4 ॥

लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा ।
अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वममुष्य च ॥ 9.5 ॥

अन्यास्तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा ।
इन्दुरेवैष तद्वक्त्रमुत्कर्षो लक्ष्यते मुखे ॥ 9.6॥

प्रदीपं वर्धयेत्यत्र तटस्थं मङ्गलोदयः ।
पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥ 9.7 ॥

अमृतं सूक्तमित्यादौ लक्ष्यस्थमतिहृद्यता ।
आभिमुख्यात्संनिधानात्तथाकारप्रतीतितः ॥ 9.8 ॥

कार्यकारणभावात्सा वाच्यवाचकभावतः ।
इत्येवमादेः संबन्धात्किंचान्यस्माच्चतुष्टयात् ॥ 9.9 ॥

सादृश्यात्समवायात्सा वैपरीत्यात्क्रियान्वयात् ।
सारोपाध्यवसानाख्ये गौणशुद्धे पृथक्पृथक् ॥ 9.10 ॥

गौणं सारोपमुद्दिष्टमिन्दुर्मुखमितीदृशम् ।
गौणं साध्यवसानं स्यादिन्दुरेवेदमीदृशम् ॥ 9.11 ॥

शुद्धं सारोपमुद्दिष्टमायुर्घृतमितीदृशम् ।
शुद्धं साध्यवसानं स्यादायुरेवेदमीदृशम् ॥ 9.12 ॥
उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा ।
कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च ॥ 9.13 ॥

लक्ष्यलक्षकवैशिष्ट्यवैशिष्ट्याद्द्विविधा पुनः ।
सरसं काव्यममृतं विद्या स्थिरतरं धनम् ॥ 9.14 ॥

तथा सहेतुरतथाभेदभिन्ना च कुत्रचित् ।
सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः ॥ 9.15 ॥

शब्दे पदार्थे वाक्यार्थे संख्यायां कारके तथा ।
लिङ्गे चेयमलङ्काराङ्कुरबीजतया स्थिता ॥ 9.16॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ॥ 9.17 ॥


धर्मं कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते ।
ययार्थं स्पष्टमाचष्टे शब्दस्तामभिधां विदुः ॥ 10.1 ॥

जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया ।
निर्देशेन तथा प्राहुः षड्विधामभिधां बुधाः ॥ 10.2 ॥

गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् ।
कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् ॥ 10.3 ॥

न योगादेरायतनं न सङ्केतनिकेतनम् ।
वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥ 10.4 ॥

पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् ।
सुधानिधानमासाद्य श्रयध्वं विबुधा मुदम् ॥ 10.5 ॥

जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः ।
सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः ॥ 10.6॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ॥ 10.7 ॥


पीयुषवर्षश्रीजयदेवकविकृतः चन्द्रालोकः