Isa Upanisad – ईशावास्योपनिषत्– Text
असुर्या नाम ते लोका अन्धेन तमसा वृताः …चात्महनो जनाः - असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । तेषां च स्वभूता लोका असुर्याः नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् , प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के च आत्महनः आत्मानं घ्नन्तीत्यात्महनः । के ? ते जनाः येऽविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति ? अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात् । विद्यमानस्यात्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनादिलक्षणम् , तत् हतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते
ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् …कस्य स्विद्धनम् - ईशा ईष्टे इति ईट् , तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किं च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना । यथा चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्याम् , जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसम्बन्धिताभावादात्मानं पालयति । अतस्त्यागेनेत्ययमेवार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद्गृध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम् , आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः….न कर्म लिप्यते नरे - कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शतसङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते ; कर्मणा न लिप्यस इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह…यत्ते रूपं कल्याणतमं…सोऽहमस्मि - हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम् , तत् ते तवात्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात् , पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः ; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥
स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् - स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् , आकाशवद्व्यापीत्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादिपापवर्जितम् । शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि, स पर्यगात् इत्युपक्रम्य कविर्मनीषी इत्यादिना पुंलिङ्गत्वेनोपसंहारात् । कविः क्रान्तदर्शी सर्वदृक् , ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । मनीषी मनस ईषिता, सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति, येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यदधात् विहितवान् , यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः