Hindu Dharma

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः….न कर्म लिप्यते नरे

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥

 

कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शतसङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते ; कर्मणा न लिप्यस इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ॥ [ Sankar]

 

पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यं मन्त्रद्वयस्येत्येकदेशिशङ्कामुद्भावयति –

कथं पुनरिति ।

शुद्धब्रह्मज्ञानकर्मणी नैकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवत् । अस्त्येव तत्रापि क्रमेणैक कर्तृकत्वमिति चेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चोक्तं ज्ञानकर्मणोर्वेदविहितत्वेन शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत् । ऋतुगमनत्रिदण्डिधर्मयोरप्यविरोधप्रसङ्गात् । तदुभयं नैकस्य विहितमिति चेतुल्यमेतत् । प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि न कर्मणा न प्रजया'नानुध्यायाद्वहूञ्छब्दानि’ त्यादिप्रतिषेधस्तुल्यः ।

केवलकर्मविषयो निषेध इति न च वाच्यं केवल पदव्यवच्छेद्या भावात्समुच्चय विधेरद्याप्यनिश्चितत्वात्तस्मान्न समच्चये तात्पर्यं मन्त्रद्वयस्येत्याह –

ज्ञानकर्मणोर्विरोधमिति ।

कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति सम्बन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः ।

मन्त्रलिङ्गादपि तयोर्भिन्नाधिकारत्वं प्रतीयत इत्याह –

इहाप्युक्तमिति ।

जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किञ्च धनसम्पन्नस्यैव कर्मण्यधिकारः । प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षा निषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः ।

जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह –

न जीवित इति ।

अरण्यं स्त्रीजनासङ्कीर्णमाश्रममियाद्गच्छेदिति पदं वेदशास्त्र स्थितिस्ततोऽरण्यवासोपलक्षितात्संन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः ।

इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह –

उभयोरिति ।

को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेनेत्यर्थः ।

नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति –

इमौ द्वावेवेति ।

पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्तः ।

व्यासवाक्यमपि सम्वादकमाह – द्वाविमाविति ॥ २ ॥


आनन्दज्ञानविरचिता आनन्दगिरिटीका