Tantra Yukti -Terminologies used in Artha Sastra
मनुष्याणां वृत्तिर् अर्थः, मनुष्यवती भूमिर् इत्य् अर्थः ॥१५.१.०१
तस्याः पृथिव्या लाभ.पालन.उपायः शास्त्रम् अर्थ.शास्त्रम् इति ॥१५.१.०२
तद्.द्वात्रिंशद् युक्ति.युक्तं – अधिकरणम्, विधानम्, योगः, पद.अर्थः, हेत्व्.अर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थ.आपत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्य.शेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्व.संज्ञा, पूर्व.पक्षः, उत्तर.पक्षः, एक.अन्तः, अनागत.अवेक्षणम्, अतिक्रान्त.अवेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यम् इति ॥१५.१.०३
यम् अर्थम् अधिकृत्य_उच्यते तद् अधिकरणम् ॥१५.१.०४
“पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य_एकम् इदम् अर्थ.शास्त्रं कृतम्” इति ॥१५.१.०५
शास्त्रस्य प्रकरण.अनुपूर्वी विधानम् ॥१५.१.०६
“विद्या.समुद्देशः, वृद्ध.सम्योगः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः” इत्य् एवं.आदिकम् इति ॥१५.१.०७
वाक्य.योजना योगः ॥१५.१.०८
“चतुर्.वर्ण.आश्रमो लोकः” इति ॥१५.१.०९
पद.अवधिकः पद.अर्थः ॥१५.१.१०
मूल.हर इति पदम् ॥१५.१.११
“यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः” इत्य् अर्थः ॥१५.१.१२
हेतुर् अर्थ.साधको हेत्व्.अर्थः ॥१५.१.१३
“अर्थ.मूलौ हि धर्म.कामौ” इति ॥१५.१.१४
समास.वाक्यम् उद्देशः ॥१५.१.१५
“विद्या.विनय.हेतुर् इन्द्रिय.जयः” इति ॥१५.१.१६
व्यास.वाक्यं निर्देशः ॥१५.१.१७
“कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः”इति ॥ १५.१.१८
एवं वर्तितव्यम् इत्य् उपदेशः ॥१५.१.१९
“धर्म.अर्थ.विरोधेन कामं सेवेत, न निह्सुखः स्यात्” इति ॥१५.१.२०
एवम् असाव् आह_इत्य् अपदेशः ॥१५.१.२१
“मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीतइति मानवाः – षोडशइति बार्हस्पत्याः – विंशतिम् इत्य् औशनसाः – यथा.सामर्थ्यम् इति कौटिल्यः” इति ॥१५.१.२२
उक्तेन साधनम् अतिदेशः ॥१५.१.२३
“दत्तस्य_अप्रदानम् ऋण.आदानेन व्याख्यातम्” इति ॥१५.१.२४
वक्तव्येन साधनं प्रदेशः ॥१५.१.२५
“साम दान भेद दण्डैर् वा, यथा आपत्सु व्याख्यास्यामः” इति ॥१५.१.२६
दृष्टेन अदृष्टस्य साधनम् उपमानम् ॥१५.१.२७
“निवृत्त.परिहारान् पिता इव अनुगृह्णीयात्” इति ॥१५.१.२८
यद् अनुक्तम् अर्थाद् आपद्यते सा अर्थ.आपत्तिः ॥१५.१.२९
“लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.सम्पन्नं प्रिय.हित.द्वारेण_आश्रयेत”॥ १५.१.३०
“नअप्रिय.हित.द्वारेणआश्रयेत” इत्य् अर्थाद् आपन्नं भवति_इति ॥१५.१.३१
उभयतो.हेतुमान् अर्थः संशयः ॥१५.१.३२
“क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा” इति ॥१५.१.३३
प्रकरण अन्तरेण समानो अर्थः प्रसङ्गः ॥१५.१.३४
“कृषि कर्म प्रदिष्टायां भूमौ इति समानं पूर्वेण” इति ॥१५.१.३५
प्रतिलोमेन साधनं विपर्ययः ॥१५.१.३६
“विपरीतम् अतुष्टस्य” इति ॥१५.१.३७
येन वाक्यं समाप्यते स वाक्य.शेषः ॥१५.१.३८
“छिन्न.पक्षस्य_इव राज्ञश् चेष्टा.नाशश् च” इति ॥१५.१.३९
तत्र “शकुनेः” इति वाक्य.शेषः ॥१५.१.४०
पर.वाक्यम् अप्रतिषिद्धम् अनुमतम् ॥१५.१.४१
“पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः” इति ॥१५.१.४२
अतिशय.वर्णना व्याख्यानम् ॥१५.१.४३
“विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्यात्” इति ॥१५.१.४४
गुणतः शब्द.निष्पत्तिर् निर्वचनम् ॥१५.१.४५
“व्यस्यत्य् एनं श्रेयस इति व्यसनम्” इति ॥१५.१.४६
दृष्ट.अन्तो दृष्ट.अन्त.युक्तो निदर्शनम् ॥१५.१.४७
“विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव.अभ्युपैति” इति ॥१५.१.४८
अभिप्लुत.व्यपकर्षणम् अपवर्गः ॥१५.१.४९
“नित्यम् आसन्नम् अरि.बलं वासयेद् अन्यत्र अभ्यन्तर.कोप.शङ्कायाः” इति ॥१५.१.५०
परैर् असमितः शब्दः स्व.संज्ञा ॥१५.१.५१
“प्रथमा प्रकृतिः, तस्य भूम्य्.अनन्तरा द्वितीया, भूम्य्.एक.अन्तरा तृतीया” इति ॥१५.१.५२
प्रतिषेद्धव्यं वाक्यं पूर्व.पक्षः ॥१५.१.५३
“स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः” इति ॥१५.१.५४
तस्य निर्णयन.वाक्यम् उत्तर.पक्षः ॥१५.१.५५
“तद्.आयत्तत्वात्, तत्.कूट.स्थानीयो हि स्वामी” इति ॥१५.१.५६
सर्वत्र आयत्तम् एक अन्तः ॥१५.१.५७
“तस्माद् उत्थानम् आत्मनः कुर्वीत” इति ॥१५.१.५८
पश्चाद् एवं विहितम् इत्य् अनागत.अवेक्षणम् ॥१५.१.५९
“तुला प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः” इति ॥१५.१.६०
पुरस्ताद् एवं विहितम् इत्य् अतिक्रान्त अवेष्कणम् ॥१५.१.६१
“अमात्य सम्पद् उक्ता पुरस्तात्” इति ॥१५.१.६२
एवं न अन्यथा इति नियोगः ॥१५.१.६३
“तस्माद् धर्म्यम् अर्थ्यं च अस्य उपदिशेत्, न अधर्म्यम् अनर्थय्म् च” इति ॥१५.१.६४
अनेन वा अनेन वा इति विकल्पः ॥१५.१.६५
“दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः” इति ॥१५.१.६६
अनेन च अनेन च इति समुच्चयः ॥१५.१.६७
“स्वयंजातः पितुर् बन्धूनां च दायादः” इति ॥१५.१.६८
अनुक्त.करणम् ऊह्यम् ॥१५.१.६९
“यथा च दाता प्रतिग्रहीता च नउपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः” इति॥ १५.१.७०
एवं शास्त्रम् इदं युक्तम् एताभिस् तन्त्र.युक्तिभिः ।१५.१.७१कख
अवाप्तौ पालने चउक्तं लोकस्यअस्य परस्य च ॥१५.१.७१गघ
धर्मम् अर्थं च कामं च प्रवर्तयति पाति च ।१५.१.७२कख
अधर्म अनर्थ विद्वेषान् इदं शास्त्रं निहन्ति च ॥१५.१.७२गघ
येन शास्त्रं च शस्त्रं च नन्द.राज.गता च भूः ।१५.१.७३कख
अमर्षेण उद्धृतान्य् आशु तेन शास्त्रम् इदं कृतम् ॥१५.१.७३गघ