धर्मसंग्रहः – Dharma-Saṅgraha by Nagarjuna

धर्मसंग्रहः – Dharma-Saṅgraha

॥ नमो रत्नत्रयाय ॥

रत्नत्रयं नमस्कृत्य सर्वसत्त्वहितोदयम् ।
कथ्यते मोहनाशाय धर्मसारसमुच्चयः ॥

१. तत्र प्रथमं तावत्त्रीणि रत्नानि । तथद्या – बुद्धो धर्मः संघश्चेति ॥

२. त्रीणि यानानि ।[तद्यथा -] श्रावकयानम्, प्रत्येकबुद्धयानम्, महायानं चेति ॥

३. पञ्च बुद्धाः । तद्यथा – वैरोचनः, अक्षोभ्यः, रत्नसंभवः, अमिताभः, अमोघसिद्धिश्चेति ॥

४. चतस्रो देव्यः । तद्यथा – रोचनी, मामकी, पाण्डुरा, तारा चेति ॥

५. पञ्च रक्षा । तद्यथा – प्रतिसरा, साहस्रप्रमर्दनी, मारीची, मन्त्रानुसारिणी, शीलवती चेति ॥

६. सप्त तथागताः । तद्यथा – विपश्यी, शिखी, विश्वभूः, क्रकुच्छन्दः, कनकमुनिः, काश्यपः, शाक्यमुनिश्चेति ॥

७. चत्वारो लोकपालाः । तद्यथा – धृतराष्ट्रः, विरूपाक्षः, विरूढकः, कुबेरश्चेति ॥

८. अष्टौ लोकपालाः । तद्यथा – इन्द्रः, यमः, वरणः, कुबेरः, ईशानः, अग्निः, नैरृतः, वायुरिति ॥

९. दश लोकपालाः । अष्टलोकपालाधिकमूर्ध्वं ब्रह्मा अधः कृष्णः ॥

१०. चतुर्दश लोकपालाः । तद्यथा – दशलोकपालसकलम्, चन्द्रः, सूर्यः, पृथ्वी, असुरः ॥

११. दश क्रोधाः । तद्यथा – यमान्तकः, प्रज्ञान्तकः, पद्मान्तकः, विघ्नान्तकः, अचरटर्किराजः, नीलदण्डः, महाबलः, उष्णीषः, चक्रवर्ती, सम्भराजश्चेति ॥

१२. अष्टौ बोधिसत्त्वाः । तद्यथा – मैत्रेयः, गगनगञ्जः, समन्तभद्रः, वज्रपाणिः, मञ्जुश्रीः, सर्वनिवरणविष्कम्भी, क्षितिगर्भः, खगर्भश्चेति ॥

१३. षड्योगिन्यः । तद्यथा – वज्रवाराही, यामिनी, संचारणी, संत्रासनी, चाण्डिका चेति ॥


१४. सप्तविधा अनुत्तरपूजा । तद्यथा – वन्दना, पूजना, पापदेशना, अनुमोदना, अध्येषणा, बोधिचित्तोत्पादः, परिणामना चेति ॥

१५. त्रीणि कुशलमूलानि । बोधिचित्तोत्पादः, आशयविशुद्धिः, अहंकारममकारपरित्यागश्चेति ॥

१६. चत्वारो ब्रह्मविहाराः । मैत्री, करुणा, मुदिता, उपेक्षा चेति ॥

१७. षट्पारमिताः । दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता चेति ॥

१८. दश पारमिताः । षट्पारमितासकलम्, उपायम्, प्रणिधिः, बलम्, ज्ञानं चेति ॥

१९. चत्वारि संग्रहवस्तूनी । दानम्, प्रियवचनम्, अर्थचर्या, समानार्थता चेति ॥

२०. पञ्चाभिज्ञाः । दिव्यचक्षुः, दिव्यश्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, ऋद्धिश्चेति ॥

२१. चत्वार्यार्यसत्यानि । तद्यथा – दुःखम्, समुदयः, निरोधः मार्गश्चेति ॥

२२. पञ्च स्कन्धाः । रूपम्, वेदना, संज्ञा, संस्कारा, विज्ञानं चेति ॥

२३. लोकोत्तरपञ्चस्कन्धाः । शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धा इति ॥

२४. द्वादशायतनानि । चक्षुःश्रोत्रघ्राणजिह्वाकायमनआयतनानि रूपगन्धशब्दरसस्पर्शधर्मायतनानि चेति ॥

२५. अष्टादश धातवः ॥ चक्षुःश्रोत्रघ्राणजिह्वाकायमनोरूपगन्धशब्दरसस्पर्शधर्मधातवः चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानमनोविज्ञानघातवश्चेति ॥

२६. तत्रैकादश रूपस्कन्धाः ॥ चक्षुः, श्रोत्रम्, घ्राणम्, जिह्वा, कायः, रूपम्, शब्दः, गन्धः, रसः, स्पर्शः विज्ञप्तिश्चेति ॥

२७. वेदना त्रिविधा । सुखाः, दुःखा, अदुःखासुखा चेति ॥

२८. संज्ञास्कन्धः । निमित्तोद्गहणात्मिका ॥

२९. संस्कारा द्विविधाः । तत्र चित्तसंप्रयुक्तसंस्काराः, चित्तविप्रयुक्तसंस्काराश्चेति ॥

