CIVIL

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्-18/48

सहजं कर्म  सदोषमपि न त्यजेत् 

 

सहजं कर्म कौन्तेय
सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ Gita 18/48 ॥

 

सहजं सह जन्मनैव उत्पन्नम् । किं तत् ? कर्म कौन्तेय सदोषमपि त्रिगुणात्मकत्वात् न त्यजेत् । सर्वारम्भाः आरभ्यन्त इति आरम्भाः, सर्वकर्माणि इत्येतत् ; प्रकरणात् ये केचित् आरम्भाः स्वधर्माः परधर्माश्च, ते सर्वे हि यस्मात् — त्रिगुणात्मकत्वम् अत्र हेतुः — त्रिगुणात्मकत्वात् दोषेण धूमेन सहजेन अग्निरिव, आवृताः । सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषात् नैव मुच्यते ; भयावहश्च परधर्मः । न च शक्यते अशेषतः त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् न त्यजेत् इत्यर्थः ॥

किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत् ? किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं च अतः ? यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यं सहजं कर्म, एवं तर्हि अशेषतः त्यागे गुण एव स्यादिति सिद्धं भवति । सत्यम् एवम् ; अशेषतः त्याग एव न उपपद्यते इति चेत् , किं नित्यप्रचलितात्मकः पुरुषः, यथा साङ्ख्यानां गुणाः ? किं वा क्रियैव कारकम् , यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः ? उभयथापि कर्मणः अशेषतः त्यागः न सम्भवति । अथ तृतीयोऽपि पक्षः — यदा करोति तदा सक्रियं वस्तु । यदा न करोति, तदा निष्क्रियं तदेव । तत्र एवं सति शक्यं कर्म अशेषतः त्यक्तुम् । अयं तु अस्मिन् तृतीये पक्षे विशेषः — न नित्यप्रचलितं वस्तु, नापि क्रियैव कारकम् । किं तर्हि ? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते, विद्यमाना च विनश्यति । शुद्धं तत् द्रव्यं शक्तिमत् अवतिष्ठते । इति एवम् आहुः काणादाः । तदेव च कारकम् इति । अस्मिन् पक्षे को दोषः इति । अयमेव तु दोषः — यतस्तु अभागवतं मतम् इदम् । कथं ज्ञायते ? यतः आह भगवान् ‘नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यादि । काणादानां हि असतः भावः, सतश्च अभावः, इति इदं मतम् अभागवतम् । अभागवतमपि न्यायवच्चेत् को दोषः इति चेत् , उच्यते — दोषवत्तु इदम् , सर्वप्रमाणविरोधात् । कथम् ?

यदि तावत् द्व्यणुकादि द्रव्यं प्राक् उत्पत्तेः अत्यन्तमेव असत् , उत्पन्नं च स्थितं कञ्चित् कालं पुनः अत्यन्तमेव असत्त्वम् आपद्यते, तथा च सति असदेव सत् जायते, सदेव असत्त्वम् आपद्यते, अभावः भावो भवति, भावश्च अभावो भवति ; तत्र अभावः जायमानः प्राक् उत्पत्तेः शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यं कारणम् अपेक्ष्य जायते इति । न च एवम् अभावः उत्पद्यते, कारणं च अपेक्षते इति शक्यं वक्तुम् , असतां शशविषाणादीनाम् अदर्शनात् । भावात्मकाश्चेत् घटादयः उत्पद्यमानाः, किञ्चित् अभिव्यक्तिमात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति शक्यं प्रतिपत्तुम् । किञ्च, असतश्च सतश्च सद्भावे असद्भावे न क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित् स्यात् , ‘सत् सदेव असत् असदेव’ इति निश्चयानुपपत्तेः ॥

किञ्च, उत्पद्यते इति द्व्यणुकादेः द्रव्यस्य स्वकारणसत्तासम्बन्धम् आहुः । प्राक् उत्पत्तेश्च असत् , पश्चात् कारणव्यापारम् अपेक्ष्य स्वकारणैः परमाणुभिः सत्तया च समवायलक्षणेन सम्बन्धेन सम्बध्यते । सम्बद्धं सत् कारणसमवेतं सत् भवति । तत्र वक्तव्यं कथम् असतः स्वं कारणं भवेत् सम्बन्धो वा केनचित् स्यात् ? न हि वन्ध्यापुत्रस्य स्वं कारणं सम्बन्धो वा केनचित् प्रमाणतः कल्पयितुं शक्यते ॥

ननु नैवं वैशेषिकैः अभावस्य सम्बन्धः कल्प्यते । द्व्यणुकादीनां हि द्रव्याणां स्वकारणसमवायलक्षणः सम्बन्धः सतामेव उच्यते इति । न ; सम्बन्धात् प्राक् सत्त्वानभ्युपगमात् । न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात् प्राक् घटादीनाम् अस्तित्वम् इष्यते । न च मृद एव घटाद्याकारप्राप्तिम् इच्छन्ति । ततश्च असत एव सम्बन्धः पारिशेष्यात् इष्टो भवति ॥

ननु असतोऽपि समवायलक्षणः सम्बन्धः न विरुद्धः । न ; वन्ध्यापुत्रादीनाम् अदर्शनात् । घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवति न वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वेऽपि इति विशेषः अभावस्य वक्तव्यः । एकस्य अभावः, द्वयोः अभावः, सर्वस्य अभावः, प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावः इति लक्षणतो न केनचित् विशेषो दर्शयितुं शक्यः । असति च विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते सम्बध्यते च भावेन कपालाख्येन, सम्बद्धश्च सर्वव्यवहारयोग्यश्च भवति, न तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि, इति प्रध्वंसाद्यभावानां न क्वचित् व्यवहारयोग्यत्वम् , प्रागभावस्यैव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारार्हत्वम् इत्येतत् असमञ्जसम् ; अभावत्वाविशेषात् अत्यन्तप्रध्वंसाभावयोरिव ॥

ननु नैव अस्माभिः प्रागभावस्य भावापत्तिः उच्यते । भावस्यैव तर्हि भावापत्तिः ; यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः । एतदपि अभावस्य भावापत्तिवदेव प्रमाणविरुद्धम् । साङ्ख्यस्यापि यः परिणामपक्षः सोऽपि अपूर्वधर्मोत्पत्तिविनाशाङ्गीकरणात् वैशेषिकपक्षात् न विशिष्यते । अभिव्यक्तितिरोभावाङ्गीकरणेऽपि अभिव्यक्तितिरोभावयोः विद्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधः । एतेन कारणस्यैव संस्थानम् उत्पत्त्यादि इत्येतदपि प्रत्युक्तम् ॥

पारिशेष्यात् सत् एकमेव वस्तु अविद्यया उत्पत्तिविनाशादिधर्मैः अनेकधा नटवत् विकल्प्यते इति । इदं भागवतं मतम् उक्तम् ‘नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यस्मिन् श्लोके, सत्प्रत्ययस्य अव्यभिचारात् , व्यभिचाराच्च इतरेषामिति ॥

कथं तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः न उपपद्यते इति ? यदि वस्तुभूताः गुणाः, यदि वा अविद्याकल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपितमेव इति अविद्वान् ‘न हि कश्चित् क्षणमपि अशेषतः त्यक्तुं शक्नोति’ (भ. गी. ३ । ५) इति उक्तम् । विद्वांस्तु पुनः विद्यया अविद्यायां निवृत्तायां शक्नोत्येव अशेषतः कर्म परित्यक्तुम् , अविद्याध्यारोपितस्य शेषानुपपत्तेः । न हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेषः अवतिष्ठते । एवं च सति इदं वचनम् उपपन्नम् ‘सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यादि, ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’ (भ. गी. १८ । ४५) ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इति च ॥ ४८ ॥


GITA SANKAR BHASYAM

Categories: CIVIL

Tagged as: