उपमानप्रमाणम्
अथोपमानं निरूप्यते ।
तत्र सादृश्यप्रमाकरणमुपमानम् ।
तथा हि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः “अयं पिण्डो गोसदृशः” इति । तदनन्तरं च भवति निश्चयः “अनेन सदृशी मदीया गौः” इति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणम् , गोनिष्ठगवयसादृश्यज्ञानं फलम् ।
न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात् । नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्य अतल्लिङ्गत्वात् । नापि मदीया गौरेतद्गवयसदृशी, एतन्निष्ठसादृश्यप्रतियोगित्वात् , यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः, यथा मैत्रनिष्ठसादृश्यप्रतियोगी चैत्रो मैत्रसदृशः इत्यनुमानात् तत्सम्भव इति वाच्यम् । एवंविधानुमानानवतारेऽपि “अनेन सदृशी मदीया गौः” इति प्रतीतेरनुभवसिद्धत्वात् “उपमिनोमि” इत्यनुव्यवसायाच्च । तस्मादुपमानं मानान्तरम् ।
इति वेदान्तपरिभाषायामुपमानपरिच्छेदः ।
More Stories
The so-called letter of Jekob
Bengali Community in Varanasi
Sinwar does not want a humanitarian deal: Mossad (14/04/2024)