CIVIL

माण्डूक्योपनिषद्भाष्यम्-श्रीमच्छङ्करभगवत

आगमप्रकरणम्

प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोका –
न्भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् ।
पीत्वा सर्वान्विशेषान्स्वपिति मधुरभुङ्मायया भोजयन्नो
मायासङ्ख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥

यो विश्वात्मा विधिजविषयान्प्राश्य भोगान्स्थविष्ठा –
न्पश्चाच्चान्यान्स्वमतिविभवाञ्ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वानेतान्पुनरपि शनैः स्वात्मनि स्थापयित्वा
हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥ २ ॥

ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । वेदान्तार्थसारसङ्ग्रहभूतमिदं प्रकरणचतुष्टयम् ओमित्येतदक्षरमित्यादि आरभ्यते । अत एव न पृथक् सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते सम्बन्धाभिधेयप्रयोजनानि, तान्येवेहापि भवितुमर्हन्ति ; तथापि प्रकरणव्याचिख्यासुना सङ्क्षेपतो वक्तव्यानीति मन्यन्ते व्याख्यातारः । तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसम्बन्धाभिधेयप्रयोजनवद्भवति ।

किं पुनस्तत्प्रयोजनमिति, उच्यते — रोगार्तस्येव रोगनिवृत्तौ स्वस्थता, तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता ; अद्वैतभावः प्रयोजनम् । द्वैतप्रपञ्चस्य चाविद्याकृतत्वाद्विद्यया तदुपशमः स्यादिति ब्रह्मविद्याप्रकाशनाय अस्यारम्भः क्रियते । ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४), (बृ. उ. ४ । ५ । १५) ‘यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यद्विजानीयात्’ (बृ. उ. ४ । ३ । ३१) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्योऽस्यार्थस्य सिद्धिः ।

तत्र तावदोङ्कारनिर्णयाय प्रथमं प्रकरणमागमप्रधानमात्मतत्त्वप्रतिपत्त्युपायभूतम् । यस्य द्वैतप्रपञ्चस्योपशमे अद्वैतप्रतिपत्तिः रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्त्वप्रतिपत्तिः, तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् । तथा अद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ, युक्तितस्तथात्वप्रतिपादनाय तृतीयं प्रकरणम् । अद्वैतस्य तथात्वप्रतिपत्तिविपक्षभूतानि यानि वादान्तराण्यवैदिकानि सन्ति, तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् ॥

ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥

कथं पुनरोङ्कारनिर्णय आत्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिपद्यत इति, उच्यते — ‘ओमित्येतत्’ (क. उ. १ । २ । १५) ‘एतदालम्बनम्’ (क. उ. १ । २ । १७) ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’ (प्र. उ. ५ । २) ‘ओमित्यात्मानं युञ्जीत’ (ना. ७९) ‘ओमिति ब्रह्म’ (तै. उ. १ । ८ । १) ‘ओङ्कार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादिश्रुतिभ्यः । रज्ज्वादिरिव सर्पादिविकल्पस्यास्पदमद्वय आत्मा परमार्थतः सन्प्राणादिविकल्पस्यास्पदं यथा, तथा सर्वोऽपि वाक्प्रपञ्चः प्राणाद्यात्मविकल्पविषय ओङ्कार एव । स चात्मस्वरूपमेव, तदभिधायकत्वात् । ओङ्कारविकारशब्दाभिधेयश्च सर्वः प्राणादिरात्मविकल्पः अभिधानव्यतिरेकेण नास्ति ; ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) ‘तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् , सर्वं हीदं नामनि’ (ऐ. आ. २ । १ । ६) इत्यादिश्रुतिभ्यः । अत आह — ओमित्येतदक्षरमिदं सर्वमिति । यदिदम् अर्थजातमभिधेयभूतम् , तस्य अभिधानाव्यतिरेकात् , अभिधानभेदस्य च ओङ्काराव्यतिरेकात् ओङ्कार एवेदं सर्वम् । परं च ब्रह्म अभिधानाभिधेयोपायपूर्वकमवगम्यत इत्योङ्कार एव । तस्य एतस्य परापरब्रह्मरूपस्याक्षरस्य ओमित्येतस्य उपव्याख्यानम् , ब्रह्मप्रतिपत्त्युपायत्वाद्ब्रह्मसमीपतया विस्पष्टं प्रकथनमुपव्याख्यानम् ; प्रस्तुतं वेदितव्यमिति वाक्यशेषः । भूतं भवत् भविष्यत् इति कालत्रयपरिच्छेद्यं यत् , तदपि ओङ्कार एव, उक्तन्यायतः । यच्च अन्यत् त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यमव्याकृतादि, तदपि ओङ्कार एव ॥

सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥

अभिधानाभिधेययोरेकत्वेऽपि अभिधानप्राधान्येन निर्देशः कृतः ‘ओमित्येतदक्षरमिदं सर्वम्’ इत्यादि । अभिधानप्राधान्येन निर्दिष्टस्य पुनरभिधेयप्राधान्येन निर्देशः अभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थः । इतरथा हि अभिधानतन्त्राभिधेयप्रतिपत्तिरिति अभिधेयस्याभिधानत्वं गौणमित्याशङ्का स्यात् । एकत्वप्रतिपत्तेश्च प्रयोजनमभिधानाभिधेययोः — एकेनैव प्रयत्नेन युगपत्प्रविलापयंस्तद्विलक्षणं ब्रह्म प्रतिपद्येतेति । तथा च वक्ष्यति — ‘पादा मात्रा मात्राश्च पादाः’ (मा. उ. ८) इति । तदाह — सर्वं ह्येतद्ब्रह्मेति । सर्वं यदुक्तमोङ्कारमात्रमिति, तदेतत् ब्रह्म । तच्च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशति — अयमात्मा ब्रह्मेति । अयम् इति चतुष्पात्त्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयमात्मेति । सोऽयमात्मा ओङ्काराभिधेयः परापरत्वेन व्यवस्थितः चतुष्पात् कार्षापणवत् , न गौरिव । त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्तिरिति करणसाधनः पादशब्दः ; तुरीयस्य तु पद्यत इति कर्मसाधनः पादशब्दः ॥

जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥

कथं चतुष्पात्त्वमित्याह — जागरितस्थान इति । जागरितं स्थानमस्येति जागरितस्थानः, बहिःप्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य, सः बहिःप्रज्ञः ; बहिर्विषयेव प्रज्ञा यस्याविद्याकृतावभासत इत्यर्थः । तथा सप्त अङ्गान्यस्य ; ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ’ (छा. उ. ५ । १८ । २) इत्यग्निहोत्राहुतिकल्पनाशेषत्वेनाग्निर्मुखत्वेनाहवनीय उक्त इत्येवं सप्ताङ्गानि यस्य, सः सप्ताङ्गः । तथा एकोनविंशतिर्मुखान्यस्य ; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश, वायवश्च प्राणादयः पञ्च, मनो बुद्धिरहङ्कारश्चित्तमिति, मुखानीव मुखानि तानि ; उपलब्धिद्वाराणीत्यर्थः । स एवंविशिष्टो वैश्वानरः यथोक्तैर्द्वारैः शब्दादीन्स्थूलान्विषयान्भुङ्क्त इति स्थूलभुक् । विश्वेषां नराणामनेकधा सुखादिनयनाद्विश्वानरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरः, विश्वानर एव वैश्वानरः, सर्वपिण्डात्मानन्यत्वात् ; स प्रथमः पादः

एतत्पूर्वकत्वादुत्तरपादाधिगमस्य प्राथम्यमस्य । कथम् ‘अयमात्मा ब्रह्म’ इति प्रत्यगात्मनोऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वमिति ? नैष दोषः, सर्वस्य प्रपञ्चस्य साधिदैविकस्य अनेनात्मना चतुष्पात्त्वस्य विवक्षितत्वात् । एवं च सति सर्वप्रपञ्चोपशमे अद्वैतसिद्धिः । सर्वभूतस्थश्च आत्मा एको दृष्टः स्यात् ; सर्वभूतानि चात्मनि । ‘यस्तु सर्वाणि भूतानि’ (ई. उ. ६) इत्यादिश्रुत्यर्थश्चैवमुपसंहृतः स्यात् ; अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यगात्मा साङ्‍ख्यादिभिरिव दृष्टः स्यात् ; तथा च सति अद्वैतमिति श्रुतिकृतो विशेषो न स्यात् , साङ्‍ख्यादिदर्शनेनाविशेषात् । इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ; ततो युक्तमेवास्य आध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वमित्यभिप्रेत्य सप्ताङ्गत्ववचनम् । ‘मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गदर्शनाच्च । विराजैकत्वमुपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः । उक्तं चैतन्मधुब्राह्मणे — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम्’ (बृ. उ. २ । ५ । १) इत्यादि । सुषुप्ताव्याकृतयोस्त्वेकत्वं सिद्धमेव, निर्विशेषत्वात् । एवं च सत्येतत्सिद्धं भविष्यति — सर्वद्वैतोपशमे चाद्वैतमिति ॥

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥

स्वप्नः स्थानमस्य तैजसस्येति स्वप्नस्थानः । जाग्रत्प्रज्ञा अनेकसाधना बहिर्विषयेवावभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते ; तन्मनः तथा संस्कृतं चित्रित इव पटो बाह्यसाधनानपेक्षमविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते । तथा चोक्तम् — ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’ (बृ. उ. ४ । ३ । ९) इत्यादि । तथा ‘परे देवे मनस्येकीभवति’ (प्र. उ. ४ । २) इति प्रस्तुत्य ‘अत्रैष देवः स्वप्ने महिमानमनुभवति’ (प्र. उ. ४ । ५) इत्याथर्वणे । इन्द्रियापेक्षया अन्तःस्थत्वान्मनसः तद्वासनारूपा च स्वप्ने प्रज्ञा यस्येति अन्तःप्रज्ञः, विषयशून्यायां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ; इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति । समानमन्यत् । द्वितीयः पादः तैजसः ॥

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥

दर्शनादर्शनवृत्त्योः स्वापस्य तुल्यत्वात्सुषुप्तग्रहणार्थं यत्र सुप्त इत्यादिविशेषणम् । अथवा, त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते — यत्र यस्मिन्स्थाने काले वा सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । न हि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते । तदेतत्सुषुप्तं स्थानमस्येति सुषुप्तस्थानः । स्थानद्वयप्रविभक्तं मनःस्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतमित्युच्यते । अत एव स्वप्नजाग्रन्मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव ; सेयमवस्था अविवेकरूपत्वात्प्रज्ञानघन उच्यते । यथा रात्रौ नैशेन तमसा अविभज्यमानं सर्वं घनमिव, तद्वत्प्रज्ञानघन एव । एवशब्दान्न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीत्यर्थः ।

मनसो विषयविषय्याकारस्पन्दनायासदुःखाभावात् आनन्दमयः आनन्दप्रायः ; नानन्द एव, अनात्यन्तिकत्वात् । यथा लोके निरायासः स्थितः सुख्यानन्दभुगुच्यते । अत्यन्तानायासरूपा हीयं स्थितिरनेनात्मनानुभूयत इत्यानन्दभुक् , ‘एषोऽस्य परम आनन्दः’ (बृ. उ. ४ । ३ । ३२) इति श्रुतेः । स्वप्नादिप्रतिबोधं चेतः प्रति द्वारीभूतत्वात् चेतोमुखः ; बोधलक्षणं वा चेतो द्वारं मुखमस्य स्वप्नाद्यागमनं प्रतीति चेतोमुखः । भूतभविष्यज्ज्ञातृत्वं सर्वविषयज्ञातृत्वमस्यैवेति प्राज्ञः । सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते । अथवा, प्रज्ञप्तिमात्रमस्यैव असाधारणं रूपमिति प्राज्ञः ; इतरयोर्विशिष्टमपि विज्ञानमस्तीति । सोऽयं प्राज्ञस्तृतीयः पादः ॥

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥

एषः हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्य ईश्वरः ईशिता ; नैतस्माज्जात्यन्तरभूतोऽन्येषामिव, ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति श्रुतेः । अयमेव हि सर्वस्य सर्वभेदावस्थो ज्ञातेति एषः सर्वज्ञः । अत एव एषः अन्तर्यामी, अन्तरनुप्रविश्य सर्वेषां भूतानां यमयिता नियन्ताप्येष एव । अत एव यथोक्तं सभेदं जगत्प्रसूयत इति एषः योनिः सर्वस्य । यत एवम् , प्रभवश्चाप्ययश्च प्रभवाप्ययौ हि भूतानामेष एव ॥
अत्रैते श्लोका भवन्ति —

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्थितः ॥ १ ॥

अत्र एतस्मिन्यथोक्तेऽर्थे एते श्लोका भवन्ति — बहिःप्रज्ञ इति । पर्यायेण त्रिस्थानत्वात् सोऽहमिति स्मृत्या प्रतिसन्धानाच्च स्थानत्रयव्यतिरिक्तत्वमेकत्वं शुद्धत्वमसङ्गत्वं च सिद्धमित्यभिप्रायः, महामत्स्यादिदृष्टान्तश्रुतेः ॥

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥

जागरितावस्थायामेव विश्वादीनां त्रयाणामनुभवप्रदर्शनार्थोऽयं श्लोकः — दक्षिणाक्षीति । दक्षिणमक्ष्येव मुखम् , तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्वः अनुभूयते, ‘इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ४ । २ । २) इति श्रुतेः । इन्धो दीप्तिगुणो वैश्वानर आदीत्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः । नन्वन्यो हिरण्यगर्भः, क्षेत्रज्ञो दक्षिणेऽक्षिण्यक्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी ; न, स्वतो भेदानभ्युपगमात् ; ‘एको देवः सर्वभूतेषु गूढः’ (श्वे. उ. ६ । ११) इति श्रुतेः, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) ‘अविभक्तं च भूतेषु विभक्तमिव च स्थितम्’ (भ. गी. १३ । १६) इति स्मृतेश्च ; सर्वेषु करणेष्वविशेषेष्वपि दक्षिणाक्षिण्युपलब्धिपाटवदर्शनात्तत्र विशेषेण निर्देशोऽस्य विश्वस्य । दक्षिणाक्षिगतो दृष्ट्वा रूपं निमीलिताक्षस्तदेव स्मरन्मनस्यन्तः स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति ।

यथा तत्र तथा स्वप्ने ; अतः मनसि अन्तस्तु तैजसोऽपि विश्व एव । आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति, मनोव्यापाराभावात् । दर्शनस्मरणे एव हि मनःस्पन्दितम् ; तदभावे हृद्येवाविशेषेण प्राणात्मनावस्थानम् , ‘प्राणो ह्येवैतान्सर्वान्संवृङ्क्ते’ (छा. उ. ४ । ३ । ३) इति श्रुतेः । तैजसः हिरण्यगर्भः, मनःस्थत्वात् ; ‘लिङ्गं मनः’ (बृ. उ. ४ । ४ । ६) ‘मनोमयोऽयं पुरुषः’ (बृ. उ. ५ । ६ । १) इत्यादिश्रुतिभ्यः ।

ननु, व्याकृतः प्राणः सुषुप्ते ; तदात्मकानि करणानि भवन्ति ; कथमव्याकृतता ? नैष दोषः, अव्याकृतस्य देशकालविशेषाभावात् । यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य ; तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणे भवतीत्यव्याकृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् । यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणोऽव्याकृतः, तथा प्राणाभिमानिनोऽप्यविशेषापत्तावव्याकृतता समाना, प्रसवबीजात्मकत्वं च । तदध्यक्षश्चैकोऽव्याकृतावस्थः । परिच्छिन्नाभिमानिनामध्यक्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानघन इत्याद्युपपन्नम् । तस्मिन्नेतस्मिन्नुक्तहेतुसत्त्वाच्च । कथं प्राणशब्दत्वमव्याकृतस्य ? ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति श्रुतेः । ननु, तत्र ‘सदेव सोम्य’ (छा. उ. ६ । २ । १) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् ; नैष दोषः, बीजात्मकत्वाभ्युपगमात्सतः । यद्यपि सद्ब्रह्म प्राणशब्दवाच्यं तत्र, तथापि जीवप्रसवबीजात्मकत्वमपरित्यज्यैव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च । यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत् , ‘नेति नेति’ (बृ. उ. ४ । ५ । ३) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्यवक्ष्यत् ; ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इति स्मृतेः ।

निर्बीजतयैव चेत् , सति प्रलीनानां सम्पन्नानां सुषुप्तिप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् ; मुक्तानां च पुनरुत्पत्तिप्रसङ्गः, बीजाभावाविशेषात् , ज्ञानदाह्यबीजाभावे च ज्ञानानर्थक्यप्रसङ्गः ; तस्मात्सबीजत्वाभ्युपगमेनैव सतः प्राणत्वव्यपदेशः, सर्वश्रुतिषु च कारणत्वव्यपदेशः । अत एव ‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्यादिना बीजत्वापनयनेन व्यपदेशः । तामबीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसम्बन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति । बीजावस्थापि ‘न किञ्चिदवेदिषम्’ इत्युत्थितस्य प्रत्ययदर्शनाद्देहेऽनुभूयत एवेति त्रिधा देहे व्यवस्थित इत्युच्यते ॥

विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३ ॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ ४ ॥

उक्तार्थौ हि श्लोकौ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५ ॥

त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं यद्भोज्यमेकं त्रिधाभूतम् ; यश्च विश्वतैजसप्राज्ञाख्यो भोक्तैकः ‘सोऽहम्’ इत्येकत्वेन प्रतिसन्धानात् द्रष्टृत्वाविशेषाच्च प्रकीर्तितः ; यो वेद एतदुभयं भोज्यभोक्तृतया अनेकधा भिन्नम् , सः भुञ्जानः न लिप्यते, भोज्यस्य सर्वस्यैकभोक्तृभोज्यत्वात् । न हि यस्य यो विषयः, स तेन हीयते वर्धते वा । न ह्यग्निः स्वविषयं दग्ध्वा काष्ठादि, तद्वत् ॥

प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ६ ॥

सतां विद्यमानानां स्वेन अविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभवः उत्पत्तिः । वक्ष्यति च — ‘वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते’ (मा. का. ३ । २८) इति । यदि ह्यसतामेव जन्म स्यात् , ब्रह्मणोऽव्यवहार्यस्य ग्रहणद्वाराभावादसत्त्वप्रसङ्गः । दृष्टं च रज्जुसर्पादीनामविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्यात्मना सत्त्वम् । न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित् । यथा रज्ज्वां प्राक्सर्पोत्पत्तेः रज्ज्वात्मना सर्पः सन्नेवासीत् , एवं सर्वभावानामुत्पत्तेः प्राक्प्राणबीजात्मनैव सत्त्वमिति । श्रुतिरपि वक्ति ‘ब्रह्मैवेदम्’ (मु. उ. २ । २ । १२) ‘आत्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १) इति । अतः सर्वं जनयति प्राणः चेतोंशून् अंशव इव रवेश्चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवमनुष्यतिर्यगादिदेहभेदेषु विभाव्यमानाश्चेतोंशवो ये, तान् पुरुषः पृथक् सृजति विषयभावविलक्षणानग्निविस्फुलिङ्गवत्सलक्षणान् जलार्कवच्च जीवलक्षणांस्त्वितरान्सर्वभावान् प्राणो बीजात्मा जनयति, ‘यथोर्णनाभिः. . . यथाग्नेः क्षुद्रा विस्फुलिङ्गाः’ (बृ. उ. २ । १ । २०) इत्यादिश्रुतेः ॥

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥

विभूतिर्विस्तार ईश्वरस्य सृष्टिरिति सृष्टिचिन्तका मन्यन्ते ; न तु परमार्थचिन्तकानां सृष्टावादर इत्यर्थः, ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २ । ५ । १९) इति श्रुतेः । न हि मायाविनं सूत्रमाकाशे निःक्षिप्य तेन सायुधमारुह्य चक्षुर्गोचरतामतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत्कृतमायादिसतत्त्वचिन्तायामादरो भवति । तथैवायं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वप्नादिविकासः ; तदारूढमायाविसमश्च तत्स्थप्राज्ञतैजसादिः ; सूत्रतदारूढाभ्यामन्यः परमार्थमायावी । स एव भूमिष्ठो मायाच्छन्नः अदृश्यमान एव स्थितो यथा, तथा तुरीयाख्यं परमार्थतत्त्वम् । अतस्तच्चिन्तायामेवादरो मुमुक्षूणामार्याणाम् , न निष्प्रयोजनायां सृष्टावादर इत्यतः सृष्टिचिन्तकानामेवैते विकल्पा इत्याह — स्वप्नमायासरूपेति । स्वप्नसरूपा मायासरूपा चेति ॥

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥

इच्छामात्रं प्रभोः सत्यसङ्कल्पत्वात् सृष्टिः घटादीनां सङ्कल्पनामात्रम् , न सङ्कल्पनातिरिक्तम् । कालादेव सृष्टिरिति केचित् ॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ९ ॥

भोगार्थम् , क्रीडार्थमिति च अन्ये सृष्टिं मन्यन्ते । अनयोः पक्षयोर्दूषणं देवस्यैष स्वभावोऽयमिति देवस्य स्वभावपक्षमाश्रित्य, सर्वेषां वा पक्षाणाम् — आप्तकामस्य का स्पृहेति । न हि रज्ज्वादीनामविद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम् ॥
इति ।
नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम् । अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं

मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥

चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्याह — नान्तःप्रज्ञमित्यादिना । सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानभिधेयत्वमिति विशेषप्रतिषेधेनैव तुरीयं निर्दिदिक्षति । शून्यमेव तर्हि ; तन्न, मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेः ; न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूषरादिव्यतिरेकेण अवस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात्तुरीयस्य शब्दवाच्यत्वमिति न प्रतिषेधैः प्रत्याय्यत्वमुदकाधारादेरिव घटादेः ; न, प्राणादिविकल्पस्यावस्तुत्वाच्छुक्तिकादिष्विव रजतादेः ; न हि सदसतोः सम्बन्धः शब्दप्रवृत्तिनिमित्तभाक् , अवस्तुत्वात् ; नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवत् , आत्मनो निरुपाधिकत्वात् ; गवादिवन्नापि जातिमत्त्वम् , अद्वितीयत्वेन सामान्यविशेषाभावात् ; नापि क्रियावत्त्वं पाचकादिवत् , अविक्रियत्वात् ; नापि गुणवत्त्वं नीलादिवत् , निर्गुणत्वात् ; अतो नाभिधानेन निर्देशमर्हति ।

शशविषाणादिसमत्वान्निरर्थकत्वं तर्हि ; न, आत्मत्वावगमे तुरीयस्यानात्मतृष्णाव्यावृत्तिहेतुत्वात् शुक्तिकावगम इव रजततृष्णायाः ; न हि तुरीयस्यात्मत्वावगमे सति अविद्यातृष्णादिदोषाणां सम्भवोऽस्ति ; न च तुरीयस्यात्मत्वानवगमे कारणमस्ति, सर्वोपनिषदां तादर्थ्येनोपक्षयात् — ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । ७) ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादीनाम् । सोऽयमात्मा परमार्थापरमार्थरूपश्चतुष्पादित्युक्तः । तस्यापरमार्थरूपमविद्याकृतं रज्जुसर्पादिसममुक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् । अथेदानीमबीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयनिराकरणेनाह — नान्तःप्रज्ञमित्यादिना ।

नन्वात्मनश्चतुष्पात्त्वं प्रतिज्ञाय पादत्रयकथनेनैव चतुर्थस्यान्तःप्रज्ञादिभ्योऽन्यत्वे सिद्धे ‘नान्तःप्रज्ञम्’ इत्यादिप्रतिषेधोऽनर्थकः ; न, सर्पादिविकल्पप्रतिषेधेनैव रज्जुस्वरूपप्रतिपत्तिवत्त्र्यवस्थस्यैवात्मनस्तुरीयत्वेन प्रतिपिपादयिषितत्वात् , ‘तत्त्वमसि’ इतिवत् । यदि हि त्र्यवस्थात्मविलक्षणं तुरीयमन्यत् , तत्प्रतिपत्तिद्वाराभावात् शास्त्रोपदेशानर्थक्यं शून्यतापत्तिर्वा । रज्जुरिव सर्पादिभिर्विकल्प्यमाना स्थानत्रयेऽप्यात्मैक एव अन्तःप्रज्ञादित्वेन विकल्प्यते यदा, तदा अन्तःप्रज्ञादित्वप्रतिषेधविज्ञानप्रमाणसमकालमेव आत्मन्यनर्थप्रपञ्चनिवृत्तिलक्षणं फलं परिसमाप्तमिति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा न मृग्यम् ; रज्जुसर्पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगमस्य । येषां पुनस्तमोपनयनव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते, तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेण अन्यतरावयवेऽपि च्छिदिर्व्याप्रियत इत्युक्तं स्यात् । यदा पुनर्घटतमसोर्विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिव च्छेद्यावयवसम्बन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना, तदा नान्तरीयकं घटविज्ञानं न प्रमाणफलम् । न च तद्वदप्यात्मन्यध्यारोपितान्तःप्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्य अनुपादित्सितान्तःप्रज्ञत्वादिनिवृत्तिव्यतिरेकेण तुरीये व्यापारोपपत्तिः, अन्तःप्रज्ञत्वादि निवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः ।

तथा च वक्ष्यति — ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इति । ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् , अवस्थाने वा अनवस्थाप्रसङ्गाद्द्वैतानिवृत्तिः ; तस्मात्प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैव आत्मन्यध्यारोपितान्तःप्रज्ञत्वाद्यनर्थनिवृत्तिरिति सिद्धम् । नान्तःप्रज्ञमिति तैजसप्रतिषेधः ; नबहिःप्रज्ञमिति विश्वप्रतिषेधः ; नोभयतःप्रज्ञमिति जागरितस्वप्नयोरन्तरालावस्थाप्रतिषेधः ; नप्रज्ञानघनमिति सुषुप्तावस्थाप्रतिषेधः, बीजभावाविवेकस्वरूपत्वात् ; नप्रज्ञमिति युगपत्सर्वविषयज्ञातृत्वप्रतिषेधः ; नाप्रज्ञमित्यचैतन्यप्रतिषेधः । कथं पुनरन्तःप्रज्ञत्वादीनामात्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत्प्रतिषेधादसत्त्वं गम्यत इति, उच्यते ; ज्ञस्वरूपाविशेषेऽपि इतरेतरव्यभिचारादसत्यत्वं रज्ज्वादाविव सर्पधारादिविकल्पभेदवत् ; सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् । सुषुप्ते व्यभिचरतीति चेत् ; न, सुषुप्तस्यानुभूयमानत्वात् , ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) इति श्रुतेः ; अत एव अदृश्यम् । यस्माददृश्यम् , तस्मादव्यवहार्यम् । अग्राह्यं कर्मेन्द्रियैः । अलक्षणम् अलिङ्गमित्येतत् , अननुमेयमित्यर्थः ।

अत एव अचिन्त्यम् । अत एव अव्यपदेश्यं शब्दैः । एकात्मप्रत्ययसारं जाग्रदादिस्थानेषु एक एवायमात्मा इत्यव्यभिचारी यः प्रत्ययः, तेनानुसरणीयम् ; अथवा, एक आत्मप्रत्ययः सारः प्रमाणं यस्य तुरीयस्याधिगमे, तत्तुरीयमेकात्मप्रत्ययसारम् , ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति श्रुतेः ।

अन्तःप्रज्ञत्वादिस्थानिधर्मप्रतिषेधः कृतः । प्रपञ्चोपशममिति जाग्रदादिस्थानधर्माभाव उच्यते । अत एव शान्तम् अविक्रियम् , शिवं यतः अद्वैतं भेदविकल्परहितं चतुर्थं तुरीयं मन्यन्ते, प्रतीयमानपादत्रयरूपवैलक्षण्यात् । स आत्मा स विज्ञेयः इति । प्रतीयमानसर्पदण्डभूच्छिद्रादिव्यतिरिक्ता यथा रज्जुः, तथा ‘तत्त्वमसि’ इत्यादिवाक्यार्थः आत्मा ‘अदृष्टो द्रष्टा’ (बृ. उ. ३ । ७ । २३) ‘न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्यादिभिरुक्तो यः, स विज्ञेय इति भूतपूर्वगत्या । ज्ञाते द्वैताभावः ॥

अत्रैते श्लोका भवन्ति —

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १० ॥

अत्रैते श्लोका भवन्ति । प्राज्ञतैजसविश्वलक्षणानां सर्वदुःखानां निवृत्तेः ईशानः तुरीय आत्मा । ईशान इत्यस्य पदस्य व्याख्यानं प्रभुरिति ; दुःखनिवृत्तिं प्रति प्रभुर्भवतीत्यर्थः, तद्विज्ञाननिमित्तत्वाद्दुःखनिवृत्तेः । अव्ययः न व्येति, स्वरूपान्न व्यभिचरति न च्यवत इत्येतत् । कुतः ? यस्मात् अद्वैतः, सर्वभावानाम् — सर्पादीनां रज्जुरद्वया सत्या च ; एवं तुरीयः, ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः — अतो रज्जुसर्पवन्मृषात्वात् । स एष देवः द्योतनात् तुर्यः चतुर्थः विभुः व्यापी स्मृतः ॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ ११ ॥

विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्यावधारणार्थम् — कार्यं क्रियत इति फलभावः, कारणं करोतीति बीजभावः । तत्त्वाग्रहणान्यथाग्रहणाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ सङ्गृहीतौ इष्येते । प्राज्ञस्तु बीजभावेनैव बद्धः । तत्त्वाप्रतिबोधमात्रमेव हि बीजं प्राज्ञत्वे निमित्तम् । ततः द्वौ तौ बीजफलभावौ तत्त्वाग्रहणान्यथाग्रहणे तुरीये न सिध्यतः न विद्येते, न सम्भवत इत्यर्थः ॥

नात्मानं न परं चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १२ ॥

कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रहणान्यथाग्रहणलक्षणौ बन्धौ न सिध्यत इति ? यस्मात् — आत्मानम् , विलक्षणम् , अविद्याबीजप्रसूतं वेद्यं बाह्यं द्वैतम् — प्राज्ञो न किञ्चन संवेत्ति, यथा विश्वतैजसौ ; ततश्चासौ तत्त्वाग्रहणेन तमसा अन्यथाग्रहणबीजभूतेन बद्धो भवति । यस्मात् तुर्यं तत्सर्वदृक्सदा तुरीयादन्यस्याभावात् सर्वदा सदैव भवति, सर्वं च तद्दृक्चेति सर्वदृक् ; तस्मान्न तत्त्वाग्रहणलक्षणं बीजम् । तत्र तत्प्रसूतस्यान्यथाग्रहणस्याप्यत एवाभावः । न हि सवितरि सदाप्रकाशात्मके तद्विरुद्धमप्रकाशनमन्यथाप्रकाशनं वा सम्भवति, ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः । अथवा, जाग्रत्स्वप्नयोः सर्वभूतावस्थः सर्ववस्तुदृगाभासस्तुरीय एवेति सर्वदृक्सदा, ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुतेः ॥

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥

निमित्तान्तरप्राप्ताशङ्कानिवृत्त्यर्थोऽयं श्लोकः — कथं द्वैताग्रहणस्य तुल्यत्वे कारणबद्धत्वं प्राज्ञस्यैव, न तुरीयस्येति प्राप्ता आशङ्का निवर्त्यते ; यस्मात् बीजनिद्रायुतः, तत्त्वाप्रतिबोधो निद्रा ; सैव च विशेषप्रतिबोधप्रसवस्य बीजम् ; सा बीजनिद्रा ; तया युतः प्राज्ञः । सदासर्वदृक्स्वभावत्वात्तत्त्वाप्रतिबोधलक्षणा बीजनिद्रा तुर्ये न विद्यते ; अतो न कारणबन्धस्तस्मिन्नित्यभिप्रायः ॥

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४ ॥

स्वप्नः अन्यथाग्रहणं सर्प इव रज्ज्वाम् , निद्रोक्ता तत्त्वाप्रतिबोधलक्षणं तम इति ; ताभ्यां स्वप्ननिद्राभ्यां युतौ विश्वतैजसौ ; अतस्तौ कार्यकारणबद्धावित्युक्तौ । प्राज्ञस्तु स्वप्नवर्जितया केवलयैव निद्रया युत इति कारणबद्ध इत्युक्तम् । नोभयं पश्यन्ति तुरीये निश्चिताः ब्रह्मविद इत्यर्थः, विरुद्धत्वात्सवितरीव तमः । अतो न कार्यकारणबद्ध इत्युक्तस्तुरीयः ॥

अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५ ॥

कदा तुरीये निश्चितो भवतीत्युच्यते — स्वप्नजागरितयोः अन्यथा रज्ज्वां सर्पवत् गृह्णतः तत्त्वं स्वप्नो भवति ; निद्रा तत्त्वमजानतः तिसृष्ववस्थासु तुल्या । स्वप्ननिद्रयोस्तुल्यत्वाद्विश्वतैजसयोरेकराशित्वम् । अन्यथाग्रहणप्राधान्याच्च गुणभूता निद्रेति तस्मिन्विपर्यासः स्वप्नः । तृतीये तु स्थाने तत्त्वाग्रहणलक्षणा निद्रैव केवला विपर्यासः । अतः तयोः कार्यकारणस्थानयोः अन्यथाग्रहणतत्त्वाग्रहणलक्षणविपर्यासे कार्यकारणबन्धरूपे परमार्थतत्त्वप्रतिबोधतः क्षीणे तुरीयं पदमश्नुते ; तदा उभयलक्षणं बन्धनं तत्रापश्यंस्तुरीये निश्चितो भवतीत्यर्थः ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६ ॥

योऽयं संसारी जीवः, सः उभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मना, अन्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वापेन, ममायं पिता पुत्रोऽयं नप्ता क्षेत्रं गृहं पशवः, अहमेषां स्वामी सुखी दुःखी क्षयितोऽहमनेन वर्धितश्चानेन इत्येवंप्रकारान्स्वप्नान् स्थानद्वयेऽपि पश्यन्सुप्तः, यदा वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा ‘नास्येवं त्वं हेतुफलात्मकः, किन्तु तत्त्वमसि’ इति प्रतिबोध्यमानः, तदैवं प्रतिबुध्यते । कथम् ? नास्मिन्बाह्यमाभ्यन्तरं वा जन्मादिभावविकारोऽस्ति, अतः अजम् ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति श्रुतेः, सर्वभावविकारवर्जितमित्यर्थः । यस्माज्जन्मादिकारणभूतम् , नास्मिन्नविद्यातमोबीजं निद्रा विद्यत इति अनिद्रम् ; अनिद्रं हि तत्तुरीयम् ; अत एव अस्वप्नम् , तन्निमित्तत्वादन्यथाग्रहणस्य । यस्माच्च अनिद्रमस्वप्नम् , तस्मादजम् अद्वैतं तुरीयमात्मानं बुध्यते तदा ॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥

प्रपञ्चनिवृत्त्या चेत्प्रतिबुध्यते, अनिवृत्ते प्रपञ्चे कथमद्वैतमिति, उच्यते । सत्यमेवं स्यात्प्रपञ्चो यदि विद्येत ; रज्ज्वां सर्प इव कल्पितत्वान्न तु स विद्यते । विद्यमानश्चेत् निवर्तेत, न संशयः । न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ; न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता ; तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतम् ; रज्जुवन्मायाविवच्च अद्वैतं परमार्थतः ; तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीत्यभिप्रायः ॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥

ननु शास्ता शास्त्रं शिष्य इत्ययं विकल्पः कथं निवृत्त इति, उच्यते — विकल्पो विनिवर्तेत यदि केनचित्कल्पितः स्यात् । यथा अयं प्रपञ्चो मायारज्जुसर्पवत् , तथा अयं शिष्यादिभेदविकल्पोऽपि प्राक्प्रतिबोधादेवोपदेशनिमित्तः ; अत उपदेशादयं वादः — शिष्यः शास्ता शास्त्रमिति । उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्त्वे, द्वैतं न विद्यते ॥
इति ।

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥

अभिधेयप्राधान्येन ओङ्कारश्चतुष्पादात्मेति व्याख्यातो यः, सोऽयम् आत्मा अध्यक्षरम् अक्षरमधिकृत्य अभिधानप्राधान्येन वर्ण्यमानोऽध्यक्षरम् । किं पुनस्तदक्षरमित्याह — ओङ्कारः । सोऽयमोङ्कारः पादशः प्रविभज्यमानः, अधिमात्रं मात्रामधिकृत्य वर्तत इत्यधिमात्रम् । कथम् ? आत्मनो ये पादाः, ते ओङ्कारस्य मात्राः । कास्ताः ? अकार उकारो मकार इति ॥

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वाप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥ ९ ॥

तत्र विशेषनियमः क्रियते — जागरितस्थानः वैश्वानरः यः, स ओङ्कारस्य अकारः प्रथमा मात्रा । केन सामान्येनेत्याह — आप्तेः ; आप्तिर्व्याप्तिः ; अकारेण सर्वा वाग्व्याप्ता, ‘अकारो वै सर्वा वाक्’ (ऐ. आ. २ । ३ । १९) इति श्रुतेः । तथा वैश्वानरेण जगत् , ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’ (छा. उ. ५ । १८ । २) इत्यादिश्रुतेः । अभिधानाभिधेययोरेकत्वं चावोचाम । आदिरस्य विद्यत इत्यादिमत् ; यथैव आदिमदकाराख्यमक्षरम् , तथा वैश्वानरः ; तस्माद्वा सामान्यादकारत्वं वैश्वानरस्य । तदेकत्वविदः फलमाह — आप्नोति ह वै सर्वान्कामान् , आदिः प्रथमश्च भवति महताम् , य एवं वेद, यथोक्तमेकत्वं वेदेत्यर्थः ॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥

स्वप्नस्थानः तैजसः यः, स ओङ्कारस्य उकारः द्वितीया मात्रा । केन सामान्येनेत्याह — उत्कर्षात् ; अकारादुत्कृष्ट इव ह्युकारः ; तथा तैजसो विश्वात् । उभयत्वाद्वा ; अकारमकारयोर्मध्यस्थ उकारः ; तथा विश्वप्राज्ञयोर्मध्ये तैजसः ; अत उभयभाक्त्वसामान्यात् । विद्वत्फलमुच्यते — उत्कर्षति ह वै ज्ञानसन्ततिं विज्ञानसन्ततिं वर्धयतीत्यर्थः ; समानः तुल्यश्च, मित्रपक्षस्येव शत्रुपक्षाणामप्यप्रद्वेष्यो भवति ; अब्रह्मविच्च अस्य कुले न भवति, य एवं वेद ॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥
सुषुप्तस्थानः प्राज्ञः यः, स ओङ्कारस्य मकारः तृतीया मात्रा । केन सामान्येनेत्याह — सामान्यमिदमत्र — मितेः ; मितिर्मानम् ; मीयेते इव हि विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः प्रवेशनिर्गमाभ्यां प्रस्थेनेव यवाः ; तथा ओङ्कारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इव अकारोकारौ मकारे । अपीतेर्वा ; अपीतिरप्यय एकीभावः ; ओङ्कारोच्चारणे हि अन्त्येऽक्षरे एकीभूताविव अकारोकारौ ; तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे । अतो वा सामान्यादेकत्वं प्राज्ञमकारयोः । विद्वत्फलमाह — मिनोति ह वै इदं सर्वम् , जगद्याथात्म्यं जानातीत्यर्थः ; अपीतिश्च जगत्कारणात्मा च भवतीत्यर्थः । अत्रावान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम् ॥
अत्रैते श्लोका भवन्ति —

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥

अत्र एते श्लोका भवन्ति । विश्वस्य अत्वम् अकारमात्रत्वं यदा विवक्ष्यते, तदा आदित्वसामान्यम् उक्तन्यायेन उत्कटम् उद्भूतं दृश्यत इत्यर्थः । अत्वविवक्षायामित्यस्य व्याख्यानम् — मात्रासम्प्रतिपत्तौ इति । विश्वस्य अकारमात्रत्वं यदा सम्प्रतिपद्यते इत्यर्थः । आप्तिसामान्यमेव च, उत्कटमित्यनुवर्तते, च – शब्दात् ॥

तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥

तैजसस्य उत्वविज्ञाने उकारत्वविवक्षायाम् उत्कर्षो दृश्यते स्फुटं स्पष्टमित्यर्थः । उभयत्वं च स्फुटमेवेति । पूर्ववत्सर्वम् ॥

मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ २१ ॥
मकारत्वे प्राज्ञस्य मितिलयावुत्कृष्टे सामान्ये इत्यर्थः ॥
त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२ ॥

यथोक्तस्थानत्रये यः तुल्यमुक्तं सामान्यं वेत्ति, एवमेवैतदिति निश्चितः सन् सः पूज्यः वन्द्यश्च ब्रह्मवित् लोके भवति ॥

अकारो नयते विश्वमुकारश्चापि तैजसम् ।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥
यथोक्तैः सामान्यैः आत्मपादानां मात्राभिः सह एकत्वं कृत्वा यथोक्तोङ्कारं प्रतिपद्यते यो ध्यायी, तम् अकारः नयते विश्वं प्रापयति । अकारालम्बनमोङ्कारं विद्वान्वैश्वानरो भवतीत्यर्थः । तथा उकारः तैजसम् ; मकारश्चापि पुनः प्राज्ञम् , च – शब्दान्नयत इत्यनुवर्तते । क्षीणे तु मकारे बीजभावक्षयात् अमात्रे ओङ्कारे गतिः न विद्यते क्वचिदित्यर्थः ॥
इति ।

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ॥ १२ ॥

अमात्रः मात्रा यस्य न सन्ति, सः अमात्रः ओङ्कारः चतुर्थः तुरीयः आत्मैव केवलः अभिधानाभिधेयरूपयोर्वाङ्मनसयोः क्षीणत्वात् अव्यवहार्यः ; प्रपञ्चोपशमः शिवः अद्वैतः संवृत्तः एवं यथोक्तविज्ञानवता प्रयुक्त ओङ्कारस्त्रिमात्रस्त्रिपाद आत्मैव ; संविशति आत्मना स्वेनैव स्वं पारमार्थिकमात्मानम् , य एवं वेद ; परमार्थदर्शनात् ब्रह्मवित् तृतीयं बीजभावं दग्ध्वा आत्मानं प्रविष्ट इति न पुनर्जायते, तुरीयस्याबीजत्वात् । न हि रज्जुसर्पयोर्विवेके रज्ज्वां प्रविष्टः सर्पः बुद्धिसंस्कारात्पुनः पूर्ववत्तद्विवेकिनामुत्थास्यति । मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च क्लृप्तसामान्यविदां यथावदुपास्यमान ओङ्कारो ब्रह्मप्रतिपत्तये आलम्बनीभवति । तथा च वक्ष्यति — ‘आश्रमास्त्रिविधाः’ (मा. का. ३ । १६) इत्यादि ॥

इति माण्डूक्योपनिषत्समाप्ता ॥


अत्रैते श्लोका भवन्ति —

ओङ्कारं पादशो विद्यात्पादा मात्रा न संशयः ।
ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २४ ॥

पूर्ववदत्रैते श्लोका भवन्ति । यथोक्तैः सामान्यैः पादा एव मात्राः, मात्राश्च पादाः ; तस्मात् ओङ्कारं पादशः विद्यात् इत्यर्थः । एवमोङ्कारे ज्ञाते दृष्टार्थमदृष्टार्थं वा न किञ्चिदपि प्रयोजनं चिन्तयेत् , कृतार्थत्वादित्यर्थः ॥

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥

युञ्जीत समादध्यात् यथाव्याख्याते परमार्थरूपे प्रणवे चेतः मनः ; यस्मात्प्रणवः ब्रह्म निर्भयम् ; न हि तत्र सदायुक्तस्य भयं विद्यते क्वचित् , ‘विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति श्रुतेः ॥

प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६ ॥

परापरे ब्रह्मणी प्रणवः ; परमार्थतः क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्म इति ; न पूर्वं कारणमस्य विद्यत इत्यपूर्वः ; नास्य अन्तरं भिन्नजातीयं किञ्चिद्विद्यत इति अनन्तरः, तथा बाह्यमन्यत् न विद्यत इत्यबाह्यः ; अपरं कार्यमस्य न विद्यत इत्यनपरः, सबाह्याभ्यन्तरो ह्यजः सैन्धवघनवत्प्रज्ञानघन इत्यर्थः ॥

सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥

आदिमध्यान्ता उत्पत्तिस्थितिप्रलयाः सर्वस्य प्रणव एव । मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवदुत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्यादयः, एवं हि प्रणवमात्मानं मायाव्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तदात्मभावं व्यश्नुत इत्यर्थः ॥

प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ २८ ॥

सर्वस्य प्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितमीश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवत् ओङ्कारमात्मानमसंसारिणं धीरः धीमान्बुद्धिमान् आत्मतत्त्वं मत्वा ज्ञात्वा न शोचति, शोकनिमित्तानुपपत्तेः, ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) इत्यादिश्रुतिभ्यः ॥

अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥

अमात्रः तुरीय ओङ्कारः, मीयते अनयेति मात्रा परिच्छित्तिः, सा अनन्ता यस्य सः अनन्तमात्रः ; नैतावत्त्वमस्य परिच्छेत्तुं शक्यत इत्यर्थः । सर्वद्वैतोपशमत्वादेव शिवः । ओङ्कारो यथाव्याख्यातो विदितो येन, स एव परमार्थतत्त्वस्य मननान्मुनिः ; नेतरो जनः शास्त्रविदपीत्यर्थः ॥

इति प्रथममागमप्रकरणं सम्पूर्णम् ॥

वैतथ्यप्रकरणम्

वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः ।
अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १ ॥

‘ज्ञाते द्वैतं न विद्यते’ इत्युक्तम् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिभ्यः । आगममात्रं तत् । तत्र उपपत्त्यापि द्वैतस्य वैतथ्यं शक्यतेऽवधारयितुमिति द्वितीयं प्रकरणमारभ्यते — वैतथ्यमित्यादिना । वितथस्य भावो वैतथ्यम् ; असत्यत्वमित्यर्थः । कस्य ? सर्वेषां बाह्याध्यात्मिकानां भावानां पदार्थानां स्वप्ने उपलभ्यमानानाम् , आहुः कथयन्ति मनीषिणः प्रमाणकुशलाः । वैतथ्ये हेतुमाह — अन्तःस्थानात् , अन्तः शरीरस्य मध्ये स्थानं येषाम् ; तत्र हि भावा उपलभ्यन्ते पर्वतहस्त्यादयः, न बहिः शरीरात् ; तस्मात् ते वितथा भवितुमर्हन्ति । ननु अपवरकाद्यन्तरुपलभ्यमानैर्घटादिभिरनैकान्तिको हेतुरित्याशङ्क्याह — संवृतत्वेन हेतुनेति । अन्तः संवृतस्थानादित्यर्थः । न ह्यन्तः संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां सम्भवोऽस्ति ; न हि देहे पर्वतोऽस्ति ॥

अदीर्घत्वाच्च कालस्य गत्वा देहान्न पश्यति ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥

स्वप्नदृश्यानां भावानामन्तः संवृतस्थानमित्येतदसिद्धम् , यस्मात्प्राच्येषु सुप्त उदक्षु स्वप्नान्पश्यन्निव दृश्यत इत्येतदाशङ्क्याह — न देहाद्बहिर्देशान्तरं गत्वा स्वप्नान्पश्यति ; यस्मात्सुप्तमात्र एव देहदेशाद्योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान्पश्यन्निव दृश्यते ; न च तद्देशप्राप्तेरागमनस्य च दीर्घः कालोऽस्ति ; अतः अदीर्घत्वाच्च कालस्य न स्वप्नदृग्देशान्तरं गच्छति । किञ्च, प्रतिबुद्धश्च वै सर्वः स्वप्नदृक् स्वप्नदर्शनदेशे न विद्यते । यदि च स्वप्ने देशान्तरं गच्छेत् , यस्मिन्देशे स्वप्नान्पश्येत् , तत्रैव प्रतिबुध्येत । न चैतदस्ति । रात्रौ सुप्तः अहनीव भावान्पश्यति ; बहुभिः सङ्गतो भवति ; यैश्च सङ्गतः स तैर्गृह्येत, न च गृह्यते ; गृहीतश्चेत्त्वामद्य तत्रोपलब्धवन्तो वयमिति ब्रूयुः ; न चैतदस्ति । तस्मान्न देशान्तरं गच्छति स्वप्ने ॥

अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ।
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३ ॥

इतश्च स्वप्नदृश्या भावा वितथाः, यतः अभावश्च रथादीनां स्वप्नदृश्यानां श्रूयते, न्यायपूर्वकं युक्तितः श्रुतौ ‘न तत्र रथाः’ (बृ. उ. ४ । ३ । १०) इत्यत्र । तेन अन्तःस्थानसंवृतत्वादिहेतुना प्राप्तं वैतथ्यं तदनुवादिन्या श्रुत्या स्वप्ने स्वयञ्ज्योतिष्ट्वप्रतिपादनपरया प्रकाशितमाहुः ब्रह्मविदः ॥

अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥

जाग्रद्दृश्यानां भावानां वैतथ्यमिति प्रतिज्ञा । दृश्यत्वादिति हेतुः । स्वप्नदृश्यभाववदिति दृष्टान्तः । यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यम् , तथा जागरितेऽपि दृश्यत्वमविशिष्टमिति हेतूपनयः । तस्माज्जागरितेऽपि वैतथ्यं स्मृतमिति निगमनम् । अन्तःस्थानात्संवृतत्वेन च स्वप्नदृश्यानां भावानां जाग्रद्दृश्येभ्यो भेदः । दृश्यत्वमसत्यत्वं चाविशिष्टमुभयत्र ॥
स्वप्नजागरिते स्थाने ह्येकमाहुर्मनीषिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५ ॥
प्रसिद्धेनैव भेदानां ग्राह्यत्वेन हेतुना समत्वेन स्वप्नजागरितस्थानयोरेकत्वमाहुर्विवेकिन इति पूर्वप्रमाणसिद्धस्यैव फलम् ॥
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६ ॥
इतश्च वैतथ्यं जाग्रद्दृश्यानां भेदानाम् आद्यन्तयोरभावात् , यदादावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येऽपि नास्तीति निश्चितं लोके ; तथेमे जाग्रद्दृश्या भेदाः आद्यन्तयोरभावात् वितथैरेव मृगतृष्णिकादिभिः सदृशत्वाद्वितथा एव ; तथापि अवितथा इव लक्षिता मूढैरनात्मविद्भिः ॥

सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥

स्वप्नदृश्यवज्जागरितदृश्यानामप्यसत्त्वमिति यदुक्तम् तदयुक्तम् ; यस्माज्जाग्रद्दृश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्वन्तो गमनागमनादि कार्यं च सप्रयोजना दृष्टाः । न तु स्वप्नदृश्यानां तदस्ति । तस्मात्स्वप्नदृश्यवज्जाग्रद्दृश्यानामसत्त्वं मनोरथमात्रमिति । तन्न । कस्मात् ? यस्माद्या सप्रयोजनता दृष्टा अन्नपानादीनाम् , सा स्वप्ने विप्रतिपद्यते । जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तिततृट् सुप्तमात्र एव क्षुत्पिपासाद्यार्तमहोरात्रोपोषितमभुक्तवन्तमात्मानं मन्यते, यथा स्वप्ने भुक्त्वा पीत्वा च अतृप्तोत्थितः, तथा । तस्माज्जाग्रद्दृश्यानां स्वप्ने विप्रतिपत्तिर्दृष्टा । अतो मन्यामहे तेषामप्यसत्त्वं स्वप्नदृश्यवदनाशङ्कनीयमिति । तस्मादाद्यन्तवत्त्वमुभयत्र समानमिति मिथ्यैव खलु ते स्मृताः ॥

अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ ॥

स्वप्नजाग्रद्भेदयोः समत्वाज्जाग्रद्भेदानामसत्त्वमिति यदुक्तम् , तदसत् । कस्मात् ? दृष्टान्तस्यासिद्धत्वात् । कथम् ? न हि जाग्रद्दृश्या ये, ते भेदाः स्वप्ने दृश्यन्ते । किं तर्हि ? अपूर्वं स्वप्ने पश्यति चतुर्दन्तं गजमारूढोऽष्टभुजमात्मानम् । अन्यदप्येवंप्रकारमपूर्वं पश्यति स्वप्ने । तन्नान्येनासता सममिति सदेव । अतो दृष्टान्तोऽसिद्धः । तस्मात्स्वप्नवज्जागरितस्यासत्त्वमित्ययुक्तम् । तन्न । स्वप्ने दृष्टमपूर्वं यन्मन्यसे, न तत्स्वतः सिद्धम् । किं तर्हि ? अपूर्वं स्थानिधर्मो हि, स्थानिनो द्रष्टुरेव हि स्वप्नस्थानवतो धर्मः ; यथा स्वर्गनिवासिनामिन्द्रादीनां सहस्राक्षत्वादि, तथा स्वप्नदृशोऽपूर्वोऽयं धर्मः, न स्वतःसिद्धो द्रष्टुः स्वरूपवत् । तान् एवंप्रकारानपूर्वान्स्वचित्तविकल्पान् अयं स्थानी यः स्वप्नदृक्स्वप्नस्थानं गत्वा प्रेक्षते । यथैव इह लोके सुशिक्षितदेशान्तरमार्गस्तेन मार्गेण देशान्तरं गत्वा पदार्थान्पश्यति, तद्वत् । तस्माद्यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादीनामसत्त्वम् , तथा स्वप्नदृश्यानामप्यपूर्वाणां स्थानिधर्मत्वमेवेत्यसत्त्वम् ; अतो न स्वप्नदृष्टान्तस्यासिद्धत्वम् ॥

स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतो गृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९ ॥

अपूर्वत्वाशङ्कां निराकृत्य स्वप्नदृष्टान्तस्य पुनः स्वप्नतुल्यतां जाग्रद्भेदानां प्रपञ्चयन्नाह — स्वप्नवृत्तावपि स्वप्नस्थानेऽपि अन्तश्चेतसा मनोरथसङ्कल्पितमसत् ; सङ्कल्पानन्तरसमकालमेवादर्शनात् । तत्रैव स्वप्ने बहिश्चेतसा गृहीतं चक्षुरादिद्वारेणोपलब्धं घटादि सदित्येवमसत्यमिति निश्चितेऽपि सदसद्विभागो दृष्टः । उभयोरप्यन्तर्बहिश्चेतः कल्पितयोर्वैतथ्यमेव दृष्टम् ॥
जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १० ॥
सदसतोर्वैतथ्यं युक्तम् , अन्तर्बहिश्चेतःकल्पितत्वाविशेषादिति । व्याख्यातमन्यत् ॥
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥
चोदक आह — स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यम् , क एतानन्तर्बहिश्चेतःकल्पितान्बुध्यते । को वै तेषां विकल्पकः ; स्मृतिज्ञानयोः क आलम्बनमित्यभिप्रायः ; न चेन्निरात्मवाद इष्टः ॥

कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥

स्वयं स्वमायया स्वमात्मानमात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन् , स्वयमेव च तान्बुध्यते भेदान् , तद्वदेवेत्येवं वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । न च निरास्पदे एव ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः ॥

विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥

सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते — विकरोति नाना करोति अपरान् लौकिकान् भावान् पदार्थाञ्शब्दादीनन्यांश्च अन्तश्चित्ते वासनारूपेण व्यवस्थितानव्याकृतान् नियतांश्च पृथिव्यादीननियतांश्च कल्पनाकालान् बहिश्चित्तः सन् , तथा अन्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति, प्रभुः ईश्वरः, आत्मेत्यर्थः ॥

चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥

स्वप्नवच्चित्तपरिकल्पितं सर्वमित्येतदाशङ्क्यते —

यस्माच्चित्तपरिकल्पितैर्मनोरथादिलक्षणैश्चित्तपरिच्छेद्यैर्वैलक्षण्यं बाह्यानामन्योन्यपरिच्छेद्यत्वमिति, सा न युक्ताशङ्का । चित्तकाला हि येऽन्तस्तु चित्तपरिच्छेद्याः, नान्यश्चित्तकालव्यतिरेकेण परिच्छेदकः कालो येषाम् , ते चित्तकालाः ; कल्पनाकाल एवोपलभ्यन्त इत्यर्थः । द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः, यथा आगोदोहनमास्ते ; यावदास्ते तावद्गां दोग्धि ; यावद्गां दोग्धि तावदास्ते, तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकत्वं बाह्यानां भेदानाम् , ते द्वयकालाः । अन्तश्चित्तकाला बाह्याश्च द्वयकालाः कल्पिता एव ते सर्वे । न बाह्यो द्वयकालत्वविशेषः कल्पितत्वव्यतिरेकेणान्यहेतुकः । अत्रापि हि स्वप्नदृष्टान्तो भवत्येव ॥

अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥

यदपि अन्तरव्यक्तत्वं भावानां मनोवासनामात्राभिव्यक्तानां स्फुटत्वं वा बहिश्चक्षुरादीन्द्रियान्तरे विशेषः, नासौ भेदानामस्तित्वकृतः, स्वप्नेऽपि तथा दर्शनात् । किं तर्हि ? इन्द्रियान्तरकृत एव । अतः कल्पिता एव जाग्रद्भावा अपि स्वप्नभाववदिति सिद्धम् ॥

जीवं कल्पयते पूर्वं ततो भावान्पृथग्विधान् ।
बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥

बाह्याध्यात्मिकानां भावानामितरेतरनिमित्तनैमित्तिकतया कल्पनायाः किं मूलमित्युच्यते — जीवं हेतुफलात्मकम् ‘अहं करोमि, मम सुखदुःखे’ इत्येवंलक्षणम् । अनेवंलक्षण एव शुद्ध आत्मनि रज्ज्वामिव सर्पं कल्पयते पूर्वम् । ततस्तादर्थ्येन क्रियाकारकफलभेदेन प्राणादीन्नानाविधान्भावान्बाह्यानाध्यात्मिकांश्चैव कल्पयते । तत्र कल्पनायां को हेतुरित्युच्यते — योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायामधिकृतः, सः यथाविद्यः यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथाविधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति । अतो हेतुकल्पनाविज्ञानात्फलविज्ञानम् , ततो हेतुफलस्मृतिः, ततस्तद्विज्ञानम् , ततः तदर्थक्रियाकारकतत्फलभेदविज्ञानानि, तेभ्यस्तत्स्मृतिः, तत्स्मृतेश्च पुनस्तद्विज्ञानानि इत्येवं बाह्यानाध्यात्मिकांश्च इतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते ॥

अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ १७ ॥

तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तम् ; सैव जीवकल्पना किंनिमित्तेति दृष्टान्तेन प्रतिपादयति — यथा लोके स्वेन रूपेण अनिश्चिता अनवधारिता एवमेवेति रज्जुः मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वा अनेकधा विकल्पिता भवति पूर्वं स्वरूपानिश्चयनिमित्तम् । यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता स्यात् , न सर्पादिविकल्पोऽभविष्यत् , यथा स्वहस्ताङ्गुल्यादिषु ; एष दृष्टान्तः । तद्वद्धेतुफलादिसंसारधर्मानर्थविलक्षणतया स्वेन विशुद्धविज्ञप्तिमात्रसत्ताद्वयरूपेणानिश्चितत्वाज्जीवप्राणाद्यनन्तभावभेदैरात्मा विकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः ॥

निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ।
रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ १८ ॥

रज्जुरेवेति निश्चये सर्पादिविकल्पनिवृत्तौ रज्जुरेवेति चाद्वैतं यथा, तथा नेति नेतीति सर्वसंसारधर्मशून्यप्रतिपादकशास्त्रजनितविज्ञानसूर्यालोककृतात्मविनिश्चयः ‘आत्मैवेदं सर्वमपूर्वोऽनपरोऽनन्तरोऽबाह्यः सबाह्याभ्यन्तरो ह्यजोऽजरोऽमृतोऽभय एक एवाद्वयः’ इति ॥

प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः ।
मायैषा तस्य देवस्य ययायं मोहितः स्वयम् ॥ १९ ॥

यदि आत्मैक एवेति निश्चयः, कथं प्राणादिभिरनन्तैर्भावैरेतैः संसारलक्षणैर्विकल्पित इति ? उच्यते शृणु — मायैषा तस्यात्मनो देवस्य । यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति, तथा इयमपि देवस्य माया, यया अयं स्वयमपि मोहित इव मोहितो भवति । ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम् ॥

प्राण इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २० ॥
पादा इति पादविदो विषया इति तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः ॥ २१ ॥
वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २२ ॥
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३ ॥
काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥
मन इति मनोविदो बुद्धिरिति च तद्विदः ।
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २५ ॥
पञ्चविंशक इत्येके षड्विंश इति चापरे ।
एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६ ॥
लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः ।
स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७ ॥
सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८ ॥

प्राणः प्राज्ञो बीजात्मा, तत्कार्यभेदा हीतरे स्थित्यन्ताः । अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिता भेदा रज्ज्वामिव सर्पादयः । तच्छून्ये आत्मन्यात्मस्वरूपानिश्चयहेतोरविद्यया कल्पिता इति पिण्डितोऽर्थः । प्राणादिश्लोकानां प्रत्येकं पदार्थव्याख्याने फल्गुप्रयोजनत्वात्सिद्धपदार्थत्वाच्च यत्नो न कृतः ॥
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥
किं बहुना ? प्राणादीनामन्यतममुक्तमनुक्तं वा अन्यं यं भावं पदार्थं दर्शयेद्यस्याचार्योऽन्यो वा आप्तः इदमेव तत्त्वमिति, स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा, तं च द्रष्टारं स भावोऽवति, यो दर्शितो भावः, असौ स भूत्वा रक्षति ; स्वेनात्मना सर्वतो निरुणद्धि । तस्मिन्ग्रहस्तद्ग्रहस्तदभिनिवेशः इदमेव तत्त्वमिति स तं ग्रहीतारमुपैति, तस्यात्मभावं निगच्छतीत्यर्थः ॥

एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥

एतैः प्राणादिभिः आत्मनोऽपृथग्भूतैरपृथग्भावैः एषः आत्मा रज्जुरिव सर्पादिविकल्पनारूपैः पृथगेवेति लक्षितः अभिलक्षितः निश्चितः मूढैरित्यर्थः । विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तीत्यभिप्रायः ; ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति श्रुतेः । एवमात्मव्यतिरेकेणासत्त्वं रज्जुसर्पवदात्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च, सः अविशङ्कितो वेदार्थं विभागतः कल्पयेत् कल्पयतीत्यर्थः — इदमेवंपरं वाक्यम् अदोऽन्यपरम् इति । न ह्यनध्यात्मविद्वेदान्ज्ञातुं शक्नोति तत्त्वतः, ‘न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते’ (मनु. ६ । ८२) इति हि मानवं वचनम् ॥

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥

यदेतद्द्वैतस्यासत्त्वमुक्तं युक्तितः, तदेतद्वेदान्तप्रमाणावगतमित्याह — स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसारितपण्यापणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम् , यथा च स्वप्नमाये दृष्टे असद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् । क्वेत्याह — वेदान्तेषु, ‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘आत्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १) ‘ब्रह्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १०) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. ४ । ५ । १५) इत्यादिषु विचक्षणैः निपुणतरवस्तुदर्शिभिः पण्डितैरित्यर्थः ; ‘तमः श्वभ्रनिभं दृष्टं वर्षबुद्बुदसंनिभम् । नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्’ (मो. ध. ३०१ । ६०) इति व्यासस्मृतेः ॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥

प्रकरणार्थोपसंहारार्थोऽयं श्लोकः — यदा वितथं द्वैतम् आत्मैवैकः परमार्थतः सन् , तदा इदं निष्पन्नं भवति — सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय एवेति । तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननम् , बद्धः संसारी जीवः, साधकः साधनवान्मोक्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः । उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता । कथमुत्पत्तिप्रलययोरभाव इति, उच्यते — द्वैतस्यासत्त्वात् । ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘य इह नानेव पश्यति’ (क. उ. २ । १ । १०) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो वा स्यात् , नासतः शशविषाणादेः । नाप्यद्वैतमुत्पद्यते प्रलीयते वा । अद्वैतं च, उत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् । यस्तु पुनर्द्वैतसंव्यवहारः, स रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा, न चोभयतो वा ।

तथा मानसत्वाविशेषाद्द्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तम् — द्वैतस्यासत्त्वान्निरोधाद्यभावः परमार्थतेति । यद्येवं द्वैताभावे शास्त्रव्यापारः, नाद्वैते, विरोधात् ; तथा च सत्यद्वैतस्य वस्तुत्वे प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् ; न, रज्जुवत्सर्पादिकल्पनाया निरास्पदत्वेऽनुपपत्तिरिति प्रत्युक्तमेतत्कथमुज्जीवयसीति, आह — रज्जुरपि सर्पविकल्पस्यास्पदभूता कल्पितैवेति दृष्टान्तानुपपत्तिः ; न, विकल्पनाक्षये अविकल्पितस्याविकल्पितत्वादेव सत्त्वोपपत्तेः ; रज्जुसर्पवदसत्त्वमिति चेत् , न एकान्तेनाविकल्पितत्वात् अविकल्पितरज्ज्वंशवत्प्राक्सर्पाभावविज्ञानात् , विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादेवासत्त्वानुपपत्तिः ।

कथं पुनः स्वरूपे व्यापाराभावे शास्त्रस्य द्वैतविज्ञाननिवर्तकत्वम् ? नैष दोषः, रज्ज्वां सर्पादिवदात्मनि द्वैतस्याविद्याध्यस्तत्वात् कथं सुख्यहं दुःखी मूढो जातो मृतो जीर्णो देहवान् पश्यामि व्यक्ताव्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोऽहं ममैते इत्येवमादयः सर्वे आत्मन्यध्यारोप्यन्ते । आत्मा एतेष्वनुगतः, सर्वत्राव्यभिचारात् , यथा सर्पधारादिभेदेषु रज्जुः । यदा चैवं विशेष्यस्वरूपप्रत्ययस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण । अकृतकर्तृ च शास्त्रं कृतानुकारित्वे अप्रमाणम् ।

यतः अविद्याध्यारोपितसुखित्वादिविशेषप्रतिबन्धादेवात्मनः स्वरूपेणानवस्थानम् , स्वरूपावस्थानं च श्रेयः इति सुखित्वादिनिवर्तकं शास्त्रमात्मन्यसुखित्वादिप्रत्ययकरणेन नेति नेत्यस्थूलादिवाक्यैः ; आत्मस्वरूपवदसुखित्वादिरपि सुखित्वादिभेदेषु नानुवृत्तोऽस्ति धर्मः । यद्यनुवृत्तः स्यात् , नाध्यारोप्येत सुखित्वादिलक्षणो विशेषः, यथोष्णत्वगुणविशेषवत्यग्नौ शीतता ; तस्मान्निर्विशेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः । यत्त्वसुखित्वादिशास्त्रमात्मनः, तत्सुखित्वादिविशेषनिवृत्त्यर्थमेवेति सिद्धम् । ‘सिद्धं तु निवर्तकत्वात्’ इत्यागमविदां सूत्रम् ॥

भावैरसद्भिरेवायमद्वयेन च कल्पितः ।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥

पूर्वश्लोकार्थस्य हेतुमाह — यथा रज्ज्वामसद्भिः सर्पधारादिभिः अद्वयेन च रज्जुद्रव्येण सता अयं सर्प इति धारेयं दण्डोऽयमिति वा रज्जुद्रव्यमेव कल्प्यते, एवं प्राणादिभिरनन्तैः असद्भिरेव अविद्यमानैः, न परमार्थतः । न ह्यप्रचलिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित् ; न चात्मनः प्रचलनमस्ति । प्रचलितस्यैवोपलभ्यमाना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः । अतः असद्भिरेव प्राणादिभिर्भावैरद्वयेन च परमार्थसता आत्मना रज्जुवत्सर्वविकल्पास्पदभूतेन अयं स्वयमेवात्मा कल्पितः सदैकस्वभावोऽपि सन् । ते चापि प्राणादिभावाः अद्वयेनैव सता आत्मना विकल्पिताः ; न हि निरास्पदा काचित्कल्पना उपपद्यते ; अतः सर्वकल्पनास्पदत्वात्स्वेनात्मना अद्वयस्य अव्यभिचारात् कल्पनावस्थायामपि अद्वयता शिवा ; कल्पना एव त्वशिवाः, रज्जुसर्पादिवत्त्रासादिकारिण्यो हि ताः । अद्वयता अभया ; अतः सैव शिवा ॥
नात्मभावेन नानेदं न स्वेनापि कथञ्चन ।
न पृथङ् नापृथक्किञ्चिदिति तत्त्वविदो विदुः ॥ ३४ ॥

कुतश्चाद्वयता शिवा ? नानाभूतं प्रथक्त्वम् अन्यस्य अन्यस्मात् यत्र दृष्टम् , तत्राशिवं भवेत् । न ह्यत्राद्वये परमार्थसत्यात्मनि प्राणादिसंसारजातमिदं जगत् आत्मभावेन परमार्थस्वरूपेण निरूप्यमाणं नाना वस्त्वन्तरभूतं भवति ; यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पोऽस्ति, तद्वत् । नापि स्वेन प्राणाद्यात्मना इदं विद्यते कदाचिदपि, रज्जुसर्पवत्कल्पितत्वादेव । तथा अन्योन्यं न पृथक् प्राणादि वस्तु, यथा अश्वान्महिषः पृथग्विद्यते, एवम् । अतः असत्त्वात् नापि अपृथक् विद्यतेऽन्योन्यं परेण वा किञ्चिदिति । एवं परमार्थतत्त्वविदो ब्राह्मणा विदुः । अतः अशिवहेतुत्वाभावादद्वयतैव शिवेत्यभिप्रायः ॥
वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः ।
निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥

तदेतत्सम्यग्दर्शनं स्तूयते — विगतरागभयक्रोधादिसर्वदोषैः सर्वदा मुनिभिः मननशीलैर्विवेकिभिः वेदपारगैः अवगतवेदान्तार्थतत्त्वैर्ज्ञानिभिः निर्विकल्पः सर्वविकल्पशून्यः अयम् आत्मा दृष्टः उपलब्धो वेदान्तार्थतत्परैः, प्रपञ्चोपशमः, प्रपञ्चो द्वैतभेदविस्तारः, तस्योपशमोऽभावो यस्मिन् , स आत्मा प्रपञ्चोपशमः, अत एव अद्वयः विगतदोषैरेव पण्डितैर्वेदान्तार्थतत्परैः संन्यासिभिः अयमात्मा द्रष्टुं शक्यः, नान्यैः रागादिकलुषितचेतोभिः स्वपक्षपातिदर्शनैस्तार्किकादिभिरित्यभिप्रायः ॥

तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥
यस्मात्सर्वानर्थोपशमरूपत्वादद्वयं शिवमभयम् , अतः एवं विदित्वैनम् अद्वैते स्मृतिं योजयेत् ; अद्वैतावगमायैव स्मृतिं कुर्यादित्यर्थः । तच्च अद्वैतम् अवगम्य ‘अहमस्मि परं ब्रह्म’ इति विदित्वा अशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यवहारातीतं जडवत् लोकमाचरेत् ; अप्रख्यापयन्नात्मानमहमेवंविध इत्यभिप्रायः ॥

निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७ ॥

कया चर्यया लोकमाचरेदिति, आह — स्तुतिनमस्कारादिसर्वकर्मविवर्जितः त्यक्तसर्वबाह्यैषणः प्रतिपन्नपरमहंसपारिव्राज्य इत्यभिप्रायः, ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) इत्यादिश्रुतेः, ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः’ (भ. गी. ५ । १७) इत्यादिस्मृतेश्च । चलं शरीरम् , प्रतिक्षणमन्यथाभावात् ; अचलम् आत्मतत्त्वम् । यदा कदाचिद्भोजनादिसंव्यवहारनिमित्तमाकाशवदचलं स्वरूपमात्मतत्त्वम् आत्मनो निकेतमाश्रयमात्मस्थितिं विस्मृत्य अहमिति मन्यते यदा, तदा चलो देहो निकेतो यस्य सोऽयमेवं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रयः । स च यादृच्छिको भवेत् , यदृच्छाप्राप्तकौपीनाच्छादनग्रासमात्रदेहस्थितिरित्यर्थः ॥

तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥

बाह्यं पृथिव्यादि तत्त्वमाध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत् , ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्यादिश्रुतेः । आत्मा च सबाह्याभ्यन्तरो ह्यजोऽपूर्वोऽनपरोऽनन्तरोऽबाह्यः कृत्स्नः तथा आकाशवत्सर्वगतः सूक्ष्मोऽचलो निर्गुणो निष्कलो निष्क्रियः ‘तत्सत्यं स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः, इत्येवं तत्त्वं दृष्ट्वा तत्त्वीभूतस्तदारामो न बाह्यरमणः ; यथा अतत्त्वदर्शी कश्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनु चलितमात्मानं मन्यमानः तत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतोऽहमात्मतत्त्वादिदानीमिति, समाहिते तु मनसि कदाचित्तत्त्वभूतं प्रसन्नमात्मानं मन्यते इदानीमस्मि तत्त्वीभूत इति ; न तथा आत्मविद्भवेत् , आत्मन एकरूपत्वात् , स्वरूपप्रच्यवनासम्भवाच्च । सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात् , सदा अप्रच्युतात्मतत्त्वदर्शनो भवेदित्यभिप्रायः ; ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १८) ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) इत्यादिस्मृतेः ॥

इति द्वितीयं वैतथ्यप्रकरणं सम्पूर्णम् ॥


अद्वैत प्रकरणम्

उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १ ॥

ओङ्कारनिर्णये उक्तः प्रपञ्चोपशमः शिवोऽद्वैत आत्मेति प्रतिज्ञामात्रेण, ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इति च । तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादितः । अद्वैतं किमागममात्रेण प्रतिपत्तव्यम् , आहोस्वित्तर्केणापीत्यत आह — शक्यते तर्केणापि ज्ञातुम् ; तत्कथमित्यद्वैतप्रकरणमारभ्यते । उपास्योपासनादिभेदजातं सर्वं वितथम् , केवलश्चात्मा अद्वयः परमार्थ इति स्थितमतीते प्रकरणे ; यतः उपासनाश्रितः उपासनामात्मनो मोक्षसाधनत्वेन गतः उपासकोऽहं ममोपास्यं ब्रह्म । तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानः अजं ब्रह्म शरीरपातादूर्ध्वं प्रतिपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च । यदात्मकोऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्ये इत्येवमुपासनाश्रितो धर्मः साधकः येनैवं क्षुद्रब्रह्मवित् , तेनासौ कारणेन कृपणो दीनोऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिर्महात्मभिरित्यभिप्रायः, ‘यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादिश्रुतेस्तलवकाराणाम् ॥

अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ।
यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २ ॥

सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन् अविद्यया दीनमात्मानं मन्यमानः जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्ये इत्येवं प्रतिपन्नः कृपणो भवति यस्मात् , अतो वक्ष्यामि अकार्पण्यम् अकृपणभावमजं ब्रह्म । तद्धि कार्पण्यास्पदम् , ‘यत्रान्योऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) ‘मर्त्यं तत्’ ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्यादिश्रुतिभ्यः । तद्विपरीतं सबाह्याभ्यन्तरमजमकार्पण्यं भूमाख्यं ब्रह्म ; यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिः, तदकार्पण्यं वक्ष्यामीत्यर्थः । तत् अजाति अविद्यमाना जातिरस्य । समतां गतं सर्वसाम्यं गतम् ; कस्मात् ? अवयववैषम्याभावात् । यद्धि सावयवं वस्तु, तदवयववैषम्यं गच्छज्जायत इत्युच्यते ; इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटति ; अतः अजाति अकार्पण्यं समन्ततः समन्तात् , यथा न जायते किञ्चित् अल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतः अजमेव ब्रह्म भवति, तथा तं प्रकारं शृण्वित्यर्थः ॥

आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः ।
घटादिवच्च सङ्घातैर्जातावेतन्निदर्शनम् ॥ ३ ॥

अजाति ब्रह्माकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् ; तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह — आत्मा परः हि यस्मात् आकाशवत् सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तः जीवैः क्षेत्रज्ञैः घटाकाशैरिव घटाकाशतुल्यैः उदितः उक्तः ; स एव आकाशसमः पर आत्मा । अथवा घटाकाशैर्यथा आकाश उदितः उत्पन्नः, तथा परो जीवात्मभिरुत्पन्नः ; जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु, सा महाकाशाद्घटाकाशोत्पत्तिसमा, न परमार्थत इत्यभिप्रायः । तस्मादेवाकाशाद्घटादयः सङ्घाता यथा उत्पद्यन्ते, एवमाकाशस्थानीयात्परमात्मनः पृथिव्यादिभूतसङ्घाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते ; अत उच्यते — घटादिवच्च सङ्घातैरुदित इति । यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्या आत्मनो जातिरुच्यते जीवादीनाम् , तदा जातावुपगम्यमानायाम् एतत् निदर्शनं दृष्टान्तः यथोदिताकाशवदित्यादिः ॥

घटादिषु प्रलीनेषु घटाकाशादयो यथा ।
आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ४ ॥

यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः, यथा च घटादिप्रलयेन घटाकाशादिप्रलयः, तद्वद्देहादिसङ्घातोत्पत्त्या जीवोत्पत्तिः तत्प्रलयेन च जीवानाम् इह आत्मनि प्रलयः, न स्वत इत्यर्थः ॥

यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते ।
न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥

सर्वदेहेष्वात्मैकत्वे एकस्मिन् जननमरणसुखदुःखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति ये त्वाहुर्द्वैतिनः, तान्प्रतीदमुच्यते — यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते, न सर्वे घटाकाशादयः तद्रजोधूमादिभिः संयुज्यन्ते, तद्वत् जीवाः सुखादिभिः । ननु, एक एवात्मा ; बाढम् ; ननु न श्रुतं त्वया आकाशवत्सर्वसङ्घातेष्वेक एवात्मेति ? यद्येक एवात्मा, तर्हि सर्वत्र सुखी दुःखी च स्यात् ; न चेदं साङ्ख्यस्य चोद्यं सम्भवति ; न हि साङ्ख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति, बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् ; न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति । भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत् , न ; प्रधानकृतस्यार्थस्यात्मन्यसमवायात् ; यदि हि प्रधानकृतो बन्धो मोक्षो वा अर्थः पुरुषेषु भेदेन समवैति, ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना ; न च साङ्ख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतोऽभ्युपगम्यते, निर्विशेषाश्च चेतनमात्रा आत्मानोऽभ्युपगम्यन्ते ; अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धम् , न तु पुरुषभेदप्रयुक्तमिति ; अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः ; न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साङ्‍ख्यानाम् ।

परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् ; परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुः, न केनचिद्विशेषेणेति, केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च । ये त्वाहुर्वैशेषिकादयः इच्छादय आत्मसमवायिन इति ; तदप्यसत् , स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् , आत्ममनःसंयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्तिः, युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः । न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मनआदिभिः सम्बन्धो युक्तः । न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति । परेषां यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युः इच्छादयश्चात्मनः, तथा सति द्रव्येण तेषां सम्बन्धानुपपत्तिः । अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत् , न ; इच्छादिभ्योऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः ।

आत्मना अयुतसिद्धत्वे च इच्छादीनामात्मगतमहत्त्ववन्नित्यत्वप्रसङ्गः । स चानिष्टः, आत्मनोऽनिर्मोक्षप्रसङ्गात् । समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यम् , यथा द्रव्यगुणयोः । समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत् , तथा सति समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्तिः । अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ठ्यर्थानुपपत्तिः । इच्छाद्युपजनापायवद्गुणवत्त्वे च आत्मनोऽनित्यत्वप्रसङ्गः । देहफलादिवत्सावयवत्वं विक्रियावत्त्वं च देहादिवदेवेति दोषावपरिहार्यौ । यथा त्वाकाशस्य अविद्याध्यारोपितघटाद्युपाधिकृतरजोधूममलवत्त्वादिदोषवत्त्वम् , तथा आत्मनः अविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्त्वे बन्धमोक्षादयो व्यावहारिका न विरुध्यन्ते ; सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात् परमार्थानभ्युपगमाच्च । तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति ॥

रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥

कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते । यथा इहाकाशे एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते, तथा कार्यमुदकाहरणधारणशयनादि, समाख्याश्च घटाकाशः करकाकाश इत्याद्याः तत्कृताश्च भिन्ना दृश्यन्ते, तत्र तत्र वै व्यवहारविषये इत्यर्थः । सर्वोऽयमाकाशे रूपादिभेदकृतो व्यवहारः अपरमार्थ एव । परमार्थतस्त्वाकाशस्य न भेदोऽस्ति । न चाकाशभेदनिमित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारम् । यथैतत् , तद्वद्देहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतः बुद्धिमद्भिः निर्णयः निश्चय इत्यर्थः ॥

नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥

ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति ; नैतदस्ति, यस्मात्परमार्थाकाशस्य घटाकाशो न विकारः, यथा सुवर्णस्य रुचकादिः, यथा वा अपां फेनबुद्बुदहिमादिः ; नाप्यवयवः, यथा वृक्षस्य शाखादिः । न तथा आकाशस्य घटाकाशो विकारावयवौ यथा, तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारः, नाप्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥

यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ८ ॥

यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारः, तथा देहोपाधिजीवभेदकृतो जन्ममरणादिव्यवहारः, तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्त्वमात्मनः, न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह — यथा भवति लोके बालानाम् अविवेकिनां गगनम् आकाशं घनरजोधूमादिमलैः मलिनं मलवत् , न गगनयाथात्म्यविवेकवताम् , तथा भवति आत्मा परोऽपि — यो विज्ञाता प्रत्यक् — क्लेशकर्मफलमलैर्मलिनः अबुद्धानां प्रत्यगात्मविवेकरहितानाम् , नात्मविवेकवताम् । न ह्यूषरदेशः तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमान् , तथा नात्मा अबुधारोपितक्लेशादिमलैः मलिनो भवतीत्यर्थः ॥

मरणे सम्भवे चैव गत्यागमनयोरपि ।
स्थितौ सर्वशरीरेषु चाकाशेनाविलक्षणः ॥ ९ ॥

पुनरप्युक्तमेवार्थं प्रपञ्चयति — घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः ॥

सङ्घाताः स्वप्नवत्सर्व आत्ममायाविसर्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥
घटादिस्थानीयास्तु देहादिसङ्घाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्च आत्ममायाविसर्जिताः, आत्मनो माया अविद्या, तया प्रत्युपस्थापिताः, न परमार्थतः सन्तीत्यर्थः । यदि आधिक्यमधिकभावः तिर्यग्देहाद्यपेक्षया देवादिकार्यकरणसङ्घातानाम् , यदि वा सर्वेषां समतैव, तेषां न ह्युपपत्तिसम्भवः, सम्भवप्रतिपादको हेतुः न विद्यते नास्ति ; हि यस्मात् , तस्मादविद्याकृता एव, न परमार्थतः सन्तीत्यर्थः ॥

रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके ।
तेषामात्मा परो जीवः खं यथा सम्प्रकाशितः ॥ ११ ॥
उत्पत्त्यादिवर्जितस्याद्वयस्यास्यात्मतत्त्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते — रसादयः अन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशाः अस्यादेः, उत्तरोत्तरापेक्षया बहिर्भावात्पूर्वपूर्वस्य व्याख्याताः विस्पष्टमाख्याताः तैत्तिरीयके तैत्तिरीयकशाखोपनिषद्वल्ल्याम् , तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्मवन्तोऽन्तरतमेन । स हि सर्वेषां जीवननिमित्तत्वाज्जीवः । कोऽसावित्याह — पर एवात्मा यः पूर्वम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति प्रकृतः ; यस्मादात्मनः स्वप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः सङ्घाता आत्ममायाविसर्जिता इत्युक्तम् । स आत्मा अस्माभिः यथा खं तथेति सम्प्रकाशितः, ‘आत्मा ह्याकाशवत्’ (मा. का. ३ । ३) इत्यादिश्लोकैः । न तार्किकपरिकल्पितात्मवत्पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः ॥

द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् ।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ १२ ॥

किञ्च, अधिदैवतमध्यात्मं च तेजोमयोऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोः आ द्वैतक्षयात् परं ब्रह्म प्रकाशितम् ; क्वेत्याह — ब्रह्मविद्याख्यं मधु अमृतम् , अमृतत्वं मोदनहेतुत्वात् , तद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम् , तस्मिन्नित्यर्थः । किमिवेत्याह — पृथिव्याम् उदरे चैव यथा एक आकाशः अनुमानेन प्रकाशितः लोके, तद्वदित्यर्थः ॥

जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते ।
नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥

यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनोऽनन्यत्वम् अभेदेन प्रशस्यते स्तूयते शास्त्रेण व्यासादिभिश्च, यच्च सर्वप्राणिसाधारणं स्वाभाविकं शास्त्रबहिर्मुखैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते, ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘उदरमन्तरं कुरुते, अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १) ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इत्येवमादिवाक्यैरन्यैश्च ब्रह्मविद्भिः यच्चैतत् , तदेवं हि समञ्जसम् ऋज्ववबोधं न्याय्यमित्यर्थः । यास्तु तार्किकपरिकल्पिताः कुदृष्टयः, ताः अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः ॥
जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् ।
भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥

ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः उत्पत्त्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे अनेकशः कामभेदतः इदङ्कामः अदःकाम इति, परश्च ‘स दाधार पृथिवीं द्याम्’ (ऋ. १० । १२१ । १) इत्यादिमन्त्रवर्णैः ; तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति । अत्रोच्यते — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गाः’ (बृ. उ. २ । १ । २०) ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) ‘तदैक्षत तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितं यत् , तन्न परमार्थतः । किं तर्हि ? गौणम् ; महाकाशघटाकाशादिभेदवत् , यथा ओदनं पचतीति भविष्यद्वृत्त्या, तद्वत् ।

न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थकत्वमुपपद्यते, स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् । इह च उपनिषत्सु उत्पत्तिप्रलयादिवाक्यैर्जीवपरात्मनोरेकत्वमेव प्रतिपिपादयिषितम् ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) इत्यादिभिः ; अत उपनिषत्स्वेकत्वं श्रुत्या प्रतिपिपादयिषितं भविष्यतीति भाविनीमिव वृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः । अथवा, ‘तदैक्षत. . . तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्याद्युत्पत्तेः प्राक् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । २) इत्येकत्वं प्रकीर्तितम् ; तदेव च ‘तत्सत्यं स आत्मा, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिमपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानम् , तद्गौणम् ; यथा ओदनं पचतीति, तद्वत् ॥
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥

ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयम् , तथापि उत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति । मैवम् , अन्यार्थत्वादुत्पत्तिश्रुतीनाम् । पूर्वमपि परिहृत एवायं दोषः — स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः, घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः मृल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिः या च उदिता प्रकाशिता कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारायोपायोऽस्माकम् , यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ; तदप्यसिद्धमिति चेत् ; न, शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् । यदि हि वादः परमार्थ एवाभूत् , एकरूप एव संवादः सर्वशाखास्वश्रोष्यत, विरुद्धानेकप्रकारेण नाश्रोष्यत ; श्रूयते तु ; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् । तथोत्पत्तिवाक्यानि प्रत्येतव्यानि । कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत् ; न, निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण । न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् । तथात्वप्रत्तिपत्तये ध्यानार्थमिति चेत् ; न, कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव, नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥

आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।
उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥

यदि हि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थतः सन् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । २) इत्यादिश्रुतिभ्यः, असदन्यत् , किमर्थेयमुपासनोपदिष्टा ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि ? शृणु तत्र कारणम् — आश्रमाः आश्रमिणोऽधिकृताः, वर्णिनश्च मार्गगाः, आश्रमशब्दस्य प्रदर्शनार्थत्वात् , त्रिविधाः । कथम् ? हीनमध्यमोत्कृष्टदृष्टयः हीना निकृष्टा मध्यमा उत्कृष्टा च दृष्टिः दर्शनसामर्थ्यं येषां ते, मन्दमध्यमोत्तमबुद्धिसामर्थ्योपेता इत्यर्थः । उपासना उपदिष्टा इयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च । न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थम् । दयालुना देवेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति, ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः ॥

स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥

शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्शनम् , तद्बाह्यत्वान्मिथ्यादर्शनमन्यत् । इतश्च मिथ्यादर्शनं द्वैतिनां रागद्वेषादिदोषास्पदत्वात् । कथम् ? स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धार्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः, एवमेवैष परमार्थो नान्यथेति, तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तमेव परस्परम् अन्योन्यं विरुध्यन्ते । तैरन्योन्यविरोधिभिरस्मदीयोऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते, यथा स्वहस्तपादादिभिः । एवं रागद्वेषादिदोषानास्पदत्वादात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः ॥

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥

केन हेतुना तैर्न विरुध्यत इत्युच्यते — अद्वैतं परमार्थः, हि यस्मात् द्वैतं नानात्वं तस्याद्वैतस्य भेदः तद्भेदः, तस्य कार्यमित्यर्थः, ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति श्रुतेः ; उपपत्तेश्च, स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ वा अभावात् । अतः तद्भेद उच्यते द्वैतम् । द्वैतिनां तु तेषां परमार्थतोऽपरमार्थतश्च उभयथापि द्वैतमेव ; यदि च तेषां भ्रान्तानां द्वैतदृष्टिः अस्माकमद्वैतदृष्टिरभ्रान्तानाम् , तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः, ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः । यथा मत्तगजारूढः उन्मत्तं भूमिष्ठम् ‘प्रतिगजारूढोऽहं गजं वाहय मां प्रति’ इति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या, तद्वत् । ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् । तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः ॥

मायया भिद्यते ह्येतन्नान्यथाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ॥

द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात्कस्यचिदाशङ्केत्यत आह — यत्परमार्थसदद्वैतम् , मायया भिद्यते ह्येतत् तैमिरिकानेकचन्द्रवत् रज्जुः सर्पधारादिभिर्भेदैरिव ; न परमार्थतः, निरवयवत्वादात्मनः । सावयवं ह्यवयवान्यथात्वेन भिद्यते, यथा मृत् घटादिभेदैः । तस्मान्निरवयवमजं नान्यथा कथञ्चन, केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः । तत्त्वतो भिद्यमानं हि अमृतमजमद्वयं स्वभावतः सत् मर्त्यतां व्रजेत् , यथा अग्निः शीतताम् । तच्चानिष्टं स्वभाववैपरीत्यगमनम् , सर्वप्रमाणविरोधात् । अजमद्वयमात्मतत्त्वं माययैव भिद्यते, न परमार्थतः । तस्मान्न परमार्थसद्द्वैतम् ॥

अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २० ॥

ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूकाः अजातस्यैव आत्मतत्त्वस्यामृतस्य स्वभावतो जातिम् उत्पत्तिम् इच्छन्ति परमार्थत एव, तेषां जातं चेत् , तदेव मर्त्यतामेष्यत्यवश्यम् । स च अजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति ? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः ॥

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २१ ॥

यस्मान्न भवति अमृतं मर्त्यं लोके नापि मर्त्यममृतं तथा, ततः प्रकृतेः स्वभावस्य अन्यथाभावः स्वतः प्रच्युतिः न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य ॥

स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥

यस्य पुनर्वादिनः स्वभावेन अमृतो भावः मर्त्यतां गच्छति परमार्थतो जायते, तस्य प्रागुत्पत्तेः स भावः स्वभावतोऽमृत इति प्रतिज्ञा मृषैव । कथं तर्हि ? कृतकेनामृतः तस्य स्वभावः । कृतकेनामृतः स कथं स्थास्यति निश्चलः ? अमृतस्वभावतया न कथञ्चित्स्थास्यति । आत्मजातिवादिनः सर्वथा अजं नाम नास्त्येव । सर्वमेतन्मर्त्यम् ; अतः अनिर्मोक्षप्रसङ्ग इत्यभिप्रायः ॥

भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः ।
निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥

नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न सङ्गच्छते । बाढम् ; विद्यते सृष्टिप्रतिपादिका श्रुतिः ; सा त्वन्यपरा, ‘उपायः सोऽवतारय’ (मा. का. ३ । १५) इत्यवोचाम । इदानीमुक्तेऽपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधशङ्कामात्रपरिहारार्थौ । भूततः परमार्थतः सृज्यमाने वस्तुनि, अभूततः मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः । ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतिपत्तिर्युक्ता ; न, अन्यथासृष्टेरप्रसिद्धत्वान्निष्प्रयोजनत्वाच्च इत्यवोचाम । अविद्यासृष्टिविषयैव सर्वा गौणी मुख्या च सृष्टिः, न परमार्थतः, ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति श्रुतेः । तस्मात् श्रुत्या निश्चितं यत् एकमेवाद्वितीयमजममृतमिति, युक्तियुक्तं च युक्त्या च सम्पन्नम् , तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः ; तदेव श्रुत्यर्थो भवति, नेतरत्कदाचिदपि क्वचिदपि ॥

नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि ।
अजायमानो बहुधा जायते मायया तु सः ॥ २४ ॥

कथं श्रुतिनिश्चय इत्याह — यदि हि भूतत एव सृष्टिः स्यात् , ततः सत्यमेव नानावस्त्विति तदभावप्रदर्शनार्थ आम्नायो न स्यात् ; अस्ति च ‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) इत्याम्नायो द्वैतभावप्रतिषेधार्थः ; तस्मादात्मैकत्वप्रतिपत्त्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् । ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् । ननु प्रज्ञावचनो मायाशब्दः ; सत्यम् , इन्द्रियप्रज्ञाया अविद्यामयत्वेन मायात्वाभ्युपगमाददोषः । मायाभिः इन्द्रियप्रज्ञाभिरविद्यारूपाभिरित्यर्थः । ‘अजायमानो बहुधा विजायते’ (तै. आ. ३ । १३) इति श्रुतेः । तस्मात् जायते मायया तु सः ; तु —शब्दोऽवधारणार्थः माययैवेति । न ह्यजायमानत्वं बहुधाजन्म च एकत्र सम्भवति, अग्नाविव शैत्यमौष्ण्यं च । फलवत्त्वाच्चात्मैकत्वदर्शनमेव श्रुतिनिश्चितोऽर्थः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्यादिमन्त्रवर्णात् ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । ४ । १०) इति निन्दितत्वाच्च सृष्ट्यादिभेददृष्टेः ॥

सम्भूतेरपवादाच्च सम्भवः प्रतिषिध्यते ।
को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥

‘अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते’ (ई. मा. ९) इति सम्भूतेरुपास्यत्वापवादात्सम्भवः प्रतिषिध्यते ; न हि परमार्थसद्भूतायां सम्भूतौ तदपवाद उपपद्यते । ननु विनाशेन सम्भूतेः समुच्चयविधानार्थः सम्भूत्यपवादः, यथा ‘अन्धं तमः प्रविशन्ति येऽविद्यामुपासते’ (ई. मा. १२) इति । सत्यमेव, देवतादर्शनस्य सम्भूतिविषयस्य विनाशशब्दवाच्यस्य च कर्मणः समुच्चयविधानार्थः सम्भूत्यपवादः ; तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्ववत् देवतादर्शनकर्मसमुच्चयस्य पुरुषसंस्कारार्थस्य कर्मफलरागप्रवृत्तिरूपस्य साध्यसाधनैषणाद्वयलक्षणस्य मृत्योरतितरणार्थत्वम् । एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यात् । अतो मृत्योरतितरणार्था देवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या ।

एवमेव एषणाद्वयलक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयिका परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्या अमृतत्वसाधना एकेन पुरुषेण सम्बध्यमाना अविद्यया समुच्चीयत इत्युच्यते । अतः अन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपेक्ष्य, निन्दार्थ एव भवति सम्भूत्यपवादः यद्यप्यशुद्धिवियोगहेतुः अतन्निष्ठत्वात् । अत एव सम्भूतेरपवादात्सम्भूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः सम्भवः प्रतिषिध्यते । एवं मायानिर्मितस्यैव जीवस्य अविद्यया प्रत्युपस्थापितस्य अविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् ? न हि रज्ज्वामविद्याध्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् ; तथा न कश्चिदेनं जनयेदिति । को न्वित्याक्षेपार्थत्वात्कारणं प्रतिषिध्यते । अविद्योद्भूतस्य नष्टस्य जनयितृ कारणं न किञ्चिदस्तीत्यभिप्रायः ; ‘नायं कुतश्चिन्न बभूव कश्चित्’ (क. उ. १ । २ । १८) इति श्रुतेः ॥
स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥

सर्वविशेषप्रतिषेधेन ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) इति प्रतिपादितस्यात्मनो दुर्बोधत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्यद्व्याख्यातं तत्सर्वं निह्नुते । ग्राह्यं जनिमद्बुद्धिविषयमपलपत्यर्थात् ‘स एष नेति नेति’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । २ । ४), (बृ. उ. ४ । ४ । २२), (बृ. उ. ४ । ५ । १५) इत्यात्मनोऽदृश्यतां दर्शयन्ती श्रुतिः । उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्य उपेयवद्ग्राह्यता मा भूदिति अग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः । ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्य सबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव ॥

सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।
तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥

एवं हि श्रुतिवाक्यशतैः सबाह्याभ्यन्तरमजमात्मतत्त्वमद्वयं न ततोऽन्यदस्तीति निश्चितमेतत् । युक्त्या चाधुनैतदेव पुनर्निर्धार्यत इत्याह — तत्रैतत्स्यात् सदा अग्राह्यमेव चेदसदेवात्मतत्त्वमिति ; तन्न, कार्यग्रहणात् । यथा सतो मायाविनः मायया जन्म कार्यम् , एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तमात्मानं जगज्जन्म मायास्पदमेव गमयति । यस्मात् सतो हि विद्यमानात्कारणात् मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते, नासतः कारणात् । न तु तत्त्वत एव आत्मनो जन्म युज्यते । अथवा, सतः विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवत् मायया जन्म युज्यते न तु तत्त्वतो यथा, तथा अग्राह्यस्यापि सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते । न तु तत्त्वत एवाजस्यात्मनो जन्म । यस्य पुनः परमार्थसदजमात्मतत्त्वं जगद्रूपेण जायते वादिनः, न हि तस्य अजं जायत इति शक्यं वक्तुम् , विरोधात् । ततः तस्यार्थाज्जातं जायत इत्यापन्नम् । ततश्चानवस्थापाताज्जायमानत्वं न । तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम् ॥

असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥

असद्वादिनाम् असतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् । न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते । तस्मादत्रासद्वादो दूरत एवानुपपन्न इत्यर्थः ॥

यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २९ ॥

कथं पुनः सतो माययैव जन्मेत्युच्यते — यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन् , एवं मनः परमात्मविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सत् ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः ; तथा तद्वदेव जाग्रत् जागरिते स्पन्दते मायया मनः, स्पन्दत इवेत्यर्थः ॥

अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥

रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेण अद्वयं सत् द्वयाभासं मनः स्वप्ने, न संशयः । न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादि, द्वयं विज्ञानव्यतिरेकेणास्ति ; जाग्रदपि तथैवेत्यर्थः ; परमार्थसद्विज्ञानमात्राविशेषात् ॥

मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥

रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् । तत्र किं प्रमाणमिति, अन्वयव्यतिरेकलक्षणमनुमानमाह । कथम् ? तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यम् इदं द्वैतं सर्वं मन इति प्रतिज्ञा, तद्भावे भावात् तदभावे चाभावात् । मनसो हि अमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति अभावात्सिद्धं द्वैतस्यासत्त्वमित्यर्थः ॥

आत्मसत्यानुबोधेन न सङ्कल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥

कथं पुनरयममनीभाव इत्युच्यते — आत्मैव सत्यमात्मसत्यम् , मृत्तिकावत् , ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः । तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः । तेन सङ्कल्प्याभावात्तन्न सङ्कल्पयते दाह्याभावे ज्वलनमिवाग्नेः यदा यस्मिन्काले, तदा तस्मिन्काले अमनस्ताम् अमनोभावं याति ; ग्राह्याभावे तत् मनः अग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः ॥

अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥

यद्यसदिदं द्वैतम् , केन समञ्जसमात्मतत्त्वं विबुध्यत इति, उच्यते — अकल्पकं सर्वकल्पनावर्जितम् , अत एव अजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणा अभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः । ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) अग्न्युष्णवत् , ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यादिश्रुतिभ्यः । तस्यैव विशेषणम् — ब्रह्म ज्ञेयं यस्य, स्वस्थं तदिदं ब्रह्म ज्ञेयम् औष्ण्यस्येवाग्निवदभिन्नम् , तेन आत्मस्वरूपेण अजेन ज्ञानेन अजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यते अवगच्छति । नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः ॥

निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४ ॥

आत्मसत्यानुबोधेन सङ्कल्पमकुर्वत् बाह्यविषयाभावे निरिन्धनाग्निवत्प्रशान्तं सत् निगृहीतं निरुद्धं मनो भवतीत्युक्तम् । एवं च मनसो ह्यमनीभावे द्वैताभावश्चोक्तः । तस्यैवं निगृहीतस्य निरुद्धस्य मनसः निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतः विवेकवतः प्रचरणं प्रचारो यः, स तु प्रचारः विशेषेण ज्ञेयो विज्ञेयो योगिभिः । ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तिस्थस्य मनसः प्रचारः, तादृश एव निरुद्धस्यापि, प्रत्ययाभावाविशेषात् ; किं तत्र विज्ञेयमिति । अत्रोच्यते — नैवम् , यस्मात्सुषुप्ते अन्यः प्रचारोऽविद्यामोहतमोग्रस्तस्य अन्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनसः आत्मसत्यानुबोधहुताशविप्लुष्टाविद्याद्यनर्थप्रवृत्तिबीजस्य निरुद्धस्य अन्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः । अतो न तत्समः । तस्माद्युक्तः स विज्ञातुमित्यभिप्रायः ॥

लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते ।
तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥

प्रचारभेदे हेतुमाह — लीयते सुषुप्तौ हि यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपम् अविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निगृहीतं निरुद्धं सत् न लीयते तमोबीजभावं नापद्यते । तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः । यदा ग्राह्यग्राहकाविद्याकृतमलद्वयवर्जितम् , तदा परमद्वयं ब्रह्मैव तत्संवृत्तमित्यतः तदेव निर्भयम् , द्वैतग्रहणस्य भयनिमित्तस्याभावात् । शान्तमभयं ब्रह्म यद्विद्वान्न बिभेति कुतश्चन । तदेव विशेष्यते — ज्ञप्तिर्ज्ञानम् आत्मस्वभावचैतन्यम् , तदेव ज्ञानमालोकः प्रकाशो यस्य, तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः । समन्ततः समन्तात् ; सर्वतो व्योमवन्नैरन्तर्येण व्यापकमित्यर्थः ॥

अजमनिद्रमस्वप्नमनामकमरूपकम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३६ ॥

जन्मनिमित्ताभावात्सबाह्याभ्यन्तरम् अजम् ; अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम । सा चाविद्या आत्मसत्यानुबोधेन निरुद्धा यतः, अतः अजम् , अत एव अनिद्रम् अविद्यालक्षणानादिर्मायानिद्रास्वापात्प्रबुद्धम् अद्वयस्वरूपेणात्मना ; अतः अस्वप्नम् । अप्रबोधकृते ह्यस्य नामरूपे ; प्रबोधाच्च ते रज्जुसर्पवद्विनष्टे । न नाम्नाभिधीयते ब्रह्म, रूप्यते वा न केनचित्प्रकारेण इति अनामकम् अरूपकं च तत् , ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतेः । किञ्च, सकृद्विभातं सदैव विभातं सदा भारूपम् , अग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् । ग्रहणाग्रहणे हि रात्र्यहनी ; तमश्चाविद्यालक्षणं सदा अप्रभातत्वे कारणम् ; तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति । अत एव सर्वं च तत् ज्ञप्तिस्वरूपं चेति सर्वज्ञम् । नेह ब्रह्मण्येवंविधे उपचरणमुपचारः कर्तव्यः, यथा अन्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः । नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसम्भवः अविद्यानाशे इत्यर्थः ॥

सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७ ॥

अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह — अभिलप्यते अनेनेति अभिलापः वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः ; वागत्रोपलक्षणार्था, सर्वबाह्यकरणवर्जित इत्येतत् । तथा, सर्वचिन्तासमुत्थितः, चिन्त्यते अनयेति चिन्ता बुद्धिः, तस्याः समुत्थितः, अन्तःकरणविवर्जित इत्यर्थः, ‘अप्राणो ह्यमनाः शुभ्रः अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इत्यादिश्रुतेः । यस्मात्सर्वविषयवर्जितः, अतः सुप्रशान्तः । सकृज्ज्योतिः सदैव ज्योतिः आत्मचैतन्यस्वरूपेण । समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात् ; समाधीयते अस्मिन्निति वा समाधिः । अचलः अविक्रियः । अत एव अभयः विक्रियाभावात् ॥

ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८ ॥

यस्माद्ब्रह्मैव ‘समाधिरचलोऽभयः’ इत्युक्तम् , अतः न तत्र तस्मिन्ब्रह्मणि ग्रहः ग्रहणमुपादानम् , न उत्सर्गः उत्सर्जनं हानं वा विद्यते । यत्र हि विक्रिया तद्विषयत्वं वा, तत्र हानोपादाने स्याताम् ; न तद्द्वयमिह ब्रह्मणि सम्भवति, विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च ; अतो न तत्र हानोपादाने सम्भवतः । चिन्ता यत्र न विद्यते, सर्वप्रकारैव चिन्ता न सम्भवति यत्र अमनस्त्वात् , कुतस्तत्र हानोपादाने इत्यर्थः । यदैव आत्मसत्यानुबोधो जातः, तदैव आत्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम् , अजाति जातिवर्जितम् , समतां गतम् परं साम्यमापन्नं भवति । यदादौ प्रतिज्ञातम् ‘अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्’ (मा. का. ३ । २) इति, इदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते — अजाति समतां गतमिति । एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत् , ‘यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः’ (बृ. उ. ३ । ८ । १०) इति श्रुतेः । प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः ॥

अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिणाम् ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९ ॥

यद्यपीदमित्थं परमार्थतत्त्वम् , अस्पर्शयोगो नाम अयं सर्वसम्बन्धाख्यस्पर्शवर्जितत्वात् अस्पर्शयोगो नाम वै स्मर्यते प्रसिद्ध उपनिषत्सु । दुःखेन दृश्यत इति दुर्दर्शः सर्वयोगिणाम् वेदान्तविज्ञानरहितानाम् ; आत्मसत्यानुबोधायासलभ्य एवेत्यर्थः । योगिनः बिभ्यति हि अस्मात्सर्वभयवर्जितादपि आत्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्ति, अभये अस्मिन् भयदर्शिनः भयनिमित्तात्मनाशदर्शनशीलाः अविवेकिनः इत्यर्थः ॥
मनसो निग्रहायत्तमभयं सर्वयोगिणाम् ।
दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४० ॥

येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत्कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते, तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या च अक्षया शान्तिः स्वभावत एव सिद्धा, नान्यायत्ता, ‘नोपचारः कथञ्चन’ (मा. का. ३ । ३६) इत्युक्तेः ; ये त्वतोऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्तमात्मसम्बन्धि पश्यन्ति, तेषामात्मसत्यानुबोधरहितानां मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् । किञ्च, दुःखक्षयोऽपि । न ह्यात्मसम्बन्धिनि मनसि प्रचलिते दुःखक्षयोऽस्त्यविवेकिनाम् । किञ्च, आत्मप्रबोधोऽपि मनोनिग्रहायत्त एव । तथा, अक्षयापि मोक्षाख्या शान्तिस्तेषां मनोनिग्रहायत्तैव ॥

उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना ।
मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ४१ ॥

मनोनिग्रहोऽपि तेषाम् उदधेः कुशाग्रेण एकबिन्दुना उत्सेचनेन शोषणव्यवसायवत् व्यवसायवतामनवसन्नान्तःकरणानामनिर्वेदात् अपरिखेदतः भवतीत्यर्थः ॥
उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥

किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रहे उपायः ? नेत्युच्यते ; अपरिखिन्नव्यवसायवान्सन् , वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयात् निरुन्ध्यादात्मन्येवेत्यर्थः । किञ्च, लीयतेऽस्मिन्निति सुषुप्तो लयः ; तस्मिन् लये च सुप्रसन्नम् आयासवर्जितमपीत्येतत् , निगृह्णीयादित्यनुवर्तते । सुप्रसन्नं चेत्कस्मान्निगृह्यत इति, उच्यते ; यस्मात् यथा कामः अनर्थहेतुः, तथा लयोऽपि ; अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यत्वमित्यर्थः ॥

दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥
कः स उपाय इति, उच्यते — सर्वं द्वैतमविद्याविजृम्भितं दुःखमेव इत्यनुस्मृत्य कामभोगात् कामनिमित्तो भोगः इच्छाविषयः तस्मात् विप्रसृतं मनो निवर्तयेत् वैराग्यभावनयेत्यर्थः । अजं ब्रह्म सर्वम् इत्येतच्छास्त्राचार्योपदेशतः अनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥
लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४ ॥

एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं सम्बोधयेत् मनः आत्मविवेकदर्शनेन योजयेत् । चित्तं मन इत्यनर्थान्तरम् । विक्षिप्तं च कामभोगेषु शमयेत्पुनः । एवं पुनः पुनरभ्यासतो लयात्सम्बोधितं विषयेभ्यश्च व्यावर्तितम् , नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् । ततोऽपि यत्नतः साम्यमापादयेत् । यदा तु समप्राप्तं भवति, समप्राप्त्यभिमुखीभवतीत्यर्थः ; ततः तत् न चालयेत् , विषयाभिमुखं न कुर्यादित्यर्थः ॥

नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ४५ ॥

समाधित्सतो योगिनो यत्सुखं जायते, तत् नास्वादयेत् तत्र न रज्येतेत्यर्थः । कथं तर्हि ? निःसङ्गः निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखम् , तदविद्यापरिकल्पितं मृषैवेति विभावयेत् ; ततोऽपि सुखरागान्निगृह्णीयादित्यर्थः । यदा पुनः सुखरागान्निवृत्तं निश्चलस्वभावं सत् निश्चरत् बहिर्निर्गच्छद्भवति चित्तम् , ततस्ततो नियम्य उक्तोपायेन आत्मन्येव एकीकुर्यात् प्रयत्नतः । चित्स्वरूपसत्तामात्रमेवापादयेदित्यर्थः ॥

यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥

यथोक्तेनोपायेन निगृहीतं चित्तं यदा सुषुप्ते न लीयते, न च पुनर्विषयेषु विक्षिप्यते ; अनिङ्गनम् अचलं निवातप्रदीपकल्पम् , अनाभासं न केनचित्कल्पितेन विषयभावेनावभासते इति ; यदा एवंलक्षणं चित्तम् , तदा निष्पन्नं ब्रह्म ; ब्रह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।
अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७ ॥
यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वात्मनि स्थितम् ; शान्तं सर्वानर्थोपशमरूपम् ; सनिर्वाणम् , निर्वृतिर्निर्वाणं कैवल्यम् , सह निर्वाणेन वर्तते ; तच्च अकथ्यं न शक्यते कथयितुम् , अत्यन्तासाधारणविषयत्वात् ; सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव ; न जातमिति अजम् , यथा विषयविषयम् ; अजेन अनुत्पन्नेन ज्ञेयेन अव्यतिरिक्तं सत् स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः ॥

न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८ ॥

सर्वोऽप्ययं मनोनिग्रहादिः मृल्लोहादिवत्सृष्टिरुपासना च उक्ता परमार्थस्वरूपप्रतिपत्त्युपायत्वेन, न परमार्थसत्येति । परमार्थसत्यं तु न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्पद्यते केनचिदपि प्रकारेण । अतः स्वभावतः अजस्य अस्य एकस्यात्मनः सम्भवः कारणं न विद्यते नास्ति । यस्मान्न विद्यतेऽस्य कारणम् , तस्मान्न कश्चिज्जायते जीव इत्येतत् । पूर्वेषूपायत्वेनोक्तानां सत्यानाम् एतत् उत्तमं सत्यं यस्मिन्सत्यस्वरूपे ब्रह्मणि अणुमात्रमपि किञ्चिन्न जायते इति ॥
इति तृतीयमद्वैतप्रकरणं सम्पूर्णम् ॥


अलातशान्तिप्रकरणम्

ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् ।
ज्ञेयाभिन्नेन सम्बुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥

ओङ्कारनिर्णयद्वारेण आगमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याच्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्य एतदुत्तमं सत्यमित्युपसंहारः कृतोऽन्ते । तस्यैतस्यागमार्थस्य अद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च । तेषां चान्योन्यविरोधाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् , क्लेशानास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनस्तुतये । तदिह विस्तरेणान्योन्यविरुद्धतया असम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेनाद्वैतदर्शनसिद्धिरुपसंहर्तव्या आवीतन्यायेनेत्यलातशान्तिप्रकरणमारभ्यते । तत्राद्वैतदर्शनसम्प्रदायकर्तुरद्वैतस्वरूपेणैव नमस्कारार्थोऽयमाद्यश्लोकः ।

आचार्यपूजा हि अभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे । आकाशेन ईषदसमाप्तमाकाशकल्पमाकाशतुल्यमित्येतत् । तेन आकाशकल्पेन ज्ञानेन । किम् ? धर्मानात्मनः । किंविशिष्टान् ? गगनोपमान् गगनमुपमा येषां ते गगनोपमाः, तानात्मनो धर्मान् । ज्ञानस्यैव पुनर्विशेषणम् — ज्ञेयैर्धर्मैरात्मभिरभिन्नम् अग्न्युष्णवत् सवितृप्रकाशवच्च यत् ज्ञानम् , तेन ज्ञेयाभिन्नेन ज्ञानेन आकाशकल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन, गगनोपमान्धर्मान्यः सम्बुद्धः सम्बुद्धवान्नित्यमेव ईश्वरो यो नारायणाख्यः, तं वन्दे अभिवादये । द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानम् , पुरुषोत्तममित्यभिप्रायः । उपदेष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्रकरणे प्रतिपिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति ॥

अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।
अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ २ ॥

अधुना अद्वैतदर्शनयोगस्य नमस्कारः तत्स्तुतये — स्पर्शनं स्पर्शः सम्बन्धो न विद्यते यस्य योगस्य केनचित्कदाचिदपि, सः अस्पर्शयोगः ब्रह्मस्वभाव एव वै नामेति ; ब्रह्मविदामस्पर्शयोग इत्येवं प्रसिद्ध इत्यर्थः । स च सर्वसत्त्वसुखो भवति । कश्चिदत्यन्तसुखसाधनविशिष्टोऽपि दुःखस्वरूपः, यथा तपः । अयं तु न तथा । किं तर्हि ? सर्वसत्त्वानां सुखः । तथा इह भवति कश्चिद्विषयोपभोगः सुखो न हितः ; अयं तु सुखो हितश्च, नित्यमप्रचलितस्वभावत्वात् । किं च अविवादः, विरुद्धं वदनं विवादः पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते सः अविवादः । कस्मात् ? यतः अविरुद्धश्च ; य ईदृशो योगः देशितः उपदिष्टः शास्त्रेण, तं नमाम्यहं प्रणमामीत्यर्थः ॥

भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि ।
अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३ ॥

कथं द्वैतिनः परस्परं विरुध्यन्त इति, उच्यते — भूतस्य विद्यमानस्य वस्तुनः जातिम् उत्पत्तिम् इच्छन्ति वादिनः केचिदेव हि साङ्ख्याः ; न सर्व एव द्वैतिनः । यस्मात् अभूतस्य अविद्यमानस्य अपरे वैशेषिका नैयायिकाश्च धीराः धीमन्तः, प्राज्ञाभिमानिन इत्यर्थः । विवदन्तः विरुद्धं वदन्तो हि अन्योन्यमिच्छन्ति जेतुमित्यभिप्रायः ॥
भूतं न जायते किञ्चिदभूतं नैव जायते ।
विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥
तैरेवं विरुद्धवदनेन अन्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवतीति, उच्यते — भूतं विद्यमानं वस्तु न जायते किञ्चिद्विद्यमानत्वादेव आत्मवत् इत्येवं वदन् असद्वादी साङ्ख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतम् अविद्यमानम् अविद्यमानत्वान्नैव जायते शशविषाणवत् इत्येवं वदन्साङ्ख्योऽपि असद्वादिपक्षमसज्जन्म प्रतिषेधति । विवदन्तः विरुद्धं वदन्तः अद्वयाः अद्वैतिनो ह्येते अन्योन्यस्य पक्षौ सदसतोर्जन्मनी प्रतिषेधन्तः अजातिम् अनुत्पत्तिमर्थात्ख्यापयन्ति प्रकाशयन्ति ते ॥
ख्याप्यमानामजातिं तैरनुमोदामहे वयम् ।
विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥
तैरेवं ख्यप्यमानामजातिम् एवमस्तु इति अनुमोदामहे केवलम् , न तैः सार्धं विवदामः पक्षप्रतिपक्षपरिग्रहेण ; यथा ते अन्योन्यमित्यभिप्रायः । अतः तम् अविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिः निबोधत हे शिष्याः ॥

अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६ ॥
सदसद्वादिनः सर्वे । अयं तु पुरस्तात्कृतभाष्यः श्लोकः ॥
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ७ ॥
स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यतात् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ८ ॥
उक्तार्थानां श्लोकानामिहोपन्यासः परवादिपक्षाणामन्योन्यविरोधख्यापितानुत्पत्त्यामोदनप्रदर्शनार्थः ॥
सांसिद्धिकी स्वाभाविकी सहजा अकृता च या ।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥
यस्माल्लौकिक्यपि प्रकृतिर्न विपर्येति, कासावित्याह — सम्यक्सिद्धिः संसिद्धिः, तत्र भवा सांसिद्धिकी ; यथा योगिनां सिद्धानामणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः, सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति । तथैव सा । स्वाभाविकी द्रव्यस्वभावत एव सिद्धा, यथा अग्न्यादीनामुष्णप्रकाशादिलक्षणा । सापि न कालान्तरे व्यभिचरति देशान्तरे वा, तथा सहजा आत्मना सहैव जाता, यथा पक्ष्यादीनामाकाशगमनादिलक्षणा । अन्यापि या काचित् अकृता केनचिन्न कृता, यथा अपां निम्नदेशगमनादिलक्षणा । अन्यापि या काचित्स्वभावं न जहाति, सा सर्वा प्रकृतिरिति विज्ञेया लोके । मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति ; किमुत अजस्वभावेषु परमार्थवस्तुषु ? अमृतत्वलक्षणा प्रकृतिर्नान्यथा भवेदित्यभिप्रायः ॥
जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः ।
जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥
किंविषया पुनः सा प्रकृतिः, यस्या अन्यथाभावो वादिभिः कल्प्यते ? कल्पनायां वा को दोष इत्याह जरामरणनिर्मुक्ताः जरामरणादिसर्वविक्रियावर्जिता इत्यर्थः । के ? सर्वे धर्माः सर्वे आत्मान इत्येतत् । स्वभावतः प्रकृतित एव । अत एवंस्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इवेच्छन्तः रज्ज्वामिव सर्पमात्मनि कल्पयन्तः च्यवन्ते, स्वभावतश्चलन्तीत्यर्थः । तन्मनीषया जरामरणचिन्तया तद्भावभावितत्वदोषेणेत्यर्थः ॥
कारणं यस्य वै कार्यं कारणं तस्य जायते ।
जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥
कथं सज्जातिवादिभिः साङ्ख्यैरनुपपन्नमुच्यते इति, आह वैशेषिकः — कारणं मृद्वदुपादानलक्षणं यस्य वादिनः वै कार्यम् , कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्यर्थः । तस्य अजमेव सत् प्रधानादि कारणं महदादिकार्यरूपेण जायत इत्यर्थः । महदाद्याकारेण चेज्जायमानं प्रधानम् , कथमजमुच्यते तैः ? विप्रतिषिद्धं चेदम् — जायते अजं चेति । नित्यं च तैरुच्यते । प्रधानं भिन्नं विदीर्णम् ; स्फुटितमेकदेशेन सत् कथं नित्यं भवेदित्यर्थः । न हि सावयवं घटादि एकदेशेन स्फुटनधर्मि नित्यं दृष्टं लोके इत्यर्थः । विदीर्णं च स्यादेकदेशेनाजं नित्यं चेत्येतत् विप्रतिषिद्धं तैरभिधीयत इत्यभिप्रायः ॥
कारणाद्यद्यनन्यत्वमतः कार्यमजं तव ।
जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥
उक्तस्यैवार्थस्य स्पष्टीकरणार्थमाह — कारणात् अजात् कार्यस्य यदि अनन्यत्वमिष्टं त्वया, ततः कार्यमप्यजमिति प्राप्तम् । इदं चान्यद्विप्रतिषिद्धं कार्यमजं चेति तव । किञ्चान्यत् , कार्यकारणयोरनन्यत्वे जायमानाद्धि वै कार्यात् कारणम् अनन्यन्नित्यं ध्रुवं च ते कथं भवेत् ? न हि कुक्कुट्या एकदेशः पच्यते, एकदेशः प्रसवाय कल्प्यते ॥

अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै ।
जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥

किञ्चान्यत् , यत् अजात् अनुत्पन्नाद्वस्तुनः जायते यस्य वादिनः कार्यम् , दृष्टान्तः तस्य नास्ति वै ; दृष्टान्ताभावे अर्थादजान्न किञ्चिज्जायते इति सिद्धं भवतीत्यर्थः । यदा पुनः जातात् जायमानस्य वस्तुनः अभ्युपगमः, तदपि अन्यस्माज्जातात्तदप्यन्यस्मादिति न व्यवस्था प्रसज्यते । अनवस्था स्यादित्यर्थः ॥
हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥
‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. ४ । ५ । १५) इति परमार्थतो द्वैताभावः श्रुत्योक्तः ; तमाश्रित्याह — हेतोः धर्मादेः आदिः कारणं देहादिसङ्घातः फलं येषां वादिनाम् ; तथा आदिः कारणं हेतुर्धर्मादिः फलस्य च देहादिसङ्घातस्य ; एवं हेतुफलयोरितरेतरकार्यकारणत्वेन आदिमत्त्वं ब्रुवद्भिः एवं हेतोः फलस्य च अनादित्वं कथं तैरुपवर्ण्यते विप्रतिषिद्धमित्यर्थः । न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मकता सम्भवति ॥

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५ ॥

कथं तैर्विरुद्धमभ्युपगम्यत इति, उच्यते — हेतुजन्यादेव फलात् हेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति, यथा पुत्राज्जन्म पितुः ॥
सम्भवे हेतुफलयोरेषितव्यः क्रमस्त्वया ।
युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६ ॥
यथोक्तो विरोधो न युक्तोऽभ्युपगन्तुमिति चेन्मन्यसे, सम्भवे उत्पत्तौ हेतुफलयोः क्रमः एषितव्यः अन्वेष्टव्यः त्वया — हेतुः पूर्वं पश्चात्फलं चेति । इतश्च युगपत्सम्भवे यस्माद्धेतुफलयोः कार्यकारणत्वेन असम्बन्धः, यथा युगपत्सम्भवतोः सव्येतरगोविषाणयोः ॥
फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति ।
अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥
कथमसम्बन्ध इत्याह — जन्यात्स्वतोऽलब्धात्मकात् फलात् उत्पद्यमानः सन् शशविषाणादेरिवासतो न हेतुः प्रसिध्यति जन्म न लभते । अलब्धात्मकः अप्रसिद्धः सन् शशविषाणादिकल्पः तव स कथं फलमुत्पादयिष्यति ? न हि इतरेतरापेक्षसिद्ध्योः शशविषाणकल्पयोः कार्यकारणभावेन सम्बन्धः क्वचिद्दृष्टः अन्यथा वेत्यभिप्रायः ॥
यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः ।
कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥
असम्बन्धतादोषेणापाकृतेऽपि हेतुफलयोः कार्यकारणभावे, यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया, कतरत्पूर्वनिष्पन्नं हेतुफलयोः ? यस्य पश्चाद्भाविनः सिद्धिः स्यात्पूर्वसिद्धापेक्षया, तद्ब्रूहीत्यर्थः ॥
अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः ।
एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९ ॥
अथ एतन्न शक्यते वक्तुमिति मन्यसे, सेयमशक्तिः अपरिज्ञानं तत्त्वाविवेकः, मूढतेत्यर्थः । अथ वा, योऽयं त्वयोक्तः क्रमः हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरिति इतरेतरानन्तर्यलक्षणः, तस्य कोपः विपर्यासोऽन्यथाभावः स्यादित्यभिप्रायः । एवं हेतुफलयोः कार्यकारणभावानुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता अन्योन्यपक्षदोषं ब्रुवद्भिर्वादिभिः बुद्धैः पण्डितैरित्यर्थः ॥

बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः ।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥

ननु हेतुफलयोः कार्यकारणभाव इत्यस्माभिरुक्तं शब्दमात्रमाश्रित्य च्छलमिदं त्वयोक्तम् — ‘पुत्राज्जन्म पितुर्यथा’ (मा. का. ४ । १५) ‘विषाणवच्चासम्बन्धः’ (मा. का. ४ । १६) इत्यादि । न ह्यस्माभिः असिद्धाद्धेतोः फलसिद्धिः, असिद्धाद्वा फलाद्धेतुसिद्धिरभ्युपगता । किं तर्हि ? बीजाङ्कुरवत्कार्यकारणभावोऽभ्युपगम्यत इति । अत्रोच्यते — बीजाङ्कुराख्यो दृष्टान्तो यः, स साध्येन समः तुल्यो ममेत्यभिप्रायः । ननु प्रत्यक्षः कार्यकारणभावो बीजाङ्कुरयोरनादिः ; न, पूर्वस्य पूर्वस्य अपरभावादादिमत्त्वाभ्युपगमात् । यथा इदानीमुत्पन्नोऽपरोऽङ्कुरो बीजादादिमान् बीजं चापरमन्यस्मादङ्कुरादिति क्रमेणोत्पन्नत्वादादिमत् । एवं पूर्वः पूर्वोऽङ्कुरो बीजं च पूर्वं पूर्वमादिमदेवेति प्रत्येकं सर्वस्य बीजाङ्कुरजातस्यादिमत्त्वात्कस्यचिदप्यनादित्वानुपपत्तिः । एवं हेतुफलयोः । अथ बीजाङ्कुरसन्ततेरनादिमत्त्वमिति चेत् ; न, एकत्वानुपपत्तेः ; न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुरसन्ततिर्नामैका अभ्युपगम्यते हेतुफलसन्ततिर्वा तदनादित्ववादिभिः । तस्मात्सूक्तम् ‘हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते’ इति । तथा च अन्यदप्यनुपपत्तेर्न च्छलमित्यभिप्रायः । न च लोके साध्यसमो हेतुः साध्यस्य सिद्धौ सिद्धिनिमित्तं युज्यते प्रयुज्यते प्रमाणकुशलैरित्यर्थः । हेतुरिति दृष्टान्तोऽत्रभिप्रेतः, गमकत्वात् ; प्रकृतो हि दृष्टान्तः, न हेतुरिति ॥

पूर्वापरापरिज्ञानमजातेः परिदीपकम् ।
जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ २१ ॥

कथं बुद्धैरजातिः परिदीपितेति, आह — यदेतत् हेतुफलयोः पूर्वापरापरिज्ञानम् , तच्चैतत् अजातेः परिदीपकम् अवबोधकमित्यर्थः । जायमानो हि चेद्धर्मो गृह्यते, कथं तस्मात्पूर्वं कारणं न गृह्यते ? अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम् , जन्यजनकयोः सम्बन्धस्यानपेतत्वात् ; तस्मादजातिपरिदीपकं तदित्यर्थः ॥
स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते ।
सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते ॥ २२ ॥
इतश्च न जायते किञ्चित् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सत् असत् सदसद्वा न जायते, न तस्य केनचिदपि प्रकारेण जन्म सम्भवति । न तावत्स्वयमेवापरिनिष्पन्नात्स्वतः स्वरूपात्स्वयमेव जायते, यथा घटस्तस्मादेव घटात् । नापि परतः अन्यस्मादन्यः, यथा घटात्पटः । तथा नोभयतः, विरोधात् , यथा घटपटाभ्यां घटः पटो वा न जायते । ननु मृदो घटो जायते पितुश्च पुत्रः ; सत्यम् , अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम् । तावेव तु शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते — किं सत्यमेव तौ, उत मृषा इति ; यावता परीक्ष्यमाणे शब्दप्रत्ययविषयं वस्तु घटपुत्रादिलक्षणं शब्दमात्रमेव तत् , ‘वाचारम्भणम्’ (छा. उ. ६ । ४ । ४) इति श्रुतेः । सच्चेत् न जायते, सत्त्वात् , मृत्पित्रादिवत् । यद्यसत् , तथापि न जायते, असत्त्वादेव, शशविषाणादिवत् । अथ सदसत् , तथापि न जायते विरुद्धस्यैकस्यासम्भवात् । अतो न किञ्चिद्वस्तु जायत इति सिद्धम् । येषां पुनर्जनिरेव जायत इति क्रियाकारकफलैकत्वमभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते दूरत एव न्यायापेताः । इदमित्थमित्यवधारणक्षणान्तरानवस्थानात् , अननुभूतस्य स्मृत्यनुपपत्तेश्च ॥

हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः ।
आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥

किञ्च, हेतुफलयोरनादित्वमभ्युपगच्छता त्वया बलाद्धेतुफलयोरजन्मैवाभ्युपगतं स्यात् । कथम् ? अनादेः आदिरहितात्फलात् हेतुः न जायते । न ह्यनुत्पन्नादनादेः फलाद्धेतोर्जन्मेष्यते त्वया, फलं चापि आदिरहितादनादेर्हेतोरजात्स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगम्यते । तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफलयोरजन्मैवाभ्युपगम्यते । यस्मात् आदिः कारणं न विद्यते यस्य लोके, तस्य ह्यादिः पूर्वोक्ता जातिर्न विद्यते । कारणवत एव ह्यादिरभ्युपगम्यते, न अकारणवतः ॥
प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः ।
सङ्क्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥

उक्तस्यैवार्थस्य दृढीकरणचिकीर्षया पुनराक्षिपति — प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिः, तस्याः सनिमित्तत्वम् , निमित्तं कारणं विषय इत्येतत् ; सनिमित्तत्वं सविषयत्वं स्वात्मव्यतिरिक्तविषयतेत्येतत् , प्रतिजानीमहे । न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिः स्यात् , तस्याः सनिमित्तत्वात् । अन्यथा निर्विषयत्वे शब्दस्पर्शनीलपीतलोहितादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतः नाशोऽभावः प्रसज्येतेत्यर्थः । न च प्रत्ययवैचित्र्यस्य द्वयस्याभावोऽस्ति, प्रत्यक्षत्वात् । अतः प्रत्ययवैचित्र्यस्य द्वयस्य दर्शनात् , परेषां तन्त्रं परतन्त्रमित्यन्यशास्त्रम् , तस्य परतन्त्रस्य परतन्त्राश्रयस्य बाह्यार्थस्य प्रज्ञानव्यतिरिक्तस्य अस्तिता मता अभिप्रेता । न हि प्रज्ञप्तेः प्रकाशमात्रस्वरूपाया नीलपीतादिबाह्यालम्बनवैचित्र्यमन्तरेण स्वभावभेदेनैतद्वैचित्र्यं सम्भवति । स्फटिकस्येव नीलाद्युपाध्याश्रयैर्विना वैचित्र्यं न घटत इत्यभिप्रायः । इतश्च परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तिता । सङ्क्लेशनं सङ्क्लेशः, दुःखमित्यर्थः । उपलभ्यते हि अग्निदाहादिनिमित्तं दुःखम् । यद्यग्न्यादिबाह्यं दाहादिनिमित्तं विज्ञानव्यतिरिक्तं न स्यात् , ततो दाहादिदुःखं नोपलभ्येत । उपलभ्यते तु । अतः तेन मन्यामहे अस्ति बाह्योऽर्थ इति । न हि विज्ञानमात्रे सङ्क्लेशो युक्तः, अन्यत्रादर्शनादित्यभिप्रायः ॥

प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ।
निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ २५ ॥

अत्रोच्यते — बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसङ्क्लेशोपलब्धियुक्तिदर्शनादिष्यते त्वया । स्थिरीभव तावत्त्वं युक्तिदर्शनं वस्तुनस्तथात्वाभ्युपगमे कारणमित्यत्र । ब्रूहि किं तत इति । उच्यते — निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य तव घटादेरनिमित्तत्वमनालम्बनत्वं वैचित्र्याहेतुत्वमिष्यतेऽस्माभिः । कथम् ? भूतदर्शनात् परमार्थदर्शनादित्येतत् । न हि घटो यथाभूतमृद्रूपदर्शने सति तद्व्यतिरेकेणास्ति, यथा अश्वान्महिषः, पटो वा तन्तुव्यतिरेकेण तन्तवश्चांशुव्यतिरेकेण इत्येवमुत्तरोत्तरभूतदर्शन आ शब्दप्रत्ययनिरोधान्नैव निमित्तमुपलभामहे इत्यर्थः । अथ वा, अभूतदर्शनाद्बाह्यार्थस्य अनिमित्तत्वमिष्यते रज्ज्वादाविव सर्पादेरित्यर्थः । भ्रान्तिदर्शनविषयत्वाच्च निमित्तस्यानिमित्तत्वं भवेत् ; तदभावे अभानात् । न हि सुषुप्तसमाहितमुक्तानां भ्रान्तिदर्शनाभावे आत्मव्यतिरिक्तो बाह्योऽर्थ उपलभ्यते । न ह्युन्मत्तावगतं वस्त्वनुन्मत्तैरपि तथाभूतं गम्यते । एतेन द्वयदर्शनं सङ्क्लेशोपलब्धिश्च प्रत्युक्ता ॥
चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च ।
अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६ ॥
यस्मान्नास्ति बाह्यं निमित्तम् , अतः चित्तं न स्पृशत्यर्थं बाह्यालम्बनविषयम् , नाप्यर्थाभासम् , चित्तत्वात् , स्वप्नचित्तवत् । अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यतः उक्तहेतुत्वाच्च । नाप्यर्थाभासश्चित्तात्पृथक् । चित्तमेव हि घटाद्यर्थवदवभासते यथा स्वप्ने ॥
निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥
ननु विपर्यासस्तर्हि असति घटादौ घटाद्याभासता चित्तस्य ; तथा च सति अविपर्यासः क्वचिद्वक्तव्य इति ; अत्रोच्यते — निमित्तं विषयम् अतीतानागतवर्तमानाध्वसु त्रिष्वपि सदा चित्तं न संस्पृशेदेव हि । यदि हि क्वचित्संस्पृशेत् , सः अविपर्यासः परमार्थ इत्यतस्तदपेक्षया असति घटे घटाभासता विपर्यासः स्यात् ; न तु तदस्ति कदाचिदपि चित्तस्यार्थसंस्पर्शनम् । तस्मात् अनिमित्तः विपर्यासः कथं तस्य चित्तस्य भविष्यति ? न कथञ्चिद्विपर्यासोऽस्तीत्यभिप्रायः । अयमेव हि स्वभावश्चित्तस्य, यदुत असति निमित्ते घटादौ तद्वदवभासनम् ॥
तस्मान्न जायते चित्तं चित्तदृश्यं न जायते ।
तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८ ॥

