CIVIL

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः-18/3

यज्ञदानतपःकर्म न त्याज्यम्

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ Gita 18/3॥

 

त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् । किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव ।

अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इति । तत्रैव यज्ञदानतपःकर्म न त्याज्यम् इति च अपरे ॥

कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य । ‘ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ॥

ननु ‘कर्मयोगेनयोगिनाम्’ (भ. गी. ३ । )

इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति । न, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः । न कायक्लेशनिमित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात् । अतः ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति । नापि ते कर्माणि आत्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुः । गुणानां कर्म ‘नैव किञ्चित्करोमि’ (भ. गी. ५ । ८) इति हि ते संन्यस्यन्ति । ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तः ।

तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषां च मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च, ते एव तामसाः त्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् ; ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) ‘मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) इति गुणातीतलक्षणे च परमार्थसंन्यासिनः विशेषितत्वात् । वक्ष्यति च ‘निष्ठा ज्ञानस्य या परा’ (भ. गी. १८ । ५८) इति । तस्मात् ज्ञाननिष्ठाः संन्यासिनः न इह विवक्षिताः ।

कर्मफलत्यागः एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यासः उच्यते, न मुख्यः सर्वकर्मसंन्यासः ॥
सर्वकर्मसंन्यासासम्भवे च ‘न हि देहभृता’ (भ. गी. १८ । ११) इति हेतुवचनात् मुख्य एव इति चेत् , न ; हेतुवचनस्य स्तुत्यर्थत्वात् ।

यथा ‘त्यागाच्छान्तिरनन्तरम्’ (भ. गी. १२ ।  २)

इति कर्मफलत्यागस्तुतिरेव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथा इदमपि ‘न हि देहभृता शक्यम्’ (भ. गी. १८ । ११) इति कर्मफलत्यागस्तुत्यर्थम् ; न ‘सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते’ (भ. गी. ५ । १३) इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यः । तस्मात् कर्मणि अधिकृतान् प्रत्येव एषः संन्यासत्यागविकल्पः । ये तु परमार्थदर्शिनः साङ्ख्याः, तेषां ज्ञाननिष्ठायामेव सर्वकर्मसंन्यासलक्षणायाम् अधिकारः, न अन्यत्र, इति न ते विकल्पार्हाः । तच्च उपपादितम् अस्माभिः ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यस्मिन्प्रदेशे, तृतीयादौ च ॥ ३ ॥


Gita Sankar Bhasyam

Categories: CIVIL

Tagged as: ,