अथातो धर्मजिज्ञासा- शबरभाष्यम्-Athato Dharmo Jigyasa

अथातो धर्मजिज्ञासा -1.1.1

Now I shall ask for Dharma

लोके येष्व्अर्थेषु प्रसिद्धानि पदानि, तानि, सति सम्भवे, तदर्थान्य् एव सूत्रेष्व् इत्य्अवगन्तव्यम्. नाध्याहारादिभिर् एषां परिकल्पनीयो ऽर्थः, परिभाषितव्यो वा. एवं हि वेदवाक्यान्य् एवैभिर् व्याख्यायन्ते. इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश् च व्याख्येयाः तद् यत्नगौरवं प्रसज्येत.

तत्र लोके ऽयम् अथशब्दो वृत्ताद् अनन्तरस्य प्रक्रियार्थो दृष्टः. न चेह किञ्चिद् वृत्तम् उपलभ्यते. भवितव्यं तु तेन, यस्मिन् सत्य् अनन्तरं धर्मजिज्ञासावकल्पते. तथा हि प्रसिद्धपदार्थकः स कल्पितो भवति. तत् तु वेदाध्ययनम्. तस्मिन् हि सति सावकल्पते. नैतद् एवम्. अन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा युक्ता, प्राग् अपि च वेदाध्ययनात्.

उच्यते – तादृशीं तु धर्मजिज्ञासाम् अधिकृत्याथशब्दं प्रयुक्तवान् आचार्यः, या वेदाध्ययनम् अन्तरेण न संभवति. कथम्? वेदवाक्यानाम् अनेकविधो विचार इह वर्तिष्यते. अपि च नैव वयम् इह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः. न ह्य् एतद् एकं वाक्यं पुरस्ताच् च वेदाध्ययनाद् धर्मजिज्ञासां प्रतिषेधिष्यति, परस्ताच् चानन्तर्यं प्रकरिष्यति. भिद्येत हि तथा वाक्यम्. अन्या हि वचनव्यक्तिर् अस्य पुरस्ताद् वेदाध्यायनाद् धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्ताद् आनन्तर्यम् उपदिशतः. वेदान् अधीत्य इत्य् एकस्यां विधीयते ऽनूद्यानन्तर्यम्, विपरीतम् अन्यस्याम्. अर्थैकत्वाच् चैकवाक्यतां वक्ष्यति किं त्व् अधीते वेदे द्वयम् आपतति, गुरुकुलाच् च समावर्तितव्यं वेदवाक्यानि च विचारयितव्यानि. तत्र गुरुकुलान् मा समावर्तिष्ट; कथं नु वेदवाक्यानि विचारयेद् इत्य् एवमर्थो ऽयम् उपदेशः.

यद्य् एवम्, न तर्हि वेदाध्ययनं पूर्वं धर्मजिज्ञासायाः एवं हि समामनन्ति – वेदम् अधीत्य स्नायाद् इति. इह च वेदम् अधीत्य स्नास्यन् धर्मं जिज्ञासमान इमम् आम्नायम् अतिक्रामेत्. न चाम्नायो नामातिक्रमितव्यः.
तद् उच्यते – अतिक्रमिष्याम इमम् आम्नायम्. अनतिक्रामन्तो वेदम् अर्थवन्तं सन्तम् अनर्थकं कल्पयेम. दृष्टो हि तस्यार्थः कर्मावबोधनं नाम. न च तस्याध्ययनमात्रात् तत्रभवन्तो याज्ञिकाः फलं समामनन्ति. यद् अपि च समामनन्तीव, तत्रापि – द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इत्य् अर्थवादतां वक्ष्यति. न चाधीतवेदस्य स्नानानन्तर्यम् एतद् विधीयते. न ह्य् अत्रानतर्यस्य वक्ता कश्चिच् छब्दो ऽस्ति. पूर्वकालतायां हि क्त्वा स्मर्यते, नानन्तर्ये.

दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत. लक्षणया त्व् एषो ऽर्थः स्यात्. न चेदं स्नानम् अदृष्टार्थं विधीयते. किं तु लक्षणयास्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालम् आहुः वेदम् अधीत्य स्नायाद्, गुरुकुलान् मा समावर्तिष्टेत्य् अदृष्टार्थतापरिहारायैव.

तस्माद् वेदाध्ययनम् एव पूर्वम् अभिनिर्वर्त्याननतरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्य सामर्थ्यम्. न ब्रूमो ऽन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा न कर्तव्या इति, किं तु वेदम् अधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्यार्थः.

अतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन, यथा क्षेमसुभिक्षो ऽयं देशः, अतो ऽहम् अस्मिन् देशे प्रतिवसामीति. एवम् अधीतो वेदो धर्मजिज्ञासायां हेतुर् ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः इत्य् अतःशब्दस्य सामर्थ्यम्. धर्माय हि वेदवाक्यानि विचारयितुम् अनधीतवेदो न शक्नुयात्. अतः, एतस्मात् कारणात्, अनन्तरं धर्मं जिज्ञासितुम् इच्छेद् इत्य् अतःशब्दस्यार्थः.

धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छा. स पुनः कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति. तत्र को धर्मः, कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातं चोदनालक्षणो ऽर्थो धर्म इति. कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति शेषलक्षणेनव्याख्यातम्. क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्य् एतासां प्रतिज्ञानां पिण्डस्य एतत् सूत्रम् अथातो धर्मजिज्ञासेति.
धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा. स चेत् प्रसिद्धः, न जिज्ञास्यः. अथाप्रसिद्धः, नतराम्. तद् एतद् अनर्थकं धर्मजिज्ञासाप्रकरणम्.

अथवार्थवत्. धर्मं प्रति हि विप्रतिपन्ना बहुविदः. केचिद् अन्यं धर्मम् आहुः, केचिद् अन्यम्. सो ऽयम् अविचार्य प्रवर्तमानः कंचिद् एवोपाददानो विहन्येतानर्थं चर्च्छेत्. तस्माद् धर्मो जिज्ञासितव्यः. स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे.

तद् अभिधीयते –

चोदनालक्षणो ऽर्थो धर्मः-1.1.2


मीमांसा शाबर भाष्यम्