बोधिपथप्रदीप – दीपङ्करश्रीज्ञान-Bodhi Patha Pradip-Dipankar Sreegyana

बोधिपथप्रदीप- दीपङ्कर

नमो बोधिसत्त्वाय मञ्जुश्रिये कुमारभूताय 
कालत्रयाखिलजिनांश्च तदीय धर्मान् सङ्घान्महादरतया प्रणिपत्य चापि ।
बोधिप्रभेण कथितो विशदीकरोमि शिष्योत्तमेन खलु बोधिपथप्रदिपम् ॥ १ ॥

पुरुषास्त्रिविधा

पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः ।
लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः ॥ २ ॥
उपायेन तु केनापि केवलं संसृतेः सुखम् ।
स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषोऽधमः ॥ ३ ॥
पापकर्मनिवृत्तात्मा भवसुखात्पराङ्मुखः ।
आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः ॥ ४ ॥
स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा ।
सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः ॥ ५ ॥

काङ्क्षन्तो हि वरां बोधिं सत्त्वानामुत्तमास्तथा ।
दर्शितान् गुरुभिस्तेभ्यः सदुपायां प्रचक्ष्महे ॥ ६ ॥

पूजा

सम्बुद्धचित्रमूर्त्यादिस्तूपसद्धर्मसम्मुखः ।
पुष्पैधुपैः पदार्थैश्च यथाप्राप्तैः सुपूजयेत् ॥ ७ ॥
समन्तभद्रचर्योक्ता पूजा सप्तविधापि च ।
बोधिसारस्य पर्यन्तमवैवर्तिकचित्ततः ॥ ८ ॥
सुश्रद्धया त्रिरत्नेयः भुमौ संस्थाप्य जानुनी ।
भूत्वा कृताञ्जलिश्चापि त्रिश्चादौ शरणं व्रजेत् ॥ ९ ॥
ततः समस्तसत्त्वेषु मैत्रीचित्त पुरस्कृतः ।
दुर्गतित्रयाजन्मादिसङ्क्रान्तिमरणादिभिः ॥ १० ॥
दृष्ट्वाशेषं जगद्दुखं दुःखेन दुखितायाश्च ।
दुःखहेतोस्तथा दुःखात्जगतां मुक्तिकाङ्क्षया ॥ ११ ॥
बोधिचित्तं समुत्पाद्यमनापायिप्रतिज्ञया ।
एवं प्रणिधिचित्तानामुत्पादेतु गुणाश्च ये ॥ १२ ॥
ते गण्डव्यूहसूत्रेषु मैत्रेयेण प्रभाषिताः ।
सूत्रस्य तस्य पठनाच्छ्रवणाद्गुरोर्वा
सम्बोधिचित्तगुणकानि निरन्तकानि ॥ १३ ॥
विज्ञाय तस्य खलु संस्थितारर्णान ।
चित्तं तथा समुदयेत मुहुर्मुहश्च ।
वीरदत्तपरीपृच्छासूत्रे पुण्यं प्रदर्शितम् ॥ १४ ॥

यत्तच्श्लोकत्रयेणैव समासेनात्रलिख्यते ।
बोधिचित्ताद्धि यत्पुण्यं तच्च रुपि भवेद्यदि ॥ १५ ॥
आकाशधातुं सम्पूर्य भुयश्चोत्तरि तद्भवेत् ।
गङ्गावालिकसङ्ख्यानि बुद्धक्षेत्राणि यो नरः ॥ १६ ॥
दद्यात्सद्रत्न पूर्णानि लोकनाथेभ्य एव हि ।
यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत् ॥ १७ ॥
इयं विशेष्यते पूजा यस्यान्तोऽपि न विद्यते ।
उत्पाद्यबोधिप्रणिधानचित्तं नैकप्रयत्नैः परिवर्धितव्यम् ॥ १८ ॥
जन्मान्तरेऽपि स्मरणार्थमस्य शिक्षा यथोक्ता परिपालनीया ।
प्रस्थानचित्ते स्वयमातिरिक्तं सम्यग्भवेन्न प्रणिधानवृद्धिः ॥ १९ ॥
सम्बोधिसंवार विवृद्धिकामः तस्माद्ध्रुवं चैनमवाप्नुयात ।
सप्तधाप्रातिमोक्षैश्च सदान्यसंवरान्वितः ॥ २० ॥
भाग्यं बोधिसत्त्वानां संवरस्य न चान्यथा ।
सप्तधा प्रातिमोक्षेषु भाषितेषु तथागतैः ॥ २१ ॥
ब्रह्मचर्यश्रियः श्रेष्ठाः भिक्षुसंवर इष्यते ।
शीलाध्यायोक्तविधिना बोधिसत्त्वस्य भुमिषु ॥ २२ ॥
संवरः सद्गुरोर्ग्राह्यः सम्यग्लक्षणयुक्ततः ।
यः संवरविधौ दक्षः स्वयं च संवरे स्थितः ॥ २३ ॥
कृपालुः संवरे शक्तः ज्ञातव्यः सद्गुरुस्तु सः ।
तत्र यत्नेन न प्राप्तो गुरुश्चैतादृशो यदि ॥ २४ ॥
संवरग्रहणस्यान्यो विधिः तस्मात्समुयच्ते ।
अम्बरराजभुतेन पूर्वं मञ्जुश्रिया यथा ॥ २५ ॥

अभिज्ञ

बोधिचित्तं समुत्पादि सुस्पष्टं चात्र लिख्यते ।
मञ्जुश्रिबुद्धक्षेत्रालङ्कारसूत्रोक्तिवत्तथा ॥ २६ ॥
उत्पादयामि सम्बोधौ चित्तं नाथस्य सम्मुखम् ।
निमन्त्रये जगत्सर्वं दारिद्यान्मोचितास्मि तत् ॥ २७ ॥
व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यमेव व ।
अध्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता ॥ २८ ॥
ब्रह्मचर्यं चरिष्यामि कामांस्त्यक्ष्यामि पापकान् ।
बुद्धानामानुशिक्षिष्ये शीलसंवर संयमे ॥ २९ ॥
नाहं त्वरितरुपेण बोधिं प्राप्तुमिहोत्सहे ।
परान्तकोटिं स्थास्यामि सत्त्वस्यैकस्य कारणात् ॥ ३० ॥
क्षेत्रं विशोधिष्यामि अप्रमेयमचिन्तिम् ।
नामधेयं करिष्यामि दशदिक्षु च विश्रुतम् ॥ ३१ ॥
कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः ।
शोधयिष्ये मनस्कर्म कर्तास्मि नाशभम् ॥ ३२ ॥
स्वकायवाकचित्तविशुद्धिहेतु, प्रस्थानचित्तात्मयमस्थितेन ।
त्रिशीलशिक्षापरिशियेत चेत्, त्रिशीलशिक्षासु महादरस्यात् ॥ ३३ ॥
शुद्धसम्बोधिसत्त्वानां तस्मात्संवरसंवृतौ ।
यत्नात्सम्बोधिसम्भारः परिपूर्णो भविष्यति ॥ ३४ ॥
पुण्यज्ञानस्वभावस्य सम्भारस्य तु पूर्तये ।
सर्वबुद्धमतोहेतुरभिज्ञोत्पाद एव हि ॥ ३५ ॥
पक्षवृद्धिं विना पक्षी खे नोडडेतुं यथा क्षमः ।
तथाभिज्ञाबलैर्हीनः सत्त्वार्थकरणेऽक्षमः ॥ ३६ ॥
अभिज्ञस्य दिवारात्रौ यानि पुण्यानि सन्ति वै ।
अभिज्ञायाश्च राहित्ये नैव जन्मशतेषु च ॥ ३७ ॥
शीघ्रं सम्बोधिसम्भारं सम्पूरयितुमिच्छति ।
निरालस्येन यत्नेनाभिज्ञां संसाधयेत्तु सं ॥ ३८ ॥
शमथसिद्धयभावेऽभिज्ञानं न जायते ।
अतः शमथसिद्धयर्थं यतितव्यं पुनः पुनः ॥ ३९ ॥
शमथङ्गप्रहीणत्वे तद्यत्नैर्भावितेऽपि च ।
संवत्सरसहस्रैश्च समाधिर्नैव सेत्स्यति ॥ ४० ॥
अतः समाधिसम्भाराध्यायोक्ताङ्गसमाश्रितः ।
कस्मिंश्चितलम्बनेऽपि पुण्ये संस्थापयेन्मनः ॥ ४१ ॥
योगिनः शमथे सिद्धेऽभिज्ञानं चापि सेत्स्यति ।
प्रज्ञापारमितायोगं विना नावरणक्षयः ॥ ४२ ॥
क्लेशज्ञेयावृतेस्तस्मात्प्रहाणार्थमशेषतः ।
प्रज्ञापारमितां योगी सोपायं भावयेत्सदा ॥ ४३ ॥
उपायरहिता प्रज्ञाप्युपायः प्रज्ञया विना ।
यतो बन्ध इति प्रोक्तौ प्रहेयं नोभयं ततः ॥ ४४ ॥

प्रज्ञा

का प्रज्ञा क उपायश्च शङ्कामिति निरासितुम् ।
उपायस्य च प्रज्ञायाः भेदः सम्यक्प्रकाश्यते ॥ ४५ ॥
प्रज्ञापारमितां त्यक्त्वा दानपारमितादयः ।
सर्वे हि कुशलाः धर्माः उपायाः जिनभाषिताः ॥ ४६ ॥
उपायाभ्यासवश्यात्मा यो हि प्रज्ञां विभावयेत् ।
शीघ्रं स लभते बोधिं न नैरात्म्यैकभावनात् ॥ ४७ ॥
स्कन्धायतन धातूनामनुत्पादावबोधिनाम् ।
स्वभावशून्यता ज्ञानं प्रज्ञेति परिकीर्तिता ॥ ४८ ॥
सदुत्पत्तिरयुक्तास्ति असच्चापि खपुष्पवत् ।
द्वयोर्दोषप्रसङ्गत्वातुद्भावो न द्वयोरपि ॥ ४९ ॥
अनुत्पन्नः स्वतो भावो परतो नोभयोरपि ।
अहेतुतेश्च नो तस्मात्निःस्वभावः स्वरुपतः ॥ ५० ॥
अथवा सर्वधर्माणां चैकानेकविचारणे ।
स्वरुपाप्राप्यमाणत्वात्निःस्वभावत्वनिश्चयः ॥ ५१ ॥
शुन्यतासप्तौ युक्तौ मूलमध्यमकादिषु
सिद्धो भावस्वभावस्तु शुन्यतायां भाषितः ॥ ५२ ॥
ग्रन्थस्य गौरवो यस्मातत्र तस्मान्न विस्तरः ।
सिद्धसिद्धान्तमात्रैकं भावनार्थं प्रभाषितम् ॥ ५३ ॥
तस्मादशेषधर्माणां स्वभावनामलाभतः ।
नैरात्म्यभावना या हि सा प्रज्ञायास्तु भावना ॥ ५४ ॥
प्रज्ञया सर्वधर्मणां यत्स्वभावो न दृष्टवत् ।
युक्तया परीक्ष्य तां प्रज्ञां सोऽविकल्पेन भावयेत् ॥ ५५ ॥
भवो विकल्पोभूतोऽयं तद्विकल्पात्मकस्ततः ।
सर्वकल्पपरित्यागः निवार्णः परमोऽस्ति हि ॥ ५६ ॥

एवमप्युक्तं भगवता – –

महाविद्या विकल्पो हि संसारार्णवपातकः ।
निर्विकल्पसमाधिस्थेऽविकल्पो भासते खवत् ॥ ५७ ॥

अविकल्पप्रवेशधारण्यामपि उक्तम् – –

चिन्तितेनिर्विकल्पेऽस्मिन् सद्धर्मे जिनपुत्रकैः
विकल्पं दुर्गमं तीर्त्वाविकल्पो प्राप्स्यते क्रमात् ॥ ५८ ॥
निश्चयीयागमयुक्तिभ्यां स्वभाव रहितान् तथा ।
सर्वान् धर्मानुत्पन्नानविकल्पं भावयेत् ॥ ५९ ॥
भावयन्निदमेवेत्थं प्राप्योष्णत्वादिकं क्रमात् ।
लभते प्रमुदित्वादिं बुद्धबोधिर्न लम्बिता ॥ ६० ॥
साधितैर्मन्त्रशक्तया हि शान्तिविस्तरकर्मभिः ।
भद्रकुम्भादिसिद्धाष्टमहासिद्धिबलेन च ॥ ६१ ॥
अभीष्टा बोधिसम्भारपरिपूर्तिः सुखेन चेत् ।
क्रियाचर्यादि तन्त्रोकं गुह्याचरणभिष्यते ॥ ६२ ॥
तदाचार्यभिषेकार्थं महारत्नादिदानतः ।
सद्गुरुं प्रीणयेद्भक्तया सर्वाञ्ज्ञादिपालनैः ॥ ६३ ॥
प्रसन्ने च गुरौ भूते पूर्णाचार्याभिषेकतः ।
सर्वपापविशुद्धात्मा सिद्धिभागी भविष्यति ॥ ६४ ॥
आदिबुद्धमहातन्त्रे प्रयत्नेन निषेधतः ।
गुह्यप्रज्ञाभिषेकस्तु न ग्रह्या ब्रह्मचाररिणा ॥ ६५ ॥
सोऽभिषेको गृहीतश्चेत्ब्रह्यचर्यतपः स्थितैः ।
निषिद्धाचरणत्वात्तत्तपः सम्वरक्षयः ॥ ६६ ॥
जायन्ते व्रतिनस्तस्य पाराजिकविपत्तयः ।
सः पतेद्दुर्गतौ नूनं सिद्धिर्नैव कदाचन ॥ ६७ ॥

सर्वतन्त्रश्रुतौ भाष्ये होमयज्ञादिकर्मासु ।
लब्धाचार्याभिषेकश्च तत्त्वविद नैव दुष्यति ॥ ६८ ॥

दीपङ्करश्रिया बोधिपथः प्रोक्तः समासतः
दृष्ट्वा सूत्रादिधर्मोक्तिं बोधिप्रभनिवेदनात् ॥ ६९ ॥