मीमांसासूत्राणि
Chapter 7- 12
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् -७,१.१
उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् -७,१.२
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् -७,१.३
सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत -७,१.४
अविभागात् तु नैवं स्यात् -७,१.५
द्व्यर्थत्वं च विप्रतिषिद्धम् -७,१.६
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् -७,१.७
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् -७,१.८
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् -७,१.९
स्मृतिर् इति चेत् -७,१.१०
न पूर्ववत्वात् -७,१.११
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् -७,१.१२
सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् -७,१.१३
श्येनस्येति चेति -७,१.१४
नासन्निधानात् -७,१.१५
अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् -७,१.१६
पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् -७,१.१७
सर्वस्य वैकशब्द्यात् -७,१.१८
लिङ्गदर्शनाच् च -७,१.१९
विहिताम्नानान् नेति चेत् -७,१.२०
नेतरार्थत्वात् -७,१.२१
एककपालैन्द्राग्नौ च तद्वत् -७,१.२२
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् -७,१.२३
साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् -७,२.१
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरेऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः -७,२.२
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् -७,२.३
शब्दमात्रम् इति चेत् -७,२.४
नौत्पत्तिकत्वात् -७,२.५
शास्त्रं चैवम् अनर्थकं स्यात् -७,२.६
स्वरस्येति चेत् -७,२.७
नार्थाभावाच् छ्रुतेर् असंबन्धः -७,२.८
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् -७,२.९
लिङ्गदर्शनाच् च -७,२.१०
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति -७,२.११
शब्दानां चासामञ्जस्यम् -७,२.१२
अपि तु कर्मशब्दः स्याद् भावोऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टोऽन्यैः -७,२.१३
अद्रव्यं चापि दृश्यते -७,२.१४
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् -७,२.१५
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् -७,२.१६
योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते -७,२.१७
अयोनौ चापि दृश्यतेऽतथायोनि -७,२.१८
ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् -७,२.१९
स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके -७,२.२०
शब्दानां च सामञ्जस्यं -७,२.२१
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् -७,३.१
अपूर्वे वापि भागित्वात् -७,३.२
नाम्नस् त्व् औत्पत्तिकत्वात् -७,३.३
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावेऽप्रसिद्धं स्यात् -७,३.४
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् -७,३.५
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः -७,३.६
षडहाद् वा तत्र हि चोदना -७,३.७
लिङ्गाच् च -७,३.८
उत्पन्नाधिकारो ज्योतिष्टोमः -७,३.९
द्वयोर् विधिर् इति चेत् -७,३.१०
न व्यर्थत्वात् सर्वशब्दस्य -७,३.११
तथावभृथः सोमात् -७,३.१२
प्रकृतेर् इति चेत् -७,३.१३
न भक्तित्वात् -७,३.१४
लिङ्गदर्शनाच् च -७,३.१५
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् -७,३.१६
गुणविधिस् तु न गृह्णीयात् समत्वात् -७,३.१७
निर्मन्थ्यादिषु चैवम् -७,३.१८
प्रणयनं तु सौमिकम् अवाच्यं हीतरत् -७,३.१९
उत्तरवेदिप्रतिषेधश् च तद्वत् -७,३.२०
प्राकृतं वानामत्वात् -७,३.२१
परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा -७,३.२२
प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् -७,३.२३
मध्यमयोर् वा गत्यर्थवादात् -७,३.२४
औत्तरवेदिकोऽनारभ्यवादप्रतिषेधः -७,३.२५
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् -७,३.२६
चोदनासामान्याद् वा -७,३.२७
कर्मजे कर्म यूपवत् -७,३.२८
रूपं वाशेषभूतत्वात् -७,३.२९
विशये लौकिकः स्यात् सर्वार्थत्वात् -७,३.३०
न वैदिकम् अर्थनिर्देशात् -७,३.३१
तथोत्पत्तिर् इतरेषां समत्वात् -७,३.३२
संस्कृतं स्यात् तच्छब्दत्वात् -७,३.३३
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् -७,३.३४
कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् -७,३.३५
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् -७,३.३६
इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् -७,४.१
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् -७,४.२
वचनात् तु ततोऽन्यत्वम् -७,४.३
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् -७,४.४
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः -७,४.५
मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् -७,४.६
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण -७,४.७
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् -७,४.८
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् -७,४.९
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् -७,४.१०
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् -७,४.११
लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन -७,४.१२
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् -७,४.१३
लिङ्गाच् च -७,४.१४
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् -७,४.१५
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् -७,४.१६
न वार्थधर्मत्वात् संघातस्य गुणत्वात् -७,४.१७
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् -७,४.१८
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् -७,४.१९
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् -७,४.२०
अथ विशेषलक्षणम् -८,१.१
यस्य लिङ्गमर्थसंयोगादभिधानवत् -८,१.२
प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् -८,१.३
लिङ्गदर्शनाच्च -८,१.४
कृत्स्वविधानाद्वापूर्वत्वम् -८,१.५
स्त्रुगभिघारणाभावस्य च नित्यानुवादात् -८,१.६
विधिरिति चेत् -८,१.७
न वाक्यशेषत्वात् -८,१.८
शङ्कतेचानुपोषणात् -८,१.९
दर्शनमैष्टिकानां स्यात् -८,१.१०
इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् -८,१.११
पशौ च लिङ्गदर्शनात् -८,१.१२
दैक्षस्य चेतरेषु -८,१.१३
ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् -८,१.१४
तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् -८,१.१५
अव्यक्तासु तु सोमस्य -८,१.१६
गणेषु द्वादशाहस्य -८,१.१७
गव्यस्य च तदादिषु -८,१.१८
निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् -८,१.१९
कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् -८,१.२०
प्रवृत्तौ चापि तादर्थ्यात् -८,१.२१
अश्रुतित्वाच्च -८,१.२२
गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् -८,१.२३
निवृत्तिर्वा कर्मभेगात् -८,१.२४
अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् -८,१.२५
एककर्मणि विकत्पोऽविभागो हि चोदनैकत्वात् -८,१.२६
लिङ्गसाधारण्याद्विकल्पः स्यात् -८,१.२७
ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि -८,१.२८
अश्रुतित्वान्नेति चेत् -८,१.२९
स्याल्लिङ्गभावात् -८,१.३०
तथा चान्यार्थदर्शनम् -८,१.३१
विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् -८,१.३२
तेन च कर्मसंयोगात् -८,१.३३
गुणत्वेनदेवताश्रुतिः -८,१.३४
हिरण्यमाज्यधर्मस्तेजस्त्वात् -८,१.३५
धर्मानुग्रहाच्च -८,१.३६
औषधं वा विशदत्वात् -८,१.३७
चरुशब्दाच्च -८,१.३८
तस्मिंश्च श्रपणश्रुतेः -८,१.३९
मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् -८,१.४०
आज्यं वा वर्णसामान्यात् -८,१.४१
धर्मानुग्रहाच्च -८,१.४२
पूर्वस्य चाविशिष्टत्वात् -८,१.४३
वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् -८,२.१
अनुवषट्कारच्च -८,२.२
समुपहूय भक्षणाच्च -८,२.३
क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् -८,२.४
हविषा वा नियम्येत तद्विकारत्वात् -८,२.५
प्रशंसा सोमशब्दः -८,२.६
वचनानीतराणि -८,२.७
व्यपदेशश्च तद्वत् -८,२.८
पशुपुरोडाशस्य च लिङ्गदर्शनम् -८,२.९
पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् -८,२.१०
प्रोक्षणातच्च -८,२.११
पर्यग्निकरणाच्च -८,२.१२
सान्नाय्यं वा तत्प्रभवत्वात् -८,२.१३
तस्य च पात्रदर्शनात् -८,२.१४
दध्नः स्यान्मूर्तिसामान्यात् -८,२.१५
पयो वा कालसामान्यात् -८,२.१६
पश्र्वानन्तर्यात् -८,२.१७
द्रवत्वं चाविशिष्टम् -८,२.१८
आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् -८,२.१९
एकं वा चोदनैकत्वात् -८,२.२०
दधिसंघातसामान्यात् -८,२.२१
पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् -८,२.२२
धर्मानुग्रहाच्च -८,२.२३
सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् -८,२.२४
अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् -८,२.२५
द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् -८,२.२६
त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् -८,२.२७
लिङ्गाच्च -८,२.२८
अन्यतरतोऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डगयिनामयनस्य च चद्भूतेष्वहूनत्वं कुण्डगयिनामयनस्य दर्शनात् -८,२.२९
अहीनवचनाच्च -८,२.३०
सत्रे वोपायिचोदनात् -८,२.३१
सत्रलिङ्गञ्चदर्शयति -८,२.३२
हविर्गणे परमुत्तरस्य देशसामान्यात् -८,३.१
देवतया वा नियम्येतशब्दत्त्वादितरस्याश्रुतित्वात् -८,३.२
गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् -८,३.३
नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् -८,३.४
तथा चान्यार्थदर्शनम् -८,३.५
कालाभ्यासेऽपि बादरिः कर्मभेदात् -८,३.६
तदावृत्तिं तु जैमिनिरह्रामप्रत्यक्षसंख्यत्वात् -८,३.७
संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् -८,३.८
अधिकाराद्वा प्रकृतिस्तस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् -८,३.९
गणादुपचयस्तत्प्रकृतित्वात् -८,३.१०
एकाहाद्वा तेषां समत्वात्स्यात् -८,३.११
गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्त्याधिकारात्संख्या त्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् -८,३.१२
तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् -८,३.१३
न विंशतौ दशेति चेत् -८,३.१४
ऐकसंख्यमेव स्यात् -८,३.१४
गुणाद्वाद्रव्यशब्दः स्यादसर्वविषयत्वात् -८,३.१६
गोत्वच्च समन्वयः -८,३.१७
संख्यायाश्च शब्दत्वात् -८,३.१८
इतरस्याश्रुतित्वाच्च -८,३.१९
द्रव्यान्तरेऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् -८,३.२०
अशास्त्रलक्षमत्वाच्च -८,३.२१
उत्पत्तिनामधेयत्वाद्भतया पृथक्सतीषु स्यात् -८,३.२२
वचनमिति चेत् -८,३.२३
यावदुक्तम् -८,३.२४
अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् -८,३.२५
ऋग्गुणत्वान्नेति चेत् -८,३.२६
तथा पूर्ववति स्यात् -८,३.२७
गुणावेशश्च सर्वत्र -८,३.२८
निष्पन्नग्रहणान्नेति चेत् -८,३.२९
तथेहापिस्यात् -८,३.३०
यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् -८,३.३१
द्रष्टः प्रयोग इतिचेत् -८,३.३२
तथा शरेष्वपि -८,३.३३
भत्तयेति चेत् -८,३.३४
तथेतरस्मिन् -८,३.३५
अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् -८,३.३६
दर्विहोमो यज्ञाभिधानं होमसंयोगात् -८,४.१
स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् -८,४.२
सर्वेषां वा दर्शनाद्वास्तुहोमे -८,४.३
जुहोतिचोदनानां वा तत्संयोगात् -८,४.४
द्रव्योपदेशाद्वा गुणाभिधानं स्यात् -८,४.५
न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् -८,४.६
दर्शनाच्चान्यपात्रस्य -८,४.७
तथाग्निहविषोः -८,४.८
उक्तश्चार्थसम्बन्धः -८,४.९
तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात् -८,४.१०
न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् -८,४.११
शब्दान्तरत्वात् -८,४.१२
लिङ्गदर्शनाच्च -८,४.१३
उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् -८,४.१४
अनुत्तरार्थोवार्ऽथवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधःस्यात् -८,४.१५
न प्रकृतावपीति चेत् -८,४.१६
उक्तं समवाये पारदौर्बल्यम् -८,४.१७
तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् -८,४.१८
शब्दसानर्थ्याच्च -८,४.१९
लिङ्गदर्शनाच्च -८,४.२०
तत्राभावस्य हेतुत्वाद्गुणार्थेस्याददर्शनम् -८,४.२१
विधिरिति चेत् -८,४.२२
न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते -८,४.२३
येषां वापरयोर्हेमस्तेषां स्यादविरोधात् -८,४.२४
तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् -८,४.२५
लिङ्गाद्वा शेषहोमयोः -८,४.२६
प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् -८,४.२७
सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेघत्वाद्वचनाद् अतिदेशः स्यात् -८,४.१८
यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् -९,१.१
संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् -९,१.२
तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञ प्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् -९,१.३
फलदेवतयोश्च -९,१.४
न चोदनाती हि ताद्गुण्यम् -९,१.५
देवता वा प्रयोजयेदतिथिवद्भोजनस्यतदर्थत्वात् -९,१.६
अर्थापत्याच -९,१.७
ततश्च तेन सम्बन्धः -९,१.८
अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः -९,१.९
अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् -९,१.१०
द्रव्यसंख्याहितुसमुदायं वा श्रुतिसंयोगात् -९,१.११
अर्थकारिते च द्रव्येण न व्यवस्था स्यात् -९,१.१२
अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् -९,१.१३
अपूर्वत्वाद्व्यवस्था स्यात् -९,१.१४
तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् -९,१.१५
तद्यक्तस्येति चेत् -९,१.१६
नाश्रुतित्वात् -९,१.१७
अधिकारादिति चेत् -९,१.१८
तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् -९,१.१९
देशबद्धमुपांशुत्वं तेषां स्याछ्रुतिनिर्देशात्तस्य च तत्रभावात् -९,१.२०
यज्ञस्य वा तत्संयोगात् -९,१.२१
अनुवादश्च तदर्थवत् -९,१.२२
प्रणीतादि तथेति चेत् -९,१.२३
न यज्ञस्याश्रुतित्वात् -९,१.२४
तद्देशानां वा संघातस्यचोदितत्वात् -९,१.२५
अग्निधर्मः प्रतिष्टकं संघातात्पौर्णमासीवत् -९,१.२६
अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थ त्वात् -९,१.२७
चोदनासमुदायात्तु पौर्ण मास्यां तथा स्यात् -९,१.२८
पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् -९,१.२९
लिङ्गाद्वा प्रागुत्तमात् -९,१.३०
अनुवादो वा दोक्षा यथा नक्तं संस्थापनस्य -९,१.३१
स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् -९,१.३२
अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मःस्यात् -९,१.३३
इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया -९,१.३४
सकृद्वाऽरम्भसंयागादेकः पुनरारम्भो यावज्जीवप्रयोगात् -९,१.३५
अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् -९,१.३६
ततश्चावचनन्तेषामितरार्थं प्रयुज्यते -९,१.३७
गुणशब्दस्तथेति चेत् -९,१.३८
नसमवायात् -९,१.३९
चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् -९,१.४०
विकारस्तत्प्रधाने स्यात् -९,१.४१
असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत -९,१.४२
कर्माभावादेवमिति चेत् -९,१.४३
न परर्थत्वात् -९,१.४४
लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् -९,१.४५
पश्र्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् -९,१.४६
विशेषो वा तदर्थनिर्देशात् -९,१.४७
पशुत्वं चैकशब्द्यात् -९,१.४८
यथोक्तं वा सन्निधानात् -९,१.४९
आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् -९,१.५०
द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् -९,१.५१
उपदेशाच्च साम्नः -९,१.५२
नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् -९,१.५३
अगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् -९,१.५४
यत्स्थाने बा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् -९,१.५५
गानसंयोगाच्च -९,१.५६
वचनमिति चेत् -९,१.५७
न तत्प्रधानत्वात् -९,१.५८
सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् -९,२.१
तदुक्तदोषम् -९,१.२
कर्म वा विधिलक्षणम् -९,२.३
तादृग्द्रव्यं वचनात्पाकयज्ञवत् -९,२.४
तत्रीविप्रतिपिद्धो द्रव्यान्तरे व्यतिरेतकः प्रदेशश्च -९,२.५
शब्दार्थत्वात्तुनैवं स्यात् -९,२.६
परार्थत्वाच्च शब्दानाम् -९,२.७
असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् -९,२.८
संस्कारश्चाप्रकरणेऽग्निवत्स्यात्प्रयुक्तत्वात् -९,२.९
अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत -९,२.१०
आश्रितत्वाच्च -९,२.११
प्रयुज्यत इति चेत् -९,२.१२
ग्रहणार्थं प्रयुज्येत -९,२.१३
तृचे स्याच्छ्रुतिनिर्देशात् -९,२.१४
शब्दार्थत्वाद्विकारस्य -९,२.१५
दर्शयति च -९,२.१६
वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्सं स्कारस्य तदर्थत्वात् -९,२.१७
तथा चान्यार्थ दर्शनम् -९,२.१८
अनवानोपदेशश्च तद्वत् -९,२.१९
अभ्यासेनेतरा श्रुतिः -९,२.२०
तदभ्यासः समासु स्यात् -९,२.२१
लिङ्गदर्शनाच्च -९,२.२२
नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत -९,२.२३
ऐकार्थ्याच्च तदभ्यासः -९,२.२४
प्रागाथिकं तु -९,२.२५
प्रगाथे च -९,२.२७
लिङ्गदर्शनाव्यतिरेतकाच्च -९,२.२८
अर्थैकत्वाद्विकल्पः स्यात् -९,२.२९
अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् -९,२.३०
वचनाद्विनियोगः स्यात् -९,२.३१
सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् -९,२.३२
वर्णे तु वादरिर्यथाद्रव्यं द्रव्यप्यतिरेकात् -९,२.३३
स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् -९,२.३४
सर्वातिदेशस्तु सामान्याल्लीकवद्विकारः स्यात् -९,२.३५
अन्वयञ्चापि दर्शयति -९,२.३६
निवृत्तिर्वार्ऽथलोपात् -९,२.३७
अन्वयोवार्थवादः स्यात् -९,२.३८
अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् -९,२.३९
धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोजनानुबन्धः समवायात् -९,२.४०
तदुत्पत्तेस्तु निष्टत्तिस्तत्कृतत्वात्स्यात् -९,२.४१
अवेश्येरन्वार्थवत्त्वात्संरकारस्य तदर्थत्वात् -९,२.४२
आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् -९,२.४३
परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् -९,२.४४
क्रियेरन्वार्थनिर्वृत्तेः -९,२.४५
एकार्थत्वादविभागः स्यात् -९,२.४६
निर्देशाद्वा व्यवतिष्ठेरन् -९,२.४७
अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् -९,२.४८
उभयसाम्नि चैवमेकार्थापत्तेः -९,२.४९
स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् -९,२.५०
पार्वणहोमयोस्तवप्रवृत्तिः समुदायार्थसंयोगात्तगभीज्याहि -९,२.५१
कालस्येति चेत् -९,२.५२
नाप्रकरणत्वात् -९,२.५३ मन्त्रवर्णाच्च -९,२.५४
तदभावेऽग्निवगिति चेत् -९,२.५५
नाधिकारकत्वात् -९,२.५६
उभयोरविशेषात् -९,२.५७
यदभीज्या वा तद्विषयौ -९,२.५८
प्रयाजेऽपीति चेत् -९,२.५९
नाचीदितत्वात् -९,२.६०
प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् -९,३.१
लिङ्गदर्शनाच्च -९,३.२
जातिनैमित्तिकं यथास्थानम् -९,३.३
अविकारमेकेऽनार्षत्वात् -९,३.४
लिङ्गदक्शनाच्च -९,३.५
निकारो वातदुक्तहेतुः -९,३.६
लिङ्गं मन्त्रचिकीर्षार्थम् -९,३.७
नियमो वोभयभागित्वात् -९,३.८
लौकिके दोषसंयोगादपवृक्ते हिचोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् -९,३.९
अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य -९,३.१०
विकारो वा तदर्थत्वात् -९,३.११
अपित्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपियथार्थं स्यात् -९,३.१२
यथार्थं त्वन्यायस्याचोदितत्वात् -९,३.१३
छन्दसि तु यथादृष्टम् -९,३.१४
विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् -९,३.१५
प्रकरणविशेषाच्च -९,३.१६
अर्थाभावात्तु नैवं स्याद्गुणनात्रमितरत् -९,३.१७
द्यावोस्तथेति चेत् -९,३.१८
नोत्पत्तिशब्दत्वात् -९,३.१९
अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत -९,३.२०
विकृतौ चापि तद्वचनात् -९,३.२१
अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् -९,३.२२
प्रतिनिधौ चाविकारात् -९,३.२३
अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् -९,३.२४
तादर्थ्याद्वा तदाख्यंस्यात्संस्कारैरविशिष्चत्वात् -९,३.२५
उक्तञ्च तत्त्वमस्य -९,३.२६
संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् -९,३.२७
लिङ्गदर्शनाच्च -९,३.२८
एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् -९,३.२९
अविकारो वा बहूनामेककर्मवत् -९,३.३०
सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् -९,३.३१
मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् -९,३.३२
अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् -९,३.३३
स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् -९,३.३४
देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वात्स्वामिन्यनर्थिका स्यात् -९,३.३५
उत्सर्गाच्च भक्त्यातस्मिन्पतित्वं स्यात् -९,३.३६
उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् -९,३.३७
एकस्तु समवायात्तस्य तल्लक्षणत्वात् -९,३.२८
संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् -९,३.३९
एकत्वेपि गुणानपायात् -९,३.४०
नियमो बहुदेवते विकारः स्यात् -९,३.४१
विकल्पो वा प्रकृतिवत् -९,३.४२
अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् -९,३.४३
षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गाणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः -९,४.१
अभ्यासेऽपि तथेति चेत् -९,४.२
न गुणादर्थकृतत्वाच्च -९,४.३
समासेऽपि तथेति चेत् -९,४.४
नासम्भवात् -९,४.५
स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् -९,४.६
वङ्क्रीणान्तु प्रधानत्त्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् -९,४.७
तासां च कृत्स्नवचनात् -९,४.८
अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् -९,४.९
विकारस्तु प्रदेशत्वाद्यजमानवत् -९,४.१०
अपूर्वत्वात्तथा पत्न्याम् -९,४.११
अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् -९,४.१२
सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् -९,४.१३
अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः -९,४.१४
अभ्यासो वाविकारात्स्यात् -९,४.१५
पशुस्त्वेवं प्राधानंस्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् -९,४.१६
अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् -९,४.१७
तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् -९,४.१८
ऋगावास्यादाम्नातत्वादविकल्पश्च न्याय्यः -९,४.१९
तस्यां तु वचनादैरवत्पदविकारः स्यात् -९,४.२०
सर्वप्रतिषेधो वासंयागात्पदेन स्यात् -९,४.२१
वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् -९,४.२२
प्रशसास्याभिधानम् -९,४.२३
बाहुप्रशंसा वा -९,४.२४
श्येन-शला-कश्यप- कवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् -९,४.२५
कार्त्स्न्यं वा स्यात्तथाभावात् -९,४.२६
अध्रिगोश्च तदर्थत्वात् -९,४.२७
प्रासङ्गिके प्रायश्चत्तं न विद्यते परार्थत्वात्तदर्थे हिविधीयते -९,४.२८
धारणे च परार्थत्वात् -९,४.२९
क्रियार्थत्वादितरेषु कर्म स्यात् -९,४.३०
न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् -९,४.३१
प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् -९,४.३२
संस्कारप्रतिषेधश्च तद्वत् -९,४.३३
तत्प्रतिषेधे च तथाभूतस्य वर्जनात् -९,४.३४
अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः -९,४.३५
परो नित्यानुवादः स्यात् -९,४.३६
विहितप्रतिषेधो वा -९,४.३७
वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् -९,४.३८
व्रतधर्माच्चलेपवत् -९,४.३९
रसप्रतिषेधो वा पुरुषधर्मत्वात् -९,४.४०
अभ्युदये दोगापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् -९,४.४१
शृतोपदेशाच्च -९,४.४२
अपनयो वार्थान्तरे विधानाच्चरुपयोवत् -९,४.४३
लक्षणार्था शृतश्रुतिः -९,४.४४
श्रयणानां त्वपूर्वत्वात्प्रदानार्थेविधानं स्यात् -९,४.४५
गुणो वा श्रयणार्थत्वात् -९,४.४६
अर्थवादश्च तदथवत् -९,४.४७
श्रुतेश्च तत्प्रधानत्वत् -९,४.४८
अर्थवादश्च तदथवत -९,४.४९
संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् -९,४.५०
पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् -९,४.५१
शेषप्रतिषेधो वार्ऽथाभावादिडान्तवत् -९,४.५२
पूर्वत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते -९,४.५३
प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाजेयस्य -९,४.५४
क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् -९,४.५५
आज्यसंस्थाप्रतिनिधिः स्याद्द्रब्योत्सर्गात् -९,४.५६
समाप्तिवचनात् -९,४.५७
चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् -९,४.५८
अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति -९,४.५९
संस्था तद्देवतत्वात्स्यात् -९,४.६०
विधेः प्रकरणान्तरेऽतिदेशात्सर्वकर्म स्यात् -१०,१.१
अपि वाभिधानसंस्कारद्रव्यर्थे क्रियेत तादर्थ्यात् -१०,१.२
तेषामप्रत्यक्षविशिष्टत्वात् -१०,१.३
इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् -१०,१.४
प्रधानाच्चान्यसंयुक्तात्कसर्वारम्भान्निवर्तेतानङ्गत्वात् -१०,१.५
तस्यां तु स्यात्प्रयाजवत् -१०,१.६
न वाङ्गभूतत्वात् -१०,१.७
एकवाक्यत्वाच्च -१०,१.८
कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् -१०,१.९
स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत -१०,१.१०
अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत -१०,१.११
समाख्यानं च तद्वत् -१०,१.१२
मन्त्रवर्णश्च तद्वत् -१०,१.१३
प्रयाजे च तन्न्यायत्वात् -१०,१.१४
लिङ्गदर्शनाच्च -१०,१.१५
तथाज्यभागाग्निरपीति चेत् -१०,१.१६
व्यपदेशाद्देवतान्तरम् -१०,१.१७
समत्वाच्च -१०,१.१८
पशावपीति चेत् -१०,१.१९
न तदभूतवचनात् -१०,१.२०
लिङ्गदर्शनाच्च -१०,१.२१
गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च -१०,१.२२
अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् -१०,१.२३
व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् -१०,१.२४
गुणेपीति चेत् -१०,१.२५
नासंहानात्करालवत् -१०,१.२६
ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् -१०,१.२७
ग्रहाभावे च तद्वचनम् -१०,१.२८
देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति -१०,१.२९
अविरुद्वोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् -१०,१.३०
स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्लमुक्तं तस्यार्थवादत्वम् -१०,१.३१
विप्रतिपत्तौ तासामाख्याविकारः स्यात् -१०,१.३२
अभ्यासो वा प्रयाजवदेकदेशोऽन्यदेवत्यः -१०,१.३३
चरुर्हविर्विकारः स्यादिज्यासंयोगात् -१०,१.३४
प्रसिद्धग्रहणत्वाच्च -१०,१.३५
ओदनो वान्नसंयोगात् -१०,१.३६
न द्व्यर्थत्वात् -१०,१.३७
कपालविकारो वा विशयेऽर्थोपपत्तिभ्याम् -१०,१.३८
गुणमुख्यविशेषाच्च -१०,१.३९
तच्छ्रुतौ चान्यहविष्ठात् -१०,१.४०
लिङ्गदर्शनाच्च -१०,१.४१
ओदनो वा प्रयुक्तत्वात् -१०,१.४२
अपूर्वव्यपदेशाच्च -१०,१.४३
तथा च लिङ्गदर्शनम् -१०,१.४४
स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् -१०,१.४५
एकस्मिन्वाविप्रतिषेधात् -१०,१.४६
न वार्ऽथान्चरसंयोगादपूपे पाकसंयुक्तं धारणार्थं तरौ भवति तत्रार्थात्पात्रलाभः स्यादन्यमोऽविशेषात् -१०,१.४७
चरौ वा लिङ्गदर्शनात् -१०,१.४८
तस्मिन्पेषणमनर्थलोपात्स्यात् -१०,१.४९
अक्रिया वा अपूपहेतुत्वात् -१०,१.५०
पिण्डार्थत्वाच्च संयवनम् -१०,१.५१
संवपनञ्च तादर्थ्यात् -१०,१.५२
सन्तापनमधःश्रपणात् -१०,१.५३
उपधानं च तादर्थ्यात् -१०,१.५४
पृथुश्र्लक्ष्णे वानपूपत्वात् -१०,१.५५
अभ्यूहश्चोपरिपाकार्थत्वात् -१०,१.५६
तथावज्वलनम् -१०,१.५७
व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् -१०,१.५८
कृष्णलेष्वर्थलोपाकः स्यात् -१०,२.१
स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् -१०,२.२
उपस्तरणाभिघारणयोपमृतार्थत्वादकर्म स्यात् -१०,२.३
क्रियेत वार्ऽथवादत्वात्तयोः संसर्गबेतुत्वात् -१०,२.४
अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् -१०,२.५
क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् -१०,२.६
तेषां चैकावदानत्वात् -१०,२.७
आप्तिः संख्या समानत्वात् -१०,२.८
सतोस्त्वाप्तिवचनं व्यर्थम् -१०,२.९
विकल्पस्त्वेकावदानत्वात् -१०,२.१०
सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् -१०,२.११
अकर्म वा संसर्गार्थनिवृत्तस्मादाप्तिसमर्थत्वं -१०,२.१२
भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् -१०,२.१३
स्याद्वा निर्धानदर्शनात् -१०,२.१४
वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् -१०,२.१५
वचनं वा हिरण्यस्य प्रदानवदाज्यस्. गुणभूतत्वात् -१०,२.१६
एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् -१०,२.१७
सर्वत्वं च तेषामधिकारात्स्यात् -१०,२.१८
पुरिषापनयो वा तेषामवाच्यत्वात् -१०,२.१९
पुरुषापनयात्स्वकालत्वम् -१०,२.२०
एकार्थत्वादविभागः स्यात् -१०,२.२१
ऋत्विद्जानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् -१०,२.२२
परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् -१०,२.२३
दक्षिणायुक्तवचनाच्च -१०,२.२४
नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् -१०,२.२५
परिक्रीतवचनाच्च -१०,२.२६
सनिवन्येव भृति वचनात् -१०,२.२७
नैष्कर्तृकेण समस्तवाच्च -१०,२.२८
शेषभक्षाश्च तद्वत् -१०,२.२९
संस्कारो वा द्रव्यस्य परार्थत्वात् -१०,२.३०
शेषे च समत्वात् -१०,२.३१
स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् -१०,२.३२
तथा चान्यार्थदर्शनम् -१०,२.३३
वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् -१०,२.३४
परिक्रयश्च तादर्थ्यात् -१०,२.३५
प्रतिषेघश्च कर्मवत् -१०,२.३६
स्याद्वाप्रासर्पिकस्य धर्ममात्रत्वात् -१०,२.३७
न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् -१०,२.३८
उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् -१०,२.३९
न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च -१०,२.४०
तेषां तु वचवाद्द्वियज्ञवत्सहप्रयोगः स्यात् -१०,२.४१
तत्रान्यानृत्विजो वृणीरन् -१०,२.४२
एकैकशस्तवविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् -१०,२.४३
कामेष्टौ च दानशब्दात् -१०,२.४४
वचनं वा सत्रत्वात् -१०,२.४५
द्वेष्ये च चोदनाद्दक्षिणापनयात् -१०,२.४६
अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् -१०,२.४७
यावादुक्तमुपयोगः स्यात् -१०,२.४८
यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात -१०,२.४९
काम्यानि तु न विद्यन्ते कामा ज्ञामाद्यथेतरस्यानुच्यमानानि -१०,२.५०
ईहार्थाश्चाभावात्सूक्तवाकवत् -१०,२.५१
स्युर्वार्ऽथवादत्वात् -१०,२.५२
नेच्छाभिधानात्तदभावादितरस्मिन् -१०,२.५३
स्युर्वा होतृकामाः -१०,२.५४
न तदाषीष्ट्वात् -१०,२.५५
सर्वस्वारस्यदिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् -१०,२.५६
स्याद्वोभयोः प्रत्क्षशिष्टत्वात् -१०,२.५७
गते करमास्थियज्ञवत् -१०,२.५८
जीवत्यवचनमायुराशिषस्तदर्थत्वात् -१०,२.५९
वचनं वा भागित्वात्प्राग्यथोक्तात् -१०,२.६०
क्रिया स्याद्धर्ममात्राणाम् -१०,२.६१
गुणलोपे च मुख्यस्य -१०,२.६२
मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् -१०,२.६३
न निर्वापशेषत्वात् -१०,२.६४
संख्यातु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः -१०,२.६५
न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् -१०,२.६६
औतपत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् -१०,२.६७
नैमितेतिके तु कार्यत्वात्प्रकृतेः स्यात्त दापत्तेः -१०,२.६८
विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेनच कर्मसंयोगात् -१०,२.६९
परेषां प्रतिषेधः स्यात् -१०,२.७०
प्रतिषेधाच्च -१०,२.७१
अर्थाभावे संस्कारत्वं स्यात् -१०,२.७२
अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् -१०,२.७३
विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् -१०,३.१
प्रकृतिवत्तस्य चानुपरोधः -१०,३.२
चोदनाप्रभुत्वाच्च -१०,३.३
प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः -१०,३.४
न चाङ्गविधिरनङ्गे स्यात् -१०,३.५
कर्मणश्चै कशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेनतद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् -१०,३.६
अकार्यत्वाच्च नाम्नः -१०,३.७
तुल्याच प्रभुता गुणे -१०,३.८
सर्वमेवंप्रधानमिति चेत् -१०,३.९
तथाभूतेनसंयोगाद्यथार्थविधयः स्युः -१०,३.१०
विधित्वं चाविशिष्ठ मेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् -१०,३.११
समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् -१०,३.१२
हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् -१०,३.१३
प्रकृत्यनुपरोधाच्च -१०,३.१४
उत्तरस्य वा मन्त्रार्थित्वात् -१०,३.१५
विध्यतिदेशात्तच्छ्रुतौ बिकारः स्याद्गुणानामुपदेश्यत्वात् -१०,३.१६
पूर्वस्मिश्चामन्त्रत्वदर्शनात् -१०,३.१७
संस्कारे तु क्रियान्तर तस्य विधयकत्वात् -१०,३.१८
प्रकृत्यनुपरोधाच्च -१०,३.१९
विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् -१०,३.२०
संस्कारसामर्थ्याद्गुणसंयोगाच्च -१०,३.२१
विप्रतिषेधात्क्रियाप्रकरणे स्यात् -१०,३.२२
षड्भिर्ःदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् -१०,३.२३
अभ्यासात्तु प्रधानस्य -१०,३.२४
आवृत्त्या मन्त्रकर्म स्यात् -१०,३.२५
अपिवा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृतेऽभ्यासः -१०,३.२६
पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् -१०,३.२७
तत्प्रथक्त्वं च दर्शयति -१०,३.२८
न चाविशेषाद्व्यपदेशः स्यात् -१०,३.२९
अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् -१०,३.३०
शैष्ठत्वाच्चेतरासां यथास्थानम् -१०,३.३१
विकारस्त्वप्रकरणे हि काम्यानि -१०,३.३२
शङ्कते च निवृत्तेरुभयत्वंहिश्रूयते -१०,३.३३
वासो वत्सञ्च सामान्यात् -१०,३.३४
अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् -१०,३.३५
दाने पाकोऽर्थलक्षणः -१०,३.३६
पाकस्थ चान्नकारित्त्वात् -१०,३.३७
तथाभिघारणस्य -१०,३.३८
द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् -१०,३.३९
समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् -१०,३.४०
यस्य वा सन्निधाने स्याद्वाक्यतोह्यभिसम्बन्धः -१०,३.४१
असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् -१०,३.४२
असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः -१०,३.४३
शब्जार्थश्चापि लोकवत् -१०,३.४४
सापशूनामुत्पत्तितो विभागात् -१०,३.४५
अनियमोऽविशेषात् -१०,३.४६
भागित्वाद्वा गवां स्यात् -१०,३.४७
प्रत्ययात् -१०,३.४८
लिङ्गदर्शनाच्च -१०,३.४९
तत्र दानं विभागेन प्रदानानां पृथक्त्वात् -१०,३.५०
परिक्राच्च लोकवत् -१०,३.५१
विभागं चापि दर्शयति -१०,३.५२
समं स्यादश्रुतित्वात् -१०,३.५३
अपि वा कर्मवैषम्यात् -१०,३.५४
अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये -१०,३.५५
तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन -१०,३.५६
सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात् समवायाद्धिकर्मभिः -१०,३.५७
चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् -१०,३.५८
एका पञ्चेति धेनुवत् -१०,३.५९
त्रिवत्सश्च -१०,३.६०
तथा च लिङ्गदर्शनम् -१०,३.६१
एके ति श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण -१०,३.६२
प्राकाशौ तथेति चेत् -१०,३.६३
अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् -१०,३.६४
धेनुवच्चाश्चदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य -१०,३.६५
एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण -१०,३.६६
अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् -१०,३.६७
तथा च सोमचमसः -१०,३.६८
सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां -१०,३.६९
ब्रह्मदानेऽविशिष्टमिति चेत् -१०,३.७०
उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्मस्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् -१०,३.७१
यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् -१०,३.७२
सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् -१०,३.७३
यजुर्युक्तेऽध्वर्योर्दक्षिणा विकारः स्यात् -१०,३.७४
अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते -१०,३.७५
प्रकृतिलिङ्गासंयागात्कर्मसंस्कारंविकृतावधिकं स्यात् -१०,४.१
चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् -१०,४.२
सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् -१०,४.३
अधिकैश्चैकवाक्यत्वात् -१०,४.४
लिङ्गदर्शनाच्च -१०,४.५
प्राजापत्येषु चाम्नानात् -१०,४.६
आमने लिङ्गदर्शनात् -१०,४.७
उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् -१०,४.८
आनर्थक्यात्त्वधिकं स्यात् -१०,४.९
संस्कारे चान्यसंयोगात् -१०,४.१०
प्रयाजवदिति चेत् -१०,४.११
नार्थान्यत्वात् -१०,४.१२
आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् -१०,४.१३
अधिकं वान्यार्थत्वात् -१०,४.१४
समुच्चयं च दर्शयति -१०,४.१५
सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत -१०,४.१६
अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् -१०,४.१७
सर्वेषामविशेषात् -१०,४.१८
एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् -१०,४.१९
स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च -१०,४.२०
पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् -१०,४.२१
वचनानित्वपूर्वत्वात् -१०,४.२२
विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना -१०,४.२३
शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते -१०,४.२४
तथोत्तरस्यान्ततौ तत्प्रकृतित्वात् -१०,४.२५
प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् -१०,४.२६
अविकारो वार्ऽथशब्दानपायात्स्याद्द्रव्यवत् -१०,४.२७
तथारम्भासमवायद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशाःस्त्रमनर्थकंस्यात् -१०,४.२८
द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् -१०,४.२९
बुधन्वान्पवमानवद्विशेषनिर्देशात् -१०,४.३०
मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् -१०,४.३१
विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपिभेदः स्यात् -१०,४.३२
यथोक्तं वा विप्रतिपत्तेर्न चोदना -१०,४.३३
स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत -१०,४.३४
संयोगो वार्ऽथापत्तेरभिधानस्य कर्मजत्वात् -१०,४.३५
सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् -१०,४.३६
सर्वस्य वैककर्म्यात् -१०,४.३७
स्विष्टकृदावापिकोऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् -१०,४.३८
अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् -१०,४.३९
संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् -१०,४.४०
स्याद्गुणार्थत्वात् -१०,४.४१
मनोतायां तु वचनादविकारः स्यात् -१०,४.४२
पृष्ठार्थेऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् -१०,४.४३
स्वयोनौ वा सर्वाख्यत्वात् -१०,४.४४
यूपवदिति चेत् -१०,४.४५
न कर्मसंयोगात् -१०,४.४६
कार्यत्वादुत्तरयोर्यथाप्रकृति -१०,४.४७
समानदेवते वा तृचस्याविभागात् -१०,४.४८
ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् -१०,४.४९
उभयपानात्पृषदाज्ये दध्नःस्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् -१०,४.५०
न वा परार्थत्वाद्यज्ञपतिवत् -१०,४.५१
सायाद्वा आवाहनस्य तादर्थ्यात् -१०,४.५२
न वा संस्कारशब्दत्वात् -१०,४.५३
स्याद्वाद्रव्याभिधानात् -१०,४.५४
दध्नस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् -१०,४.५५
दधिवा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् -१०,४.५६
अपिवाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् -१०,४.५७
अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् -१०,४.५८
न वा स्याद्गुणशास्त्रत्वात् -१०,४.५९
आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् -१०,५.१
लिङ्गदर्शनाच्च -१०,५.२
विकल्पो वा समत्वात् -१०,५.३
क्रमादुपजनोऽन्तेस्यात् -१०,५.४
लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् -१०,५.५
आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यत्यविधिः स्यात् -१०,५.६
एकत्रिके तृचादिषु माध्यन्दिनेछंन्दसां श्रुतिभूतत्वात् -१०,५.७
आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् -१०,५.८
यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् -१०,५.९
त्रिकस्तृचे धुर्ये स्यात् -१०,५.१०
एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् -१०,५.११
चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् -१०,५.१२
प्राप्तिस्तु रात्रिशब्दसम्बन्धात् -१०,५.१३
अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् -१०,५.१४
स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् -१०,५.१५
आगमेन वाभ्यासस्याश्रुतित्वात् -१०,५.१६
सङ्ख्यायाश्च पृथक्त्वनिवेशात् -१०,५.१७
पराक्शब्दत्वात् -१०,५.१८
उक्ताविकाराच्च -१०,५.१९
अश्रुतित्वान्नेति चेत् -१०,५.२०
स्यादर्थचोदितानां परिमाणशास्त्रम् -१०,५.२१
आवापवचनं चाभ्यासे नोपपद्यते -१०,५.२२
साम्नाञ्चोत्पत्तिसामर्थ्यात् -१०,५.२३
धूर्येष्वपीति चेत् -१०,५.२४
नावृत्तिधर्मत्वात् -१०,५.२५
वहिष्पवमाने न ऋगागमः सामैकत्वात् -१०,५.२६
अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् -१०,५.२७
अविशेषान्नेति चेत् -१०,५.२८
स्यात्तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽसङ्ख्यापूरणात् -१०,५.२९
यावदुक्तं वा कृतपरिमाणत्वात् -१०,५.३०
अधिकानाञ्च दर्शनात् -१०,५.३१
कर्मस्वपीति चेत् -१०,५.३२
न चोदितत्वात् -१०,५.३३
षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् -१०,५.३४
प्रकृतौ चाभावदर्शनात् -१०,५.३५
अयज्ञवचनाच्च -१०,५.३६
प्रकृतौ वा शिष्टत्वात् -१०,५.३७
प्रकृतिदर्शनाच्च -१०,५.३८
आम्नातंपरिसङ्ख्यार्थम् -१०,५.३९
उक्तमभावदर्शनम् -१०,५.४०
गुणादयज्ञत्वम् -१०,५.४१
तस्याग्रणाद्ग्रहणम् -१०,५.४२
उक्थ्याच्च वचनात् -१०,५.४३
तृतीयसवने वचनात्स्यात् -१०,५.४४
अनभ्यासे पराक्शब्दस्य तादर्थ्यात् -१०,५.४५
उक्थ्यविच्छेदवचनत्वाच्च -१०,५.४६
आग्रयणाद्वा पराक्शब्दस्य देशवाचत्वात्पुनराधेयवत् -१०,५.४७
विच्छेदः स्तोमसामान्यात् -१०,५.४८
उक्थ्याग्निष्टोमसंयागादस्तुतशस्त्रः स्यात्सतिहि संस्थान्यत्वम् -१०,५.४९
संस्तुतशस्त्रो वा तदङ्गत्वात् -१०,५.५०
लिङ्गदर्शनाच्च -१०,५.५१
वचनात्संस्थान्यत्वम् -१०,५.५२
अभावादतिरात्रेषुगृह्मते -१०,५.५३
अन्वयो वानारभ्य वानारभ्य विधानात् -१०,५.५४
चतुर्थेचतुर्थेऽहन्यहीनस्य गृह्मतैत्यभ्यासेन प्रतीयेतभोजनवत् -१०,५.५५
अपि वा सङ्ख्यावत्त्वान्नानाहीनेषौ गृह्मते पक्षवदेकस्मिन्संख्यार्थभावात् -१०,५.५६
भोजने तत्सङ्ख्यं स्यात् -१०,५.५७
जगक्साम्नि सामाभावागृक्तः सामतदाख्यं स्यात् -१०,५.५८
उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् -१०,५.५९
मुख्येन वा नियम्येत -१०,५.६०
निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् -१०,५.६१
ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् -१०,५.६२
अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रतरणादग्रत्वमुच्यते -१०,५.६३
धारासंयोगाच्च -१०,५.६४
कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् -१०,५.६५
तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् -१०,५.६६
परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु -१०,५.६७
प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् -१०,५.६८
प्रतिकर्षञ्च दर्शयति -१०,५.६९
पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् -१०,५.७०
तुल्यधर्मत्वाच्च -१०,५.७१
तथा च लिङ्गदर्शनम् -१०,५.७२
सादनं चापि शेषत्वात् -१०,५.७३
लिङ्ग दर्शनाच्च -१०,५.७४
प्रदानं चापि सादनवत् -१०,५.७५
न वा प्रधानत्वाच्छेषत्वात्सादनन्तथा -१०,५.७६
त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् -१०,५.७७
अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् -१०,५.७८
द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् -१०,५.७९
व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् -१०,५.८०
कामसंयोगात् -१०,५.८१
तस्योभयथा प्रवृत्तिरैककर्म्यात् -१०,५.८२
एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् -१०,५.८३
स्वस्थानविवृद्धिर्वाह्रामप्रत्यक्षसङ्ख्यत्वात् -१०,५.८४
पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् -१०,५.८५
वचनात्परिवृत्तिरैकादशिनेषु -१०,५.८६
लिङ्गदर्शनाच्च -१०,५.८७
छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकरालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् -१०,५.८८
एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् -१०,६.१
तृचे वा लिङ्गदर्शनात् -१०,६.२
स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् -१०,६.३
पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् -१०,६.४
विभक्ते वा समस्तविधानात्तद्विभागेविप्रतिषिद्धम् -१०,६.५
समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् -१०,६.६
विहारप्रतिषेधाच्च -१०,६.७
श्रुतितो वा लोकवद्विभागः स्यात् -१०,६.८
विहाप्रकृतित्वाच्च -१०,६.९
विशये च तदासत्तेः -१०,६.१०
त्रयस्तथेति चेत् -१०,६.११
न समत्वात्प्रयाजवत् -१०,६.१२
सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् -१०,६.१३
विधेस्तु विप्रकर्षः स्यात् -१०,६.१४
वैरूपसामा क्रतुसंयागात् त्रिवृदेवदेकसामा स्यात् -१०,६.१५
पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् -१०,६.१६
त्रिवृद्वदिति चेत् -१०,६.१७
न प्रकृतावकृत्स्नसंयोगात् -१०,६.१८
विधित्वात्नेति चेत् -१०,६.१९
स्याद्विशये तन्नयायत्वात्कर्माविभागात् -१०,६.२०
प्रकृतेश्चाविकारात् -१०,६.२१
त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् -१०,६.२२
स्तोमस्य वा तल्लिङ्गत्वात् -१०,६.२३
उभयसाम्नि विश्वजिद्वद्विभागः स्यात् -१०,६.२४
पृष्टार्थे वातदर्थत्वात् -१०,६.२५
लिङ्गदर्शनाच्च -१०,६.२६
पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् -१०,६.२७
अन्ते वा कृतकालत्वात् -१०,६.२८
अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् -१०,६.२९
अन्ते वा कृतकालत्वात् -१०,६.३०
आवृत्तिश्चु व्यवाये कालभेदात् स्यात् -१०,६.३१
मधु न दीक्षिता ब्रह्मचारित्वात् -१०,६.३२
प्राश्येत यज्ञार्थत्वात् -१०,६.३३
मानसमहरन्तरं स्याद्भेदव्यपदेशात् -१०,६.३४
तेन च संस्तवात् -१०,६.३५
अहरन्ताच्च परेण चोदना -१०,६.३६
पक्षे सङ्ख्या सहस्रवत् -१०,६.३७
अहरङ्ग वांशुवच्चोदनाभावात् -१०,६.३८
दशमविसर्गवचनाच्च -१०,६.३९
दशमेऽहनीति च तद्गुणशास्त्रात् -१०,६.४०
सङ्ख्यासामञ्जस्यात् -१०,६.४१
पश्वतिरेके चैकस्य भावात् -१०,६.४२
स्तुतिव्यपदेशमङ्गेनविप्रतिषिद्धं व्रतवत् -१०,६.४३
वचनादतदन्तत्वम् -१०,६.४४
सत्रमेकः प्रकृतिवत् -१०,६.४५
वचनात्तु बहूनां स्यात् -१०,६.४६
अपदेशः स्यादिति चेत् -१०,६.४७
नैकव्यपदेशात् -१०,६.४८
सन्निवापञ्च दर्शयति -१०,६.४९
बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम् -१०,६.५०
अन्ये स्युर् ऋत्विजः प्रकृतिवत् -१०,६.५१
अपि वा यजमानाः स्युर् ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् -१०,६.५२
कर्तृ संस्कारो वचनादाधातृवदिति चेत् -१०,६.५३
स्याद्विशये तन्नयायत्वात्प्रकृतिवत् -१०,६.५४
स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् -१०,६.५५
न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण -१०,६.५६
दीक्षितादीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्यभावित्वात् -१०,६.५७ अदक्षिणत्वाच्च -१०,६.५८
द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् -१०,६.५९
यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् -१०,६.६०
अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् -१०,६.६१
सर्वस्य वैककर्म्यात् -१०,६.६२
पृषदाज्यवद्वाह्रां गुणशास्त्रं स्यात् -१०,६.६३
ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् -१०,६.६४
द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् -१०,६.६५
परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् -१०,६.६६
भेदस्तु गुणसंयोगात् -१०,६.६७
प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् -१०,६.६८
एकार्थत्वान्नेति चेत् -१०,६.६९
स्यादुत्पत्तौ कालभेदात् -१०,६.७०
विभज्य तु संस्कारवचनाद्द्वादशाहवत् -१०,६.७१
लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् -१०,६.७२
यावदर्थंवार्थ शेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् -१०,६.७३
आग्नेये कृत्स्त्रविधिः -१०,६.७४
ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् -१०,६.७५
वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् -१०,६.७६
तत्राहर्गणेऽर्थाद्वासःप्रकृतिः स्यात् -१०,६.७७
मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य -१०,६.७८
हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन -१०,६.७९
पशोरेकहविष्ट्वं समस्तचोदितत्वात् -१०,७.१
प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् -१०,७.२
हविर्भेदात्कर्मणेऽभ्यासस्तस्मात्तेभ्योऽवदानं स्यात् -१०,७.३
आज्यभागवद्वा विर्देशात्परिसंख्यास्यात् -१०,७.४
तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेतपशोः पञ्चावदानत्वात् -१०,७.५
अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्घ्यानेऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् -१०,७.६
अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् -१०,७.७
अब्राह्मणे च दर्शनात् -१०,७.८
शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं -१०,७.९
इज्याशेषात्सिवष्टकृदिज्येत प्रकृचिवत् -१०,७.१०
त्र्यङ्गैर्वा शरवद्विकारः स्यात् -१०,७.११
अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् -१०,७.१२
शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् -१०,७.१३
अशास्त्रत्वात्तु नैवं स्यात् -१०,७.१४
अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् -१०,७.१५
दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्चत्वात् -१०,७.१६
अग्नीधश्च वविष्ठुपध्यूध्नीवत् -१०,७.१७
अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् -१०,७.१८
स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् -१०,७.१९
द्विभागः स्याद्द्विकर्मत्वात् -१०,७.२०
एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् -१०,७.२१
प्रतिप्रस्थातुश्च वपाश्ररणात् -१०,७.२२
अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् -१०,७.२३
विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् -१०,७.२४
अपि वाऽग्नेयवद्द्विशब्दत्वं स्यात् -१०,७.२५
न वा शब्दपृथक्त्वात् -१०,७.२६
अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् -१०,७.२७
प्रतिषेधः स्यादिति चेत् -१०,७.२८
नाश्रुतत्वात् -१०,७.२९
अग्रहणादिति चेत् -१०,७.३०
न तुल्यत्वात् -१०,७.३१
तथा तद्ग्रहणे स्यात् -१०,७.३२
अपूर्वतां तु दर्शयोद्ग्रहणस्यार्थवत्त्वात् -१०,७.३३
ततोऽपि यावदुक्तं स्यात् -१०,७.३४
स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् -१०,७.३५
अतिषेधो वा दर्शनादिडायां स्यात् -१०,७.३६
प्रतिषेधो वा विधिपूर्वस्य दर्शनात् -१०,७.३७
शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात् -१०,७.३८
नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् -१०,७.३९
प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् -१०,७.४०
प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् -१०,७.४१
प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् -१०,७.४२
उपसत्सु यावदुक्तमकर्म स्यात् -१०,७.४३
स्त्रोवेण वागुणत्वाच्छेपप्रतिषेधः स्यात् -१०,७.४४
अतिषेझं वा प्रतिषिध्यप्रतिप्रसवात् -१०,७.४५
अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् -१०,७.४६
अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् -१०,७.४७
आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् -१०,७.४८
प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् -१०,७.४९
आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् -१०,७.५०
विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् -१०,७.५१
उभयप्रदेशान्नेतिचेत् -१०,७.५२
शरेष्वपीति चेत् -१०,७.५३
विरोध्यग्रहणात्तथा शरेष्विति चेत् -१०,७.५४
तथेतरास्मिन् -१०,७.५५
श्रुत्यानर्थक्यमिति चेत् -१०,७.५६
ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् -१०,७.५७
अधिकं स्यादिति चेत् -१०,७.५८
अधिकं स्यादिति चेत् -१०,७.५९
नार्थाभावात् -१०,७.६०
तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् -१०,७.६१
यावच्छ्रतीति चेत् -१०,७.६२
न प्रकृतावशब्दत्वात् -१०,७.६३
विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् -१०,७.६४
ऐकार्थ्याद्वा नियभ्येत श्रुतितो विशिष्टत्वात् -१०,७.६५
विरोधित्वाच्च लोकवत् -१०,७.६६
क्रतोश्चतद्गुणत्वात् -१०,७.६७
विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् -१०,७.६८
पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् -१०,७.६९
यद्यपिचतुरवत्तीति तु नियमे नोपपद्यते -१०,७.७०
क्रत्वन्तरे वा तन्नयायत्वात्कर्मभेदात् -१०,७.७१
यथाश्रुतीति चेत् -१०,७.७२
न चोदनैकत्वात् -१०,७.७३
प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्वि कल्पःस्यात् -१०,८.१
अर्थप्राप्तवदिति चेत् -१०,८.२
न तुल्यहेतुत्वादुभयं शब्दलक्षणम् -१०,८.३
अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधोनामेकदेशः स्यात् -१०,८.४
अपूर्वे चार्थवादः स्यात् -१०,८.५
शिष्ट्वा तु प्रतिषेधः स्यात् -१०,८.६
न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च -१०,८.७
पूर्वैश्चच तुल्यकालत्वात् -१०,८.८
उपवादश्च तद्वत् -१०,८.९
प्रतिषेधादकर्मेति चेत् -१०,८.१०
न शब्दपूर्वत्वात् -१०,८.११
दीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् -१०,८.१२
अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् -१०,८.१३
तस्य वाप्यानुमानिकमविशेषात् -१०,८.१४
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् -१०,८.१५
अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्ट स्यात् -१०,८.१६
अकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्य भागवत्प्राकृतप्रतिषेधार्थम् -१०,८.१७
विकारे तु तदर्थं स्यात् -१०,८.१८
वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य -१०,८.१९
मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् -१०,८.२०
अनाम्नाते च दर्शनात् -१०,८.२१
प्रतिषेधाच्च -१०,८.२२
अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् -१०,८.२३
मासि ग्रहणञ्च तद्वात् -१०,८.२४
ग्रहणं वा तुल्यत्वात् -१०,८.२५
लिङ्गदर्शनाच्च -१०,८.२६
ग्रहणं समानविधानं स्यात् -१०,८.२७
मासिग्रहणमभ्यासप्रतिषेधार्थम् -१०,८.२८
उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् -१०,८.२९
तत्संस्कारश्रुतेश्च -१०,८.३०
ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् -१०,८.३१
तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् -१०,८.३२
साप्तदश्यवन्नियम्येत -१०,८.३३
हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् -१०,८.३४
पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् -१०,८.३५
न त्वनित्याधिकारोऽस्ति विधौ नित्येनसम्बन्धस्तस्मादवाक्यशेषत्वम् -१०,८.३६
सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् -१०,८.३७
कृत्स्नत्वात्तु तथा स्तोमे -१०,८.३८
कर्तुः स्यादिति चेत् -१०,८.३९
न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः -१०,८.४०
कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् -१०,८.४१
यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोस्ति विभक्तकालत्वात् -१०,८.४२
अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाऽग्नेयो दर्शनादेकदेवते -१०,८.४३
विधिं तु बादरायणः -१०,८.४४
प्रतिषिद्धविज्ञानाद्वा -१०,८.४५
तथा चान्यार्थदर्शनम् -१०,८.४६
उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत -१०,८.४७
ध्रौवाद्वा सर्वसंयोगात् -१०,८.४८
तद्वच्च देवतायां स्यात् -१०,८.४९
तान्द्रीणां प्रकरणात् -१०,८.५०
धर्माद्वा स्यात्प्रजापतिः -१०,८.५१
देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण -१०,८.५२
विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् -१०,८.५३
अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधान स्यात् -१०,८.५४
आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्या विकारे -१०,८.५५
अगनीषामविधानासत्तु पौर्णमास्यामुभयत्र विधीयते -१०,८.५६
प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् -१०,८.५७
तथा चान्यार्थदर्शनम् -१०,८.५८
न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् -१०,८.५९
गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति -१०,८.६०
विकारे चाश्रुतित्वात् -१०,८.६१
द्विपुरोडाशायां स्यादन्तरार्थत्वात् -१०,८.६२
अजामिकरणार्थत्वाच्च -१०,८.६३
तदर्थमिति चेन्नतत्प्रधानत्वात् -१०,८.६४
अशिष्ठेन च सम्बन्धात् -१०,८.६५
उत्पत्तेस्तु निवेशः स्याद्गुस्यानुपरोधेनार्थस्य निद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावेऽश्रुतौ स्यात् -१०,८.६६
उभयोस्तु विधानात् -१०,८.६७
गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् -१०,८.६८
अनपायश्च कालस्य लक्षणं हि पुरोडाशौ -१०,८.६९
प्रशंसार्थमजामित्वम् -१०,८.७०
प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् -११,१.१
शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत -११,१.२
अविधानात्तु नैवं स्यात् -११,१.३
शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् -११,१.४
अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् -११,१.५
अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् -११,१.६
शब्दभेदान्नेति चेत् -११,१.७
कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् -११,१.८
कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु -११,१.९
आरम्भस्य शब्दपूर्वत्वात् -११,१.१०
एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् -११,१.११
फलाभावान्नेति चेत् -११,१.१२
न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् -११,१.१३
एकशब्द्यादिति चेत् -११,१.१४
नार्थपृथक्त्वात्,मत्वादगुणत्वम् -११,१.१५
विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा-११,१.१६
तथा कर्मोपदेशत्वात् -११,१.१७
क्रत्वन्तरेषु पुनर्वचनम् -११,१.१८
उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत -११,१.१९
कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः -११,१.२०
अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः -११,१.२१
सकृत्तु स्यात्कृतार्थत्वादङ्गवत् -११,१.२२
शब्दार्थश्च तथा लोके -११,१.२३
अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः -११,१.२४
एकशब्द्यात्तथाङ्गेषु -११,१.२५
लोके कर्मार्ऽथ लक्षणम् -११,१.२६
क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् -११,१.२७
घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् -११,१.२८
क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् -११,१.२९
सकृद्वा कारणैकत्वात् -११,१.३०
परिमाणं चानियमेन स्यात् -११,१.३१
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् -११,१.३२
अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् -११,१.३३
पृथक्त्वाद्विधितः परिमाणं स्यात् -११,१.३४
अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् -११,१.३५
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य -११,१.३६
अनभ्यासस्तु वाच्यत्वात् -११,१.३७
बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् -११,१.३८
दृष्टः प्रयोग इति चेत् -११,१.३९
भक्तयेति चेत् -११,१.४०
तथोतरस्मिन् -११,१.४१
प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् -११,१.४२
श्रुत्यर्थाविशेषात् -११,१.४३
तथा चान्यार्थदर्शनम् -११,१.४४
प्रक-त्या च पूर्ववत्तदासत्तेः -११,१.४५
उत्तरासु यावत्स्वमपूर्वत्वात् -११,१.४६
यावत्स्वं वान्यविधानेनावादः स्यात् -११,१.४७
साकल्यविधानात् -११,१.४८
बहूर्थत्वाच्च -११,१.४९
अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् -११,१.५०
सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् -११,१.५१
पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् -११,१.५२
क्रमकोपश्च यौगपद्यात् स्यात् -११,१.५३
तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् -११,१.५४
एकार्थ्यादव्यवायः स्यात् -११,१.५५
तथाचान्यार्थदर्शनं कामुकायनः -११,१.५६
तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् -११,१.५७
असंसृष्टोऽपि तादर्थ्यात् -११,१.५८
विभवाद्वा प्रदीपवत् -११,१.५९
अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् -११,१.६०
सकृदिज्यां कामुकायनः परिमाणविरोधात् -११,१.६१
विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् -११,१.६२
विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः -११,१.६३
अपि चैकेन सन्निधानमविशेषकोहेतुः -११,१.६४
क्कतिद्विधानान्नेति चेत् -११,१.६५
न विधेश्चोदित्वात् -११,१.६६
व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् -११,१.६७
भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् -११,१.६८
तथा चान्यार्थदर्शनम् -११,१.६९
विधिरिति चेन्न वर्तमानापदेशात् -११,१.७०
एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् -११,२.१
अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् -११,२.२
अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् -११,२.३
यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् -११,२.४
तथा तान्यार्थदर्शनम् -११,२.५
श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् -११,२.६
कर्मणोऽश्रुतित्वाच्च -११,२.७
अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् -११,२.८
द्रव्यदेवतं तथेति चेत् -११,२.९
न चोदनाविधिशेषरवान्नियमार्थो विशेषः -११,२.१०
तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् -११,२.११
इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् -११,२.१२
कालभेगान्नेति चेत् -११,२.१३
नैकदेशत्वात्पशुवत् -११,२.१४
अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् -११,२.१५
तथा चान्यार्थदर्शनम् -११,२.१६
तथा तदवयवेषु स्यात् -११,२.१७
पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् -११,२.१८
तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् -११,२.१९
इष्टिरिति चैकवच्छ्रुतिः -११,२.२०
अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् -११,२.२१
प्रथमस्य वा कालवचनम् -११,२.२२
फलैकत्वादिष्टिशब्दो यथान्यत्र -११,२.२३
वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् -११,२.२४
कालभेदात्वावृत्तिर्देवताभेदे -११,२.२५ अन्ते यूपाहुतिस्तद्वत् -११,२.२६
इतरप्रतिषेधो वा -११,२.२७
अशास्त्रत्वाच्च देशानाम् -११,२.२८
अवभृथे प्रधानेऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः -११,२.२९
साङ्गो वा प्रयोदवचनैकत्वात् -११,२.३०
लिङ्गदर्शनाच्च -११,२.३१
शब्दविभागाच्च देवतानपनयः -११,२.३२
दक्षिणेऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते -११,२.३३
अचोदनेतिचेत् -११,२.३४
स्यात्पौर्णमासीवत् -११,२.३५
प्रयोगचेदनेति चेत् -११,२.३६
इहापिमारुत्याः प्रयागश्चोद्यते -११,२.३७
आसादानमिति चेत् -११,२.३८
नोत्तरेणैकवाक्यत्वात् -११,२.३९
अवाच्यत्वात् -११,२.४०
आमनायवचनं तद्वत् -११,२.४१
कर्तृभेदस्तथेति चेत् -११,२.४२
न समवायात् -११,२.४३
लिङ्गदर्शनाच्च -११,२.४४
वेदिसंयोगादिति चेत् -११,२.४५
न देशमात्रत्वात् -११,२.४६
एकवाक्यत्वात् -११,२.४७
एकाग्नित्वादपरेषु तन्त्रं स्यात् -११,२.४८
नाना वा कर्तृभेदात् -११,२.४९
पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् -११,२.५०
संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् -११,२.५१
वाक्यैकत्वे क्रतुसामान्यात् -११,२.५२
वपानां चानभिघारणस्य दर्शनात् -११,२.५३
पञ्चशारदीयास्तथेति चेत् -११,२.५४
न चेदनैकवाक्यत्वात् -११,२.५५
यातयामत्वाच्च -११,२.५६
संस्कारणां च तद्दर्शनात् -११,२.५७
दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् -११,२.५८
समानवचनं तद्वत् -११,२.५९
अतिकर्षो वार्ऽथहेतुत्वात् -११,२.६०
पूर्वस्मिंश्चावभृथस्य दर्शनात् -११,२.६१
समानः कालसामान्यात् -११,२.६२
विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् -११,२.६३
अपनयो वा प्रसिद्धेनाभिसंयोगात् -११,२.६४
प्रतिपत्तिरिति चेन्न कर्मसंयोगात् -११,२.६५
उदयनीये च तद्वत् -११,२.६६
प्रतिपत्तिर्वातकर्मसंयोगात् -११,२.६७
अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् -११,२.६८
अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् -११,३.१
द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् -११,३.२
यूपश्चाकर्मकालत्वात् -११,३.३
एकयूपं च दर्षयति -११,३.४
संस्कारास्त्वावर्तेरन्नर्थकालत्वात् -११,३.५
तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् -११,२.६
सकृन्मानं च दर्शयति -११,२.७
स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् -११,२.८
साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् -११,३.९
सोमान्ते च प्रतिपत्तिदर्शनात् -११,३.१०
न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा -११,३.११
अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् -११,३.१२
पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् -११,३.१३
शिष्ठे चाभिप्रवृत्तत्वात् -११,३.१४
वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् -११,३.१५
यथाह्वानमपीतिचेत् -११,३.१६
पशौ च पुरोडाशे समानतन्त्रं भवेत् -११,३.१७
अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् -११,३.१८
प्रधानापवर्गे वा तदर्थत्वात् -११,३.१९
अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधोऽपवृक्तार्थत्वात् -११,३.२०
अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् -११,३.२१
सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् -११,३.२२
तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् -११,३.२३
अयोदाङ्गमिति चेत् -११,३.२४
प्रयोगनिर्देशात्कर्सृभेदवत् -११,३.२५
तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् -११,३.२६
अग्निवदिति चेत् -११,३.२७
न प्रयोगसाधारण्यात् -११,३.२८
लिङ्गदर्शनाच्च -११,३.२९
तद्धि तथेति चेत् -११,३.३०
नाशिष्टत्वादितरन्यायत्वाच्च -११,३.३१
विध्येकत्वादिति चेत् -११,३.३२
न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् -११,३.३३
लौकिकेतु यथाकामी संस्कारानर्थलोपात् -११,३.३४
यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् -११,३.३५
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् -११,३.३६
मुख्यधारणं वा मरणस्यानियत्वात् -११,३.३७
यो वा यजनीयेहनि म्रियेत सोऽधिकृतः स्यादुपवेषवत् -११,३.३८
न शास्त्रलक्षणत्वात् -११,३.३९
उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् -११,३.४०
शब्दासामझ्जस्यमिति चेत् -११,३.४१
तथाऽशिरेऽपि -११,३.४२
शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः -११,३.४३
प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् -११,३.४४
अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् -११,३.४५
प्रतिपत्तिर्वा यथान्येषाम् -११,३.४६
उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति -११,३.४७
अङ्गविपर्यासोविनावचनादिति चेत् -११,३.४८
उत्कर्षः संयोगात्कालमात्रमितरत्र -११,३.४९
प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् -११,३.५०
न श्रुतिप्रतिषेधात् -११,३.५१
विकारस्थाने इति चेत् -११,३.५२
न चोदनापृथक्त्वात् -११,३.५३
उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः -११,३.५४
वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः -११,३.५५
चोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि -११,४.१
प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् -११,४.२
तथा चान्यार्थदर्शनम् -११,४.३
अनियमः स्यादिति चेत् -११,४.४
नोपदिष्टत्वात् -११,४.५
प्रयोजनैकत्वात् -११,४.६
अविशेषार्था पुनः श्रुतिः -११,४.७
अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन -११,४.८
क्रत्वर्थायामिति चेन्न वर्णसंयोगात् -११,४.९
पवमानहविःष्वैकतन्त्र्. प्रयोगवचनैकत्वात् -११,४.१०
लिङ्गदर्शनाच्च -११,४.११
वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् -११,४.१२
सहत्वे नित्यानुवादः स्यात् -११,४.१३
द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् -११,४.१४
अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने -११,४.१५
अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् -११,४.१६
साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् -११,४.१७
दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् -११,४.१८
वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् -११,४.१९
तथा चान्यार्थदर्शनम् -११,४.२०
चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् -११,४.२१
भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् -११,४.२२
तथा चान्यार्थदर्शनम् -११,४.२३
श्वासुत्यावचनं तद्वत् -११,४.२४
पश्वतिरेकश्च -११,४.२५
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् -११,४.२६
अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् -११,४.२७
अविभागाच्च -११,४.२८
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् -११,४.२९
भेदस्तु सन्देहाद्देवतान्तरे स्यात् -११,४.३०
अर्ताद्वा लिङ्गकर्म स्यात् -११,४.३१
प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् -११,४.३२
अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् -११,४.३३
सकृदिति चेत् -११,४.३४
न कालभेदात् -११,४.३५
पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् -११,४.३६
जात्यन्तरेषु भेदः पक्तिवैषम्यात् -११,४.३७
वृद्धिदर्शनाच्च -११,४.३८
कपालानि च कुम्भीवत्तुल्यसंख्यानाम् -११,४.३९
प्रतिप्रधानं वा प्रकृतिवत् -११,४.४०
सर्वेषां वाभिप्रथमं स्यात् -११,४.४१
एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् -११,४.४२
द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् -११,४.४३
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् -११,४.४४
द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् -११,४.४५
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् -११,४.४६
एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् -११,४.४७
कण्डूयने प्रत्.ङ्गं कर्मभेदात्स्यात् -११,४.४८
अपि वा चोदनैककालमैककर्म्यं स्यात् -११,४.४९
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् -११,४.५०
प्रयाणे त्वार्थनिर्वृत्तेः -११,४.५१
उपरवमम्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् -११,४.५२
न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् -११,४.५३
हविष्कृदध्रिगुपुरोऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् -११,४.५४
अध्रिगोश्च विपर्यासात् -११,४.५५
करिष्यद्वचनात् -११,४.५६
तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् -१२,१.१
गिणकालविकाराच्च तन्त्रभेदः स्यात् -१२,१.२
तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् -१२,१.३
विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् -१२,१.४
एकेषां वाशक्यत्वात् -१२,१.५
आहोपुरीषकं स्यात् -१२,१.६
एकाग्निवच्च दर्शनम् -१२,१.७
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् -१२,१.८
नानार्थत्वात्सोमे दर्शपूर्णमासप्रक-तीनां वेदिकर्म स्यात् -१२,१.९
अकर्म वा कृतदूषा स्यात् -१२,१.१०
पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् -१२,१.११
न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् -१२,१.१२
शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् -१२,१.१३
श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् -१२,१.१४
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् -१२,१.१५
असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् -१२,१.१६
अनसाञ्च दर्शनात् -१२,१.१७
तद्युक्तत्व च कालभेदात् -१२,१.१८
मन्त्राश्च सन्निपातित्वात् -१२,१.१९
धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यते -१२,१.२०
तथा व्रतमपेतत्वात् -१२,१.२१
विप्रतिषेधाच्च -१२,१.२२
सत्यवदिति चेत् -१२,१.२३
न संयोगपृथक्त्वात् -१२,१.२४
ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् -१२,१.२५
शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् -१२,१.२६
न गुणार्थत्वात् -१२,१.२७
सन्नहनञ्च वृत्तत्वात् -१२,१.२८
अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् -१२,१.२९
शेषभक्षास्तथेति चेन्नान्यार्थत्वात् -१२,१.३०
भृत्वाच्च परिक्रयः -१२,१.३१
शेषभक्षास्तथेति चेत् -१२,१.३२
न कर्मसंयोगात् -१२,१.३३
प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत -१२,१.३४
ब्रह्मापीति चेत् -१२,१.३५
न प्राङ्नियमात्तदर्थं हि -१२,१.३६
विर्दिष्टस्येति चेत् -१२,१.३७
न श्रुतत्वात् -१२,१.३८
हीतुस्तथेति चेत् -१२,१.३९
न कर्मसंयोगात् -१२,१.४०
यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत -१२,१.४१
देशपृथक्त्वान्मन्त्रोव्यावर्तते -१२,१.४२
सन्नहनहरणे तथेति चेत् -१२,१.४३
नान्यार्थत्वात् -१२,१.४४
विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् -१२,२.१
मांसपाकप्रतिषेधश्च तद्वत् -१२,२.२
निर्देशाद्वा वैदिकानां स्यात् -१२,२.३
सति चोपासनस्य दर्शनात् -१२,२.४
अभावदर्शनाच्च -१२,२.५
मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् -१२,२.६
वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य -१२,२.७
सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् -१२,२.८
क्रिया वा देवतार्थत्वात् -१२,२.९
लिङ्गदर्शनात् -१२,२.१०
हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् -१२,२.११
पशौ तु संस्कृते विधानात् -१२,२.१२
योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् -१२,२.१३
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् -१२,२.१४
कालवाक्यभेदाच्च तन्त्रभेदः स्यात् -१२,२.१५
वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् -१२,२.१६
तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् -१२,२.१७
वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् -१२,२.१८
अग्न्यन्वाधानं च यदि देवतार्थम् -१२,२.१९
आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन -१२,२.२०
सकृदाऽरम्भसंयोगात् -१२,२.२१
स्याद्वा कालस्याशेषभूतत्वात् -१२,२.२२
आरंभविभागाच्च -१२,२.२३
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् -१२,२.२४
मुख्यं वा पूर्वचोदनाल्लोकवत् -१२,२.२५
तथा चान्यार्थदर्शनम् -१२,२.२६
अङ्गगुणविरोधे च तादर्थ्यात् -१२,२.२७
परिधेद्व्यर्थत्वाद भयधर्मा स्यात् -१२,२.२८
यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् -१२,२.२९
इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः -१२,२.३०
पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् -१२,१.३१
पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् -१२,१.३२
पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् -१२,२.३३
अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् -१२,२.३४
अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि -१२,२.३५
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन -१२,२.३६
न वाविरोधात् -१२,२.३७
अशास्त्रलक्षणत्वाच्च -१२,२.३८
विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् -१२,३.१
अविरोधी वा उपरिवासो हि वत्सत्वक् -१२,३.२
अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च -१२,३.३
आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् -१२,३.४
स्वस्थानत्वाच्च -१२,३.५
स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् -१२,३.६
अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च -१२,३.७
एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् -१२,३.८
एकार्थास्तुविकल्पेरन्,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य -१२,३.९
अभ्यस्योतार्थवत्त्वादिति चेत् -१२,३.१०
नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरेऽर्थवत्त्वं स्यात् -१२,३.११
प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः -१२,३.१२
समुच्चयस्तु दोषार्थः -१२,३.१३
मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् -१२,३.१४
विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य -१२,३.१५
भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः -१२,३.१६
मन्त्रोपदेशोवा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः -१२,३.१७
विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टेऽप्येवम् -१२,३.१८
तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् -१२,३.१९
मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् -१२,३.२०
सन्ततवचनाद्धारायामादिसंयोगः -१२,३.२१
करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् -१२,३.२२
आघारे च दीर्घधारत्वात् -१२,३.२३ मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् -१२,३.२४
संख्याविहितेषु समुच्चयोऽसन्निपातित्वात् -१२,३.२५
ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् -१२,३.३६
याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् -१२,३.२७
विकल्पो वा समुच्चयस्याश्रुतित्वात् -१२,३.२८
गुणार्थत्वादुपदेशस्य -१२,३.२९
वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् -१२,३.३०
क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् -१२,३.३१
समुच्चयं च दर्शयति -१२,३.३२
जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् -१२,४.१
समुच्चयं च दर्शयति -१२,४.२
याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् -१२,४.३
लिङ्गदर्शनाच्च -१२,४.४
क्रयेषु ति विकल्पः स्यादेकार्थत्वात् -१२,४.५
समुच्चयो वा प्रयोगद्रव्यसमवायात् -१२,४.६
समुच्चयञ्चदर्शयति -१२,४.७
संस्कारे च तत्प्रधानत्वात् -१२,३.८
संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् -१२,३.९
द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् -१२,३.१०
द्रव्यत्वेऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति -१२,४.११
कपालेऽपि तथेतिचेत् -१२,४.१२
न कर्मणः परार्थत्वात् -१२,४.१३
प्रतिपत्तिस्तु शेषत्वात् -१२,४.१४
शृतेऽपि पूर्ववत्स्यात् -१२,४.१५
मवायात्तसमात्तेनार्थकर्म स्यात् -१२,४.१६
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् -१२,४.१७
तस्यत देवतार्थत्वात् -१२,४.१८
विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः -१२,४.१९
वचनादसंस्कृतेषु कर्म स्यात् -१२,४.२०
संसर्गे चापि दोषः स्यात् -१२,४.२१
वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् -१२,४.२२
स आहवनीयः स्यादाहुतिसंयोगात् -१२,४.२३
अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् -१२,४.२४
स्थानात्तु परिलुप्येरन् -१२,४.२५
नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् -१२,४.२६
नित्यधारणाद्वा प्रतिषेधो गतश्रियः -१२,४.२७
परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणेऽनियमोऽविशेषात् -१२,४.२८
मुख्यो वाविप्रतिषेधात् -१२,४.२९
सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च -१२,४.३०
सर्वैः वा तदर्थत्वात् -१२,४.३१
विप्रतिषेधे परम् -१२,४.३२
हौत्रे परार्थत्वात् -१२,४.३३
वचनं परम् -१२,४.३४
प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् -१२,४.३५
स्मृतेर्वा स्याद्व्राह्मणानाम् -१२,४.३६
फलचमसविधानाच्चेतरेषाम् -१२,४.३७
सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् -१२,४.३८
चतुर्धाकरणे च विर्देशात् -१२,४.३९
अन्वाहहर्ये च दर्शनात् -१२,४.४०
More Stories
Srimad Bhagavatam (Bhagavata Purana) श्रीमद्भागवतं
Diksha Vidhi (दीक्षा विधिः)
Brahmana Sarvasvam by Halayudha