‘प्रज्ञप्तेः सनिमित्तत्वम्’ (मा. का. ४ । २५) इत्यादि एतदन्तं विज्ञानवादिनो बौद्धस्य वचनं बाह्यार्थवादिपक्षप्रतिषेधपरम् आचार्येणानुमोदितम् । तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदमुच्यते — तस्मादित्यादि । यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिना अभ्युपगता, तदनुमोदितमस्माभिरपि भूतदर्शनात् ; तस्मात्तस्यापि चित्तस्य जायमानावभासता असत्येव जन्मनि युक्ता भवितुमिति अतो न जायते चित्तम् । यथा चित्तदृश्यं न जायते अतस्तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः क्षणिकत्वदुःखित्वशून्यत्वानात्मत्वादि च ; तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् । अत इतरेभ्योऽपि द्वैतिभ्योऽत्यन्तसाहसिका इत्यर्थः । येऽपि शून्यवादिनः पश्यन्त एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते, ते ततोऽपि साहसिकतराः खं मुष्टिनापि जिघृक्षन्ति ॥
अजातं जायते यस्मादजातिः प्रकृतिस्ततः ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २९ ॥
उक्तैर्हेतुभिरजमेकं ब्रह्मेति सिद्धम् , यत्पुनरादौ प्रतिज्ञातम् , तत्फलोपसंहारार्थोऽयं श्लोकः — अजातं यच्चित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्यते, तत् अजातं जायते यस्मात् अजातिः प्रकृतिः तस्य ; ततः तस्मात् अजातरूपायाः प्रकृतेरन्यथाभावो जन्म न कथञ्चिद्भविष्यति ॥
अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ।
अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ३० ॥
अयं चापर आत्मनः संसारमोक्षयोः परमार्थसद्भाववादिनां दोष उच्यते — अनादेः अतीतकोटिरहितस्य संसारस्य अन्तवत्त्वं समाप्तिः न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति । न ह्यनादिः सन् अन्तवान्कश्चित्पदार्थो दृष्टो लोके । बीजाङ्कुरसम्बन्धनैरन्तर्यविच्छेदो दृष्ट इति चेत् ; न, एकवस्त्वभावेनापोदितत्वात् । तथा अनन्ततापि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्य आदिमतो न भविष्यति, घटादिष्वदर्शनात् । घटादिविनाशवदवस्तुत्वाददोष इति चेत् , तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः ; असत्त्वादेव शशविषाणस्येव आदिमत्त्वाभावश्च ॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१ ॥
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२ ॥
वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितौ ॥
सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् ।
संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३ ॥

‘निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात्’ (मा. का. ४ । २५) इत्ययमर्थः प्रपञ्च्यते एतैः श्लोकैः ॥
न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ ३४ ॥
जागरिते गत्यागमनकालौ नियतौ, देशः प्रमाणतो यः, तस्य अनियमात् नियमस्याभावात् स्वप्ने न देशान्तरगमनमित्यर्थः ॥
मित्राद्यैः सह संमन्त्र्य सम्बुद्धो न प्रपद्यते ।
गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो न पश्यति ॥ ३५ ॥
मित्राद्यैः सह संमन्त्र्य तदेव मन्त्रणं प्रतिबुद्धो न प्रपद्यते, गृहीतं च यत्किञ्चिद्धिरण्यादि न प्राप्नोति ; ततश्च न देशान्तरं गच्छति स्वप्ने ॥
स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् ।
यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ ३६ ॥
स्वप्ने च अटन्दृश्यते यः कायः, सः अवस्तुकः ततोऽन्यस्य स्वापदेशस्थस्य पृथक्कायान्तरस्य दर्शनात् । यथा स्वप्नदृश्यः कायः असन् , तथा सर्वं चित्तदृश्यम् अवस्तुकं जागरितेऽपि चित्तदृश्यत्वादित्यर्थः । स्वप्नसमत्वादसज्जागरितमपीति प्रकरणार्थः ॥

ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते ।
तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७ ॥

इतश्च असत्त्वं जाग्रद्वस्तुनः जागरितवत् जागरितस्येव ग्रहणात् ग्राह्यग्राहकरूपेण स्वप्नस्य, तज्जागरितं हेतुः अस्य स्वप्नस्य स स्वप्नः तद्धेतुः जागरितकार्यम् इष्यते । तद्धेतुत्वात् जागरितकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागरितम् , न त्वन्येषाम् ; यथा स्वप्न इत्यभिप्रायः । यथा स्वप्नः स्वप्नदृश एव सन् साधारणविद्यमानवस्तुवदवभासते, तथा तत्कारणत्वात्साधारणविद्यमानवस्तुवदवभासनम् , न तु साधारणं विद्यमानवस्तु स्वप्नवदेवेत्यभिप्रायः ॥
उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।
न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८ ॥
ननु स्वप्नकारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तुत्वम् । अत्यन्तचलो हि स्वप्नः जागरितं तु स्थिरं लक्ष्यते । सत्यमेवमविवेकिनां स्यात् । विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धः । अतः अप्रसिद्धत्वात् उत्पादस्य आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति । यदपि मन्यसे जागरितात्सतः असन्स्वप्नो जायत इति, तदसत् । न भूतात् विद्यमानात् अभूतस्य असतः सम्भवोऽस्ति लोके । न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपि ॥
असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।
असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९ ॥
ननु उक्तं त्वयैव स्वप्नो जागरितकार्यमिति ; तत्कथमुत्पादोऽप्रसिद्ध इति उच्यते ? शृणु तत्र यथा कार्यकारणभावोऽस्माभिरभिप्रेत इति । असत् अविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मयः स्वप्नेऽपि जागरितवत् ग्राह्यग्राहकरूपेण विकल्पयन्पश्यति, तथा असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति अविकल्पयन् , च – शब्दात् । तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचिदित्यर्थः । तस्माज्जागरितं स्वप्नहेतुरित्युच्यते, न तु परमार्थसदिति कृत्वा ॥
नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा ।
सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४० ॥
परमार्थतस्तु न कस्यचित्केनचिदपि प्रकारेण कार्यकारणभाव उपपद्यते । कथम् ? नास्ति असद्धेतुकम् असत् शशविषाणादि हेतुः कारणं यस्य असत एव खपुष्पादेः, तत् असद्धेतुकम् असत् न विद्यते । तथा सदपि घटादिवस्तु असद्धेतुकम् शशविषाणादिकार्यं नास्ति । तथा सच्च विद्यमानं घटादि वस्त्वन्तरकार्यं नास्ति । सत्कार्यम् असत् कुत एव सम्भवति ? न चान्यः कार्यकारणभावः सम्भवति शक्यो वा कल्पयितुम् । अतो विवेकिनामसिद्ध एव कार्यकारणभावः कस्यचिदित्यभिप्रायः ॥
विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् ।
तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ ४१ ॥
पुनरपि जाग्रत्स्वप्नयोरसतोरपि कार्यकारणभावाशङ्कामपनयन्नाह — विपर्यासात् अविवेकतः यथा जाग्रत् जागरिते अचिन्त्यान्भावान् अशक्यचिन्तनान् रज्जुसर्पादीन् भूतवत् परमार्थवत् स्पृशेत् ; स्पृशन्निव विकल्पयेदित्यर्थः, कश्चिद्यथा, तथा स्वप्ने विपर्यासात् हस्त्यादीन्पश्यन्निव विकल्पयति । तत्रैव पश्यति, न तु जागरितादुत्पद्यमानानित्यर्थः ॥
उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् ।
जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा ॥ ४२ ॥

यापि बुद्धैः अद्वैतवादिभिः जातिः देशिता उपदिष्टा, उपलम्भनमुपलम्भः, तस्मात् उपलब्धेरित्यर्थः । समाचारात् वर्णाश्रमादिधर्मसमाचरणाच्च ताभ्यां हेतुभ्याम् अस्तिवस्तुत्ववादिनाम् अस्ति वस्तुभाव इत्येवंवदनशीलानां दृढाग्रहवतां श्रद्दधानां मन्दविवेकिनामर्थोपायत्वेन सा देशिता जातिः तां गृह्णन्तु तावत् । वेदान्ताभ्यासिनां तु स्वयमेव अजाद्वयात्मविषयो विवेको भविष्यतीति ; न तु परमार्थबुद्ध्या । ते हि श्रोत्रियाः स्थूलबुद्धित्वात् अजातेः अजातिवस्तुनः सदा त्रस्यन्ति आत्मनाशं मन्यमाना अविवेकिन इत्यर्थः । ‘उपायः सोऽवताराय’ (मा. का. ३ । १५) इत्युक्तम् ॥

अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये ।
जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३ ॥

ये च एवमुपलम्भात्समाचाराच्च अजातेः अजातिवस्तुनः त्रसन्तः अस्ति वस्त्विति अद्वयादात्मनः, वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः । तेषाम् अजातेः त्रसतां श्रद्दधानानां सन्मार्गावलम्बिनां जातिदोषाः जात्युपलम्भकृता दोषाः न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवेकमार्गप्रवृत्तत्वात् । यद्यपि कश्चिद्दोषः स्यात् , सोऽप्यल्प एव भविष्यति, सम्यग्दर्शनाप्रतिपत्तिहेतुक इत्यर्थः ॥
उपलम्भात्समाचारान्मायाहस्ती यथोच्यते ।
उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४ ॥

ननु उपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति ; न, उपलम्भसमाचारयोर्व्यभिचारात् । कथं व्यभिचार इति, उच्यते — उपलभ्यते हि मायाहस्ती हस्तीव, हस्तिनमिवात्र समाचरन्ति बन्धनारोहणादिहस्तिसम्बन्धिभिर्धर्मैः, हस्तीति चोच्यते असन्नपि यथा, तथैव उपलम्भात्समाचारात् द्वैतं भेदरूपं अस्ति वस्तु इत्युच्यते । तस्मान्नोपलम्भसमाचारौ द्वैतवस्तुसद्भावे हेतू भवत इत्यभिप्रायः ॥
जात्याभासं चलाभासं वस्त्वाभासं तथैव च ।
अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥

किं पुनः परमार्थसद्वस्तु, यदास्पदा जात्याद्यसद्बुद्धय इत्याह — अजाति सत् जातिवदवभासत इति जात्याभासम् , तद्यथा देवदत्तो जायत इति । चलाभासं चलमिवाभासत इति, यथा स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि, तद्वदवभासत इति वस्त्वाभासम् , यथा स एव देवदत्तो गौरो दीर्घ इति । जायते देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते । परमार्थतस्तु अजमचलमवस्तुत्वमद्रव्यं च । किं तदेवंप्रकारम् ? विज्ञानं विज्ञप्तिः, जात्यादिरहितत्वाच्छान्तम् अत एव अद्वयं च तदित्यर्थः ॥

एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः ।
एवमेव विजानन्तो न पतन्ति विपर्यये ॥ ४६ ॥

एवं यथोक्तेभ्यो हेतुभ्यः न जायते चित्तम् । एवं धर्माः आत्मानः अजाः स्मृताः ब्रह्मविद्भिः । धर्मा इति बहुवचनं देहभेदानुविधायित्वादद्वयस्यैव उपचारतः । एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्मतत्त्वं विजानन्तः त्यक्तबाह्यैषणाः पुनर्न पतन्ति अविद्याध्वान्तसागरे विपर्यये ; ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्यादिमन्त्रवर्णात् ॥

ऋजुवक्रादिकाभासमलातस्पन्दितं यथा ।
ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७ ॥

यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाह — यथा हि लोके ऋजुवक्रादिप्रकाराभासम् अलातस्पन्दितम् उल्काचलनम् , तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः । किं तत् ? विज्ञानस्पन्दितं स्पन्दितमिव स्पन्दितमविद्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति, ‘अजाचलम्’ (मा. का. ४ । ४५) इति ह्युक्तम् ॥

अस्पन्दमानमलातमनाभासमजं यथा ।
अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४८ ॥

अस्पन्दमानं स्पन्दनवर्जितं तदेव अलातम् ऋज्वाद्याकारेणाजायमानम् अनाभासम् अजं यथा, तथा अविद्यया स्पन्दमानम् अविद्योपरमे अस्पन्दमानं जात्याद्याकारेण अनाभासम् अजम् अचलं भविष्यतीत्यर्थः ॥

अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निःस्पन्दान्नालातं प्रविशन्ति ते ॥ ४९ ॥

किं च, तस्मिन्नेव अलाते स्पन्दमाने ऋजुवक्राद्याभासाः अलातादन्यतः कुतश्चिदागत्यालाते नैव भवन्तीति नान्यतोभुवः । न च तस्मान्निःस्पन्दादलातादन्यत्र निर्गताः । न च निःस्पन्दमलातमेव प्रविशन्ति ते ॥

न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः ।
विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ५० ॥

किं च, न निर्गता अलातात् ते आभासाः गृहादिव, द्रव्यत्वाभावयोगतः, द्रव्यस्य भावो द्रव्यत्वम् , तदभावः द्रव्यत्वाभावः, द्रव्यत्वाभावयोगतः द्रव्यत्वाभावयुक्तेः वस्तुत्वाभावादित्यर्थः । वस्तुनो हि प्रवेशादि सम्भवति, नावस्तुनः । विज्ञानेऽपि जात्याद्याभासाः तथैव स्युः, आभासस्य अविशेषतः तुल्यत्वात् ॥

विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निःस्पन्दान्न विज्ञानं विशन्ति ते ॥ ५१ ॥
न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः ।
कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२ ॥

कथं तुल्यत्वमित्याह — अलातेन समानं सर्वं विज्ञानस्य ; सदा अचलत्वं तु विज्ञानस्य विशेषः । जात्याद्याभासा विज्ञाने अचले किङ्कृता इत्याह — कार्यकारणताभावात् जन्यजनकत्वानुपपत्तेरभावरूपत्वात् अचिन्त्याः ते यतः सदैव । यथा असत्सु ऋज्वाद्याभासेषु ऋज्वादिबुद्धिर्दृष्टा अलातमात्रे, तथा असत्स्वेव जात्यादिषु विज्ञानमात्रे जात्यादिबुद्धिर्मृषैवेति समुदायार्थः ॥

द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि ।
द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ५३ ॥

अजमेकमात्मतत्त्वमिति स्थितम् । तत्र यैरपि कार्यकारणभावः कल्प्यते, तेषां द्रव्यं द्रव्यस्यान्यस्यान्यत् हेतुः कारणं स्यात् , न तु तस्यैव तत् । नाप्यद्रव्यं कस्यचित्कारणं स्वतन्त्रं दृष्टं लोके । न च द्रव्यत्वं धर्माणाम् आत्मनाम् उपपद्यते अन्यत्वं वा कुतश्चित् , येन अन्यस्य कारणत्वं कार्यत्वं वा प्रतिपद्येत । अतः अद्रव्यत्वादनन्यत्वाच्च न कस्यचित्कार्यं कारणं वा आत्मेत्यर्थः ॥

एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् ।
एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४ ॥

एवं यथोक्तेभ्यो हेतुभ्यः आत्मविज्ञानस्वरूपमेव चित्तमिति, न चित्तजाः बाह्यधर्माः, नापि बाह्यधर्मजं चित्तम् , विज्ञानस्वरूपाभासमात्रत्वात्सर्वधर्माणाम् । एवं न हेतोः फलं जायते, नापि फलाद्धेतुरिति हेतुफलयोरजातिं हेतुफलाजातिं प्रविशन्ति अध्यवस्यन्ति । आत्मनि हेतुफलयोरभावमेव प्रतिपद्यन्ते ब्रह्मविद इत्यर्थः ॥

यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः ।
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५ ॥

ये पुनर्हेतुफलयोरभिनिविष्टाः, तेषां किं स्यादिति, उच्यते — धर्माधर्माख्यस्य हेतोः अहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे क्वचित्प्राणिनिकाये जातो भोक्ष्ये इति यावद्धेतुफलयोरावेशः हेतुफलाग्रह आत्मन्यध्यारोपणम् , तच्चित्ततेत्यर्थः ; तावद्धेतुफलयोरुद्भवः धर्माधर्मयोस्तत्फलस्य चानुच्छेदेन प्रवृत्तिरित्यर्थः । यदा पुनर्मन्त्रौषधिवीर्येणेव ग्रहावेशो यथोक्ताद्वैतदर्शनेन अविद्योद्भूतहेतुफलावेशोपनीतो भवति, तदा तस्मिन्क्षीणे नास्ति हेतुफलोद्भवः ॥

यावद्धेतुफलावेशः संसारस्तावदायतः ।
क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६ ॥

यदि हेतुफलोद्भवः, तदा को दोष इति, उच्यते — यावत् सम्यग्दर्शनेन हेतुफलावेशः न निवर्तते, अक्षीणः संसारः तावत् आयातः दीर्घो भवतीत्यर्थः । क्षीणे पुनः हेतुफलावेशे संसारं न प्रपद्यते, कारणाभावात् ॥

संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै ।
सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७ ॥

ननु अजादात्मनोऽन्यन्नास्त्येव ; तत्कथं हेतुफलयोः संसारस्य च उत्पत्तिविनाशावुच्येते त्वया ? शृणु ; संवृत्या संवरणं संवृतिः अविद्याविषयो लौकिकव्यवहारः ; तया संवृत्या जायते सर्वम् । तेन अविद्याविषये शाश्वतं नित्यं नास्ति वै । अतः उत्पत्तिविनाशलक्षणः संसारः आयत इत्युच्यते । परमार्थसद्भावेन तु अजं सर्वम् आत्मैव यस्मात् ; अतो जात्यभावात् उच्छेदः तेन नास्ति वै कस्यचिद्धेतुफलादेरित्यर्थः ॥

धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।
जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥

येऽप्यात्मानोऽन्ये च धर्मा जायन्त इति कल्प्यन्ते, ते इति एवंप्रकारा यथोक्ता संवृतिर्निर्दिश्यत इति संवृत्यैव धर्मा जायन्ते । न ते तत्त्वतः परमार्थतः जायन्ते । यत्पुनस्तत्संवृत्या जन्म तेषां धर्माणां यथोक्तानां यथा मायया जन्म तथा तत् मायोपमं प्रत्येतव्यम् । माया नाम वस्तु तर्हि ; नैवम् , सा च माया न विद्यते । मायेत्यविद्यमानस्याख्येत्यभिप्रायः ॥

यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः ।
नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥

कथं मायोपमं तेषां धर्माणां जन्मेति, आह — यथा मायामयात् आम्रादिबीजात् जायते तन्मयः मायामयः अङ्कुरः, नासावङ्कुरो नित्यः, न च उच्छेदी विनाशी वा । अभूतत्वादेव धर्मेषु जन्मनाशादियोजना युक्तिः, न तु परमार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः ॥

नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ।
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६० ॥

परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्रसत्ताकेषु शाश्वतः अशाश्वतः इति वा न अभिधा, नाभिधानं प्रवर्तत इत्यर्थः । यत्र येषु वर्ण्यन्ते यैरर्थाः, ते वर्णाः शब्दा न वर्तन्ते अभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः । इदमेवमिति विवेकः विविक्तता तत्र नित्योऽनित्य इति नोच्यते, ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इति श्रुतेः ॥

यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ ६१ ॥
अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ६२ ॥

यत्पुनर्वाग्गोचरत्वं परमार्थतः अद्वयस्य विज्ञानमात्रस्य, तन्मनसः स्पन्दनमात्रम् , न परमार्थतः इत्युक्तार्थौ श्लोकौ ॥

स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् ।
अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६३ ॥

इतश्च वाग्गोचरस्याभावो द्वैतस्य — स्वप्नान्पश्यतीति स्वप्नदृक् प्रचरन् पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान्प्राणिनः अण्डजान्स्वेदजान्वा यान् सदा पश्यतीति ॥

स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४ ॥

यद्येवम् , ततः किम् ? उच्यते — स्वप्नदृशश्चित्तं स्वप्नदृक्चित्तम् , तेन दृश्याः ते जीवाः ; ततः तस्मात् स्वप्नदृक्चित्तात् पृथक् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ह्यनेकजीवादिभेदाकारेण विकल्प्यते । तथा तदपि स्वप्नदृक्चित्तमिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् । अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्तीत्यर्थः ॥

चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् ।
अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६५ ॥
जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६ ॥

जाग्रतो दृश्या जीवाः तच्चित्ताव्यतिरिक्ताः, चित्तेक्षणीयत्वात् , स्वप्नदृक्चित्तेक्षणीयजीववत् । तच्च जीवेक्षणात्मकं चित्तं द्रष्टुरव्यतिरिक्तं द्रष्टृदृश्यत्वात् स्वप्नचित्तवत् । उक्तार्थमन्यत् ॥

उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति चोच्यते ।
लक्षणाशून्यमुभयं तन्मते नैव गृह्यते ॥ ६७ ॥

जीवचित्ते उभे चित्तचैत्त्ये ते अन्योन्यदृश्ये इतरेतरगम्ये । जीवादिविषयापेक्षं हि चित्तं नाम भवति । चित्तापेक्षं हि जीवादि दृश्यम् । अतस्ते अन्योन्यदृश्ये । तस्मान्न किञ्चिदस्तीति चोच्यते चित्तं वा चित्तेक्षणीयं वा । किं तदस्तीति विवेकिनोच्यते । न हि स्वप्ने हस्ती हस्तिचित्तं वा विद्यते ; तथा इहापि विवेकिनामित्यभिप्रायः । कथम् ? लक्षणाशून्यं लक्ष्यते अनयेति लक्षणा प्रमाणम् ; प्रमाणशून्यमुभयं चित्तं चैत्त्यं द्वयं यतः, तन्मतेनैव तच्चित्ततयैव तत् गृह्यते । न हि घटमतिं प्रत्याख्याय घटो गृह्यते, नापि घटं प्रत्याख्याय घटमतिः । न हि तत्र प्रमाणप्रमेयभेदः शक्यते कल्पयितुमित्यभिप्रायः ॥

यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८ ॥
यथा मायामयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥
यथा निर्मितको जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७० ॥

मायामयः मायाविना यः कृतो निर्मितकः मन्त्रौषध्यादिभिर्निष्पादितः । स्वप्नमायानिर्मितका अण्डजादयो जीवा यथा जायन्ते म्रियन्ते च, तथा मनुष्यादिलक्षणा अविद्यमाना एव चित्तविकल्पनामात्रा इत्यर्थः ॥

न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ७१ ॥

व्यवहारसत्यविषये जीवानां जन्ममरणादिः स्वप्नादिजीववदित्युक्तम् । उत्तमं तु परमार्थसत्यं न कश्चिज्जायते जीव इति । उक्तार्थमन्यत् ॥

चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम् ।
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२ ॥

सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयम् । चित्तं परमार्थत आत्मैवेति निर्विषयम् । तेन निर्विषयत्वेन नित्यम् असङ्गं कीर्तितम् । ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति श्रुतेः । सविषयस्य हि विषये सङ्गः । निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः ॥

योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ ।
परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३ ॥

ननु निर्विषयत्वेन चेदसङ्गत्वम् , चित्तस्य न निःसङ्गता भवति, यस्मात् शास्ता शास्त्रं शिष्यश्चेत्येवमादेर्विषयस्य विद्यमानत्वात् ; नैष दोषः । कस्मात् ? यः पदार्थः शास्त्रादिर्विद्यते, स कल्पितसंवृत्या । कल्पिता च सा परमार्थप्रतिपत्त्युपायत्वेन संवृतिश्च सा तया योऽस्ति परमार्थेन, नास्त्यसौ न विद्यते । ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इत्युक्तम् । यश्च परतन्त्राभिसंवृत्या परशास्त्रव्यवहारेण स्यात्पदार्थः, स परमार्थतो निरूप्यमाणो नास्त्येव । तेन युक्तमुक्तम् ‘असङ्गं तेन कीर्तितम्’ (मा. का. ४ । ७२) इति ॥

अजः कल्पितसंवृत्या परमार्थेन नाप्यजः ।
परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ॥ ७४ ॥

ननु शास्त्रादीनां संवृतित्वे अज इतीयमपि कल्पना संवृतिः स्यात् । सत्यमेवम् ; शास्त्रादिकल्पितसंवृत्यैव अज इत्युच्यते । परमार्थेन नाप्यजः, यस्मात् परतन्त्राभिनिष्पत्त्या परशास्त्रसिद्धिमपेक्ष्य यः अज इत्युक्तः, स संवृत्या जायते । अतः अज इतीयमपि कल्पना परमार्थविषये नैव क्रमत इत्यर्थः ॥

अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते ।
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५ ॥

यस्मादसद्विषयः, तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम् । अभिनिवेशः आग्रहमात्रम् । द्वयं तत्र न विद्यते मिथ्याभिनिवेशमात्रं च जन्मनः कारणं यस्मात् , तस्मात् द्वयाभावं बुद्ध्वा निर्निमित्तः निवृत्तमिथ्याद्वयाभिनिवेशः यः, सः न जायते ॥

यदा न लभते हेतूनुत्तमाधममध्यमान् ।
तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६ ॥

जात्याश्रमविहिता आशीर्वर्जितैरनुष्ठीयमाना धर्मा देवत्वादिप्राप्तिहेतव उत्तमाः केवलाश्च । धर्माः अधर्मव्यामिश्रामनुष्यत्वादिप्राप्त्यर्था मध्यमाः । तिर्यगादिप्राप्तिनिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्चाधमाः । तानुत्तममध्यमाधमानविद्यापरिकल्पितान् यदा एकमेवाद्वितीयमात्मतत्त्वं सर्वकल्पनावर्जितं जानन् न लभते न पश्यति, यथा बालैर्दृश्यमानं गगने मलं विवेकी न पश्यति, तद्वत् , तदा न जायते नोत्पद्यते चित्तं देवाद्याकारैः उत्तमाधममध्यमफलरूपेण । न ह्यसति हेतौ फलमुत्पद्यते बीजाद्यभाव इव सस्यादि ॥

अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया ।
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७ ॥

हेत्वभावे चित्तं नोत्पद्यत इति हि उक्तम् । सा पुनरनुत्पत्तिश्चित्तस्य कीदृशीत्युच्यते — परमार्थदर्शनेन निरस्तधर्माधर्माख्योत्पत्तिनिमित्तस्य अनिमित्तस्य चित्तस्येति या मोक्षाख्या अनुत्पत्तिः, सा सर्वदा सर्वावस्थासु समा निर्विशेषा अद्वया च ; पूर्वमपि अजातस्यैव अनुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्येत्यर्थः । यस्मात्प्रागपि विज्ञानात् चित्तं दृश्यं तद्द्वयं जन्म च, तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समा अद्वयैव अनुत्पत्तिः न पुनः कदाचिद्भवति, कदाचिद्वा न भवति । सर्वदा एकरूपैवेत्यर्थः ॥

बुद्ध्वानिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् ।
वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८ ॥

यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्य अभावादनिमित्ततां च सत्यां परमार्थरूपां बुद्ध्वा हेतुं धर्मादिकारणं देवादियोनिप्राप्तये पृथगनाप्नुवन् अनुपाददानः त्यक्तबाह्यैषणः सन् कामशोकादिवर्जितम् अविद्यादिरहितम् अभयं पदम् अश्नुते, पुनर्न जायत इत्यर्थः ॥

अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते ।
वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९ ॥

यस्मात् अभूताभिनिवेशात् असति द्वये द्वयास्तित्वनिश्चयः अभूताभिनिवेशः, तस्मात् अविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तत् चित्तं प्रवर्तते । तस्य द्वयस्य वस्तुनः अभावं यदा बुद्धवान् , तदा तस्मात् निःसङ्गं निरपेक्षं सत् विनिवर्तते अभूताभिनिवेशविषयात् ॥

निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः ।
विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८० ॥

निवृत्तस्य द्वैतविषयात् , विषयान्तरे च अप्रवृत्तस्य अभावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थितिः, यैषा ब्रह्मस्वरूपा स्थितिः चित्तस्य अद्वयविज्ञानैकरसघनलक्षणा । स हि यस्मात् विषयः गोचरः परमार्थदर्शिनां बुद्धानाम् , तस्मात् तत्साम्यं परं निर्विशेषमजमद्वयं च ॥

अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् ।
सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१ ॥

पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह — स्वयमेव तत् प्रभातं भवति न आदित्याद्यपेक्षम् ; स्वयं ज्योतिःस्वभावमित्यर्थः । सकृद्विभातः सदैव विभात इत्येतत् । एषः एवंलक्षणः आत्माख्यो धर्मः धातुस्वभावतः वस्तुस्वभावत इत्यर्थः ॥

सुखमाव्रियते नित्यं दुःखं विव्रियते सदा ।
यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥

एवं बहुश उच्यमानमपि परमार्थतत्त्वं कस्माल्लौकिकैर्न गृह्यत इत्युच्यते — यस्मात् यस्य कस्यचित् द्वयवस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिथ्याभिनिविष्टतया सुखमाव्रियते अनायासेन आच्छाद्यत इत्यर्थः । द्वयोपलब्धिनिमित्तं हि तत्रावरणं न यत्नान्तरमपेक्षते । दुःखं च विव्रियते प्रकटीक्रियते, परमार्थज्ञानस्य दुर्लभत्वात् । भगवानसौ आत्माद्वयो देव इत्यर्थः । अतो वेदान्तैराचार्यैश्च बहुश उच्यमानोऽपि नैव ज्ञातुं शक्य इत्यर्थः, ‘आश्चर्यो वक्ता कुशलोऽस्य लब्धा’ (क. उ. १ । २ । ७) इति श्रुतेः ॥

अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः ।
चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३ ॥

अस्ति नास्तीत्यादि सूक्ष्मविषया अपि पण्डितानां ग्रहाः भगवतः परमात्मन आवरणा एव ; किमुत मूढजनानां बुद्धिलक्षणा इत्येवमर्थं प्रदर्शयन्नाह — अस्तीति । अस्त्यात्मेति कश्चिद्वादी प्रतिपद्यते । नास्तीत्यपरो वैनाशिकः । अस्ति नास्तीत्यपरोऽर्धवैनाशिकः सदसद्वादी दिग्वासाः । नास्ति नास्तीत्यत्यन्तशून्यवादी । तत्रास्तिभावश्चलः, घटाद्यनित्यविलक्षणत्वात् । नास्तिभावः स्थिरः, सदाविशेषत्वात् । उभयं चलस्थिरविषयत्वात् सदसद्भावः । अभावोऽत्यन्ताभावः । प्रकारचतुष्टयस्यापि तैरेतैश्चलस्थिरोभयाभावैः सदसदादिवादी सर्वोऽपि भगवन्तमावृणोत्येव बालिशोऽविवेकी । यद्यपि पण्डितो बालिश एव परमार्थतत्त्वानवबोधात् , किमु स्वभावमूढो जन इत्यभिप्रायः ॥

कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः ।
भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ॥

कीदृक्पुनः परमार्थतत्त्वम् , यदवबोधादबालिशः पण्डितो भवतीत्याह — कोट्यः प्रावादुकशास्त्रनिर्णयान्ताः एताः उक्ता अस्ति नास्तीत्याद्याः चतस्रः, यासां कोटीनां ग्रहैः ग्रहणैः उपलब्धिनिश्चयैः सदा सर्वदा आवृतः आच्छादितः तेषामेव प्रावादुकानां यः, स भगवान् आभिः अस्ति नास्तीत्यादिकोटिभिः चतसृभिरपि अस्पृष्टः अस्त्यादिविकल्पनावर्जित इत्येतत् । येन मुनिना दृष्टो ज्ञातः वेदान्तेष्वौपनिषदः पुरुषः, स सर्वदृक् सर्वज्ञः ; परमार्थपण्डित इत्यर्थः ॥

प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् ।
अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५ ॥

प्राप्य एतां यथोक्तां कृत्स्नां समस्तां सर्वज्ञतां ब्राह्मण्यं पदम् ‘स ब्राह्मणः’ (बृ. उ. ३ । ८ । १०) ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४ । ४ । २३) इति श्रुतेः । अनापन्नादिमध्यान्तम् आदिमध्यान्ताः उत्पत्तिस्थितिलयाः अनापन्ना अप्राप्ता यस्य अद्वयस्य पदस्य न विद्यन्ते, तत् अनापन्नादिमध्यान्तं ब्राह्मण्यं पदम् । तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वम् ईहते चेष्टते, निष्प्रयोजनमित्यर्थः । ‘नैव तस्य कृतेनार्थः’ (भ. गी. ३ । १८) इत्यादिस्मृतेः ॥

विप्राणां विनयो ह्येष शमः प्राकृत उच्यते ।
दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ८६ ॥

विप्राणां ब्राह्मणानां विनयः विनीतत्वं स्वाभाविकं यदेतदात्मस्वरूपेणावस्थानम् । एष विनयः शमोऽप्येष एव प्राकृतः स्वाभाविकः अकृतकः उच्यते । दमोऽप्येष एव प्रकृतिदान्तत्वात् स्वभावत एव चोपशान्तरूपत्वाद्ब्रह्मणः । एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वान् शमम् उपशान्तिं स्वाभाविकीं ब्रह्मस्वरूपां व्रजेत् ब्रह्मस्वरूपेणावतिष्ठत इत्यर्थः ॥

सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते ।
अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७ ॥

एवमन्योन्यविरुद्धत्वात् संसारकारणरागद्वेषदोषास्पदानि प्रावादुकानां दर्शनानि । अतो मिथ्यादर्शनानि तानीति तद्युक्तिभिरेव दर्शयित्वा चतुष्कोटिवर्जितत्वात् रागादिदोषानास्पदं स्वभावशान्तमद्वैतदर्शनमेव सम्यग्दर्शनमित्युपसंहृतम् । अथेदानीं स्वप्रक्रियाप्रदर्शनार्थ आरम्भः — सवस्तु संवृतिसता वस्तुना सह वर्तत इति सवस्तु, तथा च उपलब्धिरुपलम्भः, तेन सह वर्तत इति सोपलम्भं च शास्त्रादिसर्वव्यवहारास्पदं ग्राह्यग्रहणलक्षणं द्वयं लोकादनपेतं लौकिकं जागरितमित्येतत् । एवंलक्षणं जागरितमिष्यते वेदान्तेषु । अवस्तु संवृतेरप्यभावात् । सोपलम्भं वस्तुवदुपलम्भनमुपलम्भः असत्यपि वस्तुनि, तेन सह वर्तत इति सोपलम्भं च । शुद्धं केवलं प्रविभक्तं जागरितात्स्थूलाल्लौकिकं सर्वप्राणिसाधारणत्वात् इष्यते स्वप्न इत्यर्थः ॥

अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् ।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८ ॥

अवस्त्वनुपलम्भं च ग्राह्यग्रहणवर्जितमित्येतत् ; लोकोत्तरम् , अत एव लोकातीतम् । ग्राह्यग्रहणविषयो हि लोकः, तदभावात् सर्वप्रवृत्तिबीजं सुषुप्तमित्येतत् । एवं स्मृतं सोपायं परमार्थतत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञायते, तत् ज्ञानं ज्ञेयम् एतान्येव त्रीणि, एतद्व्यतिरेकेण ज्ञेयानुपपत्तेः । सर्वप्रावादुककल्पितवस्तुनोऽत्रैवान्तर्भावात् ; विज्ञेयं यत्परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः ; सदा सर्वदैव, तल्लौकिकादि विज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मविद्भिः प्रकीर्तितम् ॥

ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ।
सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९ ॥

ज्ञाने च लौकिकादिविषये ज्ञेये च लौकिकादौ त्रिविधे, पूर्वं लौकिकं स्थूलम् ; तदभावेन पश्चाच्छुद्धं लौकिकम् , तदभावेन लोकोत्तरमित्येवं क्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्ये अद्वये अजे अभये विदिते, स्वयमेव आत्मस्वरूपमेव सर्वज्ञता सर्वश्चासौ ज्ञश्च सर्वज्ञः, तद्भावः सर्वज्ञता इह अस्मिन् लोके भवति महाधियः महाबुद्धेः । सर्वलोकातिशयवस्तुविषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति । सकृद्विदिते स्वरूपे व्यभिचाराभावादित्यर्थः । न हि परमार्थविदो ज्ञानिनः ज्ञानोद्भवाभिभवौ स्तः, यथा अन्येषां प्रावादुकानाम् ॥

हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः ।
तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९० ॥

लौकिकादीनां क्रमेण ज्ञेयत्वेन निर्देशादस्तित्वाशङ्का परमार्थतो मा भूदित्याह — हेयानि च लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तानि आत्मन्यसत्त्वेन रज्ज्वां सर्पवद्धातव्यानीत्यर्थः । ज्ञेयमिह चतुष्कोटिवर्जितं परमार्थतत्त्वम् । आप्यानि आप्तव्यानि त्यक्तबाह्यैषणात्रयेण भिक्षुणा पाण्डित्यबाल्यमौनाख्यानि साधनानि । पाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि । सर्वाण्येतानि हेयज्ञेयाप्यपाक्यानि विज्ञेयानि भिक्षुणा उपायत्वेनेत्यर्थः । अग्रयाणतः प्रथमतः । तेषां हेयादीनामन्यत्र विज्ञेयात्परमार्थसत्यं विज्ञेयं ब्रह्मैकं वर्जयित्वा । उपलम्भनमुपलम्भः अविद्याकल्पनामात्रम् । हेयाप्यपाक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिः न परमार्थसत्यता त्रयाणामित्यर्थः ॥

प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः ।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चन ॥ ९१ ॥

परमार्थतस्तु प्रकृत्या स्वभावतः आकाशवत् आकाशतुल्याः सूक्ष्मनिरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मानो ज्ञेया मुमुक्षुभिः अनादयः नित्याः । बहुवचनकृतभेदाशङ्कां निराकुर्वन्नाह — क्वचन क्वचिदपि किञ्चन किञ्चित् अणुमात्रमपि तेषां न विद्यते नानात्वमिति ॥

आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।
यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२ ॥

ज्ञेयतापि धर्माणां संवृत्यैव, न परमार्थत इत्याह — यस्मात् आदौ बुद्धाः आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपः सविता, एवं नित्यबोधस्वरूपा इत्यर्थः । सर्वे धर्माः सर्व आत्मानः । न च तेषां निश्चयः कर्तव्यः नित्यनिश्चितस्वरूपा इत्यर्थः । न सन्दिह्यमानस्वरूपा एवं नैवं वेति यस्य मुमुक्षोः एवं यथोक्तप्रकारेण सर्वदा बोधनिश्चयनिरपेक्षता आत्मार्थं परार्थं वा । यथा सविता नित्यं प्रकाशान्तरनिरपेक्षः स्वार्थं परार्थं वेत्येवं भवति क्षान्तिः बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि, सः अमृतत्वाय अमृतभावाय कल्पते, मोक्षाय समर्थो भवतीत्यर्थः ॥

आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः ।
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३ ॥

तथा नापि शान्तिकर्तव्यता आत्मनीत्याह — यस्मात् आदिशान्ताः नित्यमेव शान्ताः अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्ठूपरतस्वभावाः नित्यमुक्तस्वभावा इत्यर्थः । सर्वे धर्माः समाश्च अभिन्नाश्च समाभिन्नाः अजं साम्यं विशारदं विशुद्धमात्मतत्त्वं यस्मात् , तस्मात् शान्तिर्मोक्षो वा नास्ति कर्तव्य इत्यर्थः । न हि नित्यैकस्वभावस्य कृतं किञ्चिदर्थवत्स्यात् ॥

वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।
भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ९४ ॥

ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नाः, ते एव अकृपणा लोके ; कृपणास्त्वन्ये इत्याह — यस्मात् भेदनिम्नाः भेदानुयायिनः संसारानुगा इत्यर्थः । के ? पृथग्वादाः पृथक् नाना वस्तु इत्येवं वदनं येषां ते पृथग्वादाः द्वैतिन इत्यर्थः । तस्मात्ते कृपणाः क्षुद्राः स्मृताः, यस्मात् वैशारद्यं विशुद्धिः तन्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अविद्यापरिकल्पिते सर्वदा वर्तमानानामित्यर्थः । अतो युक्तमेव तेषां कार्पण्यमित्यभिप्रायः ॥

अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥

यदिदं परमार्थतत्त्वम् , अमहात्मभिरपण्डितैर्वेदान्तबहिःष्ठैः क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह — अजे साम्ये परमार्थतत्त्वे एवमेवेति ये केचित् स्त्र्यादयोऽपि सुनिश्चिता भविष्यन्ति चेत् , त एव हि लोके महाज्ञानाः निरतिशयतत्त्वविषयज्ञाना इत्यर्थः । तच्च तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिरन्यो लोको न गाहते नावतरति न विषयीकरोतीत्यर्थः । ‘सर्वभूतात्मभूतस्य समैकार्थं प्रपश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः । शकुनीनामिवाकाशे गतिर्नैवोपलभ्यते’ इत्यादिस्मरणात् ॥

अजेष्वजमसङ्क्रान्तं धर्मेषु ज्ञानमिष्यते ।
यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६ ॥

कथं महाज्ञानत्वमित्याह — अजेषु अनुत्पन्नेषु अचलेषु धर्मेषु आत्मसु अजमचलं च ज्ञानमिष्यते सवितरीव औष्ण्यं प्रकाशश्च यतः, तस्मात् असङ्क्रान्तम् अर्थान्तरे ज्ञानमजमिष्यते । यस्मान्न क्रमते अर्थान्तरे ज्ञानम् , तेन कारणेन असङ्गं तत् कीर्तितम् आकाशकल्पमित्युक्तम् ॥

अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः ।
असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ ९७ ॥

इतोऽन्येषां वादिनाम् अणुमात्रे अल्पेऽपि वैधर्म्ये वस्तुनि बहिरन्तर्वा जायमाने उत्पद्यमाने अविपश्चितः अविवेकिनः असङ्गता असङ्गत्वं सदा नास्ति ; किमुत वक्तव्यम् आवरणच्युतिः बन्धनाशो नास्तीति ॥

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८ ॥

तेषामावरणच्युतिर्नास्तीति ब्रुवतां स्वसिद्धान्ते अभ्युपगतं तर्हि धर्माणामावरणम् । नेत्युच्यते — अलब्धावरणाः अलब्धमप्राप्तमावरणम् अविद्यादिबन्धनं येषां ते धर्माः अलब्धावरणाः बन्धनरहिता इत्यर्थः । प्रकृतिनिर्मलाः स्वभावशुद्धाः आदौ बुद्धाः तथा मुक्ताः, यस्मात् नित्यशुद्धबुद्धमुक्तस्वभावाः । यद्येवं कथं तर्हि बुध्यन्त इत्युच्यते — नायकाः स्वामिनः समर्थाः बोद्धुं बोधशक्तिमत्स्वभावा इत्यर्थः । यथा नित्यप्रकाशस्वरूपोऽपि सन् सविता प्रकाशत इत्युच्यते, यथा वा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्यते, तद्वत् ॥

क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ।
सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९ ॥

यस्मात् न हि क्रमते बुद्धस्य परमार्थदर्शिनो ज्ञानं विषयान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा । तायिनः तायोऽस्यास्तीति तायी, सन्तानवतो निरन्तरस्य आकाशकल्पस्येत्यर्थः ; पूजावतो वा प्रज्ञावतो वा सर्वे धर्मा आत्मानोऽपि तथा ज्ञानवदेव आकाशकल्पत्वान्न क्रमन्ते क्वचिदप्यर्थान्तर इत्यर्थः । यदादावुपन्यस्तम् ‘ज्ञानेनाकाशकल्पेन’ (मा. का. ४ । १) इत्यादि, तदिदमाकाशकल्पस्य तायिनो बुद्धस्य तदनन्यत्वादाकाशकल्पं ज्ञानं न क्रमते क्वचिदप्यर्थान्तरे । तथा धर्मा इति आकाशमिव अचलमविक्रियं निरवयवं नित्यमद्वितीयमसङ्गमदृश्यमग्राह्यमशनायाद्यतीतं ब्रह्मात्मतत्त्वम् , ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः । ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् । यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना च अद्वयवस्तुसामीप्यमुक्तम् । इदं तु परमार्थतत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयमित्यर्थः ॥

दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् ।
बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १०० ॥

शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थं नमस्कार उच्यते — दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शम् । अस्ति नास्तीति चतुष्कोटिवर्जितत्वाद्दुर्विज्ञेयमित्यर्थः । अत एव अतिगम्भीरं दुष्प्रवेशं महासमुद्रवदकृतप्रज्ञैः । अजं साम्यं विशारदम् । ईदृक् पदम् अनानात्वं नानात्ववर्जितं बुद्ध्वा अवगम्य तद्भूताः सन्तः नमस्कुर्मः तस्मै पदाय । अव्यवहार्यमपि व्यवहारगोचरतामापाद्य यथाबलं यथाशक्तीत्यर्थः ॥

अजमपि जनियोगं प्रापदैश्वर्ययोगा –
दगति च गतिमत्तां प्रापदेकं ह्यनेकम् ।
विविधविषयधर्मग्राहि मुग्धेक्षणानां
प्रणतभयविहन्तृ ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥
प्रज्ञावैशाखवेधक्षुभितजलनिधेर्वेदनाम्नोऽन्तरस्थं
भूतान्यालोक्य मग्नान्यविरतजननग्राहघोरे समुद्रे ।
कारुण्यादुद्दधारामृतमिदममरैर्दुर्लभं भूतहेतो –
र्यस्तं पूज्याभिपूज्यं परमगुरुममुं पादपातैर्नतोऽस्मि ॥ २ ॥
यत्प्रज्ञालोकभासा प्रतिहतिमगमत्स्वान्तमोहान्धकारो
मज्जोन्मज्जच्च घोरे ह्यसकृदुपजनोदन्वति त्रासने मे ।
यत्पादावाश्रितानां श्रुतिशमविनयप्राप्तिरग्न्या ह्यमोघा
तत्पादौ पावनीयौ भवभयविनुदौ सर्वभावैर्नमस्ये ॥ ३ ॥

इति अलातशान्तिप्रकरणम् सम्पूर्णम् ॥

Categories: CIVIL, Sanskrit

Tagged as: ,