३०. चित्तसंप्रयुक्तसंस्काराश्चत्वारिंशत् । तद्यथा – वेदना, संज्ञा, चेतना, छन्दः, स्पर्शः, मतिः, स्मृतिः, मनस्कारः, अधिमोक्षः, समाधिः, श्रद्धा, अप्रमादः, प्रस्रब्धिः, उपेक्षा, ह्रीः, अपत्रपा, अलोभः, अद्वेषः, अहिंसा, वीर्यम्, मोहः, प्रमादः, कौसीद्यम्, अश्राद्ध्यम्, स्त्यानम्, औद्धत्यम्, अह्रीकता, अनपत्रपा, क्रोधः, उपनाहः, शाठ्यम्, ईर्ष्या, प्रदानः, म्रक्षः, मात्सर्यम्, माया, मदः, विहिंसा, वितर्कः, विचारश्चेति ॥

३१. तत्र चित्तविप्रयुक्तसंस्कारास्रयोदश । प्राप्तिः, अप्राप्तिः, सभागता, असंज्ञिकम्, समाप्तिः, जीवितम्, जातिः, जरा, स्थितिः, अनित्यता, नामकायः, पदकायः, व्यञ्जनकायश्चेति ॥

३२. त्रीण्यसंस्कृतानि । तद्यथा – आकाशः, प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्चेति ॥

३३. षड्विषयाः । तद्यथा – रूपम्, शब्दः, गन्धः, रसः, स्पर्शः, धर्मश्चेति ॥

(, वैद्य ३३१)

३४. तत्र रूपं विषयस्वभावम् । नीलम्, पीतम्, लोहितम्, अवदातम्, हरितम्, दीर्घम्, ह्रस्वम्, परिमण्डलम्, उन्नतम्, अवनतम्, सातम्, विसातम्, अच्छम्, धूमः, रजः, महिका, छाया, आतपः, आलोकः, अन्धकारश्चेति ॥

३५. अष्टाविंशतिविधः शब्दः । सप्त पुरुषवाक्शब्दाः, सप्त पुरुषहस्तादिशब्दाः । एत एव(मनोज्ञा)मनोज्ञभेदेनाष्टाविंशतिः ॥

३६. रसः षड्विधः । तद्यथा – मधुरः, अम्लः, लवणः, कटुः, तिक्तः, कषायश्चेति ॥

३७. चत्वारो गन्धाः । तद्यथा – सुगन्धः, दुर्गन्धः, समगन्धः, विषमगन्धश्चेति ॥

३८. एकादश स्प्रष्टव्यानि । पृथ्वी, आपः, तेजः, वायुः, श्लक्ष्णत्वम्, कर्कशत्वम्, लघुत्वम्, गुरुत्वम्, शीतम्, जिघत्सा पिपासा चेति ॥

३९. पञ्च महाभूतानि । पृथ्वी, आपः, तेजः, वायुः, आकाश्चेति ॥

४०. पञ्च भौतिकानि । रूपम्, शब्दः, गन्धः, रसः, स्पर्शश्चेति ॥

४१. विंशतिः शून्यताः । तद्यथा – अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, लक्षणशून्यता, अलक्षणशून्यता, भावशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, परभावशून्यता चेति ॥

४२. द्वादशाङ्गप्रतीत्यसमुत्पादः । अविद्या, संस्काराः, विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शः, वेदना, तृष्णा, उपादानम्, भवः, जातिः, जरामरणम्, शोकपरिदेवदुःखदौर्मनस्योपायासाश्चेति ॥

४३. सप्तत्रिंशद्बोधिपाक्षिका धर्माः । चत्वारि स्मृत्युपस्थानानि ॥ ४ ॥ चत्वारि सम्यक्प्रहाणानि ॥ ८ ॥ चत्वार ऋद्धिपादाः ॥ १२ ॥ पञ्चेन्द्रियाणि ॥ १७ ॥ पञ्च बलानि ॥ २२ ॥ सप्त बोध्यङ्गानि ॥ २९ ॥ आर्याष्टाङ्गिकमार्गश्चेति ॥ ३७ ॥

४४. तत्र कतमानि स्मृत्युपस्थानानि? तद्यथा – काये कायानुदर्शस्मृत्युपस्थानम्, वेदनायां वेदनानुदर्शस्मृत्युपस्थानम्, चित्ते चित्तानुदर्शस्मृत्युपस्थानम्, धर्मे धर्मानुदर्शस्मृत्युपस्थानम् ॥

४५. कतमानि चत्वारि सम्यक्प्रहाणानि? तद्यथा – उत्पन्नानां कुशलमूलानां संरक्षणम् । अनुत्पन्नानां समुत्पादः । उत्पन्नानामकुशलानां धर्माणां प्रहाणम् । अनुत्पन्नानां पुनरनुत्पादश्चेति ॥

४६. चत्वारः ऋद्धिपादाः । तद्यथा – छन्दसमाधिप्रहाणाय संस्कारसमन्वागत ऋद्धिपादः । एवं चित्तऋद्धिपादः । वीर्यऋद्धिपादः । मीमांसासमाधिप्रहाणाय संस्कारसमन्वागतऋद्धिपादश्चेति ॥

(, वैद्य ३३२)
४७. पञ्चेन्द्रियाणि । तद्यथा – श्रद्धासमाधिवीर्यस्मृतिप्रज्ञेन्द्रियं चेति ॥

४८. पञ्च बलानि । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलं चेति ॥

४९. सप्त बोध्यङ्गानि । तद्यथा – स्मृतिसंबोध्यङ्गम्, धर्मविचयसंबोध्यङ्गम्, वीर्यसंबोध्यङ्गम्, प्रीतिसंबोध्यङ्गम्, प्रस्रब्धिसंबोध्यङ्गम्, समाधिसंबोध्यङ्गम्, उपेक्षासंबोध्यङ्गमिति ॥

५०. आर्याष्टाङ्गिकमार्गः ॥ सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिश्चेति । एते सप्तत्रिंशब्दोधिपाक्षिका धर्माः ॥

५१. चतस्रः प्रतिसंविदः । तद्यथा – धर्मप्रतिसंवित्, अर्थप्रतिसंवित्, निरुक्तिप्रतिसंवित्, प्रतिभानप्रतिसंविच्चेति ॥

५२. चतस्रो धारण्यः । तद्यथा – आत्मधारणी, ग्रन्थधारणी, धर्मधारणी, मन्त्रधारणी चेति ॥

५३. चत्वारि प्रतिशरणानि । तद्यथा – अर्थप्रतिशरणता न व्यञ्जनप्रतिशरणता । ज्ञानप्रतिशरणता न विज्ञानप्रतिशरणता । नीतार्थप्रतिशरणता न नेयार्थप्रतिशरणता । धर्मप्रतिशरणता न पुद्गलप्रतिशरणता चेति ॥

५४. षडनुस्मृतयः । बुद्धानुस्मृतिः, धर्मानुस्मृतिः, संघानुस्मृतिः, त्यागानुस्मृतिः, शीलानुस्मृतिः, देवानुस्मृतिश्चेति ॥

५५. चत्वारि धर्मपदानि । तद्यथा – अनित्याः सर्वसंस्काराः । दुःखाः सर्वसंस्काराः । निरात्मानः सर्वसंस्काराः । शान्तं निर्वाणं चेति ॥

५६. दशाकुशलानि । तद्यथा – प्राणातिपातः, अदत्तादानम्, काममिथ्याचारः, मृषावादः, पैशुन्यम्, पारुष्यम्, संभिन्नप्रलापः, अभिध्या, व्यापादः, मिथ्यादृष्टिश्चेति ॥

५७. गतयः षट् । तद्यथा – नरकः, तिर्यक्, प्रेतः, असुरः, मनुष्यः, देवश्चेति ॥

५८. षड्धातवः । पृथ्वी, आपः, तेजः, वायुः, आकाशः, विज्ञानं चेति ॥

५९. अष्टौ विमोक्षाः । तद्यथा – रूपी रूपाणी पश्यति शून्यम् । आध्यात्मारूपसंज्ञी बहिर्धारूपाणि पश्यति शून्यम् । आकाशानन्त्यायतनं पश्यति शून्यम् । विज्ञानानन्त्यायतनं पश्यति शून्यम् । आकिंचन्यायतनं पश्यति शून्यम् । नैवसंज्ञानासंज्ञायतनं पश्यति शून्यम् । संज्ञावेदयितनिरोधं पश्यति शून्यं चेति ॥

६०. पञ्चानन्तर्याणि । तद्यथा – मातृवधः, पितृवधः अर्हद्वधः, तथागतदुष्टचित्तरुधिरोत्पादः, संघभेदश्चेति ॥

६१. अष्टौ लोकधर्माः ॥ लाभः, अलाभः, सुखम्, दुःखम्, यशः, अयशः, निन्दा, प्रशंसा चेति ॥

६२. नवाङ्गप्रवचनानि । तद्यथा – सूत्रम्, गेयम्, व्याकरणम्, गाथा, उदानम्, जातकम्, वैपुल्यम्, अद्भुतधर्मः, उपदेशश्चेति ॥

(, वैद्य ३३३)

६३. द्वादश धूतगुणाः । पैण्डपातिकः, त्रैचीवरिकः, खलुपश्चाद्भक्तिकः, नैषद्यिकः, यथासंस्तरिकः, वृक्षमूलिकः, एकासनिकः, आभ्यवकाशिकः, आरण्यकः, श्माशानिकः, पांशूकूलिकः, नामन्तिकश्चेति ॥

६४. दश भूमयः । प्रमुदिता, विमला, प्रभाकरी, अर्चिष्मती, सुदुर्जया, अभिमुखी, दूरंगमा, अचला, साधुमती, धर्ममेघा चेति ॥

६५. समन्तप्रभा, निरुपमा, ज्ञानवती । एताः सहितास्रयोदश भूमयः ॥

६६. पञ्च चक्षूंषी । मांसचक्षुः, धर्मचक्षुः, प्रज्ञाचक्षुः, दिव्यचक्षुः, बुद्धचक्षुश्चेति ॥

६७. षट्क्लेशाः । रागः, प्रतिघः, मानः, अविद्या, कुदृष्टिः, विचिकित्सा चेति ॥

६८. पञ्च दृष्टयः । सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलपरामर्शः ॥

६९. चतुविंशतिरुपक्लेशाः । तद्यथा – क्रोधः, उपनाहः, म्रक्षः, प्रदाशः, ईर्ष्याः, मात्सर्यम्, शाठ्यम्, माया, मदः, विहिंसा, ह्रीः, अनपत्रपा, स्त्यानम्, अश्राद्ध्यम्, कौसीद्यम्, प्रमादः, मुषितस्मृतिः, विक्षेपः, असंप्रजन्यम्, कौकृत्यम्, मिद्धम्, वितर्कः, विचारश्चेति ॥

७०. पञ्चाहाराः । ध्यानाहाराः, कवलीकाराहाराः, प्रत्याहाराः, स्पर्शाहाराः, संचेतनिकाहाराश्चेति ॥

७१. पञ्च भयानि । आजीविकाभयम्, शोकभयम्, मरणभयम्, दुर्गतिभयम्, पर्षदसाद्यभयं चेति ॥

७२. चत्वारि ध्यानानि । तद्यथा – सवितर्कं सविचारं विवेकजं प्रीतिसुखमिति प्रथमध्यानम् । अध्यात्मप्रमोदनात्प्रीतिसुखमिति द्वितीयम् । उपेक्षास्मृतिसंप्रजन्यं सुखमिति तृतीयम् । उपेक्षास्मृतिपरिशुद्धिरदुःखासुखा वेदनेति चतुर्थं ध्यानमिति ॥

७३. त्रयो विमोक्षाः । शून्यता, अनिमित्तः, अप्रणिहितश्चेति ॥

७४. बोधिसत्त्वानां दश वशिताः । आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, धर्मवशिता, ऋद्धिवशिता, जन्मवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, कर्मवशिता, ज्ञानवशिता चेति ॥

७५. बोधिसत्त्वानां दश बलानि । तद्यथा – अधिमुक्तिबलम्,
प्रतिसंख्यानबलम्, भावबलम्, क्षान्तिबलम्, ज्ञानबलम्, प्रहाणबलम्, समाधिबलम्, प्रतिभानबलम्, पुण्यबलम्, प्रतिपत्तिबलं चेति ॥

७६. तथागतस्य दश बलानि । तद्यथा – स्थानास्थानज्ञानबलम्, कर्मविपाकज्ञानबलम्, नानाधातुज्ञानबलम्, नानधिमुक्तिज्ञानबलम्, सत्त्वेन्द्रियपरापरज्ञानबलम्, सर्वत्रगामिनीप्रतिपत्तिज्ञानबलम्, ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम्, पूर्वनिवासानुस्मृतिज्ञानबलम्, च्युत्युत्पत्तिज्ञानबलम्, आस्रवक्षयज्ञानबलं चेति ॥

(, वैद्य ३३४)
७७. चत्वारि वैशारद्यानि । तद्यथा – अभिसंबोधिवैशारद्यम्, आस्रवक्षयज्ञानवैशारद्यम्, नैर्वाणिकमार्गावतरणवैशारद्यम्[अन्तरायिकधर्मानन्यथात्वनिश्चितव्याकरणवैशारद्यं] चेति ॥

७८. पञ्च मात्सर्याणि । धर्ममात्सर्यम्, लाभमात्सर्यम्, आवासमात्सर्यम्, कुशलमात्सर्यम्, वर्णमात्सर्यं चेति ॥

७९. अष्टादशावेणिका बुद्धधर्माः । तद्यथा – नास्ति तथागतस्य स्खलितम् । नास्ति रवितम् । नास्ति मुषितस्मृतिता । नास्त्यसमाहितचित्तम् । नास्ति नानात्वसंज्ञा । नास्त्यप्रतिसंख्यायोपेक्षा । नास्ति छन्दपरिहाणिः । नास्ति वीर्यपरिहाणिः । नास्ति स्मृतिपरिहाणिः । नास्ति समाधिपरिहाणिः । नास्ति प्रज्ञापरिहाणिः । नास्ति विमुक्तिपरिहाणिः । नास्ति विमुक्तिज्ञानदर्शनपरिहाणिः । सर्वकायकर्मज्ञानपूर्वगमज्ञानानुपरिवृत्तिः । सर्ववाक्कर्मज्ञानपूर्वंगमज्ञानानुपरिवृत्तिः । सर्वमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवृत्तिः । अतीतेऽध्वन्यसङ्गमप्रतिहतज्ञानम् । प्रत्युत्पन्नेऽध्वन्यसङ्गमप्रतिहतज्ञानदर्शनं चेति ॥

८०. चत्वारो माराः । तद्यथा – स्कन्धमारः, क्लेशमारः, देवपुत्रमारः, मृत्युमारश्चेति ॥

८१. चत्वारि श्रद्धाङ्गानि । तद्यथा – आर्यसत्यम्, त्रिरत्नम्, कर्म, कर्मफलं चेति ॥

८२. नवानुपूर्वसमाधिसमापत्तयः । तद्यथा – चत्वारि ध्यानानि, चतस्र आरूप्यसमापत्तयः, निरोधसमापत्तिश्चेति ॥

८३. द्वात्रिंशल्लक्षणानि । तद्यथा – चक्राङ्कितपाणिपादतलता । सुप्रतिष्ठितपाणिपादतलता । जालाबलबद्धा(वनद्धा?)ङ्गुलिपाणिपादतलता । मृदुतरुणहस्तपादतलता । सप्तोत्सदता । दीर्घाङ्गुलिता । आयतपार्ष्णिता । ऋजुगात्रता । उत्सङ्गपादता । उर्ध्वाग्ररोमता । ऐणेजयङ्घता । प्रलम्बबाहुता । कोषगतबस्तिगुह्यता । सुवर्णवर्णता । शुक्लच्छविता । प्रदक्षिणावर्तैकरोमता । ऊर्णालंकृतमुखता । सिंहपूर्वान्तकायता । सुसंवृत्तस्कन्धता । चितान्तरांसता । रसरसाग्रता । न्यग्रोधपरिमण्डलता । उष्णीषशिरस्कता । प्रभूतजिव्हता । सिंहहनुता । शुक्लहनुता । समदन्तता । हंसविक्रान्तगामिता । अविरलदन्तता । समचत्वारिंशद्दन्तता । अभिनीलनेत्रता । गोपक्षनेत्रता चेति ॥

८४. अशीत्यनुव्यञ्जनानि । तद्यथा – ताम्रनखता । स्रिग्धनखता । तुङ्गनखता । छत्राङ्गुलिता । चित्राङ्गुलिता । अनुपूर्वाङ्गुलिता । गूढशिरता । निग्रन्थिशिरता । गूढगुल्फता । अविषमपादता । सिंहविक्रान्तगामिता । नागविक्रान्तगामिता । हंसविक्रान्तगामिता । वृषभविक्रान्तगामिता । प्रदक्षिणगामिता । चारुगामिता । अवक्रगामिता । वृत्तगात्रता । मृष्टगात्रता । अनुपूर्वगात्रता । शुचिगात्रता । मृदुगात्रता । विशुद्धगात्रता । परिपूर्णव्यञ्जनता । पृथुचारुमण्डलगात्रता । समक्रमता । विशुद्धनेत्रता । सुकुमारगात्रता । अदीनगात्रता । उत्साहगात्रता । गम्भीरकुक्षिता । प्रसन्नगात्रता । सुविभक्ताङ्गप्रत्यङ्गता । वितिमिरशुद्धालोकता । वृत्तकुक्षिता । मृष्टकुक्षिता । अभुग्नकुक्षिता । क्षामकुक्षिता । (, वैद्य ३३५) प्रदक्षिणावर्तनाभिता । समन्तप्रासादिकता । शुचिसमुदारता । व्यपगततिलकगात्रता । तूलसदृशसुकुमारपाणिता । स्निग्धपाणिलेखता । गम्भीरपाणिलेखता । आयतपाणिलेखता । नात्यायतवचनता । बिम्बप्रतिबिम्बोष्ठता । मृदुजिव्हता । तनुजिव्हता । रक्तजिह्वता । मेघगर्जितघोषता । मधुरचारुमञ्जुस्वरता । वृत्तदंष्ट्रता । तीक्ष्णंदंष्ट्रता । शूक्लदंष्ट्रता । समदंष्ट्रता । अनुपूर्वदंष्ट्रता । तुङ्गनासता । शुचिनासता । विशालनयनता । चित्रपक्ष्मता । सितासितकमलदलनयनता । आयतभ्रूकता । शुक्लभ्रूकता । सुस्निग्धभ्रूकता । पीनायतभुजलता । समकर्णता । अनुपहतकर्णेन्द्रियता । अविम्लानललाटता । पृथुललाटता । सुपरिपूर्णोत्तमाङ्गता । भ्रमरसदृशकेशता । चित्रकेशता । गुडाकेशता । असंमुणितकेशता । अपरुषकेशता । सुरभिकेशता । श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलता चेति ॥

८५. चक्रवर्तिनां सप्त रत्नानि । तद्यथा – चक्ररत्नम्, अश्वरत्नम्, हस्तिरत्नम्, मणिरत्नम्, स्त्रीरत्नम्, खङ्गरत्नम्, परिणायकरत्नं चेति ॥

८६. तत्र त्रयोऽध्वानः । तद्यथा – अतीतोऽध्वा, अनागतोऽध्वा, प्रत्युत्पन्नोऽध्वा चेति ॥

८७. चत्वारः कल्पाः । तद्यथा – अन्तरकल्पाः, महाकल्पाः, शून्यकल्पाः, सारकल्पाश्चेति ॥

८८. चत्वारि युगानि । तद्यथा – कृतयुगम्, त्रेतायुगम्, द्वापरम्, कलियुगं चेति ॥

८९. लोकद्वयम् । तद्यथा – सत्त्वलोकः, भाजनलोकश्चेति ॥

९०. चत्वारो योनयः । तद्यथा – अण्डजः, संस्वेदजः, जरायुजः, उपपादुकश्चेति ॥

९१. पञ्च कषायाः । तद्यथा – क्लेशकषायः, दृष्टिकषायः, सत्त्वकषायः, आयुःकषायः, कल्पकषायश्चेति ॥

९२. त्रयः सत्त्वाध्याः । तद्यथा – पूर्वान्तकोटिपरिज्ञायाः, अपरान्तकोटिपरिज्ञायाः, चतुर्मारकोटिपरिज्ञायाश्चेति ॥

९३. दश ज्ञानानि । तद्यथा – दुःखज्ञानम्, समुदयज्ञानम्, निरोधज्ञानम्, मार्गज्ञानम्, धर्मज्ञानम्, अन्वयज्ञानम्, संवृतिज्ञानम्, परचित्तज्ञानम्, क्षयज्ञानम्, अनुत्पादज्ञानं चेति ॥

९४. पञ्च ज्ञानानि । तद्यथा – आदर्शनज्ञानम्, समताज्ञानम्, प्रत्यवेक्षणाज्ञानम्, कृत्यानुष्ठानज्ञानम्, सुविशुद्धधर्मधातुज्ञानं चेति ॥

९५. द्वे सत्ये । तद्यथा – संवृतिसत्यम्, परमार्थसत्यं चेति ॥

९६. चतुरार्यसत्येषु षोडश क्षान्तिज्ञानलक्षणाः । तद्यथा – दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानम्, दुःखेऽन्वयज्ञानक्षान्तिः, दुःखेऽन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, (, वैद्य ३३६) समुदये धर्मज्ञानम्, समुदयेऽन्वयज्ञानक्षान्तिः, समुदयेऽन्वयज्ञानम् । निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम्, निरोधेऽन्वयज्ञानक्षान्तिः, निरोधेऽन्वयज्ञानम् । मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञानम्, मार्गेऽन्वयज्ञानक्षान्तिः, मार्गेऽन्वयज्ञानं चेति ॥

९७. तत्र दुःखसत्ये चत्वार आकाराः । तद्यथा – अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्चेति ॥

९८. समुदयसत्ये चत्वार आकाराः । तद्यथा – हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्चेति ॥

९९. निरोधसत्ये चत्वार आकाराः । तद्यथा – निरोधतः, शान्ततः, प्रणीततः, निःसरणतश्चेति ॥

१००. मार्गसत्ये चत्वार आकाराः । तद्यथा – मार्गतः, न्यायतः, प्रतिपत्तितः, नैर्याणिक(त)श्चेति ॥

१०१. चत्वारः समाधयः । तद्यथा – आलोकसमाधिः, वृतासमाधिः, एकादशप्रतिष्ठसमाधिः, आनन्तर्यसमाधिश्चेति ॥

१०२. तत्राष्टौ[पुरुष] – पुग्दलाः । तद्यथा – स्रोतआपन्नफलप्रतिपन्नकः, स्रोतआपन्नः, सकृदागामिफलप्रतिपन्नकः, सकृदागामी, अनागामिफलप्रतिपन्नकः, अनागामी, अर्हत्फलप्रतिपन्नकः, अर्हंश्चेति ॥

१०३. तथाष्टौ प्रतिपुग्दलाः । तद्यथा – श्रद्धानुसारी, धर्मानुसारी, स्रोतआपन्नः, देवकुलंकुलः, मनुष्यकुलंकुलः, सकृदागामिफलः, श्रद्धविमुक्तिर्दृष्टिप्राप्त एकवीचीकोऽनागाम्यन्तरापरिनिर्वायी उपहत्यपरिनिर्वायी अभिसंस्कारपरिनिर्वायी प्लुतोऽर्द्धप्लुतः सर्वास्तानप्लुतो दृष्टधर्मसमः कायसाक्षी खङ्गश्चेति ॥

१०४. [तदनु द्वादशाकरधर्मचक्रप्रवर्तकं(नं) कतमत्? तद्यथा – इदं दुःखमार्यसत्यमिति भिक्षवः पूर्वमनुश्रुत्य तेषु धर्मेषु योनिशो मनसिंगवतः(?) चक्षुरुदपादि । ज्ञानमुत्पादि चिन्तोत्पादि । चुत्रिरुदपादि । इत्येकपरिचतकः १ इदं दुःखमार्य स तत्र खल्वभिज्ञातमिति भिक्षवः । इत्यादि पूर्ववदितियः ॥ इदं दुःखसमुदयमार्यसत्वं तव खल्वभिज्ञाय प्रहीणमिति हित्यादि तृतीयः । तथा इदं दुःखनिरोध आर्यसत्यमिति हिप्रत्येकः ॥ इदं दुःखनिरोधआर्य्यसत्यं तत्र खल्वभिज्ञाय शाक्षात्कर्तव्यमिति हित्य द्वितीयः । इदं दुःखनिरोधआर्यसत्य तत्र खलु भिज्ञाय शाक्षात्द्वितीय । तद्यथा इदं दुःखमार्गगामिनी प्रतिपदार्यसत्येमिति त्येक ॥ इदं दुःखमोक्षगामिनि प्रतिप इत्यार्य्यसत्यं तत्र खलु भिज्ञाय भावयितव्यमिति हि भिक्षव इत्यादि तृतीयः । परिवर्त इत्येव द्वादशाकारधर्मचक्रप्रवर्त्तनमिति ॥ ]

(, वैद्य ३३७)
म्स्. च्.
तदनु द्वादशाकारधर्मचक्रप्रवर्तकः । कतमत् । इदं दुःखमार्यसत्यमिति भिक्षवः । पूर्वमनुश्रुत्य तेषु धर्मेषु योनिशो मनसिगवतः चक्षुरुदपादि । ज्ञानमुत्पादि चित्तोत्पादि । चुत्रिरुत्पादि ॥ इत्येकपरिवर्तक इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति हि भिक्षवः । पूर्वमनुश्रुय तेषु योनिसो मनसिङ्गर्वुतः ॥ इति द्वितीयः ॥ इदमार्यसत्यं तत्र खल्वभिज्ञातमिति भिक्षवः । इत्यादि पूर्ववदिति यः ॥

इदं दुःखसमुदयमार्यसत्यं तव खल्वभिज्ञाय प्रहीणमिति हीत्यादि तृतीयम् ॥

तथा इदं दुःखनिरोध आर्यसत्यमिति हि प्रत्येकः ॥ इदं दुःखनिरोध आर्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कर्तव्यमिति हित्यादि । द्वितीयः । इदं दुःखनिरोध आर्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कृतमिति द्वितीयः ।

तथा इदं दुःखमार्गगामिनि प्रतिपदार्यसत्यमिति प्रत्येक । इदं दुःखमोक्षगामिनी प्रतिपत् ॥ इत्यार्यसत्यं तत्र खल्वभिज्ञाय भातव्यमिति हि भिक्षवः इत्यादि तृतीयः । परिवर्त्त इत्येवं द्वादशाकारधर्मचक्रप्रवर्तनमिति ॥ ॥

रेस्तोरेद्तेxत्.
तदत्र द्वादशाकारधर्मचक्रप्रवर्तकं(नं?) कतमत्? इदं दुःखमार्यसत्यमिति(मे) भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसिकुर्वतः चक्षुरुदपादि ज्ञानमुदपादि विद्योदपादि भूरिरुदपादीत्येकं परिवर्तकम् । इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति हि (मे) भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसिकुर्वत इति द्वितीयम् । इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति भिक्षवः इत्यादि पूर्ववदिति तृतीयम् ॥
[तथेदं दुःखसमुदयमार्यसत्यमिति प्रत्येकम् । इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहातव्यमिति द्वितीयम् ।] इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहीणमिति हीत्यादि तृतीयम् ।

तथेदं दुःखनिरोधमार्यसत्यमिति हि प्रत्येकम् । इदं दुःखनिरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कर्तव्यमिति हीत्यादि द्वितीयम् । इदं दुःखनिरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कृतमिति तृतीयम् ॥

तथेयं दुःखमार्गगामिनी प्रतिपदित्यार्यसत्यमिति प्रत्येकम् । इयं दुःखमोक्षगामिनी प्रतिपदित्यार्यसत्यं तत्र खल्वभिविज्ञाय भावयितव्यमिति हि भिक्षव इत्यादि द्वितीयम् ।

[इदं दुःखमोक्षगामिनी प्रतिपदित्यार्यसत्यं तत्र खल्वभिज्ञाय भावितमिति तृतीयम् ॥ ]

१०५. तत्र दानं त्रिविधम् । तद्यथा – धर्मदानम्, आमिषदानम्, मैत्रीदानं चेति ॥

१०६. शीलं त्रिविधम् । तद्यथा – संभारशीलम्, कुशलसंग्राहशीलम्, सत्त्वार्थक्रियाशीलं चेति ॥

१०७. क्षान्तिस्त्रिविधा । तद्यथा – धर्मनिध्यानक्षान्तिः, दुःखाधिवासनाक्षान्तिः, परोपकारधर्मक्षान्तिश्चेति ॥

१०८. वीर्यं त्रिविधम् । तद्यथा – संनाहवीर्यम्, प्रयोगवीर्यम्, पर(रि)निष्ठावीर्यं चेति ॥

१०९. ध्यानं त्रिविधम् । तद्यथा – सदोषापकर्षध्यानम्, सुखवैहारिकध्यानम्, अशेषवैभूषितध्यानं चेति ॥

११०. प्रज्ञा त्रिविधा । तद्यथा – श्रुतमयी, चिन्तामयी, भावनामयी चेति ॥

१११. उपायस्त्रिविधः । तद्यथा – सर्वसत्त्वावबोधकः, सत्त्वार्थाभावकः, क्षिप्रसुखाभिसंबोधिश्चेति ॥

११२. प्रणिधानं त्रिविधम् । तद्यथा – सुस्थानप्राबन्धिकम्, सत्त्वार्थप्रबन्धिकम्, बुद्धक्षेत्रपरिशोधकं चेति ॥

११३. बलं त्रिविधम् । तद्यथा – कर्मव्यावर्तकम्, क्लेशापकर्षकम्, मानप्रमादादिव्यावर्तकं चेति ॥

११४. ज्ञानं त्रिविधम् । तद्यथा – अविकल्पकम्, विकल्पसमभावबोधकम्, सत्यार्थोपायपरोक्षं चेति ॥

११५. तत्रावरणे द्वे । तद्यथा – क्लेशवरणम्, ज्ञेयावरणं चेति ॥

११६. नैरात्म्यं द्विविधम् । तद्यथा – धर्मनैरात्म्यम्, पुग्दलनैरात्म्यं चेति ॥

११७. संभारो द्विविधः । तद्यथा – पुण्यसंभारः, ज्ञानसंभारश्चेति ॥

११८. तत्र षट्समाध्यावरणानि । तद्यथा – कौसीद्यम्, मानम्, शाठ्यम्, औद्धत्यम्, अनाभोगः, सत्याभोगश्चेति ॥

११९. तत्र प्रतिपत्त्याष्टौ प्रहाणसंस्काराः । तद्यथा – श्रद्धा, बुद्धः(द्धिः), व्यायामः, प्रस्रब्धिः, स्मृतिः, संप्रजन्यम्, चेतना, उपेक्षा चेति ॥

१२०. तत्र चत्वारो द्वीपाः । तद्यथा – पूर्वविदेहः, जम्बुद्वीपः, अपरगोदानिः(नीयः), उत्तरकुरुद्वीपश्चेति ॥

१२१. अष्टावुष्णनरकाः । तद्यथा – संजीवः, कालसूत्रः, संघातः, रौरवः, महारौरवः, तपनः, प्रतापनः, अवीचिश्चेति ॥

१२२. अष्टौ शीतनरकाः । तद्यथा – अर्बुदः, निरर्बुदः, अटटः, अपपः, हाहाधरः, उत्पलः, पद्मः, महापद्मश्चेति ॥

१२३. सप्त पातालानि । तद्यथा – धरणीतलः, अचलः, महाचलः, आपः, काञ्चनः, संजीवः, नरकश्चेति ।

१२४. द्वौ चक्रवालौ । तद्यथा – चक्रवालमहाचक्रवालौ चेति ॥

१२५. अष्टाङ्गपर्वताः । तद्यथा – युगंधरः, ईशाधरः, खदिरकः, सुदर्शनः, विनतकः, अश्वकर्णः, नेमिंधरगिरिः, सुमेरुश्चेति ॥

१२६. सप्त सागराः । तद्यथा – क्षारः, क्षीरः, दधि, उदधिः, घृतम्, मधुः, सुरा चेति ॥

(, वैद्य ३३९)

१२७. तत्र षट्कामावचरा देवाः । तद्यथा – चातुर्महाराजकायिकाः, त्रायस्त्रिंशाः, तुषिताः, यामाः, निर्माणरतयः, परनिर्मितवशवर्तिनश्चेति ॥

१२८. अष्टादश रूपावचरा देवाः । तद्यथा – ब्रह्मकायिकाः, ब्रह्मपुरोहिताः, ब्रह्मपार्षद्याः, महाब्रह्माणः, परीत्ताभाः, अप्रमाणाभाः, आभास्वराः, परीत्तशुभाः, शुभकृत्स्नाः, अनभ्रकाः, पुण्यप्रसवाः, बृहत्फलाः, असंज्ञिसत्त्वाः, अवृहाः, अतपाः, सुदृशाः, सुदर्शनाः, अकनिष्ठाश्चेति ॥

१२९. चत्वारोऽरूपावचरा देवाः । आकाशानन्त्यायतनोपगाः, विज्ञानानन्त्यायतनोपगाः, आकिंचन्यायतनोपगाः, नैवसंज्ञानासंज्ञायतनोपगाश्चेति ॥

१३०. त्रिविधा आलङ्घनाः । तद्यथा – सत्यालङ्घना, धर्मालङ्घना, अनालङ्घना चेति ॥

१३१. त्रिविधा महामैत्री । तद्यथा – सत्यालङ्घ(म्ब)ना, धर्मलङ्घ(र्मालम्ब)ना, अनालङ्घ(म्ब)ना चेति ॥

१३२. त्रिविधं कर्म । तद्यथा – दृष्टधर्मवेदनीयम्, उत्पद्यवेदनीयम्, अपरवेदनीयं चेति ॥

१३३. त्रिविधं प्रातिहार्यम् । तद्यथा – ऋद्धिप्रातिहार्यम्, आदेशनाप्रातिहार्यम्, अनुशासनीप्रातिहार्यं चेति ॥

१३४. अष्टावक्षणाः । तद्यथा – नरकोपपत्तिः, तिर्यगुपपत्तिः, यमलोकोपपत्तिः, प्रत्यन्तजनपदोपपत्तिः, दीर्घायुषदेवोपपत्तिः, इन्द्रियविकलता, मिथ्यादृष्टिः, चित्तोत्पादविरागितता चेति ॥

१३५. त्रिविधा विकल्पाः । तद्यथा – अनुस्मरणविकल्पः, संतिरन(तीरण)विकल्पः, सहजविकल्पश्चेति ॥

१३६. चत्वारः समाधयः । तद्यथा – शूरंगमः, गगनगञ्जः विमलप्रभः, सिंहविक्रीडितश्चेति ।

१३७. चतुर्दशाव्याकृतवस्तूनि । तद्यथा – शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्चाशाश्वतश्च, नैव शाश्वतो नाशाश्वतश्च । अन्तवांल्लोकः, अनन्तवांल्लोकः, अन्तवांश्चानन्तवांल्लोकश्च, नैवान्तवान्नानन्तवांश्च । भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति न च भवति च तथागतः परं मरणात्, नैव भवति न भवति तथागतः परं मरणात् । स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरं चेति ॥

१३८. त्रीणि कुशलमूलानि । तद्यथा – अद्वेषः, अलोभः, अमोहश्चेति ॥

१३९. एतद्विपर्ययान्त्रीण्यकुशलमूलानि । तद्यथा – लोभः, मोहः, द्वेषश्चेति ॥

१४०. तिस्रः शिक्षाः । तद्यथा – अधिचित्तशिक्षा, अधिशीलशिक्षा, अधिप्रज्ञाशिक्षा चेति ॥

इति नागार्जुनपादविरचितोऽयं धर्मसंग्रहः समाप्तः ॥


MADHYAMAKA PHILOSOPHY of Nagarjuna– 100 BCE-100 CE(South Indian)- Founder of Madhyamaka school of Buddhist philosophy