Sanskrit

Dialogue between Yagyavalka and his wife Maitrayani – येनाहं नामृता स्यां किमहं तेन कुर्यां-मैत्रेयी

बृहदारण्यकोपनिषत्- शाङ्करभाष्यम्-आनन्दगिरिटीका

याज्ञवल्क्यः-मैत्रेयी

आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् ।

पुनः तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शिष्याचार्यसम्बन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् ।

अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते ;

अयं च न्यायः वाक्यकोविदैः परिगृहीतः — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ (न्या. सू. १ । १ । ३९) इति ।

अथवा आगमप्रधानेन मधुकाण्डेन यत् अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमभिहितम् , तदेव तर्केणापि अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमधिगम्यते ; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम् ; तस्मात् शास्त्रतर्काभ्यां निश्चितमेतत् — यदेतत् आत्मज्ञानं ससन्न्यासम् अमृतत्वसाधनमिति ; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रतिपित्सुभिः एतत् प्रतिपत्तव्यमिति ; आगमोपपत्तिभ्यां हि निश्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति ।

अक्षराणां तु चतुर्थे यथा व्याख्यातोऽर्थः, तथा प्रतिपत्तव्योऽत्रापि ; यान्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः ॥

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १ ॥

अथेति हेतूपदेशानन्तर्यप्रदर्शनार्थः ।

हेतुप्रधानानि हि वाक्यानि अतीतानि ।

तदनन्तरम् आगमप्रधानेन प्रतिज्ञातोऽर्थः निगम्यते मैत्रेयीब्राह्मणेन । ह – शब्दः वृत्तावद्योतकः । याज्ञवल्क्यस्य ऋषेः किल द्वे भार्ये पत्न्यौ बभूवतुः आस्ताम् — मैत्रेयी च नामत एका, अपरा कात्यायनी नामतः । तयोर्भार्ययोः मैत्रेयी ह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूव आसीत् ; स्त्रीप्रज्ञा – स्त्रियां या उचिता सा स्त्रीप्रज्ञा — सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा, सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काले आसीत् कात्यायनी ।

अथ एवं सति ह किल याज्ञवल्क्यः अन्यत् पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात् पारिव्राज्यलक्षणं वृत्तम् उपाकरिष्यन् उपाचिकीर्षुः सन् ॥

मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ २ ॥

हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास ; आमन्त्र्य चोवाच ह — प्रव्रजिष्यन् पारिव्राज्यं करिष्यन् वै अरे मैत्रेयि अस्मात् स्थानात् गार्हस्थ्यात् अहम् अस्मि भवामि । मैत्रेयि अनुजानीहि माम् ; हन्त इच्छसि यदि, ते अनया कात्यायन्या अन्तम् करवाणि — इत्यादि व्याख्यातम् ॥

सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ३ ॥

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ४ ॥

सा एवमुक्ता उवाच मैत्रेयी — सर्वेयं पृथिवी वित्तेन पूर्णा स्यात् , नु किम् स्याम् , किमहं वित्तसाध्येन कर्मणा अमृता, आहो न स्यामिति । नेति होवाच याज्ञवल्क्य इत्यादि समानमन्यत् ॥

स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥

सः ह उवाच — प्रियैव पूर्वं खलु नः अस्मभ्यम् भवती, भवन्ती सती, प्रियमेव अवृधत् वर्धितवती निर्धारितवती असि ; अतः तुष्टोऽहम् ; हन्त इच्छसि चेत् अमृतत्वसाधनं ज्ञातुम् , हे भवति, ते तुभ्यं तत् अमृत्वसाधनं व्याख्यास्यामि ॥

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्त्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ६ ॥

आत्मनि खलु अरे मैत्रेयि दृष्टे ; कथं दृष्ट आत्मनीति, उच्यते — पूर्वम् आचार्यागमाभ्यां श्रुते, पुनः तर्केणोपपत्त्या मते विचारिते, श्रवणं तु आगममात्रेण, मते उपपत्त्या, पश्चात् विज्ञाते — एवमेतत् नान्यथेति निर्धारिते ; किं भवतीत्युच्यते — इदं विदितं भवति ; इदं सर्वमिति यत् आत्मनोऽन्यत् , आत्मव्यतिरेकेणाभावात् ॥

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽन्यत्रात्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ७ ॥

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥

तम् अयथार्थदर्शिनं परादात् पराकुर्यात् , कैवल्यासम्बन्धिनं कुर्यात् — अयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः ॥

स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसितानि ॥ ११ ॥

स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणा हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥

चतुर्थे शब्दनिश्वासेनैव लोकाद्यर्थनिश्वासः सामर्थ्यात् उक्तो भवतीति पृथक् नोक्तः । इह तु सर्वशास्त्रार्थोपसंहार इति कृत्वा अर्थप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥
प्रज्ञानघन एव

स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३ ॥

सर्वकार्यप्रलये विद्यानिमित्ते, सैन्धवघनवत् अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघन एक आत्मा अवतिष्ठते ; पूर्वं तु भूतमात्रासंसर्गविशेषात् लब्धविशेषविज्ञानः सन् ; तस्मिन् प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञा अस्ति — इत्येवं याज्ञवल्क्येनोक्ता ॥

सा होवाच मैत्रेय्यत्रैव मा भगवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ १४ ॥

सा होवाच — अत्रैव मा भगवान् एतस्मिन्नेव वस्तुनि प्रज्ञानघन एव, न प्रेत्य संज्ञास्तीति, मोहान्तं मोहमध्यम् , आपीपिपत् आपीपदत् अवगमितवानसि, सम्मोहितवानसीत्यर्थः ; अतः न वा अहम् इममात्मानम् उक्तलक्षणं विजानामि विवेकत इति । स होवाच — नाहं मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मा यतः ; विननं शीलमस्येति विनाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अविनाशीति अविक्रिय आत्मेत्यर्थः ; अरे मैत्रेयि, अयमात्मा प्रकृतः अनुच्छित्तधर्मा ; उच्छित्तिरुच्छेदः, उच्छेदः अन्तः विनाशः, उच्छित्तिः धर्मः अस्य इति उच्छित्तिधर्मा, न उच्छित्तिधर्मा अनुच्छित्तिधर्मा, नापि विक्रियालक्षणः, नाप्युच्छेदलक्षणः विनाशः अस्य विद्यत इत्यर्थः ॥

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥

चतुर्ष्वपि प्रपाठकेषु एक आत्मा तुल्यो निर्धारितः परं ब्रह्म ; उपायविशेषस्तु तस्याधिगमे अन्यश्चान्यश्च ; उपेयस्तु स एव आत्मा, यः चतुर्थे — ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिष्टः ; स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः, पुनः पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्यसंवादे, पुनः इह उपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानाम् एतदात्मनिष्ठता, नान्योऽन्तराले कश्चिदपि विवक्षितोऽर्थः — इत्येतत्प्रदर्शनाय अन्ते उपसंहारः — स एष नेति नेत्यादिः । यस्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव निष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा ; तस्मात् एतदेवामृतत्वसाधनम् , यदेतत् नेति नेत्यात्मपरिज्ञानं सर्वसन्न्यासश्च इत्येतमर्थमुपसञ्जिहीर्षन्नाह — एतावत् एतावन्मात्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम् ; इदं च अन्यसहकारिकारणनिरपेक्षमेव अरे मैत्रेयि अमृतत्वसाधनम् । यत्पृष्टवत्यसि — यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति, तत् एतावदेवेति विज्ञेयं त्वया — इति ह एवं किल अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञवल्क्यः — किं कृतवान् ? यत्पूर्वं प्रतिज्ञातम् ‘प्रव्रजिष्यन्नस्मि’ (बृ. उ. ४ । ५ । २) इति, तच्चकार, विजहार प्रव्रजितवानित्यर्थः । परिसमाप्ता ब्रह्मविद्या सन्न्यासपर्यवसाना । एतावान् उपदेशः, एतत् वेदानुशासनम् , एषा परमनिष्ठा, एष पुरुषार्थकर्तव्यतान्त इति ॥
इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये । यत आकुलानि हि वाक्यानि दृश्यन्ते — ‘यावज्जीवमग्निहोत्रं जुहुयात्’ ( ? ) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ ( ? ) ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रम्’ (शत. ब्रा. १२ । ४ । १ । १) इत्यादीनि ऐकाश्रम्यज्ञापकानि ; अन्यानि च आश्रमान्तरप्रतिपादकानि वाक्यानि ‘विदित्वा व्युत्थाय प्रव्रजन्ति’ (बृ. उ. ३ । ५ । १) ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति, ‘द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः, क्रियापथश्चैव पुरस्तात्सन्न्यासश्च, तयोः सन्न्यास एवातिरेचयति’ ( ? ) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’ (तै. ना. १० । ५) इत्यादीनि ।

तथा स्मृतयश्च — ‘ब्रह्मचर्यवान्प्रव्रजति’ (आ. ध. २ । २१ । ८ । १०) ‘अविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत्’ (व. ८ । २ ? ) ‘तस्याश्रमविकल्पमेके ब्रुवते’ (गौ. ध. ३ । १) ; तथा ‘वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितॄणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्’ (मो. ध. १७५ । ६) । ‘प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्’ (मनु. ६ । ३८) इत्याद्याः । एवं व्युत्थानविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलभ्यन्त इतरेतरविरुद्धानि । आचारश्च तद्विदाम् । विप्रतिपत्तिश्च शास्त्रार्थप्रतिपत्तॄणां बहुविदामपि । अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् । परिनिष्ठितशास्त्रन्यायबुद्धिभिरेव हि एषां वाक्यानां विषयविभागः शक्यते अवधारयितुम् । तस्मात् एषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थ्यं विचारयिष्यामः ॥
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासम्भवात् क्रियावसान एव वेदार्थः ; ‘तं यज्ञपात्रैर्दहन्ति’ ( ? ) इत्यन्त्यकर्मश्रवणात् ; जरामर्यश्रवणाच्च ; लिङ्गाच्च ‘भस्मान्तं शरीरम्’ (ई. उ. १७) इति ; न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् ।

स्मृतिश्च — ‘निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिंज्ञेयो नान्यस्य कस्यचित्’ (मनु. २ । १६) इति ; स मन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां दर्शयति स्मृतिः ; अधिकाराभावप्रदर्शनाच्च — अत्यन्तमेव श्रुत्यधिकाराभावः अकर्मिणो गम्यते । अग्न्युद्वासनापवादाच्च, ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ (तै. सं. १ । ५ । २ । १) इति । ननु व्युत्थानादिविधानात् वैकल्पिकं क्रियावसानत्वं वेदार्थस्य — न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम् ; ‘यावज्जीवमग्निहोत्रं जुहोति’ ( ? ) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ ( ? ) इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न शक्यते अन्यार्थता कल्पयितुम् , तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसम्भवात् ; ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति च मन्त्रवर्णात् , जरया वा ह्येवास्मान्मुच्यते मृत्युना वा — इति च जरामृत्युभ्यामन्यत्र कर्मवियोगच्छिद्रासम्भवात् कर्मिणां श्मशानान्तत्वं न वैकल्पिकम् ; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिव्राज्यक्रमविधानस्य अनवकाशत्वमिति चेत् , न, विश्वजित्सर्वमेधयोः यावज्जीवविध्यपवादत्वात् ; यावज्जीवाग्निहोत्रादिविधेः विश्वजित्सर्वमेधयोरेव अपवादः, तत्र च क्रमप्रतिपत्तिसम्भवः — ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्’ (जा. उ. ४) इति । विरोधानुपपत्तेः ; न हि एवंविषयत्वे पारिव्राज्यक्रमविधानवाक्यस्य, कश्चिद्विरोधः क्रमप्रतिपत्तेः ; अन्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुतिः स्वविषयात्सङ्कोचिता स्यात् ; क्रमप्रतिपत्तेस्तु विश्वजित्सर्वमेधविषयत्वात् न कश्चिद्बाधः ॥

न, आत्मज्ञानस्य अमृतत्वहेतुत्वाभ्युपगमात् ।

यत्तावत् ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतम् आत्मज्ञानम् , तत् अमृतत्वसाधनमित्यभ्युपगतं भवता ; तत्र एतावदेवामृतत्वसाधनम् अन्यनिरपेक्षमित्येतत् न मृष्यते । तत्र भवन्तं पृच्छामि, किमर्थमात्मज्ञानं मर्षयति भवानिति । शृणु तत्र कारणम् — यथा स्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतः अग्निहोत्रादि स्वर्गप्राप्तिसाधनं ज्ञापयति, तथा इहाप्यमृतत्वप्रतिपित्सोः अमृतत्वप्राप्त्युपायमजानतः ‘यदेव भगवान्वेद तदेव मे ब्रूहि’ (बृ. उ. ४ । ५ । ४) इत्येवमाकाङ्क्षितम् अमृतत्वसाधनम् ‘एतावदरे’ (बृ. उ. ४ । ५ । १५) इत्येवमादौ वेदेन ज्ञाप्यत इति । एवं तर्हि, यथा ज्ञापितमग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते, तथा इहापि आत्मज्ञानम् — यथा ज्ञाप्यते तथाभूतमेव अमृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तम् ; तुल्यप्रामाण्यादुभयत्र । यद्येवं किं स्यात् ? सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात् ; दाराग्निसम्बद्धानां तावत् अग्निहोत्रादिकर्मणां भेदबुद्धिविषयसम्प्रदानकारकसाध्यत्वम् ; अन्यबुद्धिपरिच्छेद्यां हि अन्यादिदेवतां सम्प्रदानकारकभूतामन्तरेण, न हि तत्कर्म निर्वर्त्यते ; यया हि सम्प्रदानकारकबुद्ध्या सम्प्रदानकारकं कर्मसाधनत्वेनोपदिश्यते, सा इह विद्यया निवर्त्यते — ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद’ (बृ. उ. ४ । ५ । १२) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) ‘एकधैवानुद्रष्टव्यं सर्वमात्मानं पश्यति’ (बृ. उ. ४ । ४ । २०) इत्यादिश्रुतिभ्यः । न च देशकालनिमित्ताद्यपेक्षत्वम् , व्यवस्थितात्मवस्तुविषयत्वात् आत्मज्ञानस्य । क्रियायास्तु पुरुषतन्त्रत्वात् स्यात् देशकालनिमित्ताद्यपेक्षत्वम् ; ज्ञानं तु वस्तुतन्त्रत्वात् न देशकालनिमित्तादि अपेक्षते ; यथा अग्निः उष्णः, आकाशः अमूर्तः — इति, तथा आत्मविज्ञानमपि ।

ननु एवं सति प्रमाणभूतस्य कर्मविधेः निरोधः स्यात् ; न च तुल्यप्रमाणयोः इतरेतरनिरोधो युक्तः — न, स्वाभाविकभेदबुद्धिमात्रनिरोधकत्वात् ; न हि विध्यन्तरनिरोधकम् आत्मज्ञानम् , स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि । तथापि हेत्वपहारात् कर्मानुपपत्तेः विधिनिरोध एव स्यादिति चेत् — न, कामप्रतिषेधात् काम्यप्रवृत्तिनिरोधवत् अदोषात् ; यथा ‘स्वर्गकामो यजेत’ (बृ. उ. ४ । ४ । २३) इति स्वर्गसाधने यागे प्रवृत्तस्य कामप्रतिषेधविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिः निरुध्यते ; न च एतावता काम्यविधिर्निरुद्धो भवति । कामप्रतिषेधविधिना काम्यविधेः अनर्थकत्वज्ञानात् प्रवृत्त्यनुपपत्तेः निरुद्ध एव स्यादिति चेत् — भवतु एवं कर्मविधिनिरोधोऽपि ।

यथा कामप्रतिषेधे काम्यविधेः, एवं प्रामाण्यानुपपत्तिरिति चेत् — अननुष्ठेयत्वे अनुष्ठातुरभावात् अनुष्ठानविध्यानर्थक्यात् अप्रामाण्यमेव कर्मविधीनामिति चेत् — न, प्रागात्मज्ञानात् प्रवृत्त्युपपत्तेः ; स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात् कर्महेतुत्वमुपपद्यत एव ; यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक् काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्याः, तद्वत् । तथा सति अनर्थार्थो वेद इति चेत् — न, अर्थानर्थयोः अभिप्रायतन्त्रत्वात् ; मोक्षमेकं वर्जयित्वा अन्यस्याविद्याविषयत्वात् ; पुरुषाभिप्रायतन्त्रौ हि अर्थानर्थौ, मरणादिकाम्येष्टिदर्शनात् । तस्मात् यावदात्मज्ञानविधेराभिमुख्यम् , तावदेव कर्मविधयः ; तस्मात् न आत्मज्ञानसहभावित्वं कर्मणामित्यतः सिद्धम् आत्मज्ञानमेव अमृतत्वसाधनम् ‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति, कर्मनिरपेक्षत्वात् ज्ञानस्य । अतो विदुषस्तावत् पारिव्राज्यं सिद्धम् , सम्प्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणापि उक्तन्यायतः । तथा च व्याख्यातमेतत् — ‘येषां नोऽयमात्माऽयं लोकः’ (बृ. उ. ४ । ४ । २२) इति हेतुवचनेन, पूर्वेविद्वांसः प्रजामकामयमाना व्युत्तिष्ठन्तीति — पारिव्राज्यम् विदुषाम् आत्मलोकावबोधादेव । तथा च विविदिषोरपि सिद्धं पारिव्राज्यम् , ‘एतमेवात्मानं लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इति वचनात् ; कर्मणां च अविद्वद्विषयत्वमवोचाम ; अविद्याविषये च उत्पत्त्यादिविकारसंस्कारार्थानि कर्माणीत्यतः — आत्मसंस्कारद्वारेण आत्मज्ञानसाधनत्वमपि कर्मणामवोचाम — यज्ञादिभिर्विविदिषन्तीति । अथ एवं सति अविद्वद्विषयाणाम् आश्रमकर्मणां बलाबलविचारणायाम् , आत्मज्ञानोत्पादनं प्रति यमप्रधानानाम् अमानित्वादीनाम् मानसानां च ध्यानज्ञानवैराग्यादीनाम् सन्निपत्योपकारकत्वम् ; हिंसारागद्वेषादिबाहुल्यात् बहुक्लिष्टकर्मविमिश्रिता इतरे — इति ; अतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति — ‘त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । वैराग्यं पुनरेतस्य मोक्षस्य परमोऽवधिः’ ( ? ) ‘किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च’ (मो. ध. १७५ । ३८, २७७ । ३८) । एवं साङ्ख्ययोगशास्त्रेषु च सन्न्यासः ज्ञानं प्रति प्रत्यासन्न उच्यते ; कामप्रवृत्त्यभावाच्च ; कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा । तस्मात् विरक्तस्य मुमुक्षोः विनापि ज्ञानेन ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्यादि उपपन्नम् । ननु सावकाशत्वात् अनधिकृतविषयमेतदित्युक्तम् , यावज्जीवश्रुत्युपरोधात् —

नैष दोषः, नितरां सावकाशत्वात् यावज्जीवश्रुतीनाम् ; अविद्वत्कामिकर्तव्यतां हि अवोचाम सर्वकर्मणाम् ; न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म ; प्रायेण हि पुरुषाः कामबहुलाः ; कामश्च अनेकविषयः अनेककर्मसाधनसाध्यश्च ; अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसम्बन्धपुरुषकर्तव्यानि, पुनः पुनश्च अनुष्ठीयमानानि बहुफलानि कृष्यादिवत् , वर्षशतसमाप्तीनि च गार्हस्थ्ये वा अरण्ये वा ; अतः तदपेक्षया यावज्जीवश्रुतयः ; ‘कुर्वन्नेवेह कर्माणि’ (ई. उ. २) इति च मन्त्रवर्णः । तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः, यस्मिंश्च पक्षे यावज्जीवानुष्ठानम् , तदा श्मशानान्तत्वम् भस्मान्तता च शरीरस्य । इतरवर्णापेक्षया वा यावज्जीवश्रुतिः ; न हि क्षत्त्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति ; तथा ‘मन्त्रैर्यस्योदितो विधिः’ (मनु. २ । १६) ‘ऐकाश्रम्यं त्वाचार्याः’ (गौ. ध. १ । ३ । ३५) इत्येवमादीनां क्षत्त्रियवैश्यापेक्षत्वम् । तस्मात् पुरुषसामर्थ्यज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रतिपत्तिप्रकाराः न विरुध्यन्ते ; अनधिकृतानां च पृथग्विधानात् पारिव्राज्यस्य ‘स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४) इत्यादिना ; तस्मात् सिद्धानि आश्रमान्तराणि अधिकृतानामेव ॥


SOURCE: बृहदारण्यकोपनिषत् चतुर्थाध्यायस्य पञ्चमं ब्राह्मणम् ॥


Categories: Sanskrit

Tagged as: