CIVIL

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप-18/41

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः

 

सर्वः संसारः क्रियाकारकफललक्षणः सत्त्वरजस्तमोगुणात्मकः अविद्यापरिकल्पितः समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया च ‘ऊर्ध्वमूलम्’ (भ. गी. १५ । १) इत्यादिना,तं च ‘असङ्गशस्त्रेण दृढेन च्छित्त्वा’ ‘ततः पदं तत्परिमार्गितव्यम्’ (भ. गी. १५ । ३), (भ. गी. १५ । ४) इति च उक्तम् ।

तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारणनिवृत्त्यनुपपत्तौ प्राप्तायाम् , यथा तन्निवृत्तिः स्यात् तथा वक्तव्यम् , सर्वश्च गीताशास्त्रार्थः उपसंहर्तव्यः, एतावानेव च सर्ववेदस्मृत्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवमर्थम् ‘ब्राह्मणक्षत्रियविशाम्’ इत्यादिः आरभ्यते —

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ Gita 18/41 ॥

 

ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्मणक्षत्रियविशः, तेषां ब्राह्मणक्षत्रियविशां शूद्राणां च — शूद्राणाम् असमासकरणम् एकजातित्वे सति वेदानधिकारात् — हे परन्तप, कर्माणि प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानि ।

केन ? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम् । अथवा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम् , तथा क्षत्रियस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनं तमः प्रभवः, प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनात् चतुर्णाम् ।

अथवा, जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभिमुखत्वेन अभिव्यक्तः स्वभावः, सः प्रभवो येषां गुणानां ते स्वभावप्रभवाः गुणाः ; गुणप्रादुर्भावस्य निष्कारणत्वानुपपत्तेः ।

‘स्वभावः कारणम्’ इति च कारणविशेषोपादानम् । एवं स्वभावप्रभवैः प्रकृतिभवैः सत्त्वरजस्तमोभिः गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि प्रविभक्तानि ॥

ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि ; कथम् उच्यते सत्त्वादिगुणप्रविभक्तानि इति ? नैष दोषः ; शास्त्रेणापि ब्राह्मणादीनां सत्त्वादिगुणविशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि, न गुणानपेक्षया, इति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानि इति उच्यते ॥ ४१ ॥


GITA SANKAR BHASYAM

Categories: CIVIL

Tagged as: ,