Hindu Philosophy

आगम प्रमाणम्-वेदान्तपरिभाषा

आगमप्रमाणम्

अथागमो निरूप्यते ।

यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् ।

वाक्यजन्यज्ञाने च आकांक्षायोग्यताऽऽसत्तयस्तात्पर्यज्ञानं च इति चत्वारि कारणानि ।

तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकांक्षा । क्रियाश्रवणे कारकस्य, कारकश्रवणे क्रियायाः, करणश्रवणे इतिकर्तव्यतायाश्च जिज्ञासाविषयत्वात् । अजिज्ञासोरपि वाक्यार्थबोधात् योग्यत्वमुपात्तम् । तदवच्छेदकं च क्रियात्वकारकत्वादिकम् (इति नातिव्याप्तिः गौरश्व इत्यादौ) । अभेदान्वये च समानविभक्तिकपदप्रतिपाद्यत्वं तदवच्छेदकमिति तत्त्वमस्यादिवाक्येषु नाव्याप्तिः ।
एतादृशाकांक्षाभिप्रायेणैव बलाबलाधिकरणे ” सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इत्यत्र वैश्वदेवयागस्यामिक्षान्वितत्वेन न वाजिनाकांक्षा इत्यादिव्यवहारः ।

ननु तत्रापि वाजिनस्य जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतायोग्यतावच्छेदकत्वादिति चेत् न ।

स्वसमानजातीयपदार्थान्वयबोधविरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन, वाजिनद्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन, तादृशावच्छेदकवत्वाभावात् । आमिक्षायान्तु नैवम् वाजिनान्वयस्य तदानुपस्थितत्वात् । उदाहरणान्तरेष्वपि दुर्बलत्वप्रयोजक आकांक्षाविरह एव द्रष्टव्यः ।
योग्यता तात्पर्यविषयसंसर्गाबाधः । “वह्निना सिञ्चति” इत्यादौ तादृशसंसर्गबाधान्न योग्यता । ” स प्रजापतिरात्मनो वपामुदखिदत्”(तै.सं. २.१.१.४) इत्यादावपि तात्पर्यविषयीभूतपशुप्राशस्त्याबाधात् योग्यता । तत्त्वमस्यादिवाक्येष्वपि वाच्याभेदबाधेऽपि लक्ष्यस्वरूपाभेदे बाधाभावात् योग्यता ।

आसत्तिश्चाव्यवधानेन पदजन्यपदार्थोपस्थितिः । मानान्तरोपस्थापितपदार्थस्यान्वयबोधाभावात् पदजन्येति । अत एवाश्रुतस्थले तत्तत्पदाध्याहारः, ‘द्वारम्’ इत्यादौ ‘पिधेहि’ इति । अत एव ‘इषे त्वा’ इत्यादिमन्त्रे ‘छिनद्मि’ इति पदाध्याहारः । अत एव विकृतिषु ‘सूर्याय जुष्टं निर्वपामि’ इति पदप्रयोगः ।

पदार्थश्च द्विविधः शक्यो लक्ष्यश्चेति । तत्र शक्तिर्नाम पदानामर्थेषु मुख्या वृत्तिः । यथा घटपदस्य पृथुबुध्नोदराद्याकृतिविशिष्टे वस्तुविशेषे वृत्तिः । सा च शक्तिः पदार्थान्तरम् , सिद्धान्ते कारणेषु कार्यानुकूलशक्तिमात्रस्य पदार्थान्तरत्वात् । सा च तत्तत्पदजन्यपदार्थज्ञानरूपकार्यानुमेया । तादृशशक्तिविषयत्वं शक्यत्वम् ।

तच्च जातेरेव, न व्यक्तेः व्यक्तीनामानन्त्येन गुरुत्वात् । कथं तर्हि गवादिपदाद्व्यक्तिभानमिति चेत् , जातेर्व्यक्तिसमानसंवित्संवेद्यत्वादिति ब्रूमः । यद्वा गवादिपदानां व्यक्तौ शक्तिः स्वरूपसती, न तु ज्ञाता, हेतुः । जातौ तु सा ज्ञाता हेतुः । न च व्यक्त्यंशे शक्तिज्ञानमपि कारणं गौरवात् । जातिशक्तिमत्त्वज्ञाने सति, व्यक्तिशक्तिमत्त्वज्ञानं विना व्यक्तिधीविलम्बाभावाच्च । अत एव न्यायमतेऽप्यन्वये शक्तिः स्वरूपसतीति सिद्धान्तः ।

ज्ञायमानशक्तिविषयत्वमेव वाच्यत्वमिति जातिरेव वाच्या । अथवा व्यक्तेर्लक्षणयाऽवगमः । यथा “नीलो घटः” इत्यत्र नीलशब्दस्य नीलगुणविशिष्टे लक्षणा, तथा जातिवाचकस्य तद्विशिष्टे लक्षणा । तदुक्तम् ” अनन्यलभ्यः शब्दार्थः” इति । एवं शक्यो निरूपितः ।

अथ लक्ष्यपदार्थो निरूप्यते । तत्र लक्षणाविषयो लक्ष्यः । लक्षणा च द्विविधा केवललक्षणा लक्षितलक्षणा चेति । तत्र शक्यसाक्षात्सम्बन्धः केवललक्षणा । यथा “गङ्गायां घोषः” इत्यत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे गङ्गापदस्य केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा । यथा द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा “सिंहो माणवकः” इत्यत्र सिंहशब्दवाच्यसम्बन्धिक्रौर्यादिसम्बन्धेन माणवकस्य प्रतीतिः ।

प्रकारान्तरेण लक्षणा त्रिविधा जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा । तत्र शक्यमनन्तर्भाव्य यत्रार्थान्तरप्रतीतिस्तत्र जहल्लक्षणा । यथा “विषं भुंक्ष्व” इत्यत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते । यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिः तत्राजहल्लक्षणा यथा “शुक्लो घटः” इति । अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते । यत्र हि विशिष्टवाचकः शब्द एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा । यथा “सोऽयम् देवदत्तः” इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्या पदद्वयस्य विशेष्यमात्रपरत्वम् । यथा वा ” तत्त्वमसि” इत्यादौ तत्पद्वाच्यस्य सर्वज्ञत्वादिविशिष्टस्य त्वम्पदवाच्येनान्तःकरणविशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः ।

वयन्तु ब्रूमः “सोऽयं देवदत्तः, तत्त्वमसि” इत्यादौ विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न लक्षणा, शक्त्युपस्थितविशिष्टयोः अभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेव अभेदान्वयाविरोधात् । यथा “घटोऽनित्यः” इत्यत्र घटपदवाच्यैकदेशघटत्वस्य अयोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः । यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः तत्रैव स्वातन्त्र्येणोपस्थितये लक्षणाभ्युपगमः । यथा “नित्यो घटः” इत्यत्र घटपदात् घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं घटपदस्य घटत्वे लक्षणा । एवमेव ” तत्त्वमसि” इत्यादिवाक्येऽपि न लक्षणा, शक्त्या स्वातन्त्र्येणोपस्थितयोः तत्त्वम्पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा “गेहे घटः, घटे रूपम्, घटमानय” इत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात् । तस्मात् ” तत्त्वमसि” इत्यादिवाक्येषु आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या ।

जहदजहल्लक्षणोदाहरणन्तु “काकेभ्यो दधि रक्ष्यताम्” इत्याद्येव तत्र शक्यकाकत्वपरित्यागेन अशक्यदध्युपघातकत्वपुरस्कारेणाकाकेऽपि काकशब्दप्रवृत्तेः ।
लक्षणाबीजन्तु तात्पर्यानुपपत्तिरेव न तु अन्वयानुपपत्तिः । “काकेभ्यो दधि रक्ष्यताम्” इत्यत्र अन्वयानुपपत्त्यभावात् । “गङ्गायां घोषः” इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् ।
लक्षणा च न पदमात्रवृत्तिः, किन्तु वाक्यवृत्तिरपि । यथा “गम्भीरायां नद्यां घोषः” इत्यत्र “गम्भीरायां नद्याम्” इति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यस्याशक्ततया कथं शक्यसम्बन्धरूपा लक्षणा ? उच्यते । शक्त्या यत् पदेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः ।

एवमर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा ” सोऽरोदीत्” इत्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्षणा । अर्थवादगतपदानां प्राशस्त्यादिलक्षणाभ्युपगमे एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात् । एवं च विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया, पदं सत् अर्थवादवाक्यं विधिवाक्येनैकवाक्यं भवति, इत्यर्थवादवाक्यानां पदैकवाक्यता । क्व तर्हि वाक्यैकवाक्यता ? यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकांक्षावशेन महावाक्यार्थबोधकत्वं, तत्र वाक्यैकवाक्यता । यथा ” दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यादिवाक्यानां ” समिधो यजति” इत्यादिवाक्यानां च परस्परापेक्षिताङ्गाङ्गिभावबोधकतया एकवाक्यता । तदुक्तं भट्टपादैः- ” स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥” इति ।
एवं द्विविधोऽपि पदार्थो निरूपितः । तदुपस्थितिश्चासत्तिः । सा च शाब्दबोधे हेतुः तथैवान्वयव्यतिरेकदर्शनात् ।

एवं महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः तथैवान्वयाद्यवधारणात् ।
क्रमप्राप्तं तात्पर्यं निरूप्यते । तत्र तत्प्रतीतीच्छयोच्चरितत्वं न तात्पर्यम् , अर्थज्ञानशून्येन पुरुषेणोच्चरिताद्वेदादर्थप्रत्ययाभावप्रसङ्गात् । “अयमध्यापकोऽव्युत्पन्नः” इति विशेषदर्शनेन तात्पर्यभ्रमस्याप्यभावात् । न चेश्वरीयतात्पर्यज्ञानात् तत्र शाब्दबोध इति वाच्यम् , ईश्वरानङ्गीकर्तुरपि तद्वाक्यार्थप्रतिपत्तिदर्शनात् । उच्यते । तत्प्रतीतिजननयोग्यत्वं तात्पर्यम् । “गेहे घटः” इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यम् , न तु पटसंसर्गप्रतीतिजननयोग्यमिति तद्वाक्यं घटसंसर्गपरम् , न तु पटसंसर्गपरमित्युच्यते ।

ननु “सैन्धवमानय” इत्यादिवाक्यं यदा लवणानयनप्रतीतीच्छया प्रयुक्तं, तदापि अश्वसंसर्गप्रतीतिजनने स्वरूपयोग्यतासत्त्वात् लवणपरत्वज्ञानदशायामश्वादिसंसर्गज्ञानापत्तिरिति चेत् न । तदितरप्रतीतीच्छयानुच्चरितत्वस्यापि तात्पर्यं प्रति विशेषणत्वात् । तथा च यद्वाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति, यदन्यप्रतीतीच्छया नोच्चरितं तद्वाक्यं तत्संसर्गपरमित्युच्यते । शुकादिवाक्ये, अव्युत्पन्नोच्चरितवेदवाक्यादौ च प्रतीतीच्छाया एवाभावेन तदन्यप्रतीतीच्छयोच्चरितत्वाभावेन लक्षणसत्त्वान्नाव्याप्तिः । न चोभयप्रतीतीच्छयोच्चरितेऽव्याप्तिः तदन्यमात्रप्रतीतीच्छयाऽनुच्चरितत्वस्य विवक्षितत्वात् ।

उक्तप्रतीतिमात्रजननयोग्यतायाश्चावच्छेदिका शक्तिः । अस्माकं मते सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वान्न कोऽपि दोषः ।

एवं तात्पर्यस्य तत्प्रतीतिजनकत्वरूपस्य शाब्दज्ञानजनकत्वे सिद्धे, चतुर्थवर्णके तात्पर्यस्य शाब्दज्ञानहेतुत्वनिराकरणवाक्यं तत्प्रतीतीच्छयोच्चरितत्वरूपतात्पर्यनिराकरणपरम् , अन्यथा तात्पर्यनिश्चयफलकवेदान्तविचारवैयर्थ्यप्रसङ्गात् । केचित्तु शाब्दज्ञानत्वावच्छेदेन न तात्पर्यज्ञानं हेतुरित्येवंपरं चतुर्थवर्णकवाक्यम् । तात्पर्यसंशयविपर्ययोत्तरशाब्दज्ञानविशेषे च तात्पर्यज्ञानं हेतुरेव । इदं वाक्यमेतत्परमुतान्यपरमिति संशये तद्विपर्यये च, तदुत्तरवाक्यार्थविशेषनिश्चयस्य तात्पर्यनिश्चयं विनाऽनुपपत्तेरित्याहुः ।

तच्च तात्पर्यं वेदे मीमांसापरिशोधितन्यायादेवावधर्यते, लोके तु प्रकरणादिना । तत्र लौकिकवाक्यानां मानान्तरावगतार्थतयाऽनुवादकत्वम् । वेदे तु वाक्यार्थस्यापूर्वतया नानुवादकत्वम् । तत्र लोके वेदे च कार्यपराणामिव सिद्धर्थानामपि प्रामाण्यम् , “पुत्रस्ते जातः” इत्यादिषु सिद्धार्थेऽपि पदानां सामर्थ्यावधारणात् । अत एव वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यम् । यथा चैतत् तथा विषयपरिच्छेदे वक्ष्यते ।
तत्र वेदानां नित्यसर्वज्ञपरमेश्वरप्रणीतत्वेन प्रामाण्यमिति नैयायिकाः । वेदानां नित्यत्वेन निरस्तसमस्तपुंदूषणतया प्रामाण्यमित्यध्वरमीमांसकाः ।

अस्माकं तु मते वेदो न नित्यः, उत्पत्तिमत्त्वात् । उत्पत्तिमत्त्वं च ” अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः” इत्यादिश्रुतेः ।
नापि वेदानां द्विक्षणावस्थायित्वम् , “य एव वेदो देवदत्तेनाधीतः, स एव मयापि” इत्यादिप्रत्यभिज्ञाविरोधात् । अत एव गकारादिवर्णानामपि न क्षणिकत्वम् , “सोऽयं गकारः” इत्यादिप्रत्यभिज्ञाविरोधात् ।

तथा च वर्णपदवाक्यसमुदायस्य वेदस्य वियदादिवत् सृष्टिकालीनोत्पत्तिकत्वं, प्रलयकालीनध्वंसप्रतियोगित्वं च । न तु मध्ये वर्णानामुत्पत्तिविनाशौ, अनन्तगकारादिकल्पनायां गौरवात् । अनुच्चारणदशायां वर्णानामनभिव्यक्तिस्तदुच्चारणरूपव्यञ्जकाभावात् न विरुध्यते, अन्धकारस्थघटानुपलम्भवत् । “उत्पन्नो गकारः” इत्यादिप्रत्ययस्तु “सोऽयं गकारः” इत्यादिप्रत्यभिज्ञाविरोधादप्रमाणम् । वर्णाभिव्यञ्जकध्वनिगतोत्पत्तिनिरूपितपरम्परासम्बन्धविषयत्वेन प्रमाणं वा । तस्मान्न वेदानां क्षणिकत्वम् ।

ननु क्षणिकत्वाभावेऽपि वियदादिप्रपञ्चवदुत्पत्तिमत्वेन परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति तव सिद्धान्तो भज्येत इति चेत् न । न हि तावत् पुरुषेण उच्चार्यमाणत्वं पौरुषेयत्वम् , गुरुमतेऽप्यध्यापकपरम्परया पौरुषेयत्वापत्तेः । नापि पुरुषाधीनोत्पत्तिकत्वं पौरुषेयत्वम् , नैयायिकाभिमतपौरुषेयत्वानुमानेऽस्मदादिना सिद्धसाधनापत्तेः । किन्तु सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् । तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान् , न तु तद्विजातीयं वेदमिति न सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं पौरुषेयत्वं वेदस्य । भारतादीनान्तु सजातीयोच्चारणमनपेक्ष्यैवोच्चारणमिति तेषां पौरुषेयत्वम् । एवं पौरुषेयापौरुषेयभेदेन द्विविध आगमो निरूपितः ।

इति वेदान्तपरिभाषायामागमपरिच्छेदः ।

Categories: Hindu Philosophy

Tagged as: ,