प्रतिमा लक्षण विवरणम् – Pratima Lakshana Vibaranam

प्रतिमालक्षणविवरणम्

ओं ……….भगवता यदेवोक्तं बुद्धाकृतौ फलम्।

लक्षणं बुद्धमूर्त्तीनां तदेवात्रापि लिख्यते॥

सर्वलक्षणसंपूर्णा प्रतिमा सुखदायिका।

तद्विहीना यदा यस्मात् या स्यादन्ते दुःखप्रदायिक॥

किं तत्सुखम्।

तदाह – यावन्तः परमाणवो भगवत्स्तूपेषु बिम्बेषु वा तत्कर्तुर्दिवि भूतले च नियतं तावन्ति राज्या….रूपासनाधिसंपदम्विना भुक्त्वा च सर्वं….प्राप्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्ध पदम्।

अतो रूपकायस्य लक्षणमाह – तत्र सम्यक्सम्बुद्धानां महावज्रधराणाञ्च दैर्घ्येण कायस्य बाहुद्वयपार्श्वप्रसारितव्यामेनापि किं प्रमाणम्। स्वकीयाङ्गुलेन सार्द्धद्वादशाङ्गुलस्तालिस्तेन पञ्चविंशत्यधिकशताङ्गुलम्। लोचनादिदेवीनां द्वादशाङ्गुलस्तालस्तेन नवतालेनाष्टोत्तरशताङ्गुलायामो व्यामश्च। बोधिसत्त्वानाञ्च द्वादशाङ्गुलैर्दशतालकमेव। खर्व्वलम्बोदरक्रोधानाञ्च षण्णवत्यङ्गुलमष्टतालेन।ललत्क्रोधानां तु दशतालेन विंशत्युत्तरशताङ्गुलायामव्यामाभ्यां सर्वाङ्गोपाङ्गोदितं ज्ञातव्यम्। “शास्तुर्द्धर्मदेशनागमनसमये शारिपुत्रो भगवन्तमेतदवोचत् – भगवन् भगवता विना श्राद्धैः कुलपुत्रैः कुलदुहितृभिश्च कथं प्रतिपत्तव्यम्।

भगवानाह – शारिपुत्र !मयि गते परिनिर्वृते वा न्यग्रोधपरिमण्डलं यावद्व्यामं तावत् कायं यावत्कायं तावद्व्यामं पूजासत्कारार्थं प्रतिमा कर्तव्या। सर्वङ्गौपाङ्गावयवस्थौल्यलावण्यलालित्यसलीलत्वं सप्तोत्सदमहाहनुत्वं छत्राकारशिरःस्कन्धसुसंस्थितोष्णीषत्वादिसुसंस्थाना। तत्रायामे विस्तारोत्सेधसन्धिबन्धननिर्गमैः प्रमाणं बुद्धमूर्त्तीनां बोधिसत्त्वानां च ”इति वचनात्।

तत्र लावण्यं स्निग्ध धर्मता। लालित्यं मनोहरता। सलीलत्वं त्रिभङ्गत्वादिगुणेन। सप्तोत्सदेति सप्तावयवाः।

उत्सदा उच्छ्रया उन्नताश्चेति पर्यायाः। कतमे पादद्वयं हस्तद्वयं स्कन्धद्वयं ग्रीवा चेति। अपरं प्रसिद्धमेव किञ्चिदुन्नतिरुच्छे(त्से)धः। तत्र चतुरङ्गुलमुष्णीषं केशस्थानञ्च तथैव ललाटनासिकधश्चिबुकान्तं चतुर्वाधिकचतुरङ्गुलम्। एतेनार्द्धत्रयोदशीमात्रा मुखभागः। चिबुकं द्व्यङ्गुलं भवेत्। आयामनिर्गमाभ्याञ्चैव चतुरङ्गुलमिष्यते। चतुरङ्गुलौ कपोलवाकर्णमूलाद्विनिर्गतौ। चक्षुरधश्चर्मणोऽधोभागा हनुः स्यात् द्व्यङ्गुलोत्सेधो विस्तारात् द्व्यंगुलश्च सः। बोधिसत्त्वापेक्षः सोऽधिकः परिपूर्णः स्यान्महासिंहहनुर्यथा। संबुद्धमहावज्रधराणां किञ्चिदुन्नत इत्यर्थः। क्रोधानां तु चिपिटो विस्ताराधिकः। अधरो द्व्यङ्गुलायामो निर्गमोत्सेधमात्रिकः। अङ्गुल्यास्तृतीयभागो मात्रिक इति। अधरमध्यं बिम्बफलवत्। एकाङ्गुले सृक्कणी। चतुरङ्गुलायामं वक्त्रं यथोपपन्नविन्यासश्च चत्वारिंशद्दशनानां राजददन्तादिक्रमेण। उत्तरोष्ठोऽङ्गुलार्धश्चतुर्यवो निर्गमोत्सेधाभ्याम्। नासाग्राऽधरष्टाङ्गुलस्त्रिभागा प्रणीलाकारा श्मश्रुमथ्या। गोधिः नासाद्व्यङ्गुलविस्तारा सार्द्धाङ्गुलोन्नता। बुद्धानां किञ्चिदधिका। अतिक्रोधानां किञ्चिच्चिपिटा पार्श्वनिर्गता। अर्द्धाङ्गुलसमे वृत्ते श्रोतसी। तस्या नासावंसो(शो)नासाग्रमवक्रो विस्तारार्द्धाङ्गुलः। चतुरङ्गुलश्चक्षुः कोषः। तन्मध्यमेकाङ्गुलं विस्तारात् मध्ये द्व्यङ्गुलम्। भ्रूवोरधस्तादारभ्याधः पर्यन्तं त्र्यङ्गुलिः। चक्षुषोरन्तरे नासामूलमेकाङ्गुलं भ्रूचतुरङ्गुलायताचापाकारा। अर्द्धाङ्गुलविस्तारा मध्ये वज्रधरस्य। क्रोधानां तु कुटिला। बुद्धानां ध्यानदृष्टीनां द्वियवविस्ताराद् द्व्यङ्गुलषट्यवाधिकायामाच्चापाकारं बोधिसत्त्वानां तु चतुर्यवविस्तारात् विंशतियवायामादुत्पलम्। सर्वासां शृङ्गारस्त्रीणां अष्टादशयवायामेन षट्यवविस्तारात् मत्स्योदराकारम्। चतुर्यवकरवीरं नासासमीपं नेत्रान्तः। अपरनेत्रान्तोऽपाङ्गश्चतुर्यवः। त्र्यङ्गुलश्चक्षुर्मणिः। पिटकेन द्वियवोन्नतः। कालिका सातिरेकपञ्चयवप्रमाणा सृक्कणीसूत्रमादृष्टिर्मध्येपुत्तलिका। सार्द्धङ्गुलस्यैव पञ्चभागेन विस्तारेणैकाङ्गुलं तारात्रिभागिकाऽङ्गुलस्य चतुर्थांशः प्रकाशितो अक्षिपुत्रकः।

पद्मपत्राकृतिकार्यो नेत्रकोशोऽङ्गुलत्रयम्। करवीरसमसूत्रं नासिकापुटस्य। तारासमं चिबुकं सृक्कणी तथा। भ्रुवोर्मध्यं सार्द्धाङ्गुलम्। तत्रैवोर्ण्णा एकाङ्गुला पूर्णचन्द्रनिभा। नासा उर्णा उष्णीषसमं सूत्रम्। भ्रुवो रेखासमौ कर्ण्णौ। आयामेन चतुरङ्गुलौ द्व्यङ्गुलविस्तारौ तत्पत्रं च यवम्। तयोरूर्ध्वपत्रं चतुर्यवं नतमूचेमै (मुच्चैरे)काङ्गुलम्। विलं चतुर्यवम्। कपोलकर्णच्छिद्रयोर्मध्ये कर्ण्णावर्त्तः फलिकाकारो द्वियवः। कर्णलता चतुरङ्गुली दीर्घतः स्थूला यथा शोभना।

पूर्वमुष्णीषादिग्रीवापर्यन्तं चतुर्यवाधिकविंशत्यङ्गुलमुक्त्वा इदानीं ग्रीवादिगुल्फाधः पर्यन्तस्य विभागः क्रियते। ग्रीव चतुरङ्गुला। ग्रीवातो हृदयं सार्द्धद्वादशाङ्गुलम्। हृदयान्नाभिपर्यन्तं तथा नाभेरागुह्यं सार्द्धद्वादशाङ्गुलम्। ऊरुः पञ्चविंशत्यङ्गुलम्,जंघापि तथा। जानुः षडङ्गुलम्। द्व्यङ्गुलो गुल्फः। गुल्फादधश्चतुरङ्गुलमेति सम्यक्संबुद्धवज्रधरबोधिसत्त्वादीनां दशतालस्य कथितो विभागः। अन्येषां तु यथायोगमुन्नेयम्।

यथाशोभं शिरोमणिर्विमलः कार्यः। उष्णीषं मध्यस्थीकृत्य द्वादशाङ्गुलं जटामकुटं वज्रधरस्य। वीराणां बोधिसत्त्वानां चाष्टाङ्गुलं जटाजूटं मकुटं चेति विशेषः। दशाङ्गुलमिति केचित्। उष्णीषाधो वेष्टनेन द्वादशाङ्गुलम्। ललाटोपरिच्छत्राकारम्। नीलदक्षिणावर्तमूर्द्ध्वजम्। उन्नतमस्तकां(कं)कर्णसंमुखपृष्ठवेष्टनेन द्वात्रिंशदङ्गुलमस्तकम्। ग्रीवा चाष्टाङ्गुलविस्तारा। तस्या वेष्टनं चतुर्विंशत्यङ्गुलम्। ग्रीवाया अष्टाङ्गुलं हित्वा कर्णसमीपे चतुरङ्गुलेन सह द्वादशाङ्गुलस्कन्धावृत्तः स्थाणुक्षोणान्वितः। कृशतारहितस्कन्धात् कफोणेरुर्ध्वं विंशत्यङ्गुलो बाहुः कफोणिरेकाङ्गुला। कफोणेरधस्तान्मणिबन्धादूर्द्ध्वं प्रबाहुः षोडशाङ्गुलः। एकाङ्गुलो मणिबन्धः। मणिबन्धादधो मध्याङ्गुल्यग्रपर्यन्तं द्वादशाङ्गुलो हस्तः। एवं पञ्चाशदङ्गुलम्। बाहौ मध्येवेष्टनं विंशत्यङ्गुलम्। उपबाहोर्मध्यवेष्टनं षोडशाङ्गुलम्। मणिबन्धे वेष्टनं द्वादशाङ्गुलम्। मणिबन्धात् सप्ताङ्गुलं करतलम्। मध्याङ्गुली पञ्चमात्रा। तस्याः पर्वार्द्धोना प्रदेशिनी। अनामिका तत्समा। पर्वोना कनीयसी। सर्वाङ्गुल्यस्त्रिपर्वाः। पर्वार्द्धेन नखास्तासाम्। मणिबन्धाच्चतुरङ्गुलम् त्यक्त्वा नखाग्रं यावच्चतुरङ्गुलोऽङ्गुष्ठः। द्विपर्वः पर्वार्द्धेन नखः। अङ्गुष्ठो वेस्टनेन चतुरङ्गुलः। अङ्गुष्ठप्रदेशिन्योरन्तरं त्र्यङ्गुलम्। मणिबन्धात् कनीयसीमूलपर्यन्तं पञ्चाङ्गुलम्।

स्कन्धात् कक्षपर्यन्तं नवाङ्गुलम्। कक्षात् स्तनं यावत् षडङ्गुलम्। उरःपृष्ठयोर्वेष्टनं षट्पञ्चाशदङ्गुलम्। स्तनयोर्मध्यं सार्द्धद्वादशाङ्गुलम्। स्तननाभ्योर्मध्यं षोडशाङ्गुलम्। नाभिमारभ्य वृष्ठेन (पृष्ठेन)स[ह]नाभिं यावत् षट्चत्वारिंशदङ्गुलं नाभेर्निमूतयो एकाङ्गुलं परिणाहं च। तथा विस्तरेणाष्टादशाङ्गुला कटिः स्फिच्चौ चतुरङ्गुलौ विस्तारायामौ। उरुमूलयोर्मध्यं द्वादशाङ्गुलम्। वेष्टनेन त्रिगुणम्। तयोर्मध्य आयामेन पञ्चाङ्गुलौ विस्तारेण चतुरङ्गुलौ अण्डकोषौ। तदुपरि द्व्यङ्गुलं विस्तारेण गुह्यं दैर्घ्येण द्वियवाधिक – षडङ्गुलम्। उरुमध्यं वेष्टनेन द्वात्रिंशदङ्गुलम्। जानुवेष्टनमष्टाविंशत्यङ्गुलम्। जंघामध्यवेष्टनं चतुर्विंशत्यङ्गुलम्। जंघाधो वेष्टनमेकविंशत्यङ्गुलम्। पादग्रन्थेरधः पार्ष्णी चतुरङ्गुले। अध ऊर्ध्वतः षडङ्गुले। तिर्यक्विस्ताराच्च परिणाहेनाष्टादशाङ्गुले।

गुल्फात्परतोऽङ्गुष्ठनखाग्रं यावत् पादौ द्वादशाङ्गुलौ विस्तारेण षडङ्गुलौ। अध ऊर्ध्वेन द्व्यङ्गुलविस्तारौ पादयोः पार्ष्णी। पादाङ्गुल्यः पञ्च द्विद्विपर्वा। तासां मध्यपर्वार्द्धेन नखाः। पादाङ्गुष्ठः पञ्चाङ्गुलः परिणाहेन दैर्घ्येण त्र्यङ्गुलः ,तत्समा प्रदेशिनी। तस्याः सार्द्धपर्वोना मध्यमा। तस्या अष्टम – भागोनानामिका। तस्या अप्यष्टमभागोना कनीयसी। अङ्गुल्य एकाङ्गुलोन्नताः। अङ्गुष्ठाग्रौ सार्द्धाङ्गुलोन्नतौ। बहिरुपरिपादौ कूर्म्मपृष्ठसमौ। अधस्ताच्चक्रादि – भिरलङ्कृतौ।

कुक्कुटाण्डतिलाकारं चतुरस्रञ्च मण्डलम्।

सर्वसामान्यलिङ्गानां मुखाकृतिश्चतुर्विधा॥

संबुद्धानां महावज्रधराणां च मुखं कुक्कुटाण्डाकारम्। लोचनादिदेवकन्यानां तिलबिम्बाकारम्। मैत्रेयादिमहाबोधिसत्त्वानां महावज्रधरवन्मुखम्। खर्वलम्बोदरक्रोधानां मण्डलाकारं वृत्तमुखम्। ललितक्रोधानां तु बोधिसत्त्ववत्। प्रेतादीनां तु चतुरस्रं मुखम्। लावण्यदर्शनं मुखद्वयम्। चतुरस्रमण्डलं मुखद्वयं विकृताकारम्।

समे दृष्टिप्रसन्नास्ये सौम्यस्निग्धावलोकने।

सार्द्धेन दैन्ययुक्तेऽधः कर्तव्ये सर्वदर्शिनाम्॥इति।

लोचनादि योगिनीनां उष्णीषगुह्योरुपृष्ठवेष्टनात् दशाङ्गुलेन सह पीनघनकुचौ। नाभाववेष्टनात् दशभागं हित्वा कटिस्थलं पीनं कर्तव्यम्। बोधिसत्त्वमानादुरसो दशभागेन गुह्यांशेन च वीरिणीना(नां)कुचयुग्मं। कटिस्थलं तु पूर्ववत्। काकास्यादीनां तत्तालद्वयेन स्तनादौ पीनता। भगवतः श्रीसंवरस्य पूर्वकृतलक्षणे मुखक्षेत्रे चतुर्यवं हित्वा द्वादशभागिकविस्तारे अधः कोणयोरेकसार्द्धद्विसार्द्धद्विभागहरणवर्त्तनात् भगवतो मूलवामदक्षिणपश्चिमवक्त्राणि। भगवतो दक्षिणखगाण्डमुखवद् वज्रवाराहीखण्डरोहारूपिणीदेवकन्यानां च पश्चिममुखवत्तिलबिम्बाकारं डाकिन्याः पूर्वमुखवत् लामायाः वाममुखवत् चूताभं वीरवीरेश्वरीणाञ्च। काकास्यादीनां काकादिमुखमेव भगवतो वामदक्षिणमुखं च कुर्वद्धसितत्रसितबुभुक्षितानामिवेति विशेषः। इन्द्र – ईशानवायुवरुण – उपेन्द्रपितामहा नवतालाः खगाण्डमुखाः। वेमचित्रिनैरृतिषट्तालाः क्रोधस्वभावाः। कुबेरानलौ ललितखर्वावष्टतालौ खगाण्डमुखौ। सौम्यग्रहाः सूर्यश्च शक्रवन्मानमानिताः। क्रूराः क्रोधस्वभावाः। अर्द्धकायो राहुः। अधःकायनागाकारः केतुः। सर्वनागा नवताला खगाण्डमुखाः। वटुवामनहेरम्बः कर्तव्यः पञ्चतालिकः। तत्र तालैकेन मुखः ग्रीवात आगुह्यं यावत्तालद्वयेन गुह्यतः पादतलं यावत्तालद्वयेनेति पञ्चतालम्। तत्र संबुद्धाः करुणाभूतशान्तरसोपेताः वज्रधरमुखं सर्वशरीरं नवरसरसाविष्टम्। बोधिसत्त्वादयस्तु शृङ्गाररसाधिकाः इति प्रस्तारः कथितः॥

॥ इति सम्यक्सम्बुद्धभाषितं प्रतिमालक्षणविवरणं समाप्तम्॥

स्वभावाः। अर्द्धकायो राहुः। अधःकायनागाकारः केतुः। सर्वनागा नवताला खगाण्डमुखाः। वटुवामनहेरम्बः कर्तव्यः पञ्चतालिकः। तत्र तालैकेन मुखः ग्रीवात आगुह्यं यावत्तालद्वयेन गुह्यतः पादतलं यावत्तालद्वयेनेति पञ्चतालम्। तत्र संबुद्धाः करुणाभूतशान्तरसोपेताः वज्रधरमुखं सर्वशरीरं ।