Example
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः । Manu Samhita १२.१०९ ।
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः । Manu Samhita १.१०८ ।
Example
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः || Ramayana ६-१२८-१०६
Example
अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति – १४.२.२.[२९]
शतपथब्राह्मणम्काण्डम् १४ अध्यायः २ ब्राह्मण २
Example
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत-अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्-धर्मसंस्थापनार्थाय संभवामि युगे युगे 4.9 Gita
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छ्हति 4.12 Gita
पृच्छामि त्वां धर्मसंमूढचेताः2.7 Gita
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥भगवद्गीतारामानुजभाष्य १८.३३ ॥
Example
अजीजनो अमृत मर्त्येष्वां ऋतस्य धर्मन्नमृतस्य चारुण (Rig Veda Index)
अतो धर्माणि धारयन (Rig Veda Index)
आ योनिं धर्णसिः सदः(Rig Veda Index)
सत्यमेव जयते
सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा
यत्र तत् सत्यस्य परमं निधानम् ॥ Mundaka Upanishad(3.1.6)
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
तत् त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् ; अथवा, यथाभूतस्य धर्मस्यानुष्ठात्रे, दृष्टये तव सत्यात्मन उपलब्धये ॥(Isha Bashya Upanisad Sankar Commentary)
अथातो धर्मं व्याख्यास्यामः । १,१.१ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १,१.२ । [Vaisheshika Sutram of Kanada ]