CIVIL

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते-18/17

नाहङ्कृतो भावो बुद्धि:

 

कः पुनः सुमतिः यः सम्यक् पश्यतीति, उच्यते —

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥ Gita 18/17॥

 

यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः न भवति अहङ्कृतः ‘अहं कर्ता’ इत्येवंलक्षणः भावः भावना प्रत्ययः — एते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पिताः सर्वकर्मणां कर्तारः, न अहम् , अहं तु तद्व्यापाराणां साक्षिभूतः ‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) केवलः अविक्रियः इत्येवं पश्यतीति एतत् — बुद्धिः अन्तःकरणं यस्य आत्मनः उपाधिभूता न लिप्यते न अनुशयिनी भवति — ‘इदमहमकार्षम् , तेन अहं नरकं गमिष्यामि’ इत्येवं यस्य बुद्धिः न लिप्यते — सः सुमतिः, सः पश्यति । हत्वा अपि सः इमान् लोकान् , सर्वान् इमान् प्राणिनः इत्यर्थः, न हन्ति हननक्रियां न करोति, न निबध्यते नापि तत्कार्येण अधर्मफलेन सम्बध्यते ॥

ननु हत्वापि न हन्ति इति विप्रतिषिद्धम् उच्यते यद्यपि स्तुतिः । नैष दोषः, लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेः । देहाद्यात्मबुद्ध्या ‘हन्ता अहम्’ इति लौकिकीं दृष्टिम् आश्रित्य ‘हत्वापि’ इति आह । यथादर्शितां पारमार्थिकीं दृष्टिम् आश्रित्य ‘न हन्ति न निबध्यते’ इति । एतत् उभयम् उपपद्यते एव ॥
ननु अधिष्ठानादिभिः सम्भूय करोत्येव आत्मा, ‘कर्तारमात्मानं केवलं तु’ (भ. गी. १८ । १६) इति केवलशब्दप्रयोगात् । नैष दोषः, आत्मनः अविक्रियस्वभावत्वे अधिष्ठानादिभिः, संहतत्वानुपपत्तेः । विक्रियावतो हि अन्यैः संहननं सम्भवति, संहत्य वा कर्तृत्वं स्यात् । न तु अविक्रियस्य आत्मनः केनचित् संहननम् अस्ति इति न सम्भूय कर्तृत्वम् उपपद्यते ।

अतः केवलत्वम् आत्मनः स्वाभाविकमिति केवलशब्दः अनुवादमात्रम् । अविक्रियत्वं च आत्मनः श्रुतिस्मृतिन्यायप्रसिद्धम् । ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) ‘गुणैरेव कर्माणि क्रियन्ते’ (भ. गी. ३ । २७) ‘शरीरस्थोऽपि न करोति’ (भ. गी. १३ । ३१) इत्यादि असकृत् उपपादितं गीतास्वेव तावत् । श्रुतिषु च ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्येवमाद्यासु । न्यायतश्च — निरवयवम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वम् इति राजमार्गः । विक्रियावत्त्वाभ्युपगमेऽपि आत्मनः स्वकीयैव विक्रिया स्वस्य भवितुम् अर्हति, न अधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः । न हि परस्य कर्म परेण अकृतम् आगन्तुम् अर्हति । यत्तु अविद्यया गमितम् , न तत् तस्य ।

यथा रजतत्वं न शुक्तिकायाः ; यथा वा तलमलिनत्वं बालैः गमितम् अविद्यया, न आकाशस्य, तथा अधिष्ठानादिविक्रियापि तेषामेव, न आत्मनः । तस्मात् युक्तम् उक्तम् ‘अहङ्कृतत्वबुद्धिलेपाभावात् विद्वान् न हन्ति न निबध्यते’ इति । ‘नायं हन्ति न हन्यते’ (भ. गी. २ । १९) इति प्रतिज्ञाय ‘न जायते’ (भ. गी. २ । २०) इत्यादिहेतुवचनेन अविक्रियत्वम् आत्मनः उक्त्वा, ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ सङ्क्षेपतः उक्त्वा, मध्ये प्रसारितां तत्र तत्र प्रसङ्गं कृत्वा इह उपसंहरति शास्त्रार्थपिण्डीकरणाय ‘विद्वान् न हन्ति न निबध्यते’ इति ।

एवं च सति देहभृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसंन्यासोपपत्तेः संन्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न भवति इति उपपन्नम् ; तद्विपर्ययाच्च इतरेषां भवति इत्येतच्च अपरिहार्यम् इति एषः गीताशास्त्रार्थः उपसंहृतः । स एषः सर्ववेदार्थसारः निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसारेण ॥ १७ ॥


GITA SANKAR BHASYAM

Categories: CIVIL

Tagged as: ,