CIVIL

ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् …कस्य स्विद्धनम्

ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥

व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे –

ईशेति ।

`ईश’ ऐश्वर्ये इत्यस्य धातोः क्विपि लुप्ते कृदन्तं रूपमीट् तस्य तृतीयैकवचनमीशेति । रीशनकर्तृत्वसम्भवात् क्विबन्तशब्दवाच्यता न विरुध्यते निरूपाधिकस्य च लक्ष्यत्वं भविष्यतोत्यर्थः ।

ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्क्याऽऽह –

सर्वजन्तूनामात्मा सन्निति ।

यथाऽऽदर्शादिषु प्रतिबिम्बानामात्मा सन् बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यभावसम्भवान्न वास्तवभेदानुमानं सम्भवतीत्यर्थः ।

वस' आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्वं भ्रान्त्या यदनीश्वररूपेण गृहीतं तत्सर्वमीश्वर एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वोपदेश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः । 'ब्रह्मैव सर्वमात्मैव सत्प्रकाशाविशेषतः । हेयोपादेयभावोऽयं न सन्स्वप्नवदीर्यते ॥' उक्तं च -न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः । नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः ॥’ इति ।

यस्यौपदेशिकज्ञानमात्रेणानृत दृष्टिर्न तिरस्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यानृत दृष्टिस्तिरस्क्रियेतेत्यभिप्रेत्य दृष्टान्तमाह –

यथेति ।

चन्दनागर्वादेरुदकादिसम्बन्धादार्द्रीभावादिना जातं यद्दौर्गन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिधर्षणाभिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारादेः स्वरूप सद्भावान्मिथ्याबुद्धेर्बाधकत्वं सम्भवतीत्याह –

तद्वदेव हीति ।

स्वभावोऽनादिरविद्या तत्कार्यं स्वाभाविकमित्यादिबाधयोग्यत्वप्रदर्शनार्थं विशेषणम् । एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसम्भावनामुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेनत्यक्तेनेत्यत्रत्यागपरामर्शात् ।

“त्यजतैव हितज्ज्ञेयंत्यक्तुः प्रत्यक्परं पदमि”त्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चित्तविक्षेपहेतुत्वेन प्रसिद्धत्वाच्चेत्यभिप्रेत्याऽऽह –

एवमीश्वरात्मेति ।

चिकीर्षितं संन्यासं स्तौति –

तेन त्यक्तेनेति 

त्यागेनाऽऽत्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः ।

संन्यासिनः शरीरसंधारणोपयुक्तकौपीनाच्छादन भिक्षाशनादि व्यतिरिक्तेऽपि कथञ्चिद्द्रव्य परिग्रहे रागश्चेत्प्राप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधत्वादित्यभिप्रेत्य नियमविधिमाह –

एवं त्यक्तैषण इति ।

स्विदिति निपातस्य सामान्याथंत्वेऽपि कस्यस्विदिति वितर्कार्थत्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थकमित्युक्तम् । व्यवहारदृष्ट्याऽप्यात्मन एवेदं सर्वं शेषभूतं जडस्य चित्परतन्त्रत्वादतोऽप्राप्ते विषये नाऽऽङ्क्षा कर्तव्या । परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥ १ ॥


आनन्दज्ञानविरचिता आनन्दगिरिटीका

Categories: CIVIL

Tagged as: ,