Sanskrit Documents

Mahabharata Stree Parva-11 in Sanskrit

महाभारत स्त्रीपर्वम् -11

विशोकपर्व

जनमेजय उवाच||

हते दुर्योधने चैव हते सैन्ये च सर्वशः |
धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ||१||

तथैव कौरवो राजा धर्मपुत्रो महामनाः |
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ||२||

अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः |
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ||३||

वैशम्पायन उवाच||

हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् |
पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ||४||

ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् |
अभिगम्य महाप्राज्ञः सञ्जयो वाक्यमब्रवीत् ||५||

किं शोचसि महाराज नास्ति शोके सहायता |
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते ||६||

निर्जनेयं वसुमती शून्या सम्प्रति केवला ||६||

नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः |
सहितास्तव पुत्रेण सर्वे वै निधनं गताः ||७||

पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा |
गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ||८||

वैशम्पायन उवाच||

तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः |
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ||९||

धृतराष्ट्र उवाच||

हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः |
दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ||१०||

किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै |
लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ||११||

हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा |
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ||१२||

न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः |
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ||१३||

सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम |
अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति ||१४||

तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः |
न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् ||१५||

दुर्योधनस्य च तथा वृषभस्येव नर्दतः |
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् ||१६||

द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ||१६||

न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् |
यस्येदं फलमद्येह मया मूढेन भुज्यते ||१७||

नूनं ह्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु |
येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ||१८||

परिणामश्च वयसः सर्वबन्धुक्षयश्च मे |
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ||१९||

कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह ||१९||

तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् |
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ||२०||

वैशम्पायन उवाच||

तस्य लालप्यमानस्य बहुशोकं विचिन्वतः |
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् ||२१||

शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः |
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ||२२||

सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा ||२२||

तथा यौवनजं दर्पमास्थिते ते सुते नृप |
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ||२३||

स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ||२३||

तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान् |
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ||२४||

शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् ||२४||

कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च |
न कृतं वचनं तेन तव पुत्रेण भारत ||२५||

न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन् |
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ||२६||

मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् |
धूर्धरेण त्वया भारस्तुलया न समं धृतः ||२७||

आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् |
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ||२८||

पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता |
पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि ||२९||

मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति |
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ||३०||

अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् |
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम् ||३१||

स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् |
दह्यमानो मनस्तापं भजते न स पण्डितः ||३२||

त्वयैव ससुतेनायं वाक्यवायुसमीरितः |
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ||३३||

तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः |
तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि ||३४||

यच्चाश्रुपातकलिलं वदनं वहसे नृप |
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ||३५||

विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् |
जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना ||३६||

एवमाश्वासितस्तेन सञ्जयेन महात्मना |
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ||३७||

वैशम्पायन उवाच||

ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् |
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ||१||

विदुर उवाच||

उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना |
स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः ||२||

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||३||

यदा शूरं च भीरुं च यमः कर्षति भारत |
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ||४||

अयुध्यमानो म्रियते युध्यमानश्च जीवति |
कालं प्राप्य महाराज न कश्चिदतिवर्तते ||५||

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि |
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ||६||

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः |
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ||७||

अदर्शनादापतिताः पुनश्चादर्शनं गताः |
न ते तव न तेषां त्वं तत्र का परिदेवना ||८||

हतोऽपि लभते स्वर्गं हत्वा च लभते यशः |
उभयं नो बहुगुणं नास्ति निष्फलता रणे ||९||

तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति |
इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ ||१०||

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया |
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ||११||

मातापितृसहस्राणि पुत्रदारशतानि च |
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ||१२||

शोकस्थानसहस्राणि भयस्थानशतानि च |
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||१३||

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम |
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ||१४||

अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः |
आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः ||१५||

न जानपदिकं दुःखमेकः शोचितुमर्हसि |
अप्यभावेन युज्येत तच्चास्य न निवर्तते ||१६||

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् |
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ||१७||

चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ||१७||

अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च |
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ||१८||

नार्थो न धर्मो न सुखं यदेतदनुशोचसि |
न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते ||१९||

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः |
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ||२०||

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः |
एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् ||२१||

शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति |
अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ||२२||

यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् |
तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते ||२३||

धृतराष्ट्र उवाच||

सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम |
भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ||१||

अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् |
कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः ||२||

विदुर उवाच||

यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते |
ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ||३||

अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ |
कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते ||४||

गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः |
कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् ||५||

यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः |
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ||६||

वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् |
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ||७||

कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत |
ततो वहति तं भारमवशः स्ववशोऽपि वा ||८||

यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते |
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा ||९||

छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा |
आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा ||१०||

अवतार्यमाणमापाकादुद्धृतं वापि भारत |
अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम् ||११||

गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः |
अर्धमासगतो वापि मासमात्रगतोऽपि वा ||१२||

संवत्सरगतो वापि द्विसंवत्सर एव वा |
यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते ||१३||

प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च |
एवं सांसिद्धिके लोके किमर्थमनुतप्यसे ||१४||

यथा च सलिले राजन्क्रीडार्थमनुसञ्चरन् |
उन्मज्जेच्च निमज्जेच्च किञ्चित्सत्त्वं नराधिप ||१५||

एवं संसारगहनादुन्मज्जननिमज्जनात् |
कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः ||१६||

ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः |
समागमज्ञा भूतानां ते यान्ति परमां गतिम् ||१७||

धृतराष्ट्र उवाच||

कथं संसारगहनं विज्ञेयं वदतां वर |
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ||१||

विदुर उवाच||

जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो |
पूर्वमेवेह कलले वसते किञ्चिदन्तरम् ||२||

ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत् |
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे प्रजायते ||३||

अमेध्यमध्ये वसति मांसशोणितलेपने |
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः ||४||

योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति |
योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः ||५||

तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् |
ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम् ||६||

ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा |
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ||७||

बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम् |
व्यसनान्युपवर्तन्ते विविधानि नराधिप ||८||

बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः ||८||

अयं न बुध्यते तावद्यमलोकमथागतम् |
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति ||९||

वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे |
भूय एवात्मनात्मानं बध्यमानमुपेक्षते ||१०||

अहो विनिकृतो लोको लोभेन च वशीकृतः |
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ||११||

कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन् |
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ||१२||

मूर्खानिति परानाह नात्मानं समवेक्षते |
शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ||१३||

अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् |
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ||१४||

एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते |
स प्रमोक्षाय लभते पन्थानं मनुजाधिप ||१५||

धृतराष्ट्र उवाच||

यदिदं धर्मगहनं बुद्ध्या समनुगम्यते |
एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे ||१||

विदुर उवाच||

अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे |
यथा संसारगहनं वदन्ति परमर्षयः ||२||

कश्चिन्महति संसारे वर्तमानो द्विजः किल |
वनं दुर्गमनुप्राप्तो महत्क्रव्यादसङ्कुलम् ||३||

सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः |
समन्तात्सम्परिक्षिप्तं मृत्योरपि भयप्रदम् ||४||

तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् |
अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परन्तप ||५||

स तद्वनं व्यनुसरन्विप्रधावनितस्ततः |
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति ||६||

स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः |
न च निर्याति वै दूरं न च तैर्विप्रयुज्यते ||७||

अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम् |
बाहुभ्यां सम्परिष्वक्तं स्त्रिया परमघोरया ||८||

पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः |
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् ||९||

वनमध्ये च तत्राभूदुदपानः समावृतः |
वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः ||१०||

पपात स द्विजस्तत्र निगूढे सलिलाशये |
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कटे ||११||

पनसस्य यथा जातं वृन्तबद्धं महाफलम् |
स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः ||१२||

अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः |
कूपवीनाहवेलायामपश्यत महागजम् ||१३||

षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् |
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् ||१४||

तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः |
नानारूपा मधुकरा घोररूपा भयावहाः ||१५||

आसते मधु सम्भृत्य पूर्वमेव निकेतजाः ||१५||

भूयो भूयः समीहन्ते मधूनि भरतर्षभ |
स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते ||१६||

तेषां मधूनां बहुधा धारा प्रस्रवते सदा |
तां लम्बमानः स पुमान्धारां पिबति सर्वदा ||१७||

न चास्य तृष्णा विरता पिबमानस्य सङ्कटे ||१७||

अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः |
न चास्य जीविते राजन्निर्वेदः समजायत ||१८||

तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता |
कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः ||१९||

व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया |
कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च ||२०||

वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम् |
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् ||२१||

एवं स वसते तत्र क्षिप्तः संसारसागरे |
न चैव जीविताशायां निर्वेदमुपगच्छति ||२२||

धृतराष्ट्र उवाच||

अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ |
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ||१||

स देशः क्व नु यत्रासौ वसते धर्मसङ्कटे |
कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ||२||

एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा |
कृपा मे महती जाता तस्याभ्युद्धरणेन हि ||३||

विदुर उवाच||

उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम् |
सुगतिं विन्दते येन परलोकेषु मानवः ||४||

यत्तदुच्यति कान्तारं महत्संसार एव सः |
वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् ||५||

ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः |
या सा नारी बृहत्काया अधितिष्ठति तत्र वै ||६||

तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् ||६||

यस्तत्र कूपो नृपते स तु देहः शरीरिणाम् |
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ||७||

अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ ||७||

कूपमध्ये च या जाता वल्ली यत्र स मानवः |
प्रताने लम्बते सा तु जीविताशा शरीरिणाम् ||८||

स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति |
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ||९||

मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः ||९||

ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः |
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ||१०||

ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ||१०||

यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् |
तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः ||११||

एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः |
ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः ||१२||

धृतराष्ट्र उवाच||

अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना |
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ||१||

विदुर उवाच||

शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् |
यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः ||२||

यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः |
क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा ||३||

एवं संसारपर्याये गर्भवासेषु भारत |
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ||४||

तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः |
यत्तु संसारगहनं वनमाहुर्मनीषिणः ||५||

सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ |
चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः ||६||

शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः |
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः ||७||

क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत |
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ||८||

अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप |
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ||९||

शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि |
मज्जमानं महापङ्के निरालम्बे समन्ततः ||१०||

संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः |
क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च ||११||

एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः |
अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा ||१२||

रथं शरीरं भूतानां सत्त्वमाहुस्तु सारथिम् |
इन्द्रियाणि हयानाहुः कर्म बुद्धिश्च रश्मयः ||१३||

तेषां हयानां यो वेगं धावतामनुधावति |
स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ||१४||

यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते |
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः ||१५||

स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप |
राज्यनाशं सुहृन्नाशं सुतनाशं च भारत ||१६||

अनुतर्षुलमेवैतद्दुःखं भवति भारत |
साधुः परमदुःखानां दुःखभैषज्यमाचरेत् ||१७||

न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः |
तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः ||१८||

तस्मान्मैत्रं समास्थाय शीलमापद्य भारत |
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ||१९||

शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे |
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ||२०||

वैशम्पायन उवाच||

विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः |
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ||१||

तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः |
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ||२||

सञ्जयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः |
जलेन सुखशीतेन तालवृन्तैश्च भारत ||३||

पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः |
अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ||४||

अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः |
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ||५||

धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् |
यतोमूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः ||६||

पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि |
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ||७||

येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति |
येनाभिभूतः पुरुषो मरणं बहु मन्यते ||८||

तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् |
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ||९||

इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् |
धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः ||१०||

अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते ||१०||

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः |
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् ||११||

धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु |
श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ||१२||

न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप |
अनित्यतां हि मर्त्यानां विजानासि न संशयः ||१३||

अध्रुवे जीवलोके च स्थाने वाशाश्वते सति |
जीविते मरणान्ते च कस्माच्छोचसि भारत ||१४||

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः |
पुत्रं ते कारणं कृत्वा कालयोगेन कारितः ||१५||

अवश्यं भवितव्ये च कुरूणां वैशसे नृप |
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ||१६||

जानता च महाबाहो विदुरेण महात्मना |
यतितं सर्वयत्नेन शमं प्रति जनेश्वर ||१७||

न च दैवकृतो मार्गः शक्यो भूतेन केनचित् |
घटतापि चिरं कालं नियन्तुमिति मे मतिः ||१८||

देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् |
तत्तेऽहं सम्प्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ||१९||

पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः |
अपश्यं तत्र च तदा समवेतान्दिवौकसः ||२०||

नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ||२०||

तत्र चापि मया दृष्टा पृथिवी पृथिवीपते |
कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः ||२१||

उपगम्य तदा धात्री देवानाह समागतान् |
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ||२२||

प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ||२२||

तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः |
उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ||२३||

धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै |
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ||२४||

तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ||२४||

तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः |
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ||२५||

ततस्ते भविता देवि भारस्य युधि नाशनम् |
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ||२६||

स एष ते सुतो राजँल्लोकसंहारकारणात् |
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ||२७||

अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः |
दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ||२८||

शकुनिर्मातुलश्चैव कर्णश्च परमः सखा |
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ||२९||

एतमर्थं महाबाहो नारदो वेद तत्त्वतः ||२९||

आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते |
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ||३०||

न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत |
पुत्रास्तव दुरात्मानो यैरियं घातिता मही ||३१||

नारदेन च भद्रं ते पूर्वमेव न संशयः |
युधिष्ठिरस्य समितौ राजसूये निवेदितम् ||३२||

पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् |
न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ||३३||

नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः |
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ||३४||

कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो |
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ||३५||

एष चार्थो महाबाहो पूर्वमेव मया श्रुतः |
कथितो धर्मराजस्य राजसूये क्रतूत्तमे ||३६||

यतितं धर्मपुत्रेण मया गुह्ये निवेदिते |
अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ||३७||

अनतिक्रमणीयो हि विधी राजन्कथञ्चन |
कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च ||३८||

भवान्कर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत |
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ||३९||

त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः |
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ||४०||

कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि |
स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति ||४१||

मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् |
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ||४२||

एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति |
धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ||४३||

पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा |
प्रज्ञाम्भसा महाराज निर्वापय सदा सदा ||४४||

एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः |
मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत ||४५||

महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम |
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ||४६||

इदं तु वचनं श्रुत्वा तव दैवनियोगजम् |
धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ||४७||

एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः |
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ||४८||
स्त्रीपर्व

जनमेजय उवाच||

गते भगवति व्यासे धृतराष्ट्रो महीपतिः |
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ||१||

वैशम्पायन उवाच||

एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः |
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत ||२||

क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः |
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ||३||

एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् |
शोकविप्रहतज्ञानो यानमेवान्वपद्यत ||४||

गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता |
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ||५||

ताः समासाद्य राजानं भृशं शोकसमन्विताः |
आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः ||६||

ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् |
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ||७||

ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु |
आकुमारं पुरं सर्वमभवच्छोककर्शितम् ||८||

अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि |
पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः ||९||

प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च |
एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ||१०||

श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन् |
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ||११||

तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः |
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने ||१२||

प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि |
दर्शयन्तीव ता ह स्म युगान्ते लोकसङ्क्षयम् ||१३||

विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः |
शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे ||१४||

व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः |
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ||१५||

परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः |
ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् ||१६||

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः |
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ||१७||

शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः |
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ||१८||

तासां विक्रोशमानानामार्तानां कुरुसङ्क्षये |
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ||१९||

युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव |
अभावः स्यादयं प्राप्त इति भूतानि मेनिरे ||२०||

भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये |
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ||२१||
१०
वैशम्पायन उवाच||

क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् |
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ||१||

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् |
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ||२||

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् |
गतः सानुचरो राजञ्शक्रलोकं महीपतिः ||३||

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः |
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ||४||

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा |
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् ||५||

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् |
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ||६||

ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् |
भास्वरं देहमास्थाय विहरन्त्यमरा इव ||७||

न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः |
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ||८||

एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् |
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि ||९||

न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः |
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ||१०||

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् |
सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् ||११||

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः |
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ||१२||

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते |
प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः ||१३||

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः |
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ||१४||

निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः |
निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ||१५||

पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे |
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ||१६||

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् |
निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ||१७||

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् |
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ||१८||

अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् |
गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन् ||१९||

अपक्रम्य तु ते राजन्सर्व एव महारथाः |
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः ||२०||

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा |
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ||२१||

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् |
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ||२२||

समेत्य वीरा राजानं तदा त्वनुदिते रवौ |
विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः ||२३||
अयोभीमभञ्जनम्
११
वैशम्पायन उवाच||

हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः |
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् ||१||

सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् |
शोचमानो महाराज भ्रातृभिः सहितस्तदा ||२||

अन्वीयमानो वीरेण दाशार्हेण महात्मना |
युयुधानेन च तथा तथैव च युयुत्सुना ||३||

तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता |
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ||४||

स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम |
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह ||५||

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः |
ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये ||६||

क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता |
यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि ||७||

घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् |
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् ||८||

किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः |
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ||९||

अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव |
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ||१०||

ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः |
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ||११||

तमात्मजान्तकरणं पिता पुत्रवधार्दितः |
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ||१२||

धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत |
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ||१३||

स कोपपावकस्तस्य शोकवायुसमीरितः |
भीमसेनमयं दावं दिधक्षुरिव दृश्यते ||१४||

तस्य सङ्कल्पमाज्ञाय भीमं प्रत्यशुभं हरिः |
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ||१५||

प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः |
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ||१६||

तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम् |
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ||१७||

नागायुतबलप्राणः स राजा भीममायसम् |
भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ||१८||

ततः पपात मेदिन्यां तथैव रुधिरोक्षितः |
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ||१९||

पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा |
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ||२०||

स तु कोपं समुत्सृज्य गतमन्युर्महामनाः |
हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः ||२१||

तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् |
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ||२२||

मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः |
आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता ||२३||

त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ |
मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ||२४||

न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन |
कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः ||२५||

यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते |
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ||२६||

तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी |
भीमस्य सेयं कौरव्य तवैवोपहृता मया ||२७||

पुत्रशोकाभिसन्तापाद्धर्मादपहृतं मनः |
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ||२८||

न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् |
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन ||२९||

तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति |
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः ||३०||
१२
वैशम्पायन उवाच||

तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः |
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः ||१||

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च |
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ||२||

एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा |
पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव ||३||

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते |
देशकालविभागं च परं श्रेयः स विन्दति ||४||

उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते |
आपदं समनुप्राप्य स शोचत्यनये स्थितः ||५||

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत |
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ||६||

आत्मापराधादायस्तस्तत्किं भीमं जिघांससि |
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ||७||

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् |
स हतो भीमसेनेन वैरं प्रतिचिकीर्षता ||८||

आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः |
यदनागसि पाण्डूनां परित्यागः परन्तप ||९||

एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप |
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ||१०||

एवमेतन्महाबाहो यथा वदसि माधव |
पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत् ||११||

दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः |
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ||१२||

इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः |
मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव ||१३||

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च |
पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते ||१४||

ततः स भीमं च धनञ्जयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |
पस्पर्श गात्रैः प्ररुदन्सुगात्रा; नाश्वास्य कल्याणमुवाच चैनान् ||१५||
१३
वैशम्पायन उवाच||

धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः |
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ||१||

ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् |
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ||२||

तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति |
ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ||३||

स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि |
तं देशमुपसम्पेदे परमर्षिर्मनोजवः ||४||

दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च |
सर्वप्राणभृतां भावं स तत्र समबुध्यत ||५||

स स्नुषामब्रवीत्काले कल्यवादी महातपाः |
शापकालमवाक्षिप्य शमकालमुदीरयन् ||६||

न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि |
रजो निगृह्यतामेतच्छृणु चेदं वचो मम ||७||

उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता |
शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः ||८||

सा तथा याच्यमाना त्वं काले काले जयैषिणा |
उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ||९||

न चाप्यतीतां गान्धारि वाचं ते वितथामहम् |
स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि ||१०||

सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि |
कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ||११||

गान्धार्युवाच||

भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः |
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ||१२||

यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया |
यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया ||१३||

दुर्योधनापराधेन शकुनेः सौबलस्य च |
कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसङ्क्षयः ||१४||

नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः |
नकुलः सहदेवो वा नैव जातु युधिष्ठिरः ||१५||

युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् |
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ||१६||

यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः |
दुर्योधनं समाहूय गदायुद्धे महामनाः ||१७||

शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे |
अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् ||१८||

कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः |
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चन ||१९||
१४
वैशम्पायन उवाच||

तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् |
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ||१||

अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः |
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ||२||

न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः |
शक्यः केनचिदुद्यन्तुमतो विषममाचरम् ||३||

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् |
मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया ||४||

राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् |
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ||५||

सुयोधनमसङ्गृह्य न शक्या भूः ससागरा |
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ||६||

तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् |
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ||७||

तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः |
धर्मराजाज्ञया चैव स्थिताः स्म समये तदा ||८||

वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् |
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ||९||

वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे |
राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः ||१०||

गान्धार्युवाच||

न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् |
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ||११||

हताश्वे नकुले यत्तद्वृषसेनेन भारत |
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ||१२||

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् |
क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर ||१३||

भीमसेन उवाच||

अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् |
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ||१४||

रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः |
वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ ||१५||

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे |
भ्रातॄणां सम्प्रहृष्टानां त्रासः सञ्जनितो मया ||१६||

केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते |
क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते ||१७||

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शास्वतीः समाः |
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ||१८||

न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् |
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु ||१९||

गान्धार्युवाच||

वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः |
कस्मान्न शेषयः कञ्चिद्येनाल्पमपराधितम् ||२०||

सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः |
कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता ||२१||

शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि |
न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः ||२२||
१५
वैशम्पायन उवाच||

एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत |
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ||१||

तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः |
युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत् ||२||

पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः |
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ||३||

न हि मे जीवितेनार्थो न राज्येन धनेन वा |
तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः ||४||

तमेवंवादिनं भीतं संनिकर्षगतं तदा |
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा भृशम् ||५||

तस्यावनतदेहस्य पादयोर्निपतिष्यतः |
युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी ||६||

अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ||६||

ततः स कुनकीभूतो दर्शनीयनखो नृपः |
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः ||७||

एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत |
गान्धारी विगतक्रोधा सान्त्वयामास मातृवत् ||८||

तया ते समनुज्ञाता मातरं वीरमातरम् |
अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः ||९||

चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता |
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् ||१०||

ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा |
अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान् ||११||

सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः |
अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् ||१२||

रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि ||१२||

द्रौपद्युवाच||

आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः |
न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् ||१३||

किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम ||१३||

वैशम्पायन उवाच||

तां समाश्वासयामास पृथा पृथुललोचना |
उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् ||१४||

तयैव सहिता चापि पुत्रैरनुगता पृथा |
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् ||१५||

तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् |
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् ||१६||

मन्ये लोकविनाशोऽयं कालपर्यायचोदितः |
अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः ||१७||

इदं तत्समनुप्राप्तं विदुरस्य वचो महत् |
असिद्धानुनये कृष्णे यदुवाच महामतिः ||१८||

तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः |
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः ||१९||

यथैव त्वं तथैवाहं को वा माश्वासयिष्यति |
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ||२०||
१६
वैशम्पायन उवाच||

एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् |
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ||१||

पतिव्रता महाभागा समानव्रतचारिणी |
उग्रेण तपसा युक्ता सततं सत्यवादिनी ||२||

वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः |
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् ||३||

ददर्श सा बुद्धिमती दूरादपि यथान्तिके |
रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् ||४||

अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् |
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ||५||

गजाश्वरथयोधानामावृतं रुधिराविलैः |
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ||६||

गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् |
सृगालबडकाकोलकङ्ककाकनिषेवितम् ||७||

रक्षसां पुरुषादानां मोदनं कुरराकुलम् |
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ||८||

ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः |
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ||९||

वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् |
कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति ||१०||

समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः |
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ||११||

क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः |
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः ||१२||

रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः |
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे ||१३||

अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः |
शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि ||१४||

श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना |
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ||१५||

दुःखोपहतचित्ताभिः समन्तादनुनादितम् |
दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा ||१६||

ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् |
कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत् ||१७||

पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः |
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ||१८||

अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् |
पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् ||१९||

वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् |
क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् ||२०||

शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः |
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ||२१||

काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् |
अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम् ||२२||

वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि |
खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः ||२३||

क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् |
क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् ||२४||

एतदेवंविधं वीर सम्पश्यायोधनं विभो |
पश्यमाना च दह्यामि शोकेनाहं जनार्दन ||२५||

पाञ्चालानां कुरूणां च विनाशं मधुसूदन |
पञ्चानामिव भूतानां नाहं वधमचिन्तयम् ||२६||

तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् |
निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः ||२७||

जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः |
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ||२८||

अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन |
गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् ||२९||

अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् |
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ||३०||

शयनान्युचिताः सर्वे मृदूनि विमलानि च |
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ||३१||

बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः |
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ||३२||

ये पुरा शेरते वीराः शयनेषु यशस्विनः |
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ||३३||

तेषामाभरणान्येते गृध्रगोमायुवायसाः |
आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः ||३४||

चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः |
युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति ||३५||

सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः |
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ||३६||

अपरे पुनरालिङ्ग्य गदाः परिघबाहवः |
शेरतेऽभिमुखाः शूरा दयिता इव योषितः ||३७||

बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च |
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन ||३८||

क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् |
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ||३९||

एते गोमायवो भीमा निहतानां यशस्विनाम् |
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ||४०||

सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः |
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ||४१||

तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः |
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ||४२||

रक्तोत्पलवनानीव विभान्ति रुचिराणि वै |
मुखानि परमस्त्रीणां परिशुष्काणि केशव ||४३||

रुदितोपरता ह्येता ध्यायन्त्यः सम्परिप्लुताः |
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः ||४४||

एतान्यादित्यवर्णानि तपनीयनिभानि च |
रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् ||४५||

आसामपरिपूर्णार्थं निशम्य परिदेवितम् |
इतरेतरसङ्क्रन्दान्न विजानन्ति योषितः ||४६||

एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च |
विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ||४७||

बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च |
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः ||४८||

शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः |
इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी ||४९||

विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः |
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ||५०||

शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः |
अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः ||५१||

बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् |
संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः ||५२||

उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः |
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ||५३||

पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन |
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः ||५४||

बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः |
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा ||५५||

न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः |
भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुन्धराम् ||५६||

यूथानीव किशोरीणां सुकेशीनां जनार्दन |
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ||५७||

अतो दुःखतरं किं नु केशव प्रतिभाति मे |
यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः ||५८||

नूनमाचरितं पापं मया पूर्वेषु जन्मसु |
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव ||५९||

एवमार्ता विलपती ददर्श निहतं सुतम् ||५९||
१७
वैशम्पायन उवाच||

ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता |
सहसा न्यपतद्भूमौ छिन्नेव कदली वने ||१||

सा तु लब्ध्वा पुनः सञ्ज्ञां विक्रुश्य च पुनः पुनः |
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ||२||

परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् |
हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया ||३||

सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् |
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ||४||

समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ||४||

उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां सङ्क्षये विभो |
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ||५||

अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ||५||

इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् |
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ||६||

यथा न युध्यमानस्त्वं सम्प्रमुह्यसि पुत्रक |
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो ||७||

इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो |
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ||८||

अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् |
शयानं वीरशयने पश्य माधव मे सुतम् ||९||

योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः |
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ||१०||

ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः |
तथा ह्यभिमुखः शेते शयने वीरसेविते ||११||

यं पुरा पर्युपासीना रमयन्ति महीक्षितः |
महीतलस्थं निहतं गृध्रास्तं पर्युपासते ||१२||

यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः |
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ||१३||

एष शेते महाबाहुर्बलवान्सत्यविक्रमः |
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः ||१४||

पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् |
निहतं भीमसेनेन गदामुद्यम्य भारत ||१५||

अक्षौहिणीर्महाबाहुर्दश चैकां च केशव |
अनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः ||१६||

एष दुर्योधनः शेते महेष्वासो महारथः |
शार्दूल इव सिंहेन भीमसेनेन पातितः ||१७||

विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक् |
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ||१८||

निःसपत्ना मही यस्य त्रयोदश समाः स्थिता |
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ||१९||

अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् |
पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ||२०||

तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् |
हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ||२१||

इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम |
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ||२२||

प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् |
रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् ||२३||

नूनमेषा पुरा बाला जीवमाने महाभुजे |
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ||२४||

कथं तु शतधा नेदं हृदयं मम दीर्यते |
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ||२५||

पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता |
दुर्योधनं तु वामोरूः पाणिना परिमार्जति ||२६||

किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी |
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ||२७||

स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा |
पतत्युरसि वीरस्य कुरुराजस्य माधव ||२८||

पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा |
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ||२९||

यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा |
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ||३०||
१८
गान्धार्युवाच||

पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् |
गदया भीमसेनेन भूयिष्ठं निहतान्रणे ||१||

इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः |
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ||२||

प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः |
आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुन्धराम् ||३||

गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा |
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ||४||

एषान्या त्वनवद्याङ्गी करसंमितमध्यमा |
घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ||५||

दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् |
राजपुत्रीं महाबाहो मनो न व्युपशाम्यति ||६||

भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि |
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ||७||

मध्यमानां तु नारीणां वृद्धानां चापराजित |
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ||८||

रथनीडानि देहांश्च हतानां गजवाजिनाम् |
आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल ||९||

अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् |
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ||१०||

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ |
एताभिरनवद्याभिर्मया चैवाल्पमेधया ||११||

तदिदं धर्मराजेन यातितं नो जनार्दन |
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ||१२||

प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः |
कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः ||१३||

हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः |
सारस्य इव वाशन्त्यः पतिताः पश्य माधव ||१४||

फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् |
अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ||१५||

ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् |
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ||१६||

शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् |
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ||१७||

शीर्षत्राणानि चैतानि पुत्राणां मे महीतले |
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ||१८||

एष दुःशासनः शेते शूरेणामित्रघातिना |
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ||१९||

गदया वीरघातिन्या पश्य माधव मे सुतम् |
द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ||२०||

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता |
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ||२१||

सहैव सहदेवेन नकुलेनार्जुनेन च |
दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ||२२||

ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् |
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय ||२३||

निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् |
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ||२४||

न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् |
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ||२५||

तानेष रभसः क्रूरो वाक्षल्यानवधारयन् |
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ||२६||

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ |
निहतो भीमसेनेन सिंहेनेव महर्षभः ||२७||

अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः |
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ||२८||
१९
गान्धार्युवाच||

एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः |
भूमौ विनिहतः शेते भीमेन शतधा कृतः ||१||

गजमध्यगतः शेते विकर्णो मधुसूदन |
नीलमेघपरिक्षिप्तः शरदीव दिवाकरः ||२||

अस्य चापग्रहेणैष पाणिः कृतकिणो महान् |
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ||३||

अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी |
वारयत्यनिशं बाला न च शक्नोति माधव ||४||

युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ |
सुखोचितः सुखार्हश्च शेते पांसुषु माधव ||५||

कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे |
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ||६||

एष सङ्ग्रामशूरेण प्रतिज्ञां पालयिष्यता |
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ||७||

तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् |
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ||८||

शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् |
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ||९||

यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते |
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् ||१०||

चित्रसेनं हतं भूमौ शयानं मधुसूदन |
धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम् ||११||

तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः |
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते ||१२||

स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् |
चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे ||१३||

युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः |
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ||१४||

शरसङ्कृत्तवर्माणं वीरं विशसने हतम् |
परिवार्यासते गृध्राः परिविंशा विविंशतिम् ||१५||

प्रविश्य समरे वीरः पाण्डवानामनीकिनीम् |
आविश्य शयने शेते पुनः सत्पुरुषोचितम् ||१६||

स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् |
अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः ||१७||

यं स्म तं पर्युपासन्ते वसुं वासवयोषितः |
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ||१८||

हन्तारं वीरसेनानां शूरं समितिशोभनम् |
निबर्हणममित्राणां दुःसहं विषहेत कः ||१९||

दुःसहस्यैतदाभाति शरीरं संवृतं शरैः |
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः ||२०||

शातकौम्भ्या स्रजा भाति कवचेन च भास्वता |
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ||२१||
उत्तराविलापः
२०
गान्धार्युवाच||

अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव |
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ||१||

यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् |
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ||२||

तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः |
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ||३||

एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः |
आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता ||४||

तमेषा हि समासाद्य भार्या भर्तारमन्तिके |
विराटदुहिता कृष्ण पाणिना परिमार्जति ||५||

तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी |
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ||६||

काम्यरूपवती चैषा परिष्वजति भामिनी |
लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ||७||

तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् |
विमुच्य कवचं कृष्ण शरीरमभिवीक्षते ||८||

अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते |
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ||९||

बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ |
रूपेण च तवात्यर्थं शेते भुवि निपातितः ||१०||

अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः |
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ||११||

मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ |
काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ||१२||

व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव |
एवं विलपतीमार्तां न हि मामभिभाषसे ||१३||

आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् |
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ||१४||

तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना |
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ||१५||

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ||१५||

कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः |
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ||१६||

द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः |
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ||१७||

बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् |
कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ||१८||

त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ||१८||

दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् |
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ||१९||

न राज्यलाभो विपुलः शत्रूणां वा पराभवः |
प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ||२०||

तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च |
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ||२१||

दुर्मरं पुनरप्राप्ते काले भवति केनचित् |
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ||२२||

कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा |
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ||२३||

नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि |
परमेण च रूपेण गिरा च स्मितपूर्वया ||२४||

प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् |
सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ||२५||

एतावानिह संवासो विहितस्ते मया सह |
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ||२६||

इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम् |
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ||२७||

उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् |
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ||२८||

द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् |
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ||२९||

वितुद्यमानं विहगैर्विराटमसितेक्षणाः |
न शक्नुवन्ति विवशा निवर्तयितुमातुराः ||३०||

आसामातपतप्तानामायासेन च योषिताम् |
श्रमेण च विवर्णानां रूपाणां विगतं वपुः ||३१||

उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् |
शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ||३२||

आयोधनशिरोमध्ये शयानं पश्य माधव ||३२||
२१
गान्धार्युवाच||

एष वैकर्तनः शेते महेष्वासो महारथः |
ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा ||१||

पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् |
शोणितौघपरीताङ्गं शयानं पतितं भुवि ||२||

अमर्षी दीर्घरोषश्च महेष्वासो महारथः |
रणे विनिहतः शेते शूरो गाण्डीवधन्वना ||३||

यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः |
प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ||४||

शार्दूलमिव सिंहेन समरे सव्यसाचिना |
मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ||५||

समेताः पुरुषव्याघ्र निहतं शूरमाहवे |
प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ||६||

उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः |
त्रयोदश समा निद्रां चिन्तयन्न्नाध्यगच्छत ||७||

अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव |
युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ||८||

स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव |
भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ||९||

पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् |
लालप्यमानाः करुणं रुदतीं पतितां भुवि ||१०||

आचार्यशापोऽनुगतो ध्रुवं त्वां; यदग्रसच्चक्रमियं धरा ते |
ततः शरेणापहृतं शिरस्ते; धनञ्जयेनाहवे शत्रुमध्ये ||११||

अहो धिगेषा पतिता विसञ्ज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम् |
कर्णं महाबाहुमदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता ||१२||

अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः |
द्रष्टुं न सम्प्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे ||१३||

सावर्तमाना पतिता पृथिव्या; मुत्थाय दीना पुनरेव चैषा |
कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता ||१४||
२२
गान्धार्युवाच||

आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् |
गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत् ||१||

तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन |
शयानं वीरशयने रुधिरेण समुक्षितम् ||२||

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः |
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् ||३||

शयानं वीरशयने वीरमाक्रन्दसारिणम् |
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ||४||

प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् |
प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् ||५||

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते |
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ||६||

पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता |
पाकशासनिना सङ्ख्ये वार्द्धक्षत्रिर्निपातितः ||७||

एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना |
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ||८||

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् |
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ||९||

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत |
भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात् ||१०||

तमेताः पर्युपासन्ते रक्षमाणा महाभुजम् |
सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः ||११||

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह |
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ||१२||

दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः |
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ||१३||

सैषा मम सुता बाला विलपन्ती सुदुःखिता |
प्रमापयति चात्मानमाक्रोशति च पाण्डवान् ||१४||

किं नु दुःखतरं कृष्ण परं मम भविष्यति |
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ||१५||

अहो धिग्दुःशलां पश्य वीतशोकभयामिव |
शिरो भर्तुरनासाद्य धावमानामितस्ततः ||१६||

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः |
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ||१७||

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् |
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ||१८||
२३
गान्धार्युवाच||

एष शल्यो हतः शेते साक्षान्नकुलमातुलः |
धर्मज्ञेन सता तात धर्मराजेन संयुगे ||१||

यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ |
स एष निहतः शेते मद्रराजो महारथः ||२||

येन सङ्गृह्णता तात रथमाधिरथेर्युधि |
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ||३||

अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् |
मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ||४||

एषा चामीकराभस्य तप्तकाञ्चनसप्रभा |
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ||५||

युधिष्ठिरेण निहतं शल्यं समितिशोभनम् |
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ||६||

एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् |
क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् ||७||

शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः |
वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ||८||

शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् |
शयानं वीरशयने शरैर्विशकलीकृतम् ||९||

एष शैलालयो राजा भगदत्तः प्रतापवान् |
गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ||१०||

यस्य रुक्ममयी माला शिरस्येषा विराजते |
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ||११||

एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् |
लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ||१२||

योधयित्वा महाबाहुरेष पार्थं धनञ्जयम् |
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ||१३||

यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन |
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ||१४||

पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् |
युगान्त इव कालेन पातितं सूर्यमम्बरात् ||१५||

एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् |
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ||१६||

शरतल्पगतं वीरं धर्मे देवापिना समम् |
शयानं वीरशयने पश्य शूरनिषेविते ||१७||

कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् |
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ||१८||

अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् |
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ||१९||

पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः |
एष शान्तनवः शेते माधवाप्रतिमो युधि ||२०||

धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णये |
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ||२१||

नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी |
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ||२२||

स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः |
धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ||२३||

प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः |
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ||२४||

धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव |
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ||२५||

अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा |
तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ||२६||

अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः |
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ||२७||

यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् |
चकार स हतः शेते नैनमस्त्राण्यपालयन् ||२८||

यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् |
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ||२९||

यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् |
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ||३०||

धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव |
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ||३१||

वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव |
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ||३२||

वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ |
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ||३३||

द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन |
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ||३४||

तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् |
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ||३५||

बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव |
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ||३६||

प्रेतकृत्ये च यतते कृपी कृपणमातुरा |
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ||३७||

अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः |
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ||३८||

किरन्ति च चितामेते जटिला ब्रह्मचारिणः |
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ||३९||

शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् |
त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ||४०||

सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे |
अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ||४१||

गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः |
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ||४२||
२४
गान्धार्युवाच||

सोमदत्तसुतं पश्य युयुधानेन पातितम् |
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ||१||

पुत्रशोकाभिसन्तप्तः सोमदत्तो जनार्दन |
युयुधानं महेष्वासं गर्हयन्निव दृश्यते ||२||

असौ तु भूरिश्रवसो माता शोकपरिप्लुता |
आश्वासयति भर्तारं सोमदत्तमनिन्दिता ||३||

दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् |
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि ||४||

दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् |
अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि ||५||

दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु |
न शृणोषि महाराज सारसीनामिवार्णवे ||६||

एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः |
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ||७||

श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि |
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ||८||

शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च |
स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ||९||

दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः |
विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ||१०||

अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् |
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ||११||

एता विलप्य बहुलं भर्तृशोकेन कर्शिताः |
पतन्त्यभिमुखा भूमौ कृपणं बत केशव ||१२||

बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् |
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः ||१३||

ततः पापतरं कर्म कृतवानपि सात्यकिः |
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ||१४||

एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः |
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ||१५||

भार्या यूपध्वजस्यैषा करसंमितमध्यमा |
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् ||१६||

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः |
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ||१७||

वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा |
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ||१८||

किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन |
अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् ||१९||

इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना |
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ||२०||

गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः |
निहतः सहदेवेन भागिनेयेन मातुलः ||२१||

यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते |
स एष पक्षिभिः पक्षैः शयान उपवीज्यते ||२२||

यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः |
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ||२३||

मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् |
सभायां विपुलं राज्यं स पुनर्जीवितं जितः ||२४||

शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते |
कितवं मम पुत्राणां विनाशायोपशिक्षितम् ||२५||

एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह |
वधाय मम पुत्राणामात्मनः सगणस्य च ||२६||

यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो |
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ||२७||

कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह |
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ||२८||
२५
गान्धार्युवाच||

काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् |
शयानमृषभस्कन्धं हतं पांसुशु माधव ||१||

यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ |
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ||२||

इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली |
ययोर्विवरमापन्नां न रतिर्मां पुराजहत् ||३||

कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर |
दूरबन्धुरनाथेव अतीव मधुरस्वरा ||४||

आतपे क्लाम्यमानानां विविधानामिव स्रजाम् |
क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् ||५||

शयानमभितः शूरं कालिङ्गं मधुसूदन |
पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् ||६||

मागधानामधिपतिं जयत्सेनं जनार्दन |
परिवार्य प्ररुदिता मागध्यः पश्य योषितः ||७||

आसामायतनेत्राणां सुस्वराणां जनार्दन |
मनःश्रुतिहरो नादो मनो मोहयतीव मे ||८||

प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः |
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ||९||

कोसलानामधिपतिं राजपुत्रं बृहद्बलम् |
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ||१०||

अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् |
उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः ||११||

आसां सर्वानवद्यानामातपेन परिश्रमात् |
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ||१२||

द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः |
द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः ||१३||

तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः |
भासयन्ति महीं भासा ज्वलिता इव पावकाः ||१४||

द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् |
महाद्विपमिवारण्ये सिंहेन महता हतम् ||१५||

पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् |
आतपत्रं समाभाति शरदीव दिवाकरः ||१६||

एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः |
दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः ||१७||

धृष्टकेतुं महेष्वासं चेदिपुङ्गवमङ्गनाः |
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ||१८||

द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन |
महेष्वासो हतः शेते नद्या हृत इव द्रुमः ||१९||

एष चेदिपतिः शूरो धृष्टकेतुर्महारथः |
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ||२०||

वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः |
चेदिराजं हृषीकेश हतं सबलबान्धवम् ||२१||

दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् |
आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः ||२२||

अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् |
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ||२३||

पितरं नूनमाजिस्थं युध्यमानं परैः सह |
नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन ||२४||

एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् |
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ||२५||

विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव |
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ||२६||

काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ |
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ||२७||

अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह |
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ||२८||

दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् |
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ||२९||

ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ||२९||

त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् |
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ||३०||

यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः ||३०||

तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः |
यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः ||३१||

शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च |
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ||३२||

तयोर्न दर्शनं तात मिथ्या भवितुमर्हति |
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ||३३||

वैशम्पायन उवाच||

इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता |
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ||३४||

ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता |
जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ||३५||

गान्धार्युवाच||

पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् |
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ||३६||

शक्तेन बहुभृत्येन विपुले तिष्ठता बले |
उभयत्र समर्थेन श्रुतवाक्येन चैव ह ||३७||

इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन |
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ||३८||

पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् |
तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर ||३९||

यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः |
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ||४०||

त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन |
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ||४१||

कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ||४१||

तवाप्येवं हतसुता निहतज्ञातिबान्धवाः |
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ||४२||

वैशम्पायन उवाच||

तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः |
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ||४३||

संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे |
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ||४४||

अवध्यास्ते नरैरन्यैरपि वा देवदानवैः |
परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः ||४५||

इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः |
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ||४६||
श्राद्धपर्व
२६
वासुदेव उवाच||

उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः |
तवैव ह्यपराधेन कुरवो निधनं गताः ||१||

या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् |
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ||२||

निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् |
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ||३||

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति |
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||४||

तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरङ्गी |
शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री ||५||

वैशम्पायन उवाच||

तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् |
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ||६||

धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः |
पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ||७||

जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव |
हतानां यदि जानीषे परिमाणं वदस्व मे ||८||

युधिष्ठिर उवाच||

दशायुतानामयुतं सहस्राणि च विंशतिः |
कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ||९||

अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश |
दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ||१०||

धृतराष्ट्र उवाच||

युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः |
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ||११||

युधिष्ठिर उवाच||

यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे |
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ||१२||

ये त्वहृष्टेन मनसा मर्तव्यमिति भारत |
युध्यमाना हताः सङ्ख्ये ते गन्धर्वैः समागताः ||१३||

ये तु सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः |
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ||१४||

पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः |
ह्रीनिषेधा महात्मानः परानभिमुखा रणे ||१५||

छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः |
गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः ||१६||

ये तत्र निहता राजन्नन्तरायोधनं प्रति |
यथा कथञ्चित्ते राजन्सम्प्राप्ता उत्तरान्कुरून् ||१७||

धृतराष्ट्र उवाच||

केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् |
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ||१८||

युधिष्ठिर उवाच||

निदेशाद्भवतः पूर्वं वने विचरता मया |
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ||१९||

देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् |
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ||२०||

धृतराष्ट्र उवाच||

येऽत्रानाथा जनस्यास्य सनाथा ये च भारत |
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ||२१||

न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः |
वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः ||२२||

यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः |
तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ||२३||

वैशम्पायन उवाच||

एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः |
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ||२४||

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् |
इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ||२५||

भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः |
यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति ||२६||

शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः |
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ||२७||

चन्दनागुरुकाष्ठानि तथा कालीयकान्युत |
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ||२८||

समाहृत्य महार्हाणि दारूणां चैव सञ्चयान् |
रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ||२९||

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् |
दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ||३०||

दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् |
शल्यं शलं च राजानं भूरिश्रवसमेव च ||३१||

जयद्रथं च राजानमभिमन्युं च भारत |
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ||३२||

बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् |
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ||३३||

शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् |
युधामन्युं च विक्रान्तमुत्तमौजसमेव च ||३४||

कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् |
अचलं वृषकं चैव भगदत्तं च पार्थिवम् ||३५||

कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् |
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ||३६||

घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च |
अलम्बुसं च राजानं जलसन्धं च पार्थिवम् ||३७||

अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः |
घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ||३८||

पितृमेधाश्च केषाञ्चिदवर्तन्त महात्मनाम् |
सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ||३९||

साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः |
कश्मलं सर्वभूतानां निशायां समपद्यत ||४०||

ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः |
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ||४१||

ये चाप्यनाथास्तत्रासन्नानादेशसमागताः |
तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ||४२||

चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः |
दाहयामास विदुरो धर्मराजस्य शासनात् ||४३||

कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः |
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ||४४||
जलप्रदानिकपर्व
२७
वैशम्पायन उवाच||

ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् |
ह्रदिनीं वप्रसम्पन्नां महानूपां महावनाम् ||१||

भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च |
ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च ||२||

पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः |
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ||३||

सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः ||३||

उदके क्रियमाणे तु वीराणां वीरपत्निभिः |
सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च ||४||

तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् |
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ||५||

ततः कुन्ती महाराज सहसा शोककर्शिता |
रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् ||६||

यः स शूरो महेष्वासो रथयूथपयूथपः |
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ||७||

यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः |
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ||८||

प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् |
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ||९||

यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन |
सत्यसन्धस्य शूरस्य सङ्ग्रामेष्वपलायिनः ||१०||

कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः |
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ||११||

कुण्डली कवची शूरो दिवाकरसमप्रभः ||११||

श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् |
कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् ||१२||

ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः |
उवाच मातरं वीरो निःश्वसन्निव पन्नगः ||१३||

यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनञ्जयात् |
कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् ||१४||

यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् |
तमग्निमिव वस्त्रेण कथं छादितवत्यसि ||१५||

यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् ||१५||

नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी |
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ||१६||

असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ||१६||

अहो भवत्या मन्त्रस्य पिधानेन वयं हताः |
निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः ||१७||

अभिमन्योर्विनाशेन द्रौपदेयवधेन च |
पाञ्चालानां च नाशेन कुरूणां पतनेन च ||१८||

ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् |
कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः ||१९||

न हि स्म किञ्चिदप्राप्यं भवेदपि दिवि स्थितम् |
न च स्म वैशसं घोरं कौरवान्तकरं भवेत् ||२०||

एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः |
विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः ||२१||

ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः |
अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि ||२२||

तत आनाययामास कर्णस्य सपरिच्छदम् |
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ||२३||

स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् |
कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः ||२४||


MAHABHARAT STREE PARVA

Categories: Sanskrit Documents

Tagged as: