बार्हस्पत्य नीतिसूत्राणि (Niti Sutram by Brihaspati)

Sayambhu

Niti Sutram by Brihaspati – Ch-1-2-3-4-5-6

प्रथमोऽध्यायः

१ – बृहस्पतिरथाचार्यः इन्द्राय नीतिसर्वस्वमुपदिशति।
२ – आत्मवान् राजा।
३ – आत्मवन्तं मन्त्रिणमापादयेत्।
४ – दण्डनीतिरेव विद्या।
५ – धर्ममपि लोकविक्रुष्टं न कुर्यात्, करोति चादाशास्यैनं बुद्धिमद्भिः।
६ – समानैः सेव्यः।
७ – स्त्रीबालवृद्धैः सह न वदेद्धर्मनीतिकृत्यानि।
८ – ऐन्द्रजालिकं न कुर्यात्, न मन्त्रवादोत्सवौ, नामयविषविध्वंसनानि, न भस्मधारणम्, वाग्निहोत्रवेदपाठादीनि, न तीर्थयात्राम्, न राजसेवाम् , न स्त्रीसेवां च।
९ – न मद्यं पिबेत्, ब्राह्मणं न हन्यात्, स्तेयं न कुर्यात्, बहु न च स्रगनुलोपौ, न विषीदेत्, न चातिकुप्येत्।


१० – अविषये लोभं अदानसंज्ञं वर्जयेत्।
११ – केदारे बीजानि वापयेत्, पात्रे च दानं कर्तव्यम्।
१२ – तदसहिष्णुता लोभः, स्तेयं च लोभः।
१३ – स्वद्रव्यव्ययहेतुः कामः।
१४ – गुरुदेवप्राज्ञनृपादिहिंसाबुद्धिः क्रोधः, स्वशिरस्ताडनं च।
१५ – बलादिषु च समं शत्रुं युद्धेन् हन्यात्।
१६ – अन्याभियाधिनः सामदानभेदमायोपेक्षादिभिः।
१७ – मलवेषं न कुर्यात्।
१८ – मृगयातिसङ्गं नाचरेत्।
१९ – स्त्रीष्वतिसंङ्गात् अयशो वर्धते, आयुश्च क्षीयते।
२० – द्यूतपरतापपरापवादपातकिसमागमे संमन्त्रपदानि परच्छिद्राणि विद्यात्, व्यसनमपि रहस्येन।
२१ – औषधोपयोगविण्मूत्रविसर्जनस्नानदन्तधावनमैथुनोपभोगदैवतपूजाः रहस्येन (कुर्यात्)।
२२ – वृथाधर्मध्वजिनं न विश्वसेत्, निन्देन्न च।
२३ – उन्मत्तजडादीन् दृष्ट्वा न हसेत्।
२४ – तुल्यशीलवयोभिः क्रडितव्यं रहस्ये।
२५ – गजाश्वक्रीडे व्यक्ते न द्विमूर्तम्।
२६ – दूषयेन्न च स्वजातिजीवत्सु।
२७ – अर्थेनानुरागेणाभिजन्मवौदार्येण च पूर्वे भविष्ये अधिकल्वे इच्छा कर्तव्या।
२८ – पूर्वाचरितं धर्मं, अनुजीविसख्यं, अमातृज्ञातिसुहृद्बान्धवांश्च समं पश्येत्।
२९ – बहिरन्तर्दण्डदाने अनुजीविषु, सामदभेददानानि मन्त्रिषु, सामभेद दानार्थमायपिण्डानि ज्ञातिषु।
३० – अप्रियमपि वचनं शृणुयात्।
३१ – दर्दिनग्रहवैषम्यत्रिजन्मनक्षत्रे गुरुकार्यप्राप्तौ न च मङ्गलानि सेवेत।
३२ – एकदेशैकरूपिणीं अभिजातां स्त्रियं गमयेत्।
३३ – नातिभेदयेत्, नातिसाम, नातिदानं ,न च स्त्रीषु दण्डः, न च मायोपेक्षा कर्तव्या, न बहुवदेच्च।
३४ – ग्रामयाचकस्तुतभागधवन्दिनडनर्तक्युपाध्यायासत्यवादिवटुनिटनणिजगोपालवेश्याकुनृषेषु अनृताडम्बरः वक्तव्यः।
३५ – संन्यासं नृपवेश्यामन्त्रवादोपजीवेषु चिरं न सेवेत।
३६ – आत्मप्रभुं सेवेत।
३७ – आयत्यादीनति न सेवेत।
३८ – स्त्रीद्यूतपानासक्तान् न सेवयेत्।
३९ – पञ्चनाडिकाः इष्टदेवतापूजाजपादि, पञ्चनाडिकायामतीतायां आस्थानं, दशनाडिकाः विधिः, पञ्चनाडिकाः स्नानं,त्रिनाडिकाः भोजनं ,पञ्चनाडिकाः हास्यक्रीडा स्निग्धैः, द्वनाडिका सन्ध्या, सप्तनाडिकाः नृत्तादयः, सप्तनाडिकाः मैथुनभोजनादयः – सप्त नाडाकास्सुप्तिः ।
४० – स्वनियमं कुर्यादप्रमादेन, अश्वनियामक इव।
४१ – शिरः कमपनास्थानेन स्वागतेन शिष्टाम्बूलदानेन च ब्राह्मोतेतमान् मानयेत्।
४२ – दुर्ब्राह्मणं सोपायनमपि न शिरःकम्पेन।
४३ – समानप्रभुं विद्येश्वरं वा स्वागतेनासनेन शिरःकम्पनेन ताम्बूलदानेन हास्यकथया च.
४४ – स्मितेन स्वागतेनान्यांस्त्रैवर्णिकान्।
४५ – ईक्षणस्मितेन स्वागतेन शूद्रान् (न)।
४६ – अभीष्टद्रल्यदानेन बालवृद्धादीन्।
४७ – अन्त्यपाषण्डादीन् वाङ्मात्रेणापि न।
४८ – कार्यगुरुतया अनुगच्छेत्, अल्पं वदेत्, योगं दद्याच्च।
४९ – वर्णिकापरिग्रहं न कुरियाद्रहस्सये।
५० – कर्मकरान् प्रतियोगिनोऽपि कार्यं रहस्ये न विचारयेत्।
५१ – स्निग्धैः सह समानं वर्येन्मन्त्रित्ये।
५२ – अन्त्यजं त्वनन्त्यजातिनम्, अन्त्यजानां हि स्वार्थानिवेदकत्वं आज्ञाकर्त्वं च, तन्नातिलालयेत्, न विश्वसेच्च।
५३ – सर्वं ज्ञात्वा न कुर्यात्।
५४ – धर्मगुप्तिः गृहयात्रागुप्तिः कार्यगुप्तिः वैरगुप्तिश्च।
५५ – यशोभङ्गे सत्यमपि नेति वदेत्।
५६ – चिकित्सकज्योतिषिकमन्त्रवादिनः संगृह्णीयात् वृत्तशीलसमपन्नान्।
५७ – सत्यमपि दुःखानर्थसाधनं न वदेत्।
५८ – पञ्चविंशतिवर्ष यावत् क्रीडाविद्यां व्यसनात् कुर्यात्, अत उत्तरमर्थार्जनम्।
५९ – आत्मानमनृणिनं कुरयात्, ऋणवान् जायते त्रिभिः कामक्रोधलोभैः।
६० – सरीरं सर्वदा रक्षेत्।
६१ – नित्यकर्म न त्यजेत।
६२ – जनघोषे सति क्षुद्रकर्म न कुर्यात्।
६३ – नष्टे न स्थातव्यम्, दूरपरिहरणीयं गुरुतरमपि दत्राजकार्यम्।
६४ – कुसुमान्तान् दण्डनायकान् नवान् न सेवेत।
६५ – अल्पहानिः सोढव्या।
६६ – यतो मातङ्गचोरव्यालसर्पव्याघ्रकुलं विपिने श्मशाने च वसति, तस्मात् परमनागसां ज्ञातिवैरं न कर्तव्यम्।
६७ – राज्योपप्लवे तद्रराजक्षेत्रं एकामिषश्वानवत्।
६८ – नीतिः किल नदीतीरतरुवत्, तन्नेहितव्यम्।
६९ – भुतद्रोहिणः कुसुमान्तादयः।
७० – यशोवीर्यायुःश्रियो हरति कुसुमान्तसेवा।
७१ – कामक्रोधमदमात्सर्यपैशुन्यादीन् न कुर्यात्।
७२ – अरिः शुभशीलः मित्रम्।
७३ – सुहृदशुभशीलः शत्रुः।
७४ – चन्द्रादित्ययोः एकरुचुत्वात् शत्रुत्वम्, यदि चेन्न स्थितिस्तयोः।
७५ – ज्ञातिषु यत्र वैरं तत्कुलं आमूलं नश्यति।
७६ – यश्शास्त्रं दण्डनीतिं परित्यजति अनर्थकः, स शलभ इव वह्निं प्रविशत्यज्ञानात्—इत्याह भगवानाचार्यः सुरेन्द्रगुरूः।

इति प्रथमोऽध्यायः पूर्णम् ॥


द्वितीयोऽध्यायः

१ – गुणवतो राज्यम्।
२ – विद्यागुणोऽर्थगुणः सहायगुणाश्च।
३ – स्वकुलरञ्जनं च चारित्ररक्षणम्।
४ – कृषिगोरक्षवाणिज्यानि (अध्येयानि)।
५ – सर्वथा लोकायतिकमेव शास्त्रमर्थसाधनकाले, कापालिकं कामसाधने, आर्हतं धर्मे।
६ – सर्वथा लोकयतिकमसेनार्थं क्षिप्रं नश्यति तत्, कापालिकार्हतबौद्धाश्च। एतेषु तिष्ठन् शलभवह्निवत्, फलानि श्रोत्रसलिलकल्पानि।
७ – अविद्यायुक्तः पुरुषार्थं साधयितुं धर्मयुक्तवद्यदेच्छिति, तदा लोकायतिकाभिधानपाषण्डी।
८ – यदा चण्डालः उदारसुरामांसादिकामेच्छुः तदा कापालिकाभिधानपाषण्डी।
९ – यदा सन्ध्योपासनाद्यग्निहोत्रादि च परित्यज्य अहिंसाधर्मेच्छुः तदा क्षपणकाभिधानपाषण्डी।
१० – यदा वेदोक्तकर्मज्ञानं सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्यज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी।
११ – वृथाधर्म वदत्यर्थसाधनं लोकायतिकः पिण्डादयश्चौर्यमिति च।
१२ – सर्वमर्थार्थं करोति अग्निहोत्रसन्ध्याजपादीन्।
१३ – स्वदोषं गूहितं कामार्थं वेदं पठति, अग्निहोत्रादीम् करोति सुरापानार्थं महिलामेहन्र्थं चेति।
१४ – विष्ण््वादयः सुरापानिनः इति कापालिकाः।
१५ – दर्मार्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः, शिवादयस्तथेति वदति च। स च परापवादार्थं पेदशास्त्रधर्मादीन् पठति। सर्वान्नि न्दति महेश्वरविष्ण्वादीनपि, सोऽप्यशनार्थं वदति।
१६ – वदनार्थं परान् स्तौति स बौद्धः।
१७ – योकायतिको मृतः भवति अर्थकामधर्ममोक्षविहीन) नारकी च, तत्कुलं च तत्पुत्रपौत्रान्तरे विनश्यति।
१८ – कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकी भवति, तस्मिन् काल एव कुलं विनश्यति।
१९ – त्रपणकः स्वकुलग्रमवासिभिर्निन्दितः भवति, त्रिकुलं विनश्यति।
२० – बौद्धसंचिंत कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी।
२१ – एवं पाषण्डिम्पर्कं मनसापि न कुर्यत्।
२२ – सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्चं परिप्लयितुं न शक्यते।
२३ – ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति।
२४ – कार्यं निश्चित्य विष्याननुभवति यः स उत्तममर्थं साधयति।
२५ – येष्टयाकर्यज्ञानी अर्थपर इति धर्मवानिति च लोकैर्यथा न ज्ञायते तथा कर्तव्यम्, ईशवर इव चन्द्रादित्याविव च।
२६ – स्वामिचित्तानुवर्तिभिः मत्यैक्यकारि कर्मैव मन्त्रम्।
२७ – नीतेः फलं धर्मार्थकामावाप्तिः।
२८ – धर्मेण कामार्थौ परीक्ष्यौ, धर्म धर्मेण, अर्थमर्थेन, कामं कामेन, मोक्षं मोक्षेण।
२९ – गुरुशासनं कार्यमेव धर्मेण विरुद्धमपि, पाण्डवविवाह इव, अर्जुन संन्यास इव, व्यासविधवागमनमिव, कर्णोत्पादनमिव, राममातृवध इवेत्यादि।
३० – नीतिवियुक्तः पुत्र इव शत्रुः।
३१ – बालं दुष्टं साहसिकमज्ञातशास्त्रं मन्त्रे न प्रवेशयेत्।
३२ – मूढाः दुराचाराः तीक्ष्णाः ईत्मबुद्धयः क्षिप्रक्रुद्धाः बाला) न मन्त्रयोग्याः।
३३ – सर्वरत्वान्यपि दीयन्दां स्वकार्यजीवयशोरक्षणे।
३४ – मव्त्रकाले क प्रतोपयेत्।
३५ – धर्मः प्रधानं पुरुषार्थानाम्।
३६ – अधर्मेण भुज्यमानं सुखमसुहृत् स्थितिवर्धनं च।
३७ – अपथ्यभोजनः मृत्युप्रीतिकर इव।
३८ – सत्यव्रतः शास्त्रेषु निष्ठितः पुपुषः सागरमपि शोषयेत्।
३९ – स यदि क्रुद्धः सर्वे हतपौरुषाः त्रस्ता भवनिति।
४० – एक एव दुर्जनः बहून् नाशयति।
४१ – लौरुषे निष्ठितः देवः।
४२ – यस्य स्वदाररतिः यस्य च आत्मदमने शक्तिः तस्य सदृसो न।
४३ – सज्जनो न भयाद्व्यतिवर्त्े।
४४ – तस्मिन् काले हितं अवक्तव्यं अवाक्यज्ञैः सुहृद्भिः।
४५ – उत्सिक्तहृदयं धर्मे चालितगौरवं अजितात्मानं शासितुं नोत्लहेत।
४६ – दारुणरक्मभिः श्रान्तं अज्ञाननिद्रया सुपुतं च बालं धर्मवाक्यानिलैः शीतलैः प्रबोधयेत्।
४७ – दुरजनमध्ये सूर्यवत् प्रकाशते सुजनः।
४८ – अधर्मव्यवस्थितान् न्यायवृत्तेन वारयेत्।
४९ – अधर्मं अकीर्तिञ्च नार्जयेत्, न च कमपि मारयेत्।
५० – बोलाः निवार्यन्तां धर्मपाठाङ्कुशेन गजा इव।
५१ – गुरुवचनमलङ्घनीयं नयानुगतं चेत्।
५२ – गुरुमपि नितिवियुक्तं निहासयेत्—इत्येतान् गुरुराहेति।

इति द्वितीयोऽध्यायः पूर्णम् ॥


तृतीयोऽध्यायः

१ – जितक्लेशस्य पौरुषस्य पौरुषम्।
२ – देशान्तरवासेन जितकलेशो भवति।
३ – सर्वबलकालदेशसामप्रकृतिसहायामवयसां ज्ञानं उपवासादिसहिष्णुत्वं च सम्पादयेत्।
४ – सुगन्धवासान् कोसान् कुर्यात्।
५ – बहुवादमपि मधुरमेव कुर्यात्।
६ – शमबुद्वीन् मणीन् सरवान् सर्वदाऽऽराधयेत्।
७ – नवानि मन्त्राणि विद्य़ात्।
८ – तानि त्रिविधानि प्रभिन्नानि—शाक्तवैष्णवशैवानि।
९ – मोक्षपुर्याः त्वारं त्रयं –शाक्तं वैष्णवं शैवमिति।
१० – पोतयानमार्गवत् शाक्तं, महापथवद्वैष्णवम्।
११ – केवलप्रधानिकं शैवं अश्वरथयानवत्।
१२ – लोकायतिकक्षपणकबौद्धादि बहुशार्दूलदुष्टमृगाकीर्णशून्याटवी गुहामार्गवत्।
१३ – एतान् निरूप्यैकमाश्रयेत्।
१४ – ज्योतिर्नाथस्थितं सदा निरूपयेत्।
१५ – चातुर्वर्ण्यंरक्षेत्।
१६ – यौषधानि सेवेत।
१७ – बलवर्णतेजोमददबुद्धिशौर्यदयावर्धनानि दोषधातुशमनानि।
१८ – दानमानालङ्कारविद्याभिः सिद्धिं लभेत।
१९ – अष्टदशतीर्थानि निरूपयेत।
२० – षट्प्रकृतयस्तीर्थं शत्रुमित्रोदासीनाश्च, अन्तश्शत्रुः अन्तर्मित्रं अन्तरुदासीन इति तेऽपि अनुजीविसखिसुहृदश्च; भार्यापुत्रबान्धवाश्च, अन्येऽपि देवालयनृत्तयागभूमिसन्ध्यावापीचतुष्पथ-पाषण्डालयापण-बालविद्यापाठशेखलूरीशालीचन्द्रदर्शनाद्युत्सव-वेश्यागृह-समुद्रतीरयतिसंनिधि-राज्यसन्धिसुरा-विक्रयस्थान-पान्थनिवासाश्च।
२१ – शृङ्गारवेषं कुर्यत्।
२२ – पुरद्वारे सर्वनिरोधनं कार्यम्, सर्वान् न निषेधयेच्च।
२३ – इतिहासपुराणानि तत्पाकान् शाक्तागमन् वैखानसागमान् सांख्यान् शैवांश्च मानयेत्।
२४ – सर्वानपि स्वाध्यायं कुर्यात् कारयेच्च।
२५ – ब्राह्मणं न हन्याद्दोषदुष्टमपि ।
२६ – निर्दयस्य दया कर्तव्या।
२७ – ग्रामणीन् नगरेन्द्रांश्च सम्भावयेत्।
२८ – दुर्बलमपि साम कुर्यात् , दान्न बहु, न स्वल्पं च, नोत्तमेषु गुणबाहुल्यक्रमेण।
२९ – अक्षैर्दीव्यात्, नैव दीव्याच्च।
३० – सर्पदीन् हन्यात्।
३१ – उत्तमान् नानामन्त्रसिद्धान् विद्याबहुलान् द्विजाल् मालयेत्।
३२ – अन्यराष्ट्रजान् द्विजान् क्षत्रबन्धून् कुमारसामन्तादीन् आत्मवत् सम्भावयेत् भोजनाच्छादनादिभिः।
३३ – शरणागतं सर्वपातकयुक्तमपि रक्षेत्।
३४ – दुष्टनिग्रहं कुर्यात्, शिष्टपरिपालनं च।
३५ – ग्रामं नगरं दैवालयानि च न बाधेत।
३६ – आसवानि सेवयेत्, अति न, मांसानि च।
३७ – घृणा कार्या, बौद्धादयो न ग्राह्याः।
३८ – न मत्तकाशिन्यः सेव्याः।
३९ – पञ्चाशतकोटियोजना पृथ्वी, सप्तद्वीपवती च, सप्त समुद्रावृता च।
४० – करमभोगातिभोगदिव्यश्रृङ्गारसिद्धकैवल्या इति द्वीपाभिधानाः।
४१ – मध्यः कर्मभूमिः, तन्मध्ये मेरूराजम्बूः, तत्रोत्तरे हिमवान्, तस्य दक्षिणे नवसाहस्रीभूः।
४२ – तत्र दाक्षिणात्यो भारतः खण्डः , तत्र साक्षाद्धर्माधर्मफलाः सिद्धयन्ति।
४३ – तत्र दण्डनीतिः पूर्वभारतीयैः पठितव्या भविष्यैर्वर्तमानैः चातुर्वर्णिकैश्च।
४४ – दण्डनीत्या भगवान् भानुर्नृपतिः, वायुः सर्वे देवाश्च जन्तवश्च।
४५ – सहस्रयोजना बदरिका सेत्वन्ता।
४६ – द्वारकादि पुरुषोत्तमसालग्रामान्ता सप्तशतयोजना।
४७ – तत्रापि रैवतकविन्ध्यसह्यकुमारमलयश्रीपरवतपारियात्राः। सप्त कुलाचलाः।
४८ – गङ्गासरस्वतीकालिन्दीगोदावरीकावेरीताम्रपर्णीघृतमालाः कुलनद्यः।
४९ – अष्टादश विषयाः, अष्टादशसागराः नृपाः, अष्टादश पार्वतीयाः।
५० – रामसृष्टिः चत्वारिंशच्छतं दक्षिणोत्तरे आसह्यं द्वादह्यं, विश्वामित्रसृष्टिरेकादश।
५१ – नेपालं चतुश्शतं, पूर्वसमुद्रतो वरणतः समुत्रान्तं अष्टयोजनम्, पञ्चशतद्वितयं इत्तरवाटं पूर्वलाटञ्च, काशीपञ्चालद्वितीयं अशीतिः, केकयसृञ्चयं सृष्टिः, मात्स्यमागधं शतम्, मावशकुन्तमशीतिः, कोसलावन्तिः षष्टिः, सैह्यवैदर्भद्वितयं शतद्वितयम्, वैदेहकौरवं शतम्, कम्बोजदशारणमशीतिः, एते महाविषयाः; एते खलु चतुरश्राः।
५२ – आरदृबाह्लीकौ दक्षिणोत्तरतः शतमात्रौ पूर्वपश्चात् द्वादशौ, शाकसौराष्ट्रे चतुरश्रौ चत्वीरिंशत्, अङ्गवङ्गकलिङ्गाः शतमात्राः चतुरश्राश्च, काश्मीरहूणाम्बदृसिन्धवः शतमात्रशचतुरश्राश्च, किरातसौवीरचोलपाण्ड्याः उत्तरे दक्षिणे स्थिताः शतोत्तरं षष्टिमात्राः, यादवकाञ्चीविषयं चत्वारिंशच्छतमात्रं, एत उपविषयाः।
५३ – सप्तकोङ्कणाः चतुश्शतमात्राः द्वादशषडष्टौ च अनूपाः, एते अनूपाः।
५४ – सह्याद्रौ चत्वारो गिरिविषयाः, श्रीपर्वते द्वयम्, रैवतक एकः विन्ध्ये पञ्च, कुमारे एकम्, महेन्द्रे त्रयम्, पारियात्रे त्रयम्।
५५ – सर्वे दक्षिणोत्तरतः पञ्चाशन्मात्राः पूर्वतः पश्चात् पञ्चयोजनाः समाः।
५६ – म्लेच्छे यवनविषयाः पार्वतीयाः।
५७ – ग्रामनगरोद्यानादिभिरलङ्कृताः पुण्यक्षेत्रादिभिश्च अष्ट वैष्णवक्षेत्राः बदरिकासालग्रामपुरुषोत्तमद्वारकाबिलिवाचलानन्तसिंहश्रीरङ्गाः।
५८ – अष्टौ शैवाः एविमुक्तागङ्गाद्वारशिवक्षेत्ररामेश्वरयमुनाशिनसरस्वतीमव्यशार्दूलगजक्षेत्राः।
५९ – शाक्ता अष्टौ च—ओग्घीणजालपूरणकामकोल्लश्रीशैलकाञ्चीमहेन्द्राः।
६० – एते महाक्षेत्राः सर्वसिद्धिकराश्च वन्द्याश्च।
६१ – विन्ध्ये नित्यं वसति दुर्गा भद्रकाली च, कुमारे कुमारो वसति, सह्ये गणपतिः, रैवतके शास्ता, महेन्द्रे गरुडः, पारियात्रे क्षेत्रपालः।
६२ – कर्मभूमौ भारत मनुष्यैः बहवो देवाः।
६३ – सुरासुरयक्षराक्षसभूतप्रेतविनायककूश्माण्डाः विकृताननाः निरुद्धाः भारवेषाः सौम्यभैरवाः योगिन्यश्च नागाश्च मानवैस्सह पूपरमा असंख्याताश्चरन्ति, मानवैः कृतपालनाश्च।
६४ – तस्मिन्नमृतमय्यः ओषध्यः सन्ति।
६५ – अत्र युगसंख्या कृतत्रेताद्वापरतिष्याश्च, कृते-ज्ञानिनः दण्डनीति कोविदाः, त्रेतायां-कर्मिणः नीतिविशारदाः, द्वापरे-तान्त्रिकानुसाराः घनरसाश्च नीतिकोविदाश्च, तिष्ये-ज्ञानकर्मघनाः दण्डनीतिकोविदानराः, तदुत्तरं विरुद्धधर्मवर्णवेषाः दण्डनीतिवर्जिताः पश्यन्ति प्रजा अनृतवादतत्पराश्चेत्याह गुरूः।

इति तृतीयोऽध्यायः पूर्णम् ॥


चतुर्थोऽध्यायः

१ – ब्राह्मे मुहर्ते उत्थाय धर्ममर्थञ्च चिन्तयेत।
२ – कुक्कुटशब्दः शुभं, गजादिदर्शनं च, गजशब्दमङ्गनस्तुतिवेदपाठनानिच, दवतापुण्यकथाश्च, हाजन्यस्मरणं च, नेत्राञ्जनं च, आदर्शदर्शनं च।
३ – अलङ्कारयेत्—ताम्बूलचर्वणंच, कर्पूरचन्दनागरुधूपढ्च।
४ – शङ्खकाहलविषाणाच्छिन्नवेणुवीणातन्त्रीमृदङ्गपणवाः तूर्यघोषाञ्च, दिव्यप्रमदादर्शनं च, मागधभिन्नषड्जं च, जातिस्वरं च।
५ – सर्पिषि सित्तपुष्पाणि, मन्त्रतृप्तो वह्निः सतार्चिर्विष्णुलिङ्गधूमयुक्तो भवति।
६ – तद्शुभं गवां सन्दर्शनं, गृध्रसंदर्शनं च, सन्ध्याज्वलनं च, विरुद्धशिवादर्शनं च।
७ – क्रव्यादमृगाणां शब्दो ग्रामपुपद्वारे वा श्रूयते।
८ – देवाताप्रतिमास्वेदश्च यस्मिन् दृश्यते तत्र प्रायश्चित्तं –अन्यत्र यानमेव, प्रतिकारो नास्ति।
९ – अवश्यनिपूपणीयान्येतान् कर्माणि।
१० – मन्त्रमूलो विजयः।
११ – त्रिविधाः पुरुषाः उत्तमाधममध्यमाः, मन्त्रेऽपि।
१२ – बहुभिर्बान्धवैः हितैरबहुश्रुतैः धीरैश्सह यत्कर्मारभते तदुत्तमम्।
१३ – धर्मद्विविधे गुरौ भक्तिश्च।
१४ – अर्थपरैस्सह मन्त्रयित्वा आरभते स उत्तमः।
१५ – गुणदोमागमं निश्चित्य मौर्ख्यबाहुल्यात् यः आरभते सोऽधमः।
१६ – ऐकमत्येन दणडनीतिनेत्रेण धीरैर्मन्त्रिभिर्यो मन्त्रःस उत्तमः।
१७ – पूर्व बहुबुद्धयः पश्चादेकमतयो भवन्ति यत्र स मध्यमः।
१८ – यत्र कलहः भर्त्सनं च , एकस्य धर्मः, एकस्य अर्थः, स्त्रीवालवृद्धैस्सह एकस्य रुदितं, एकस्य क्रोधः यस्मिन् सोऽधमः।
१९ – पूर्व स्वामिना सार्यनिवेदनम्, पुनर्वचसा कर्मणा मनसाञ्जिलिना दण्डप्रमाणेन यथा गुरुत्वं स्वामिनमभिवन्दयेत्।
२० – वृद्धो वैश्रवणो वाचस्पतिर्वा यस्यान्नं भुञ्जते तं वन्देत।
२१ – यत्पुनः यथाक्रमं एकैकस्य मतं श्रोतव्ययम्।
२२ – स्वामिनं प्रसाद्य कार्यं कलपयितव्यम्।
२३ – पूर्वं स्वमिगुणं संकीर्त्य, स्वामिदोषं परदोषं च मध्यस्थदोषं च मन्त्रयित्वा पुनः स्वामिगुणसंस्थालनं कुर्यात्।
२४ – पुनः कार्याण्युपायानि निरूप्य स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम्।
२५ – प्रमत्तेषु अभियुक्तेषु दैवोपहतेषु च न सिद्धयन्ति विक्रमाः।
२६ – अप्रमत्तं धर्मज्ञं जितेन्द्रियं विजिगीषुं बलिषु जातकोपं दुराधर्षं प्रति विक्रमो न कार्यः।
२७ – शास्त्रवित् कथं कार्यं न प्रजानातीति न वदेत्।
२८ – बलिष्ठान् शत्रून् कामादीन् ये जयन्ति ते सर्वीनरीम् जयन्ति।
२९ – पूर्वमुपकारं न कारयेत्, उपकारं नियतं कुर्याच्च।
३० – नाभावि व्यसनं पूर्वं ज्ञात्वा व्यसनप्रतीकारं कार्यमिति गुरूराह।

इति चतुर्थोऽध्यायः पूर्णम् ॥


पञ्चमोऽध्यायः

१ – चत्वारः उपायाः त्रयश्च, मायोपेक्षा वधश्च।
२ – सूरिषु साम, शङ्कितेषु सामभेदौ, लुब्धेषु सामदानभेदाः, कष्टेषु सामभेददानमायोपेक्षावधाः।
३ – साम पूर्वं प्रयोक्तव्यम्।
४ – मनसोऽभिप्रायं वाचः प्रीतिकर्म च।
५ – ज्ञातीनां व्यसते ज्ञातयो हृष्यन्ति।
६ – ज्ञातिं ज्ञातयः प्रच्छन्नहृदयाः क्रूरा उपद्रवन्ति।
७ – सरवभयेषु ज्ञातिभयं क्रूरम्।
८ – गोषु पयः, ह्राह्मणे कोपः, स्त्रीषु चापलं दूरत्वं, ज्ञातिषु सौहृदं च पत्रजलपिन्दुवत्।
९ – हितं गुरुजनवाक्यं शास्त्रचोदितं च ये न श्रृण्वन्ति कालचोदिताः, तान् सुपिरहृत्य अन्यत्र वसेत्।
१० – लोकविरूद्धं नाचरेत्।
११ – मन्त्रविद्यागुह्यपदमेषु ग्रहान् बान्धवान् कुशलादन्यत्र न कार्यं व्यसनानि च।
१२ – दुर्जनं परिहृत्य वक्तव्यं, विद्यायुक्तोऽपि गुहाहिरिव।
१३ – शत्रुपक्षादागतं न विश्वसेत्, गुणतः सङ्गृह्णीयात्, भावैः परीक्षयेत्।
१४ – वीरोऽसारैः सहसा न ज्ञायते, बुद्धिमविज्ञाते सहसा परीक्षयेत्।
१५ – इङ्गितैर्ज्ञातुं शक्यते, प्रसन्नो न।
१६ – अशङ्कितमतिः स्वस्थः, अकोपनश्चबालादयोऽपि विवृण्वन्ति हितम्।
१७ – स्वकुलस्य विनाशं ज्ञात्वा बुद्धिमांस्तत्र शत्रुपक्षमपि न युक्तमाश्रयेत्।
१८ – हृदये यथावच्छुभाशुभं पूर्वमुदेति ।
१९ – न दुष्टाचारः सर्वत्र कारयेत्।
२० – चपला न बहुमान्याः, इत्याहचार्यो बृहस्पतिः।

इति पञ्चमोऽध्यायः पूर्णम् ॥


षष्ठोऽध्यायः

देशकालयोग्यं कर्म नयानयौ च वेदयेक्, न विपरीतं वेदवीर्यदर्पेण।
हितानि निरूपयेत्।
नवो मन्त्रिभिर्निरूप्य कारयेत्।
बुद्धिजीवनैरमात्यैस्सह कार्मकार्यं च निरूपयेत्।
अहितं विकारं यस्य प्रतिभाति स मन्त्रयोग्यः।
अर्थमार्जयेत्।
यस्यार्थसाशिरस्ति तस्य मित्राणि धर्मः विद्या गुमः विग्रमः बुद्धिश्च।
अधन्नार्थमारजयितुं न शक्यते, गजो अगजेनेव।
धनमूलं जगत्, सर्वाणि तत्र सन्ति।
निर्धनो मृतश्चण्डालश्च।
एवं धर्ममूलं च विद्यामार्जयेत्।
विद्यामूलमिदं जगत्, विद्यापुनस्सर्वमित्याह गुरूः।
इति षष्ठोऽध्यायः पूर्णम्।

इति बृहस्पत्यनीतिसूत्राणि समाप्तानि॥


 

%d bloggers like this: