Buddhist Sanskrit Texts

अभिसमयालङ्कार- मैत्रेयनाथ Abhi Samayalankara

नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः

अभिसमयालङ्कार -मैत्रेयनाथ

प्रज्ञापारमितोपदेशशास्त्रम्

नमो मञ्जुश्रिये कुमारभूताय

सर्वाकारज्ञाताधिकारः प्रथमः

मङ्गालाचरणम्

या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्
या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका ।
सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास्
तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः ॥ १.१ ॥

ग्रान्थारम्भप्रयोजनं सर्वाकारज्ञतामार्गः शासित्रा योऽत्र देशितः ।
धीमन्तो वीक्षिषिरंस्तमनालीढं परैरिति ॥ १.२ ॥
स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् ।
सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥ १.३ ॥

प्रज्ञापारमितायाः कायिकव्यवस्थापनम्
प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता ।
सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ १.४ ॥
सर्वाकाराभिसम्बोधो मूर्धप्राप्तोऽनुपूर्विकः ।
एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा ॥ १.५ ॥

चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम् ।
आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ १.६ ॥
आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये ।
सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ १.७ ॥
ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ ।
महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः ॥ १.८ ॥
कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः ।
परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ १.९ ॥
निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः ।
विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ १.१० ॥
प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः ।
अनुपायेन दूरत्वमुपायेनाविदूरता ॥ १.११ ॥
विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च ।
दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ १.१२ ॥
आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः ।
मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ १.१३ ॥
समता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा ।
सर्वाकाराभिसम्बोध एष सोपायकौशलः ॥ १.१४ ॥
लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ १.१५ ॥
प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ १.१६ ॥
मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः ।
एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ १.१७ ॥
स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ १.१८ ॥

सर्वाकारज्ञता

१ – चित्तोत्पादः

चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता ।
समासव्यासतः सा च यथासूत्रं स चोच्यते ॥ १.१९ ॥
भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः ।
वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः ॥ १.२० ॥
नृपगञ्जमहामार्गयानप्रस्रवणोदकैः ।
आनन्दोक्तिनदीमेवैर्द्वाविंशतिविधः स च ॥ १.२१ ॥

२ – अववादः

प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु ।
असक्तावपरिश्रान्तो प्रतिपत्सम्परिग्रहे ॥ १.२२ ॥
चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च ।
दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ १.२३ ॥
मृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलङ्कलौ ।
एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ १.२४ ॥
प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा ।
दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः ॥ १.२५ ॥

३ – निर्वेधाङ्गम्

आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् ।
चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ १.२६ ॥
श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः ।
मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥ १.२७ ॥
आलम्बनमनित्यादि सत्याधारं तदाकृतिः ।
निषेधोऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥ १.२८ ॥
रूपाद्यायव्ययौ विष्ठास्थिति प्रज्ञप्त्यवाच्यते ।
रूपावादवस्थितिस्तेषां तद्भावेनास्वभावता ॥ १.२९ ॥
तयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः ।
तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः ॥ १.३० ॥
अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् ।
परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः ॥ १.३१ ॥
रूपादेरस्वभावत्वं तदभावस्वभावता ।
तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ १.३२ ॥
तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता ।
समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः ॥ १.३३ ॥
मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना ।
इति निर्वेधभागीयं मृदुमध्याधिमात्रतः ॥ १.३४ ॥
द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः ।
मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥ १.३५ ॥
द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः ।
स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ १.३६ ॥
चित्तानवलीनत्वादिनैःस्वाभाव्यादिदेशकः ।
तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः ॥ १.३७ ॥

४ – प्रतिपत्तेराधारः

षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः ।
तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ १.३८ ॥
शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च ।
ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ १.३९ ॥
धर्मधातोरसम्भेदाद्गोत्रभेदो न युज्यते ।
आधेयधर्मभेदात्तु तद्भेदः परिगीयते ॥ १.४० ॥

५ – आलम्बनम्

आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः ।
लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः ॥ १.४१ ॥
सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये ।
शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः ॥ १.४२ ॥

६ – समुद्देशः

सर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये ।
त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भुवाम् ॥ १.४३ ॥

७ – सन्नाहप्रतिपत्तिः

दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या ।
सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता ॥ १.४४ ॥

८ – प्रस्थानप्रतिपत्तिः

ध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च ।
गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ १.४५ ॥
उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये ।
प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी ॥ १.४६ ॥

९ – सम्भारप्रतिपत्तिः

दया दानादिकं षट्कं शमथः सविदर्शनः ।
युगनद्धश्च यो मार्ग उपाये यच्च कौशलम् ॥ १.४७ ॥
ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश ।
प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः ॥ १.४८ ॥

१. प्रमुदिता भूमिः

लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा
आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ १.४९ ॥
त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा ।
सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ १.५० ॥
धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते ।
ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः ॥ १.५१ ॥

२. विमला भूमिः

शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा ।
गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम् ॥ १.५२ ॥

३. प्रभाकरी भूमिः

अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् ।
बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥ १.५३ ॥
ह्रीरपत्राप्यमित्येतत्पञ्चधा मननात्मकम् ।

४. अर्चिष्मती भूमिः

वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥ १.५४ ॥
शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् ।
निर्वित्सर्वास्तिसन्त्यागोऽनवलीनानपेक्षते ॥ १.५५ ॥

५. सुदुर्जया भूमिः

संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् । आत्मोत्कर्षपरावज्ञे
कर्ममार्गान् दशाशुभान् ॥ १.५६ ॥
मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् ।
विवर्जयन् समाप्नोति दशैतान् पञ्चमी भुवम् ॥ १.५७ ॥

६. अभिमुखी भूमिः

दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् ।
शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ १.५८ ॥
याचितोऽनवलीनश्च सर्वत्यागेऽप्यदुर्मनाः ।
कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते ॥ १.५९ ॥

७. दूरङ्गमा भूमिः

आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः ।
निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ १.६० ॥
त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता ।
रत्नत्रितयशीलेषु तद्दृष्टयभिनिवेशिता ॥ १.६१ ॥
शून्यतायां विवादश्च तद्विरोधश्च विंशतिः ।
कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ १.६२ ॥
त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता ।
करुणामनना धर्मसमतैकनयज्ञता ॥ १.६३ ॥
अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा ।
कल्पनायाः समुद्घातः संज्ञादृक्क्लेशवर्जनम् ॥ १.६४ ॥
शमथस्य च निध्यप्तिः कौशलं च विदर्शने ।
चित्तस्य दान्तता ज्ञानं सर्वत्रप्रतिघाति च ॥ १.६५ ॥
सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् ।
सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः ॥ १.६६ ॥

८. अचला भूमिः

सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा ।
बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ १.६७ ॥
अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः ।
संचिन्त्य च भवादानमिदं कर्माष्टधोदितम् ॥ १.६८ ॥

९. साधुमतो भूमिः

प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता ।
नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥ १.६९ ॥
कुलजात्योश्च गोत्रश्च परिवारस्य जन्मनः ।
नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः ॥ १.७० ॥

१०. धर्ममेधा भूमिः

नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ १.७१ ॥

[प्रतिपक्षसम्भारः]

प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः ।
ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥ १.७२ ॥

२० – निर्याणप्रतिपत्तिः

उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने ।
अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ १.७३ ॥
सर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् ।
निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ १.७४ ॥
इत्यभिसमयालङ्कारे नाम

प्रज्ञापारमितोपदेशशास्त्रे प्रथमाधिकारः ।

२ मार्गज्ञताधिकारः द्वितीयः

१ – ध्यामीकरणतादीनि

ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति ।
विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ २.१ ॥

२ – श्रावकमार्गः

चतुर्णामार्यसत्यानामाकारानुपलम्भतः ।
श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ २.२ ॥
रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः ।
ऊस्माणौऽनुपलम्भेन तेषां मूर्धगतं मतम् ॥ २.३ ॥
क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः ।
दश भूमीः समारभ्य विस्तरास्थानदेशनात् ॥ २.४ ॥
अग्रधर्मगतं प्रोक्तमार्यश्रावकर्त्मनि ।
तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥ २.५ ॥

३ – प्रत्येकबुद्धमार्गः

परोपदेशवैयर्थ्यं स्वयम्बोधात्स्वयम्भुवाम् ।
गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ २.६ ॥
शुश्रूषा यस्या यस्यार्थे यत्र यत्र यथा यथा ।
स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा ॥ २.७ ॥
ग्राह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः ।
आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः ॥ २.८ ॥
प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ २.९ ॥
अध्यात्मशून्यताद्याभी रूपादेरपरिग्राहात् ।
क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ २.१० ॥

४ – बोधिसत्त्वमार्गः

क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः ।
मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते ॥ २.११ ॥
आधाराधेयताभावात्तथताबुद्धयोर्मिथः ।
पर्यायेणाननुज्ञानं महत्ता साप्रमाणता ॥ २.१२ ॥
परिमाणान्तताभावो रूपादेरवधारणम् ।
तस्यां स्थितस्य बुद्धत्वेऽनुद्ग्रहात्यागतादयः ॥ २.१३ ॥
मैत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः ।
सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ २.१४ ॥
निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् ।
अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ २.१५ ॥
स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् ।
दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः ॥ २.१६ ॥

५ – भावनामार्गकारित्रम्

सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः ।
उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ २.१७ ॥

सास्रवो भावनामार्गः

६ – भावनामार्गाधिमुक्तिः

अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका ।
परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥ २.१८ ॥
मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः ।
सा पुनस्त्रिबिधेत्येवं सप्तविंशतिधा मता ॥ २.१९ ॥

७ – भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च

स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति ।
अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ २.२० ॥

८ – परिणामना

विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् ।
नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ २.२१ ॥
विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः ।
सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ २.२२ ॥
त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा ।
मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मकः ॥ २.२३ ॥

९ – अनुमोदना

उपायानुपलम्भाभ्यां शुभमूलानुमोदना ।
अनुमोदे मनस्कारभावनेह विधीयते ॥ २.२४ ॥

अनास्रवो भावनामार्गः

१० – अभिनिर्हारः

स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः ।
नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ २.२५ ॥

११ – अत्यन्तविशुद्धिः

बुद्धसेवा च दानादिरुपाये यच्च कौशलम् ।
हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ २.२६ ॥
माराधिष्ठानगम्भीरधर्मतानधिमुक्तते ।
स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ २.२७ ॥
फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता ॥ २.२८ ॥
क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् ।
हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥ २.२९ ॥
मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ २.३० ॥
त्रिधातुप्रतिपक्षत्वं समता मानमेययोः ।
मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः ॥ २.३१ ॥

इत्यभिसमयालङ्कारे नाम
प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारः ।

३ सर्वज्ञताधिकारः तृतीयः

१ – प्रज्ञया न भवे स्थानम्

२ – कृपया न शमे स्थितिः

नापरे न परे तीरे नान्तराले तयोः स्थिता ।
अध्वनां समताज्ञानात्प्रज्ञापारमिता मता ॥ ३.१ ॥

३ – अनुपायेन दूरत्वम्

४ – उपायेनाविदूरता

अनुपायेन दूरं सा सनिमित्तोपलम्भतः ।
उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ ३.२ ॥

५ – विपक्षः

रुपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च ।
दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ ३.३ ॥

६ – प्रतिपक्षः

दानादिष्वनहंकारः परेषां तन्नियोजनम् ।
सङ्गकोटिनिषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु ॥ ३.४ ॥
तद्गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धतेः ।
एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ ३.५ ॥
दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता ।
रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ ३.६ ॥
एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये ।
अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः ॥ ३.७ ॥

७ – प्रयोगः

रुपादौ तदनित्यादौ तदपूरिप्रपूरयोः ।
तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ ३.८ ॥
अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा ।
यथाभव्य फलप्राप्तेरवन्ध्योऽभिमतश्च सः ॥ ३.९ ॥
अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः ।

८ – समता

चतुर्धामनना तस्य रूपादौ समता मता ॥ ३.१० ॥

९ – दर्शनमार्गः

धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः ।
दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानय ॥ ३.११ ॥
रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् ।
अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ ३.१२ ॥
परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः ।
प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः ॥ ३.१३ ॥
नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः ।
अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥ ३.१४ ॥
असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये ।
ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ ३.१५ ॥
इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा ।
अधिकारत्रयस्यैषा समाप्तिः परिदीपिता ॥ ३.१६ ॥

इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे तृतीयाधिकारः ।

४ सर्वाकाराभिसम्बोधाधिकारः चतुर्थः

१ – आकाराः

वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् ।
सर्वज्ञतानां त्रैविध्यात्त्रिविधा एव ते मताः ॥ ४.१ ॥
असदाकारमारभ्य यावन्निश्चलताकृतिः ।
चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ ४.२ ॥
हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् ।
अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ ४.३ ॥
स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः ।
शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ ४.४ ॥
सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः ।
त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ४.५ ॥
कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः ।
मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ ४.६ ॥
बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया ।
उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ ४.७ ॥

२ – प्रयोगाः

रूपादिष्वनवस्थानात्तेषु योगनिषेधतः ।
तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः ॥ ४.८ ॥
तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः ।
व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ ४.९ ॥
आसन्नबोधे क्षिप्रं च परार्थेऽवृद्धयहानितः ।
धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने ॥ ४.१० ॥
रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः ।
फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ ४.११ ॥

३ – गुणाः

माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः ।

४ – दोषाः

दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ ४.१२ ॥

५ – लक्षणानि

लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् ।
ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ ४.१३ ॥
तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके ।
सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ ४.१४ ॥
अक्षयाकारतायां च सरागादौ प्रविस्तृते ।
महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥ ४.१५ ॥
अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् ।
पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ ४.१६ ॥
तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् ।
सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ ४.१७ ॥
शून्यत्वे सानिमित्ते च प्रणीधानविवर्जिते ।
अनुत्पादानिरोधादौ धर्मताया अकोपने ॥ ४.१८ ॥
असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयोः ।
मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ ४.१९ ॥
स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ ।
गुरुत्वे माननायां च तत्पूजाकृतकत्वयोः ॥ ४.२० ॥
सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् ।
लोकस्य शून्यताकारशूचकज्ञापकाक्षगम् ॥ ४.२१ ॥
अचिन्त्यशान्ततादर्शि लोकसंज्ञनिरोधि च ।
ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥ ४.२२ ॥
अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः ।
विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ ४.२३ ॥
अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ ।
सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ ४.२४ ॥
क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ ।
आलम्बनं च साधारं साकल्यं सम्परिग्रहः ॥ ४.२५ ॥
अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः ।
विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥ ४.२६ ॥
हितं सुखं च त्राणं च शरणं लयनं नृणाम् ।
परायणं च द्वीपं च परिणायकसंज्ञकम् ॥ ४.२७ ॥
अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् ।
पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ ४.२८ ॥
क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः ।
विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः ॥ ४.२९ ॥
निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः ।
विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः ॥ ४.३० ॥
तथतानुपलम्भश्च स्वभावः षोडशात्मकः ।
लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥ ४.३१ ॥

६ – मोक्षभागीयम्

अनिमित्तप्रदानादिसमुदागमकौशलम् ।
सर्वाकारावबोधेऽस्मिन्मोक्षभागीयमिष्यते ॥ ४.३२ ॥
बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् ।
स्मृतिराशयसम्पत्तिः समाधिरविकल्पना ॥ ४.३३ ॥
धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा ।
तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥ ४.३४ ॥

७ – विर्वेधभागीयम्

आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते ।
समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ ४.३५ ॥
स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च ।
तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥ ४.३६ ॥
मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा ।
तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ ४.३७ ॥

८ – अवैवर्तिको गणः

निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः ।
ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः ॥ ४.३८ ॥
रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विशतिधेरितैः ।
निर्वेधाङ्गशितस्येदमक्वैर्तिकलक्षणम् ॥ ४.३९ ॥
रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयो ।
आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ ४.४० ॥
पराधारं च दानादि गम्भीरेऽर्थेऽप्यकांक्षणम् ।
मैत्रं कायाद्यसंवासः पंचधावरणेन च ॥ ४.४१ ॥
सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि ।
चीवरादि शरीरे च कृमीणामसमुद्भवः ॥ ४.४२ ॥
चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता ।
धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ ४.४३ ॥
परैरनेयता मारस्यान्यमार्गोपदेशिनः ।
मार इत्येव बोधश्च चर्या बुद्धानुमोदिता ॥ ४.४४ ॥
ऊष्ममूर्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः ।
लिङ्गैरमीभिर्विशत्या सम्बोधेर्न निवर्तत्ते ॥ ४.४५ ॥
क्षान्तिज्ञानक्षणाः षट्च पञ्च पञ्च च दृक्पथे ।
बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ ४.४६ ॥
रूपादिसंज्ञाव्यावृत्तिर्दाढर्यं चित्तस्य हीनयोः ।
यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ ४.४७ ॥
कायचेतोलघुत्वं च कामसेवाभ्युपायिकी ।
सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ ४.४८ ॥
स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके ।
समरे मत्सरादौ च नेति योगानुयोगयोः ॥ ४.४९ ॥
विहारप्रतिषेधश्च धर्मस्याणोरलब्धता ।
निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः ॥ ४.५० ॥
धर्मार्थः जीवितत्याग इत्यमी षोडश क्षणाः ।
अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ ४.५१ ॥
गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् ।
समारोपापवादान्तमुक्तता सा गभीरता ॥ ४.५२ ॥
चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः ।
निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ ४.५३ ॥
प्राबन्धिकत्वादिष्टोऽसौ नवधा च प्रकारतः ।
मृदुमध्याधिमात्राणां पुनर्मृद्धादिभेदतः ॥ ४.५४ ॥
असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः ।
कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः ॥ ४.५५ ॥
हानिवृद्धी न युज्येते निरालापस्य वस्तुनः ।
भावनाख्येन किं हीनं वर्त्मना किमुपदागतम् ॥ ४.५६ ॥
यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः ।
तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः ॥ ४.५७ ॥
पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा ।
दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा ॥ ४.५८ ॥
उत्पादे च निरोधे च तथतायां गभीरता ।
ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥ ४.५९ ॥

९ – भवशान्त्योः समता

स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना ।
कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ ४.६० ॥

१० – अनुत्तरा क्षेत्रशुद्धिः

सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्ध्युपहारतः ।
तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ ४.६१ ॥

११ – उपायकौशलम्

विषयोऽस्य प्रयोगस्य शात्रवाणामतिक्रमः ।
अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ ४.६२ ॥
असक्तोऽनुपलम्भश्च निमित्तप्रनिधिक्षतः ।
तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ ४.६३ ॥

इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारः ॥

मूर्धाभिसमयाधिकारः पञ्चमः

१ – लिङ्गम(ऊष्मा मुर्धप्रयोगः)

स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् ।
मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ ५.१ ॥

२ – विवृद्धिः(मूर्धा मूर्धप्रयोगः)

जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् ।
उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ ५.२ ॥

३ – निरुधिः(क्षान्तिः मूर्धप्रयोगः)

त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा ।
अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते ॥ ५.३ ॥

४ – चित्तसंस्थितिः(अग्रधर्माख्यः मूर्धप्रयोगः)

चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः ।
कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ ५.४ ॥

५ – दर्शनमार्गः(मूर्धप्रयोगः)

प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ ।
ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥ ५.५ ॥
द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ ।
पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥ ५.६ ॥
ग्राह्यौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ ।
इति ग्राहकभावेन शून्यतालक्षणं तयोः ॥ ५.७ ॥
एष स्वभावे गोत्रे च प्रतिपत्समुदागमे ।
ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ ५.८ ॥
स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले ।
प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ ५.९ ॥
भवशान्तिप्रपातित्वान्न्यूनत्वेऽधिगमस्य च ।
परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ ५.१० ॥
परप्रत्यगामित्वे समुद्देशनिवर्तने ।
प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ ५.११ ॥
पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः ।
निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ ५.१२ ॥
ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे ।
मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ ५.१३ ॥
स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः ।
सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ ५.१४ ॥
यथोद्देशमनिर्याणे मार्गामार्गावधारणे ।
सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ ५.१५ ॥
स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः ॥ ५.१६ ॥
बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना ।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ ५.१७ ॥
क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ ५.१८ ॥
प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना ।
विकल्पजातं कि क्षीणं किं वानत्पत्तिमागतम् ॥ ५.१९ ॥
सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः ।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ ५.२० ॥
नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किंचन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ५.२१ ॥
एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः ।
स एकक्षणिकः क्षान्तिसंगृहीतोऽत्र दृक्पथः ॥ ५.२२ ॥
स समाधिं समापद्य ततः सिंहविजृम्भितम् ।
अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते ॥ ५.२३ ॥

६ – भावनामार्गः(मूर्धप्रयोगः)

कामाप्तमबधीकृत्य विज्ञानमसमाहितम् ।
सनिरोधाः समपत्तीर्गत्त्वागम्य नव द्विधा ॥ ५.२४ ॥
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् ।
अवस्कन्दसमापत्तिरनिरोधमतुल्यता ॥ ५.२५ ॥
संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे ।
त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ ५.२६ ॥
एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः ।
द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ ५.२७ ॥
अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया ।
हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥ ५.२८ ॥
भावनेऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ ५.२९ ॥
ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः ।
धर्मप्रत्यशून्यत्वसक्तिप्रविचयात्मकः ॥ ५.३० ॥
कृते च वस्तुनो यानत्रितये च स कीर्त्तितः ।
दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने ॥ ५.३१ ॥
सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः ।
भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः ॥ ५.३२ ॥
सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृत्तौ ।
शान्तिमार्गतथतादिसम्प्रयोगवियोगयोः ॥ ५.३३ ॥
असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि ।
द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः ॥ ५.३४ ॥
आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव ।
सर्वाकारजगत्सौख्यसाधना गुणसम्पदः ॥ ५.३५ ॥
सर्वाः सर्वाभिसारेण निकामफलशालिनम् ।
भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ ५.३६ ॥

७ – आनन्तर्यसमाधिः(मूर्धप्रयोगः)

त्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि ।
बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ ५.३७ ॥
कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः ।
आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ ५.३८ ॥
आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः ।
आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥ ५.३९ ॥
आलम्बनोपपत्तौ च तत्स्वभावावधारणे ।
सर्वाकरज्ञताज्ञाने परमार्थे ससंवृत्तौ ॥ ५.४० ॥
प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः ।
विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ ५.४१ ॥
लक्षणे भावनायां च मता विप्रतिपत्तयः ।
सर्वाकारज्ञताधारा षोढा दश च वादिनाम् ॥ ५.४२ ॥

इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पंचमाधिकारः ।

आनुपूर्विकाधिकारः षष्ठः

दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा ।
धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ ६.१ ॥

इत्यभिसमायालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारः ।
एकक्षणाभिसम्बोधाधिकारः सप्तमः

१ – अविपाकललक्षणः

अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् ।
एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ ७.१ ॥
अरघट्टं यथैकापि पदिका पुरुषेरिता ।
सकृत्सर्वं चालयति ज्ञानमेकक्षणे तथा ॥ ७.२ ॥

२ – विपाकलक्षणः

विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ ७.३ ॥

३ – अलक्षणलक्षणः

स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥ ७.४ ॥

४ – अद्वयलक्षणः

स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते ।
धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति ॥ ७.५ ॥

इत्यभिसमयालङ्कारे नाम
प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारः ।

धर्मकायाधिकारः अष्टमः

१ – स्वभावकायः

सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ ८.१ ॥

२ – ज्ञानधर्मकायः

बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः ।
नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् ॥ ८.२ ॥
अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ ८.३ ॥
सर्वाकाराश्चतस्त्रोऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ ८.४ ॥
त्रिविधं स्मुत्युपस्थानं त्रिधासंमोषधर्मता ।
वासनायाः समुद्घातो महती करुणा जने ॥ ८.५ ॥
आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते ॥ ८.६ ॥
श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता ।
तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ ८.७ ॥
अनाभोगमनासङ्गमव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते ॥ ८.८ ॥
परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्त्तव्यं प्रथते तस्य तस्य सः ॥ ८.९ ॥
वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति ।
समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते ॥ ८.१० ॥
इति कारित्रवैपुल्याद्बुद्धो व्यापी निरुच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ ८.११ ॥

३ – सम्भोगकायः

द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
साम्भोगिको मतः कायो महायानोपभोगतः ॥ ८.१२ ॥
चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः ।
करौ सपादौ तरुणौ मृदू च समुत्सदै सप्तभिराश्रयोऽस्य ॥ ८.१३ ॥
दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः ॥ ८.१४ ॥
सुवर्णवर्णः प्रतनूच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ ८.१५ ॥
हीनो रसः ख्याति रसोत्तमोऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ ८.१६ ॥
तुल्याः प्रमाणेऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ ८.१७ ॥
यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ ८.१८ ॥
गुरूणामनुयानादिर्दृढता संवरं प्रति ।
संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः ॥ ८.१९ ॥
वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च ।
इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥ ८.२० ॥
ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः ।
वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः ॥ ८.२१ ॥
गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता ॥ ८.२२ ॥
मुष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता ॥ ८.२३ ॥
समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोत्सदगात्रत्वे सुसंहतनगात्रता ॥ ८.२४ ॥
सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥ ८.२५ ॥
दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता ।
समाचारः शुचिः कालतिलकापगता तनुः ॥ ८.२६ ॥
करौ तुलमृदू स्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता ॥ ८.२७ ॥
मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता ।
चारूमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥ ८.२८ ॥
अनुपूर्वी गतास्तुङ्गा नासिका परमं शुचिः ।
विशाले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ ८.२९ ॥
आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ ८.३० ॥
ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता ।
भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमुर्तयः ॥ ८.३१ ॥
केशा अपरुषाः पुसां सौरभ्यादपहारिणः ।
श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ ८.३२ ॥

४ – नैर्माणिककायः

करोति येन चित्राणि हितानि जगतः समम् ।
आभवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥ ८.३३ ॥
बुद्धकारित्राणि तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते ।
गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ ८.३४ ॥
निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ ८.३५ ॥
बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेतेऽनुपलम्भे च परिपाके च देहिनाम् ॥ ८.३६ ॥
बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ ८.३७ ॥
अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ ८.३८ ॥
विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥ ८.३९ ॥
व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ ८.४० ॥

इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे अष्टमाधिकारः ।


आर्यमैत्रेयनाथविरचितमभिसमयालङ्कारो नाम प्रज्ञापारमितोपदेशशास्त्रम्

प्रज्ञापारमितोपदेशशास्त्रम् – मैत्रेयनाथ

Categories: Buddhist Sanskrit Texts

Tagged as: