Sanatan Dharma

कामसूत्रम्-साधारणम्

कामसूत्रम्-वात्स्यायनः

साधारणम्

शास्त्रसंग्रहः

1.1.1 धर्मअर्थकामेभ्यो नमः

1.1.2 शास्त्रे प्रकृतत्वात्

1.1.3 तत्समय अवबोधकेभ्यश्च आचार्येभ्यः

1.1.4 तत्संबन्धात्

1.1.5 प्रजापतिर् हि प्रजाः सृष्ट्वा ताषां स्थितिनिबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणअग्रे प्रोवाच

1.1.6 तस्यएकदेशिकं मनुः स्वायंभुवो धर्मअधिकारिकं पृथक् चकार/

1.1.7 बृहस्पतिर् अर्थअधिकारिकम्/

1.1.8 महादेवअनुचरश् च नन्दी सहस्रेणअध्यायानां पृथक् कामसूत्रं प्रोवाच/

1.1.9तद् एव तु पञ्चभिर् अध्यायशतैर् औद्दालकिः श्वेतकेतुः संचिक्षेप/

1.1.10 तद् एव तु पुनर् अध्यर्धेनअध्यायशतेन

साधारणसांप्रयोगिककन्यासंप्रयुक्तकभार्याअधिकारिकपारदारिकवैशि कऔपनिषदिकः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप/

1.1.11 तस्य षष्ठं वैशिकम् अधिकरणं पाटलिपुत्रिकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार/

1.1.12 तत्प्रसङ्गाच् चारायणः साधारणम् अधिकरणं पृथक् प्रोवाच/ सुवर्णनाभः सांप्रयोगिकम्/ घोटकमुखः कन्यासंप्रयुक्तकम्/ गोनर्दीयो भार्याअधिकारिकम्/ गोणिकापुत्रः पारदारिकम्/ कुचुमार औपनिषदिकम् इति/

1.1.13 एवं बहुभिर् आचार्यैस् तच्छास्त्रं खण्डशः प्रणीतम् उत्सन्नकल्पम् अभूत्/

1.1.14 तत्र दत्तकआदिभिः प्रणीतानां शास्त्रअवयवानाम् एकदेशत्वात्, महद् इति च बाभ्रवीयस्य दुरध्येयत्वात्, संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्/

1.1.15 तस्यअयं प्रकरणअधिकरणसमुद्देशः —

1.1.16  शास्त्रसंग्रहः/ त्रिवर्गप्रतिपत्तिः/ विद्यासमुद्देशः/ नागरिकवृत्तम्/ नायकसहायदूतीकर्मविमर्शः/ इति साधारणं प्रथमम् अधिकरणम्/ अध्यायाः पञ्च/ प्रकरणानि पञ्च/

1.1.17 प्रमाणकालभावेभ्यो रतअवस्थापनम्/ प्रीतिविशेषाः/ आलिङ्गनविचाराः/ चुम्बनविकल्पाः/ नखरदनजातयः/ दशनच्छेद्यविधयः/ देश्या उपचाराः/ संवेशनप्रकाराः/ चित्ररतानि/ प्रहणनयोगाः/ तद्युक्ताश् च सीत्कृतौपक्रमाः/ पुरुषायितम्/ पुरुषोपसृप्तानि/ औपरिष्टकम्/ रतआरम्भअवसानिकम्/ रतविशेषाः/ प्रणयकलहः/ इति सांप्रयोगिकं द्वितीयम् अधिकरणम्/ अध्याया दश/ प्रकरणानि सप्तदश/

1.1.18 वरणविधानम्/ संबन्धनिर्णयः/ कन्याविस्रम्भणम्/ बालायाअन्यत्र : बालायाः उपक्रमाः/ इङ्गितआकारसूचनम्/ एकपुरुषअभियोगः/ प्रयोज्यस्यौपावर्तनम्/ अभियोगतश् च कन्यायाः प्रतिपत्तिः/ विवाहयोगः/ इति कन्यासंप्रयुक्तकं तृतीयम् अधिकरणम्/ अध्यायाः पञ्च/ प्रकरणानि नव/

1.1.19एकचारिणीवृत्तम्/ प्रवासचर्या/ सपत्नीषु ज्येष्ठावृत्तम्/ कनिष्ठावृत्तम्/ पुनर्भूवृत्तम्/ दुर्भगावृत्तम्/ आन्तःपुरिकम्अन्यत्र : न्तःपुरिकम्/ पुरुषस्य बह्वीषु प्रतिपत्तिः/ इति भार्याअधिकारिकं चतुर्थम् अधिकरणम्/ अध्यायौ द्वौ/ प्रकरणान्य् अष्टौ/

1.1.20 स्त्रीपुरुषशीलअवस्थापनम्/ व्यावर्तनकारणानि/ स्त्रीषु सिद्धाः पुरुषाः/ अयत्नसाध्या योषितः/ परिचयकारणानि/ अभियोगाः/ भावपरीक्षा/ दूतीकर्माणि/ ईश्वरकामितम्/ आन्तःपुरिकं दाररक्षितकम्/ इति पारदारिकं पञ्चमम् अधिकरणम्/ अध्यायाः षट्/ प्रकरणानि दश/

1.1.21 गम्यचिन्ता/ गमनकारणानि/ उपावर्तनविधिः/ कान्तअनुवर्तनम्/ अर्थआगमौपायाः/ विरक्तलिङ्गानि/ विरक्तप्रतिपत्तिः/ निष्कासनप्रकाराः/ विशीर्णप्रतिसंधानम्/ लाभविशेषः/ अर्थअनर्थअनुबन्धसंशयविचारः/ वेश्याविशेषाश् च/ इति वैशिकं षष्ठम् अधिकरणम्/ अध्यायाः षट्/ प्रकरणानि द्वादश/

1.1.22 सुभगंकरणम्/ वशीकरणम्/ वृष्याश् च योगाः/ नष्टरागप्रत्यानयनम्/ वृद्धिविधयः/ चित्राश् च योगाः/ इत्य् औपनिषदिकं सप्तमम् अधिकरणम्/ अध्यायौ द्वौ/ प्रकरणानि षट्/

1.1.23 एवं षट्त्रिंशद् अध्यायाः/ चतुःषष्टिः प्रकरणानि/ अधिकरणानि सप्त/ सपादं श्लोकसहस्रम्/ इति शास्त्रस्य संग्रहः/[ 8]

1.1.24क – संक्षेपम् इमम् उक्त्वाअस्य विस्तरो अतः प्रवक्ष्यते/

1.1.24ख – इष्टं हि विदुषां लोके समासव्यासभाषणम्/

त्रिवर्गप्रतिपत्तिः

1.2.1 शतआयुर् वै पुरुषो विभज्य कालम् अन्योन्यअनुबद्धं परस्परस्यअनुपघातकं त्रिवर्गं सेवेत/

1.2.2 बाल्ये विद्याग्रहणआदीन् अर्थान्/

1.2.3 कामं च यौवने/

1.2.4 स्थाविरे धर्मं मोक्षं च/

1.2.5 अनित्यत्वाद् आयुषो यथाउपपादं वा सेवेत/

1.2.6 ब्रह्मचर्यम् एव त्व् आ विद्याग्रहणात्/[ 11]

1.2.7 अलौकिकत्वाद् अदृष्टअर्थत्वाद् अप्रवृत्तानां यज्ञाआदीनां शास्त्रात् प्रवर्तनम्, लौकिकत्वाद्अन्यत्र : लौकित्वाद् दृष्टअर्थत्वाच् च प्रवृत्तेभ्यश् च मांसभक्षणआदिभ्यः शास्त्राद् एव निवारणं धर्मः/

1.2.8 तं श्रुतेर् धर्मज्ञसमवायाच् च प्रतिपद्येत/

1.2.9 विद्याभूमिहिरण्यपशुधान्यभाण्डौपस्करमित्रआदीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः/

1.2.10 तम् अध्यक्षप्रचाराद् वार्तासमयविद्भ्यो वणिग्भ्यश् चैति/

1.2.11 स्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम् आत्मसंयुक्तेन मनसाअधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः/

1.2.12 स्पर्शविशेषविषयात् त्व् अस्यअभिमानिकसुखअनुविद्धा फलवत्य् अर्थप्रतीतिः प्राधान्यात् कामः/

1.2.13  तं कामसूत्रान् नागरिकजनसमवायाच् च प्रतिपद्येत/

1.2.14 एषां समवाये पूर्वः पूर्वो गरीयान्/[ 15]

1.2.15 अर्थश् च राज्ञः/ तन्मूलत्वाल् लोकयात्रायाः/ वेश्यायाश् चैति त्रिवर्गप्रतिपत्तिः/

1.2.16 धर्मस्यअलौकिकत्वात् तदभिधायकं शास्त्रं युक्तम्/ उपायपूर्वकत्वाद् अर्थसिद्धेः/ उपायप्रतिपत्तिः शास्त्रात्/

1.2.17 तिर्यग्योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तिइत्य् आचार्याः/

1.2.18 संप्रयोगपराधीनत्वात् स्त्रीपुंसयोर् उपायम् अपेक्षते/[ 16]

1.2.19 सा चौपायप्रतिपत्तिः कामसूत्राद् इति वात्स्यायनः/[ 17]

1.2.20 त्रियग्योनिषु पुनर् अनावृतत्वात् स्त्रीजातेश् च, ऋतौ यावद् अर्थं प्रवृत्तेर् अबुद्धिपूर्वकत्वाच् च प्रवृत्तीनाम् अनुपायः प्रत्ययः/[ 17]

1.2.21 न धर्मांश् चरेत्/ एष्यत्फलत्वात्, सांशयिकत्वाच् च/[ 18]

1.2.22 को ह्य् अबालिशो हस्तगतं परगतं कुर्यात्/[ 18]

1.2.23 वरम् अद्य कपोतः श्वो मयूरात्/

1.2.24 वरं सांशयिकान् निष्काद् असांशयिकः कार्षापणः/ इति *लौकायतिकाःअन्यत्र : लौकायातिकाः/[ 1९]

1.2.25 शास्त्रस्यअनभिशङ्क्यत्वाद् अभिचारअनुव्याहारयोश् च क्वचित् फलदर्शनान् नक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकअर्थं बुद्धिपूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्णआश्रमआचारस्थितिलक्षणत्वाच् च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यअर्थे त्यागदर्शनाच् चरेद् धर्मान् इति वात्स्यायनः/[ 1९]

1.2.26 नअर्थांश् चरेत्/ प्रयत्नतो अपि ह्य् एते अनुष्ठीयमाना नएव कदाचित् स्युः/ अननुष्ठीयमाना अपि यदृच्छया भवेयुः/[ 21]

1.2.27 तत्सर्वं कालकारितम् इति/[ 21]

1.2.28 काल एव हि पुरुषान् अर्थअनर्थयोर् जयपराजययोः सुखदुःखयोश् च स्थापयति/[ 21]

1.2.29कालेन बलिर् इन्द्रः कृतः/ कालेन *व्यवरोपितःअन्यत्र : व्यपरोपितः/ काल एव पुनर् अप्य् एनं कर्ताइति कालकारणिकाः/[ 22]

1.2.30 पुरुषकारपूर्वकत्वात् सर्वप्रवृत्तीनाम् उपायः प्रत्ययः/

1.2.31 अवश्यं भाविनो अप्य् अर्थस्यौपायपूर्वकत्वाद् एव/ न निष्कर्मणो भद्रम् अस्तिइति वात्स्यायनः/[ 23]

1.2.32 न कामांश् चरेत्/ धर्मअर्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्/ अनर्थजनसंसर्गम् असद्व्यवसायम् अशौचम् अनायतिं चएते पुरुषस्य जनयन्ति/[ 23]

1.2.33 तथा प्रमादं लाघवम् अप्रत्ययम् अग्राह्यतां च/[ 23]

1.2.34 बहवश् च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते/[ 24]

1.2.35 यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्याम् अभिमन्यमानः सबन्धुराष्ट्रो विननाश/[ 24]

1.2.36 देवराजश् चअहल्याम् अतिबलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चअन्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्य् अर्थचिन्तकाः/[ 24]

1.2.37 शरीरस्थितिहेतुत्वाद् आहारसधर्माणो हि कामाः/ फलभूताश् च धर्मअर्थयोः/[ 25]

1.2.38 बोद्धव्यं तु दोषेष्व् इव/ न हि भिक्षुकाः सन्तिइति स्थाल्यो नअधिश्रीयन्ते/ न हि मृगाः सन्तिइति यवा नौपयन्त इति वात्स्यायनः/

भवन्ति चअत्र श्लोकाः —

1.2.3९कख एवम् अर्थं च कामं च धर्मं चौपाचरन् नरः/[ 25]

1.2.3९गघ इहअमुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते/[ 25]

1.2.40कख किं स्यात् परत्रैत्य् आशङ्का कार्ये यस्मिन् न जायते/[ 26]

1.2.40गघ न चअर्थघ्नं सुखं चैति शिष्टास् तत्र व्यवस्थिताः/[ 26]

1.2.41कख त्रिवर्गसाधकं यत् स्याद् द्वयोर् एकस्य वा पुनः/[ 26]

1.2.41गघ कार्यं तद् अपि कुर्वीत न त्व् एकअर्थं द्विबाधकम्/[ 26]

विद्यासमुद्देशः–

1.3.1 धर्मअर्थअङ्गविद्याकालान् अनुपरोधयन् कामसूत्रं तदङ्गविद्याश् च पुरुषो अधीयीत/

1.3.2 प्राग्यौवनात् स्त्री/ प्रत्ता च पत्युर् अभिप्रायात्/

1.3.3 योषितां शास्त्रग्रहणस्यअभावाद् अनर्थकम् इह शास्त्रे स्त्रीशासनम् इत्य् आचार्याः/

1.3.4 प्रयोगग्रहणं त्व् आसाम्/ प्रयोगस्य च शास्त्रपूर्वकत्वाद् इति वात्स्यायनः/[ 28]

1.3.5 तन् न केवलम् इहएव/ सर्वत्र हि लोके कति चिद् एव शास्त्रज्ञाः/ सर्वजनविषयश् च प्रयोगः/[ 28]

1.3.6 प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः/[ 28]

1.3.7 अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते/[ 2९]

1.3.8 अस्ति ज्यौतिषम् इति पुण्यअहेषु कर्म कुर्वते/[ 2९]

1.3.9तथाअश्वआरोहा गजआरोहाश् चअश्वान् गजांश् चअनधिगतशास्त्रा अपि विनयन्ते/[ 2९]

1.3.10 तथाअस्ति राजाइति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्/[ 2९]

1.3.11 सन्त्य् अपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश् च/[ 30]

1.3.12 तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात्/[ 30]

1.3.13 अभ्यासप्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत्/[ 30]

1.3.14 आचार्यास् तु कन्यानां प्रवृत्तपुरुषसंप्रयोगा सहसंप्रवृद्धा धात्रेयिका/ तथाभूता वा निरत्ययसंभाषणा सखी/ सवयाश् च मातृष्वसा/ विस्रब्धा तत्स्थानीया वृद्धदासी/ पूर्वसंसृष्टा वा भिक्षुकी/ स्वसा च विश्वासप्रयोगात्/[ 30]

1.3.15 गीतं, वाद्यं, नृत्यं, आलेख्यं, विशेषकच्छेद्यं, तण्डुलकुसुमवलिविकाराः, पुष्पआस्तरणं, दशनवसनअङ्गरागः, मणिभूमिकाकर्म, शयनरचनम्, उदकवाद्यम्, उदकआघातः, चित्राश् च योगाः, माल्यग्रथनविकल्पाः, शेखरकापीडयोजनं, नेपथ्यप्रयोगाः, कर्णपत्त्रभङ्गाः, गन्धयुक्तिः, भूषणयोजनम्, ऐन्द्रजालाः, कौचुमाराश् च योगाः, हस्तलाघवं, विचित्रशाकयूषभक्ष्यविकारक्रिया, पानकरसरागआसवयोजनं, सूचीवानकर्माणि, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तकवाचनं, नाटकआख्यायिकादर्शनं, काव्यसमस्यापूरणं, पट्टिका वेत्रवानअन्यत्र : वान.वेत्रविकल्पाः, तक्षकर्माणि, तक्षणं, वास्तुविद्या, रूप्य*रत्नछ् ओमित्स्परीक्षा, धातुवादः, मणिरागआकरज्ञानं, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनम्, उत्सादने संवाहने केशमर्दने च कौशल्यंअन्यत्र : कौशलं, अक्षरमुष्टिकाकथनं, म्लेच्छितविकल्पाः, देशभाषाविज्ञानं, पुष्पशकटिका, निमित्तज्ञानं, यन्त्रमातृका, धारणमातृका, संपाथ्यं, मानसी, काव्यक्रिया, अभिधान*कोषःअन्यत्र : काषः, छन्दोज्ञानं, क्रियाकल्पः, छलितकयोगाः, वस्त्रगोपनानि, द्यूतिविशेषाःअन्यत्र : द्यूतविशेषः, आकर्षक्रीडा, बालक्रीडनकानि, वैनयिकीनां वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुःषष्टिर् अङ्गविद्याः कामसूत्रस्यअवयविन्यः /

1.3.16 पाञ्चालिकी च चतुःषष्टिर् अपरा/ तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः/ कामस्य तदात्मकत्वात्/[ 41]

1.3.17क – आभिर् अभ्युच्छ्रिता वेश्या शीलरूपगुणअन्विता/[ 41]

1.3.17ख – लभते गणिकाशब्दं स्थानं च जनसंसदि/[ 41]

1.3.18क – पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता/[ 42]

1.3.18ख – प्रार्थनीयाअभिगम्या च लक्ष्यभूता च जायते/[ 42]

1.3.1९क – योगज्ञा राजपुत्री च महामात्रसुता तथा/[ 42]

1.3.1९ख – सहस्रअन्तःपुनर्अन्यत्र : अन्तःपुरम् अपि स्ववशे कुरुते पतिम्/[ 42]

1.3.20क – तथा पतिवियोगे च व्यसनं दारुणं गता/[ 42]

1.3.20ख – देशअन्तरे +अपि विद्याभिः सा सुखेनएव जीवति/[ 42]

1.3.21क – नरः कलासु कुशलो वाचालश् चाटुकारकः/[ 42]

1.3.21ख – असंस्तुतो +अपि नारीणां चित्तम् आश्व् एव विन्दति/[ 42]

1.3.22क – कलानां ग्रहनाद् एव सौभाग्यम् उपजायते/[ 42]

1.3.22ख – देशकालौ त्व् अपेक्ष्यआसां प्रयोगः संभवेन् न वा/[ 42]

नागरकवृत्तम्–

1.4.1 गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशअधिगतैर् अर्थैर् अन्वयआगतैर् उभयैर् वा गार्हस्थ्यम् अधिगम्य नागरकवृत्तं वर्तेत/

1.4.2 नगरे पत्तने खर्वटे महति वा सज्जनआश्रये स्थानम्/ यात्रावशाद् वा/

1.4.3 तत्र भवनम् आसन्नौदकं वृक्षवाटिकावद् विभक्तकर्मकक्षं द्विवासगृहं कारयेत्/[ 44]

1.4.4 बाह्ये च वासगृहे सुश्लक्ष्णम् उभयौपधानं मध्ये विनतं शुक्लौत्तरच्छदं शयनीयं स्यात्/ प्रतिशय्यिका च/ तस्य शिरोभागे कूर्चस्थानम्, वेदिका च/ तत्र रात्रिशेषम् अनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस् ताम्बूलानि च स्युः/ भूमौ पतद्ग्रहः/ नागदन्तअवसक्ता वीणा/चित्रफलकम्/ वर्तिकासमुद्गकः/ यः कश्चित् पुस्तकः/ कुरण्टकमालाश् च/ नातिदूरे भूमौ वृत्तआस्तरणं समस्तकम्/ आकर्षफलकं द्यूतफलकं च/ तस्य बहिः क्रीडाशकुनिपञ्जराणि/ एकान्ते च तक्षतक्षणस्थानम् अन्यासां च क्रीडानाम्/ स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया/ स्थण्डिलपीठिका च सकुसुमेति भवनविन्यासः/[ 45]

1.4.5 स प्रातर् उत्थाय कृतनियतकृत्यः, गृहीतदन्तधावनः, मात्रयाअनुलेपनं धूपं स्रजम् इति च गृहीत्वा, दत्त्वा सिक्थकम् अलक्तकं च, दृष्ट्वाआदर्शे मुखम्, गृहीतमुखवासताम्बूलः, कार्याण्य् अनुतिष्ठेत्/[ 47]

1.4.6 नित्यं स्नानम्/ द्वितीयकम् उत्सादनम्/ तृतीयकः फेनकः/ चतुर्थकम् आयुष्यम्/ पञ्चमकं दशमकं वा प्रत्यायुष्यम् इत्य् अहीनम्/ सातत्याच् च संवृतकक्षास्वेदअपनोदः/

1.4.7 पूर्वाह्णअपराह्णयोर् भोजनम्/ सायं चारायणस्य/

1.4.8 भोजनअनन्तरं शुकसारिकाप्रलापनव्यापाराः/ लावक कुक्कटअन्यत्र : कुक्कुटमेषयुद्धानि/ तास् ताश् च कलाक्रीडाः/ पीठमर्दविटविदूषकआयत्ता व्यापाराः/ दिवाशय्या च/

1.4.9गृहीतप्रसाधनस्यअपराह्णे गोष्ठीविहाराः/

1.4.10 प्रदोषे च संगीतकानि/ तद् अन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्,

1.4.11 दूतीनां प्रेषणम्, स्वयं वा गमनम्/

1.4.12 आगतानां च मनोहरैर् आलापैर् उपचारैश् च ससहायस्यौपक्रमाः/

1.4.13 वर्षप्रमृष्टने पथ्यानां दुर्दिनाअभिसारिकाणां स्वयम् एव पुनर् मण्डनम्, मित्रजनेन वा परिचरणम् इत्य् आहोरात्रिकम्/[ 48]

1.4.14 घटानिबन्धनम्, गोष्ठीसमवायः, समापानकम्, उद्यानगमनम्, समस्याः क्रीडाश् च प्रवर्तयेत्/

1.4.15 पक्षस्य मासस्य वा प्रज्ञाते अहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः/

1.4.16 कुशीलवाश् चआगन्तवः प्रेक्षणकम् एषां दद्युः/ द्वितीये +अहनि तेभ्यः पूजा नियतं लभेरन्/ ततो यथाश्रद्धम् एषां दर्शनम् उत्सर्गो वा/ व्यसनौत्सवेषु चएषां परस्परस्यएककार्यता/

1.4.17 आगन्तूनां च कृतसमवायानां पूजनम् अभ्युपपत्तिश् च/ इति गणधर्मः/

1.4.18 एतेन तं तं देवताविशेषम् उद्दिश्य संभावितस्थितयो घटा व्याख्याताः/[ 51]

1.4.19वेश्याभवने सभायाम् अन्यतमस्य*उदवसितेअन्यत्र : ुद्वसिते वा समानविद्याबुद्धिशीलवित्तवयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसनबन्धो गोष्ठी/

1.4.20 तत्र चएषां काव्यसमस्या कलासमस्या वा/

1.4.21 तस्याम् उज्ज्वला लोककान्ताः पूज्याः/ प्रीतिसमानाश् *चाहारिताःअन्यत्र : चाहारितः/[ 53]

1.4.22 परस्परभवनेषु चआपानकानि/[ 53]

1.4.23 तत्र मधुमैरेयसुराआसवान् विविधलवणफलहरितशाकतिक्तकटुक[ 53]अम्लौपदंशान् वेश्याः पाययेयुर् अनुपिबेयुश् च/

1.4.24 एतेनौद्यानगमनं व्याख्यातम्/[ 54]

1.4.25 पूर्वाह्ण एव स्वलंकृतास् तुरगअधिरूढा वेश्याभिः सह परिचारकअनुगता गच्छेयुः/ दैवसिकीं च यात्रां तत्रअनुभूय कुक्कुटयुद्धद्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीततदुद्यानौपभोगचिह्नास् तथाएव प्रत्याव्रजेयुः/

1.4.26 एतेन रचितौद्ग्राहौदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम्/[ 54]

1.4.27 यक्षरात्रिः/ कौमुदीजागरः/ सुवसन्तकः/[ 55]

1.4.28 सहकारभञ्जिका, अभ्यूषखादिका, विसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालअनुयानम्, एकशाल्मली, कदम्बयुद्धानि, तास् ताश् च माहिमान्यो देश्याश् च क्रीडा जनेभ्यो विशिष्टम् आचरेयुः/ इति संभूय क्रीडाः/[ 56]

1.4.29एकचारिणश् च विभवसामर्थ्याद्

1.4.30 गणिकाया नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम्/[ 57]

1.4.31 अविभवस् तु शरीरमात्रो मल्लिकाफेनककषायमात्रपरिच्छदः पूज्याद् [ 57]देशाद् आगतः कलासु विचक्षणस् तदुपदेशेन गोष्ठ्यां वेशौचिते च वृत्ते साधयेद् आत्मानम् इति पीठमर्दः/[ 58]

1.4.32 भुक्तविभवस् तु गुणवान् सकलत्रो वेशे गोष्ठ्यां च बहुमतस् तद् उपजीवी च विटः/[ 58]

1.4.33 एकदेशविद्यस् तु क्रीडनको विश्वास्यश् च विदूषकः/ वैहासिको वा/

1.4.34 एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः/[ 5९]

1.4.35 तैर् भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश् च व्याख्याताः/[ 5९]

1.4.36 ग्रामवासी च सजातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ् श्रद्धां च जनयंस् तद् एवअनुकुर्वीत/ गोष्ठीश् च प्रवर्तयेत्/ संगत्या जनम् अनुरञ्जयेत्/ कर्मसु च साहाय्येन चअनुगृह्णीयात्/ उपकारयेच् च/ इति नागरकवृत्तम्/[ 5९]

1.4.37 क – नअत्यन्तं संस्कृतेनएव नअत्यन्तं देशभाषया/[ 60]

1.4.37 ख – कथां गोष्ठीषु कथयंल् लोके बहुमतो भवेत्/[ 60]

1.4.38 क – या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी/[ 60]

1.4.38 ख – परहिंसाआत्मिका या च न ताम् अवतरेद् बुधः/[ 60]

1.4.39क – लोकचित्तअनुवर्तिन्या क्रीडामात्रएककार्यया/[ 60]

1.4.39ख – गोष्ठ्या सहचरन् विद्वांल् लोके सिद्धिं नियच्छति/[ 60]

नायकसहायदूतीकर्मविमर्शः–

1.5.1 कामश् चतुर्षु वर्णेषु सवर्णतः शास्त्रतश् चअनन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति/[ 61]

1.5.2 तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च/ प्रतिषिद्धो +अवरवर्णास्व् अनिरवसितासु/ वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः/ सुखअर्थत्वात्/[ 61]

1.5.3 तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च/ इति/[ 62]

1.5.4 अन्यकारणवशात् परपरिगृहीतापि पाक्षिकी चतुर्थीइति गोणिकापुत्रः/[ 63]

1.5.5 स यदा मन्यते स्वैरिणीयम्/[ 63]

1.5.6 अन्यतो +अपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तमवर्णिन्याम् अपि न धर्मपीडां करिष्यति/ पुनर्भूर् इयम्/[ 63]

1.5.7 अन्यपूर्वाअवरुद्धा नअत्र शङ्काअस्ति/[ 64]

1.5.8 पतिं वा महान्तम् ईश्वरम् अस्मदमित्रसंसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति/ सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति/[ 64]

1.5.9विरसं वा मयि शक्तम् अपकर्तुकामं च प्रकृतिम् आपादयिष्यति/[ 64]

1.5.10 तया वा मित्रीकृतेन मित्रकार्यम् अमित्रप्रतीघातम् अन्यद् वा दुष्प्रतिपादकं कार्यं साधयिष्यामि/[ 65]

1.5.11 संसृष्टो वाअनया हत्वाअस्याः पतिम् अस्मद्भाव्यं तद् ऐश्वर्यम् एवम् अधिगमिष्यामि/[ 65]

1.5.12 निरत्ययं वाअस्या गमनम् अर्थअनुबद्धम्/ अहं च निःसारत्वात् क्षीणवृत्त्युपायः/ सो +अहम् अनेनौपायेन तद्धनम् अतिमहद् अकृच्छ्राद् अधिगमिष्यामि/

1.5.13 मर्मज्ञा वा मयि दृधम् अभिकामा सा माम् अनिच्छन्तं दोषविख्यापानेन दूषयिष्यति/[ 65]

1.5.14 असद्भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्/[ 66]

1.5.15 आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति/[ 66]

1.5.16 स्वयं वा तैः सह संसृज्येत/ मदवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि/[ 66]

1.5.17 राजनियोगाच् चअन्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि/[ 66]

1.5.18 यामन्यां कामयिष्ये सास्या वशगा/ ताम् अनेन संक्रमेणअधिगमिष्यामि/

1.5.19कन्याम् अलभ्यां वात्माधीनाम् अर्थरूपवतीं मयि संक्रामयिष्यति/

1.5.20 ममअमित्रो वास्याः पत्या सहैकीभावम् उपगतस् तम् अनया रसेन योजयिष्यामिइत्य् एवम् आदिभिः कारणैः परस्त्रियम् अपि प्रकुर्वीत/[ 67]

1.5.21 इति साहसिक्यं न केवलं रागाद् एव/ इति परपरिग्रहगमनकारणानि/

1.5.22 एतैर् एव कारणैर् महामात्रसंबद्धा राजसंबद्धा वा तत्रएकदेशचारिणी का चिद् अन्या वा कार्यसंपादिनी विधवा पञ्चमीइति चारायणः/

1.5.23 सैव प्रव्रजिता षष्ठीइति सुवर्णनाभः/

1.5.24 गणिकाया दुहिता परिचारिका वानन्यपूर्वा सप्तमीइति घोटकमुखः/

1.5.25 उत्क्रान्तबालभावा कुलयुवतिर् उपचारअन्यत्वाद् अष्टमीइति गोनर्दीयः/

1.5.26 कार्यअन्तरअभावाद् एतासाम् अपि पूर्वास्व् एवौपलक्षणम्, तस्माच् चतस्र एव नायिका इति वात्स्यायनः/

1.5.27 भिन्नत्वात् तृतीया प्रकृतिः पञ्चमीइत्य् एके/[ 67]

1.5.28 एक एव तु सार्वलौकिको नायकः/ प्रच्छन्नस् तु द्वितीयः/ विशेषालाभात्/ उत्तमअधममध्यमतां तु गुणअगुणतो विद्यात्/ तांस् तुउभयोर् अपि गुणअगुणान् वैशिके वक्ष्यामः/[ 6९]

1.5.29अगम्यास् त्व् एवएताः —कुष्ठिन्य् उन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवनाअतिश्वेताअतिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रियराजदाराश् च/[ 6९]

1.5.30 दृष्टपञ्चपुरुषा नअगम्या का चिद् अस्तिइति बाभ्रवीयाः/[ 70]

1.5.31 संबन्धिसखिश्रोत्रियराजदारवर्जम् इति गोणिकापुत्रः/[ 70]

1.5.32 सह पांसुक्रीडितम् उपकारसंबद्धं समानशीलव्यसनं सहअध्यायिनं यश् चअस्य मर्माणि रहस्यानि च विद्यात्, यस्य चअयं विद्याद् वा धात्रपत्यं सहसंवृद्धं मित्रम्/[ 71]

1.5.33 पितृपैतामहम् अविसंवादकम् अदृष्टवैकृतं वश्यं ध्रुवम् अलोभशीलम् अपरिहार्यम् अमन्त्रविस्राविइति मित्रसंपत्/[ 71]

1.5.34 रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकस् औवर्णिकपीठमर्दविटविदूषकादयो मित्राणि/ तद्योषिन्मित्राश् च नागरकाः स्युर् इति वात्स्यायनः/[ 72]

1.5.35 यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सुविस्रब्धं तत्र दूतकर्म/[ 72]

1.5.36 पटुता धार्ष्ट्यम् इङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सौपाया चैति दूतगुणाः/[ 72]

भवति चअत्र श्लोकः —

1.5.37 आत्मवान् मित्रवान् युक्तो भावज्ञो देशकालवित्

अलभ्याम् अप्य् अयत्नेन स्त्रियं संसाधयेन् नरः[ 73]


Vatsyayana Kamasutram

Categories: Sanatan Dharma, Sanskrit Documents

Tagged as: