सम्यक्सम्बुद्धभाषितं प्रतिमालक्षणम्- Samyak Sambuddha Bhasitam Pratima Lakshanam

सम्यक्सम्बुद्धभाषितं प्रतिमालक्षणम्

नमो बुद्धाय।

एवं मया श्रुतमेकस्मिन् समये बुद्धो भगवान् जेतवने विहरति स्म।

तुषितवरभवनात् मातुर्धर्मदेशनागमनकालसमये शारिपुत्रो भगवन्तमेतदवोचत्। भगवन् भगवता गते परिनिर्वृते वा श्राद्धैः कुलपुत्रैः कुलदुहितृभिश्च कथं प्रतिपत्तव्यम्।

भगवानाह-शारिपुत्र ! मयि गते परिनिर्वृते वा न्यग्रोधपरिमण्डलं कायं कर्तव्यम्। यावत्कायं तावद्‍व्यामं यावद्‍व्यामं तावत्कायं पूजासत्कारार्थं प्रतिमा कर्तव्या। सर्वाङ्गोपाङ्गावयवस्थौल्यलावण्यलालित्यसलीलत्वं छत्राकारं शिरःस्कन्धासु संस्थितोष्णीषत्वादिसुसंस्थानात्। तत्रायामविस्तारोच्छेद सन्धिबन्धनिर्गमैः प्रमाणं बोधिसत्त्वानां सुगतानाञ्च प्रवक्ष्यामि तच्छृणु। तत्र तावत् प्रमाणं बोधिसत्त्वानां स्वेनाङ्गुलीप्रमाणेनशतं विंशत्युत्तरम्, बुद्धानां पञ्चविंशत्युत्तरम्।

चतुरङ्गुलमुष्णीषं केशस्थानं तथैव च।

सार्द्धत्रयोदसी(शी) मात्रा मुखभागञ्च तत्त्रयम्॥१॥

ललाटं नासिकाञ्चाधश्चिबुकान्तं तृतीयकम्।

चतुरङ्गुलं ललाटं च तुल्यं नासिकया भवेत्॥२॥

साधिकं चिबुकान्तं तु चिबुकं द्वयङ्गुलं भवेत्।

आयामं निर्गमाच्चैव चतुरङ्गुलमिष्यते॥३॥

चतुरङ्गुलौ कपोलौ तु कर्णमूलाद्विनिःसृतौ।

हनुः स्यात्त्र्यङ्गुलोच्छेदोविस्तारे द्वयङ्गुलश्च सः॥४॥

साऽधिकः परिपूर्ण्णः स्यान्महासिंहहनुर्यथा।

अधरो द्वयङ्गुलायामो निर्गमोच्छेदमात्रिकः॥५॥

मध्ये स्याच्छोभना रेखा सृक्कणी मातृके स्मृतौ।

चतुरङ्गुलमायामं वक्त्रं कुर्याद्विचक्षणः॥६॥

यथोपपन्नस्थानाश्चत्वारिंशद्दशनाः स्मृताः।

उत्तरोष्ठोऽङ्गुलार्द्धः स्यात्तथैबोच्छेदनिर्गमः॥७॥

त्रिभागाङ्गुलिका कार्या गोधिस्तस्यैव च स्थिता।

नासा द्वयङ्गुलविस्तारा सार्द्धमङ्गुलमुन्नता॥८॥

अर्द्धाङ्गुले समे वृत्ते नासायाः श्रोतसी स्मृतौ।

नासावंशः समो मध्ये विस्तारेणार्द्धमात्रिकः॥९॥

नेत्रान्तरोऽङ्गुले ज्ञेयो नेत्रे च चतुरङ्गुले।

विस्ताराद्‍द्वयङ्गुलौ मध्ये तयोस्तारा त्रिभागिकी॥१०॥

दृष्टिः स्यात्पञ्चभागेन द्वयङ्गुलं त्र्यङ्गुलं तयोः।

अङ्गुलस्य चतुर्थांशो विसृतोऽक्षिः समुद्‍गकः॥११॥

पद्मपत्राकृतिः कार्यो नेत्रकोशोऽङ्गुलित्रयम्।

करवीरसमं सूत्रं नेत्रयोः नासिकापुटे॥१२॥

तारा समे च चिबुके सृक्कणी परियोजयेत्।

अन्तरस्तु भ्रुवः कार्यं विस्तृतं सार्द्धमङ्गुलम्॥१३॥

मध्ये चोर्णात्र विज्ञेया शुभा पूर्णेन्दुसन्निभा।

नासिकाववंश सूत्रोर्णा तथा मूर्ध्वजसंस्थितम्॥१४॥

शिरोमणीः स विज्ञेयः सुप्रभो विमलस्तथा।

चतुरङ्गुलमुच्छेदाल्ललाटोपरि मस्तकम्॥१५॥

छत्राकारं शुभन्नीलं दक्षिणावर्त्तस्तूर्ध्वजम्।

भ्रुरेखा स्याच्चतुर्मात्रा कर्णाग्रं चापि तत्समम्॥१६॥

निःसृतौ द्वयङ्गुलौ कर्णौ तयोः पत्रार्द्धमात्रिकः।

उच्छेदो(त्सेधो)मात्रिको ज्ञेयः श्लिष्टश्रोत्रार्द्धमात्रिकाः॥१७॥

अङ्गुलस्य चतुर्थांशः कर्णावर्त्तस्तु विस्तरैः।

सार्द्धमात्रेऽङ्गुले द्वे स्यात् कर्णस्त्वन्तरभागतः॥१८॥

पार्श्वौ स्यातां यथाशोभं केशाश्चापि तथैव च।

अर्द्धपञ्चममात्रञ्च कर्णपत्रमपाङ्गतः॥१९॥

कर्णात्कर्णान्तविज्ञेयो मस्तकोऽष्टादशाङ्गुलः।

चतुर्दशाङ्गुलं पृष्ठं तयोरन्तरमिष्यते॥२०॥

चत्वारिंशन्मात्रञ्च शिरः स्यात्परिणाहतः।

ग्रीवोच्छेदा(त्सेधा)च्चतुर्मात्रा विस्तारादष्टमातृका॥२१॥

परिणाहाच्च कर्तव्या चतुर्विशतिमातृका।

ग्रीवान्तान्यङ्गुलान्यष्टौ स्कन्धांसो(शो) द्वादशाङ्गुलः॥२२॥

विनान्तरांशो वृत्तश्च स्कन्धः स्याल्लक्षणान्वितः।

चत्वारिंशतमात्राणि बाहौ चायाममिष्यते॥२३॥

बाहुर्विशतिमात्रस्तु प्रबाहुः षोडशस्तथा।

द्वादशाङ्गुलहस्ताग्रं मणिबन्धात्प्रकीर्तितः॥२४॥

कुकुणीमणिबन्धाभ्यामङ्गुलञ्चाङ्गुलं स्मृतम्।

बाहौ मध्यपरिक्षेप इष्टो विंशतिमातृकः॥२५॥

प्रबाहुः षोडशः [श्च] स्याद्‍द्विषट्‍को मणिबन्धने।

आयामं सप्तकं पाणौ तलविस्तारपञ्चकम्॥२६॥

शङ्खञ्चक्रं तले न्यस्तं पद्म चाकुलिशाङ्कुशम्।

सर्वलक्षणरूपिण्यो ले(रे)खाः कार्य्याः पृथग्विधाः॥२७॥

पञ्चाङ्गुलायता मध्या पर्वार्द्धोना प्रदेशिनी।

अङ्गुलार्द्धविहीना तु कर्तव्या स्यादनामिका॥२८॥

अनामिकातः पर्वोना कर्तव्या तु कनीयसी।

त्रिपर्वाङ्गुलयः सर्वाः पर्वार्द्धेन नखाः[शु]भाः॥२९॥

मणिबन्धोपरिष्टात्तु सोऽङ्गुष्ठश्चतुरङ्गुलः।

तावानेव परिक्षेपः पर्वार्द्धेन नखश्च सः॥३०॥

अङ्गुष्ठात्तु प्रदेशिन्या अन्तरं त्र्यङ्गुलं स्मृतम्।

कनीयसी मणिबन्धाद्भवेत्पञ्चाङ्गुलायतः॥३१॥

अग्रहस्तपरिक्षेपो विज्ञेयो द्वादशाङ्गुलः।

दैर्घ्यात्तृतीयभागः स्यात् स्वाङ्गुलीनां परिग्रहः॥३२॥

ग्रीवाहृदययोर्मध्ये सार्द्धद्वादशमात्रिकः।

हृन्नाभ्यो[श्च] चतुश्चैव स्तनयोरपि चान्तरम्॥३३॥

स्तनयोरुपरिष्टाच्च कक्षे कार्ये षडङ्गुले।

तदूर्ध्वं पुनरास्कन्धान्नवमात्रा प्रकीर्तिता॥३४॥

उरसोऽपि च विस्तारः पञ्चविंशतिमात्रिकः।

परिणाहादुरः कार्यो विस्तारात्त्रिगुणं शुभम्॥३५॥

स्तननाभ्यन्तरे(रं) चैव षोडशाङ्गुलमिष्यते।

अवेधः सन्धिरन्ध्राभ्यां नाभिमण्डलमङ्गुलम्॥३६॥

नाभिमध्यात् परिक्षेपः षट्‍चत्वारिंशदङ्गुलः।

अष्टादशाङ्गुलं चैव विस्तारेण कटिर्भवेत्॥३७॥

नाभिमेढ्रोन्तरञ्च स्यात् सार्द्धद्वादशमात्रिकः।

तदर्द्धेन तु मेढ्रः स्यादपानपरिणाहतः॥३८॥

पञ्चमात्रायतौ लम्बौ वृषणौ चतुरङ्गुलौ।

पञ्चमात्राणि चत्वारि विस्तारायामतस्तयोः॥३९॥

ऊरू समाहितौ कार्यौ पञ्चविंशतिमात्रिकौ।

सुविस्तारं तयोर्मध्यं मापयेद्‍द्वादशाङ्गुलम्॥४०॥

परिणाहेऽपि कर्तव्यं शुभं षट्त्रिंशदङ्गुलम्।

मध्ये…………….चतुरङ्गुलं तु जानुतः॥४१॥

सन्धिबन्धश्चतुर्मात्रा त्रिद्विकं जानुगुल्फकम्।

गुढगुल्फं सिरास्थित्वं सुकुमारौ स्तयौ शुभौ॥४२॥

ऋजुवृत्तायते जंघा पञ्चविंशतिमात्रिके।

तयोर्मध्ये परिणाह एकविंशतिमात्रिकः॥४३॥

चतुर्दशाङ्गुलाऽयता गुल्फान्ताश्चतुरङ्गुलम्।

गुल्फो द्वादशकायामः पादः पादार्द्धविस्तरः॥४४॥

पार्श्वौ द्वयङ्गुलविस्तारौ पार्ष्णी च चतुरङ्गुले।

षडङ्गुलं सुविस्तारं त्रिगुणं परिणाहतः॥४५॥

पञ्चाङ्गुल्यो द्विपर्वाणि पर्वार्द्धेन नखाः स्मृताः।

पञ्चाङ्गुलं परिक्षेपादङ्गुष्ठस्त्र्यङ्गुलायतः॥४६॥

अङ्गुष्ठकसमा चैव आयामेन प्रदेशिनी।

षोडशाष्टाष्टभागेन शेषा हीनाः परस्परम्॥४७॥

अङ्गुल्यो मात्रिकोच्छ्रे(त्से)धादङ्गुष्ठः सार्द्धमात्रिकः।

तत्र ताम्रनखाः सार्द्धां अङ्गुलाः कोमलायताः॥४८॥

कूर्मपृष्ठसमौ पूर्णौ पादौ बहिरलंकृतौ।

समश्लिष्टानताच्छिद्रौ सुप्रतिष्ठतः(ष्ठित) लक्षणैः॥४९॥

तयोस्तलं सुचक्रादिचित्राकारं तु कारयेत्।

पादावत्र प्रशंसन्ति सर्वज्ञा हतकिल्विषाः॥५०॥

कुक्कुटाण्डं तिलाकारं चतुरस्रं सुवर्तुलम्।

सर्वसामान्यलिङ्गानां मुखमेतच्चतुर्विधम्॥५१॥

महानरसुरस्त्रीणां कुक्कुटाण्डं तिलाकृतिः।

लावण्यं दर्शनीयं तत् कारयेत् मुखद्वयम्॥५२॥

प्रेतभूतपिशाचानां रक्षसां विकृताकृतिः।

मण्डलं चतुरस्रं च कारयेत्तु मुखद्वयम्॥५३॥

समा दृष्टिः प्रसन्ना च बुद्धानामवलोकने।

नाधो नोर्ध्वं न दैन्येन संयुक्तं सर्वदर्शिनाम्॥५४॥

॥इति सम्यक्सम्बुद्धभाषितं प्रतिमालक्षणं समाप्तम्॥